०१ यद्भूमेः क्रूरम् ...{Loading}...
यद् भूमेः॑ क्रू॒रं तद् इ॒तो ह॑रामि॒,
परा॑ची॒न् निर्ऋ॑तिं॒ निर्वा॑हयामि ।
इ॒द२ꣳ श्रेयो॑ ऽव॒सान॒म्+++(=स्थानम्)+++ आग॑न्म+++(=आगतवन्तो)+++ देवा॒,
गोम॒द् अश्वा॑वद् इ॒दम् अ॑स्तु॒ प्र भूम॑ ।
०१ यद्भूमेः क्रूरम् ...{Loading}...
मूलम्
यद्भूमेः॑ क्रू॒रं तदि॒तो ह॑रामि॒ परा॑ची॒न्निर्ऋ॑तिं॒ निर्वा॑हयामि ।
इ॒द२ꣳ श्रेयो॑ऽव॒सान॒माग॑न्म देवा॒ गोम॒दश्वा॑वदि॒दम॑स्तु॒ प्र भूम॑ ।
हरदत्तः
गृहनिर्माणे पालाशेनोदूहेनोदूहति यद्भूमेरिति ॥ यत् अस्य भूमेः क्रूरं अस्थिकण्टकादि तत् इतः अस्मात्प्रदेशात् हरामि अपनयामि । या चात्र निर्ऋतिः अलक्ष्मीः स्थिता तां निर्ऋतिमपि पराचीं पराङ्मुखीं निर्वाहयामि निर्वासयामि । इदं श्रेयः प्रशस्ततरं अवसानं स्थानं आगन्म आगतवन्तो वयं हे देवाः । वास्तुदेवताः युष्माकं प्रसादात् इदं वास्तु गोमत् अश्वावत् अश्ववत् भूम भूतियुक्तं च प्रास्तु प्रकर्षेण भवतु ॥
०२ स्योना पृथिवि ...{Loading}...
१५ स्योना पृथिवि ...{Loading}...
+++(अभिमृशति)+++
स्यो॒ना+++(=सुखरूपा)+++ पृ॑थिवि॒ भवा॑+
ऽनृक्ष॒रा+++(=कण्टकादिरहिता)+++ नि॒वेश॑नी ।
यच्छा॑ न॒श् शर्म॑ स॒प्रथाः॑+++(=सकीर्तिः)+++ ।
०२ स्योना पृथिवि ...{Loading}...
मूलम्
स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒श्शर्म॑ स॒प्रथाः॑ ।
हरदत्तः
उत्तरयाऽभिमृशति - स्योनेति ॥ हे पृथिवि । त्वं स्योना सुखरूपा सुखस्पर्शा वा भव अनृक्षरा कण्टकादिरहिता निवेशनी निवेशनी निवेशनयोग्या यच्छ देहि नः अस्मभ्यं शर्म सुखं सप्रथाः सर्वतः प्रथिता त्वम् ॥
०३ इहैव तिष्ठ ...{Loading}...
इ॒हैव ति॑ष्ठ॒ निमि॑ता॒+++(=निखाता)+++
+++(तक्षकृत-)+++तिल्व॑ला+++(=तिलकवती)+++ स्या॒द् इरा॑+++(=अन्न)+++वती ।
मध्ये॒ ताल्प्य॑स्य+++(=गृह्यस्य [द्वारस्य])+++ तिष्ठा॒न्+++(त्)+++
मा त्वा॒ प्राप॑न्न् अघा॒यवः॑ ।
०३ इहैव तिष्ठ ...{Loading}...
मूलम्
इ॒हैव ति॑ष्ठ॒ निमि॑ता॒ तिल्व॑ला स्या॒दिरा॑वती ।
मद्ध्ये॒ ताल्प्य॑स्य तिष्ठा॒न्मा त्वा॒ प्राप॑न्नघा॒यवः॑ ।
हरदत्तः
स्थूणावधानमन्त्रौ - इहैवेति ॥ हे स्थूणे । इहैव द्वारदेशे तिष्ठ निमिता निखाता अस्माभिः तिल्वला तक्षकृतैः तिलकैः तद्वती स्यात् । पुरुष व्यत्ययश्छान्दसः । स्याः इरावती अन्नवती अस्माकं अन्नहेतुः स्या इत्यर्थः मध्ये ताल्प्यस्य तल्पशब्देन गृहं लक्ष्यते, तस्येदं ताल्प्यं द्वारं तस्य मध्ये तिष्ठात् । अत्रापि पुरुषव्यत्ययः । ।तिष्ठाः तिष्ठे अत्र स्थितां त्वा त्वां अघायवः परेषामनर्थकामाः मा प्रापन् मा प्राप्नुवन्तु ॥
०४ आ त्वा ...{Loading}...
आ त्वा॑ कुमा॒रस् तरु॑ण॒
आ व॒त्सो जग॑ता स॒ह ।
आ त्वा॑ परि॒स्रुतः॑+++(=सुरायाः → घृतस्य)+++ कु॒म्भा
आ द॒ध्नः कल॑शीर् +++(मन्थनार्थम्)+++ अयन् ।
०४ आ त्वा ...{Loading}...
मूलम्
आ त्वा॑ कुमा॒रस्तरु॑ण॒ आ व॒त्सो जग॑ता स॒ह ।
आ त्वा॑ परि॒स्रुतः॑ कुं॒भा आ द॒द्ध्नः कल॑शीरयन्न् ।
हरदत्तः
आत्वेति ॥ अयन्निति बहुवचनान्तं कुमारादिभिर्विपरिणमेन संबध्यते । कुमारस्त्वां आयातु गृहे क्रीडन्नागच्छतु अवलम्बस्थानार्थम् । एवं तरुण युवा, एवं वत्सः कुमारादपि बालः जगता गतिमता वत्सात् किंचिदधिकेन सह । परिस्रुतः परिस्रुत् सुरा, इह तु घृतं परिस्रवणयोगात् तस्य कुम्भाश्च त्वां आऽयन् आगच्छन्तु । दध्नश्च कलशीः कलश्यः आऽयन् मन्थनार्थमायन् । एतेः पञ्चमे लकारे रूपम् छान्दसो गुणः ॥
०५ ऋतेन स्थूणावधिरोह ...{Loading}...
ऋ॒तेन॒ स्थूणा॑व्+++(=स्तम्भम्)+++ अ॒धिरो॑ह व॒ꣳ॒शो
ऽग्रो वि॒राज॒न्न् अप॑सेध शत्रून्॑ ।
०५ ऋतेन स्थूणावधिरोह ...{Loading}...
मूलम्
ऋ॒तेन॒ स्थूणा॑व॒धिरो॑ह व॒ꣳ॒शोग्रो वि॒राज॒न्नप॑सेध शत्रून्॑ ।
हरदत्तः
वंशमाधीयमानमनुमन्त्रयते - ऋतेनेति ॥ ऋतेन सत्येन स्थूणौ । छान्दसो लिङ्गव्यत्ययः, द्विवचनं चाविवक्षितम् । यथासम्भवं स्थूणाः अधिरोह हे वंश । अधिरुह्य च उग्रः अनभिभूतो भूत्वा विराजन् दीप्यमानः शत्रूनपसेध प्रोत्सारय ॥
०६-११ ब्रह्म च ...{Loading}...
ब्रह्म॑ च ते क्ष॒त्रञ् च॒ पूर्वे॒ स्थूणे॑ अ॒भिर॑क्षतु ।
य॒ज्ञश् च॒ दक्षि॑णाश् च॒ दक्षि॑णे [स्थूणे॑ अ॒भिर॑क्षतु]।
इ॒षश् चो॒र्जश् +++(शारदौ मासौ)+++ चाप॑रे [स्थूणे॑ अ॒भिर॑क्षतु]।
मि॒त्रश् च॒ वरु॑ण॒श् चोत्त॑रे [स्थूणे॑ अ॒भिर॑क्षतु]।
ध॒र्मस् ते॒ स्थूणा॑राजः॒
श्रीस् ते॒ स्तूपः॑+++(=पृष्ठवंशः)+++ ।+++(५)+++
०६-११ ब्रह्म च ...{Loading}...
मूलम्
ब्रह्म॑ च ते क्ष॒त्रञ्च॒ पूर्वे॒ स्थूणे॑ अ॒भिर॑क्षतु ।
य॒ज्ञश्च॒ दक्षि॑णाश्च॒ दक्षि॑णे ।
इ॒षश्चो॒र्जश्चाप॑रे ।
मि॒त्रश्च॒ वरु॑ण॒श्चोत्त॑रे ।
ध॒र्मस्ते॒ स्थूणा॑राज॒,
श्रीस्ते॒ स्तूपः॑ ।
हरदत्तः
सम्मितमुत्तरैर्यथालिङ्गमभिमन्त्रयते - ब्रह्म चेति ॥ ब्रह्मा ब्राह्मणजातिः क्षत्रं क्षत्रियजातिः ते तव स्वभूते पूर्वे स्थूणो अभिरक्षतु हे गृह । यज्ञश्च दक्षिणाश्च दक्षिणे स्थूणे अभिरक्षतु । इषश्च ऊर्जश्च अपरे स्थूणे अभिरक्षतु । इषोर्जो शारदौ मासौ । मित्रश्च वरुणश्च उत्तरे स्थूणे अभिरक्षतु । स्थूणे इति सर्वत्रानुषङ्गः । धर्मः ते तव स्थूणाराजः प्रधानस्थूणा । श्रीः ते स्तूपः पृष्ठवंशः ॥
१२ उद्ध्रियमाण उद्धर ...{Loading}...
उ॒द्ध्रि॒यमा॑ण॒ उद्ध॑र पा॒प्मनो॑ मा॒
यद् अवि॑द्वा॒न् यच् च॑ वि॒द्वाꣳश् च॒कार॑ ।
+++(रात्रौ प्रवेशे)+++ अह्ना॒ यद् एनः॑ कृ॒तम् अ॑स्ति पा॒पꣳ
+++(अहनि प्रवेशे)+++ रात्र्या॒ यद् एनः॑ कृ॒तम् अ॑स्ति पा॒पꣳ
सर्व॑स्मा॒न् मोद्धृ॒तो +++(त्वम्)+++ मु॑ञ्च॒ तस्मा॑त् ।
१२ उद्ध्रियमाण उद्धर ...{Loading}...
मूलम्
उ॒द्ध्रि॒यमा॑ण॒ उद्ध॑र पा॒प्मनो॑ मा॒ यदवि॑द्वा॒न्यच्च॑ वि॒द्वाꣳश्च॒कार॑ ।
अह्ना॒ यदेनः॑ कृ॒तम॑स्ति पा॒पꣳ रात्र्या॒ यदेनः॑ कृ॒तम॑स्ति पा॒पꣳ सर्व॑स्मा॒न्मोद्धृ॒तो मु॑ञ्च॒ तस्मा॑त् ।
हरदत्तः
अग्निमुद्धरति - उद्ध्रियमाण इति ॥ मया उद्ध्रियमाणः त्वं हे अग्ने । मा मां पाप्मनः उद्धर । यत् । लिङ्गव्यत्ययः । यं पाप्मानं अहं अविद्वान्? अबुद्धिपूर्वं यत् यं च विद्वान् बुद्धिपूर्वं चकार कृतवानस्मि । तस्य पाप्मन एव विभज्य दर्शनं - अह्ना अह्नि यदेनः मया कृतं अस्ति पापम् । एन इत्युक्तत्वात् क्रियावाचकशब्दोऽयमेनसो विशेषणम् । पै ओ वै शोषणे, शोषति कर्तारमिति । रात्र्या रात्रौ यदेनः कृतमस्ति पापं तस्मात्सर्वस्मात् मां मुञ्च उद्धृतस्सन् ॥
१३ इन्द्रस्य गृहा ...{Loading}...
इन्द्र॑स्य +++(मम)+++ गृ॒हा वसु॑मन्तो वरू॒थिन॒स्+++(=गृह[+अवयवा])+++ -
तान् अ॒हꣳ सु॒मन॑सः॒ प्रप॑द्ये ।
१३ इन्द्रस्य गृहा ...{Loading}...
मूलम्
इन्द्र॑स्य गृ॒हा वसु॑मन्तो वरू॒थिन॒स्तान॒हꣳ सु॒मन॑सः॒ प्रप॑द्ये ।
हरदत्तः
अगारं प्रपादयति - इन्द्रस्येति ॥ इन्द्रस्य ईश्वरस्य मम गृहाः । एकस्मिन् । बहुवचनम् आपो दाराः इतिवत् । वसुमन्तः वरुथिनः वरूथमित्यपि गृहनाम, इह तु गृहावयते द्र्ष्टव्यः । प्रशस्तैरवयवैः तद्वन्तः तान् गृहान् सुमनसः । वचनव्यत्ययः सुमनाः अहं प्रपद्ये ॥
१४ अमृताहुतिममृतायाञ्जुहोम्यग्निम् पृथिव्याममृतस्य ...{Loading}...
अ॒मृ॒ता॒हु॒तिम् अ॒मृता॑याञ् जुहोम्य्+++(→स्थापयामि)+++
अ॒ग्निं पृ॑थि॒व्याम् अ॒मृत॑स्य॒ जित्यै॑ ।
तया॑ ऽन॒न्तं काम॑म् अ॒हञ् ज॑यानि
प्र॒जाप॑ति॒र् यं प्र॑थ॒मो जि॒गाय॑
+अ॒ग्निम् अ॑ग्नौ॒+++(→पृथिव्यां)+++ स्वाहा॑ ।
+++(इयं वा अग्निर्वैश्वानरः इति श्रुतेः।)+++
१४ अमृताहुतिममृतायाञ्जुहोम्यग्निम् पृथिव्याममृतस्य ...{Loading}...
मूलम्
अ॒मृ॒ता॒हु॒तिम॒मृता॑याञ्जुहोम्य॒ग्निं पृ॑थि॒व्याम॒मृत॑स्य॒ जित्यै॑ ।
तया॑ऽन॒न्तं काम॑म॒हञ्ज॑यानि प्र॒जाप॑ति॒र्यं प्र॑थ॒मो जि॒गाया॒ग्निम॑ग्नौ॒ स्वाहा॑ ।
हरदत्तः
अग्नि प्रतिष्ठापयति - अमृताहुतिमिति ॥ अमृतप्राप्तिनिमित्तभूतामाहुति अग्निं अमृतायां पृथिव्यां जुहोमि स्थापयामि अमृतस्य अमृतत्वस्य जित्यै जयाय । तया आहुत्या अनन्तं कामं अहं जयामि जयेयम् । यं कामं प्रथमः प्रजापतिः हीरण्यगर्भः जिगाय जितवान् । तस्मादिमं अग्निं अग्नौ पृथिव्यां इयं वा अग्निर्वैश्वानरः इति श्रुतेः ॥ द्वितीयासप्तम्योः श्रुतेः जुहोमीत्यपेक्षते ॥
१५ अन्नपतेऽन्नस्य नो ...{Loading}...
अन्न॑प॒ते ऽन्न॑स्य नो देहि।
अ॒न॒मी॒वस्य॑+++(=आरोग्यकरस्य)+++ शु॒ष्मिणः॑+++(=बलिनः)+++ ।
प्रप्र॑ दा॒तार॑न् तारिषः।
ऊर्ज॑न्+++(=अन्नं बलं वा)+++ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।
१५ अन्नपतेऽन्नस्य नो ...{Loading}...
मूलम्
अन्न॑प॒तेऽन्न॑स्य नो देहि ।
अ॒न॒मी॒वस्य॑ शु॒ष्मिणः॑ ।
प्रप्र॑ दा॒तार॑न्तारिषः ।
ऊर्ज॑न्नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।
हरदत्तः
व्रीहियवनिवपनमन्त्रः - अन्नपत इति ॥ हे अन्नपते । अन्नस्य । कर्मणि षष्ठी । अन्नं नः अस्मभ्यं धेहि अनमीवस्य अनमीवं आरोग्यकरं शुष्मिणः । शुष्म इति बलनाम । तद्यस्यास्ति कार्यत्वेन एवम्भूतमन्नं देहि । प्रदातारं च मां प्रतारिषः प्रकर्षेण वर्धय । किञ्च - नः अस्माकं सम्बन्धिने द्विपदे चतुष्पदे च ऊर्जं अन्नं बलं वा धेहि देहि ॥
१६ अरिष्टा अस्माकम् ...{Loading}...
अरि॑ष्टा अ॒स्माकं॑ वी॒रास् स॑न्तु॒
मा परा॑ सेचि मे॒ धन॑म् ।+++(र४)+++
१६ अरिष्टा अस्माकम् ...{Loading}...
मूलम्
अरि॑ष्टा अ॒स्माकं॑ वी॒रास्स॑न्तु॒ मा परा॑ सेचि मे॒ धन॑म् ।
हरदत्तः
उदधाने उदकुम्भानानयति - अरिष्टा इति ॥ अस्माकं वीराः पुत्राः अरिष्ठाः अहिंसिताः सन्तु । मे मदीयं च धनं मा परासेचि व्यर्थं सिक्तं मा भूत् । सिच्यमानबिन्द्वभिप्रायमेतत् ॥
१७ भूमिर्भूमिमगान्माता मातरमप्यगात् ...{Loading}...
भूमि॒र् भूमि॑म् अगान्
मा॒ता मा॒तर॒म् अप्य् अ॑गात् ।
भू॒यास्म॑ पु॒त्रैः प॒शुभि॒र्
यो नो॒ द्वेष्टि॒ स भि॑द्यताम् ।+++(र५)+++
१७ भूमिर्भूमिमगान्माता मातरमप्यगात् ...{Loading}...
मूलम्
भूमि॒र्भूमि॑मगान्मा॒ता मा॒तर॒मप्य॑गात् ।
भू॒यास्म॑ पु॒त्रैः प॒शुभि॒र्यो नो॒ द्वेष्टि॒ स भि॑द्यताम् ।
हरदत्तः
दीर्णमुत्तरयाऽनुमन्त्रयते - भूमिरिति ॥ भूमिः भूमिमगात् भूमेर्विकारभूतं उदधानं स्वप्रकृतिमेव भूमिमगात् । माता अन्तरिक्षं उदधानगतमाकाशं मातरं बहिराकाशं अप्यगात् । अप्ययः प्रलयः तत्रैव प्रलीला तेनैकीभूतेत्यर्थः । पुत्रैः पशुभिश्च वयं भूयास्म प्रभूताः स्याम । यो नो द्वेष्टि स भिद्यतां, नोदधानम् ॥
१८ वास्तोष्पते प्रति ...{Loading}...
०१ वास्तोष्पते प्रति ...{Loading}...
वास्तो॑ष्पते॒ प्रति॑ जानीह्य् अ॒स्मान्त्
स्व्-आ॑वे॒शो+++(=सुगमो)+++ अ॑नमी॒वो+++(=आरोग्यकरः)+++ भ॑वा नः ।
यत् त्वेम॑हे॒ प्रति॒ तन् नो॑ जुषस्व॒
शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ।
१८ वास्तोष्पते प्रति ...{Loading}...
मूलम्
वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्त्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः ।
यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ।
हरदत्तः
होममन्त्राः - वास्तोष्पत इति ॥ हे वास्तोष्पते । त्वं अस्मान् प्रतिजानीहि । प्रतिः धात्वर्थानुवादी । त्वद्भक्तानस्मान् जानीहि । ज्ञात्वा च स्वावेशः सूपसदनः अनमीवः आरोग्यकरश्च भव नः अस्माकम् । किञ्च - यत् त्वा वयं ईमहे याचामहे तत् नः अस्मान् प्रतिजुष स्व प्रापय । नः अस्माकं सम्बन्धिने द्विपदे चतुष्पदे च शं एधि सुखकरो भव ॥
१९ वास्तोष्पते शग्मया ...{Loading}...
०३ वास्तोष्पते शग्मया ...{Loading}...
वास्तो॑ष्पते श॒ग्मया॑+++(=सुखया)+++ स॒ꣳ॒सदा॑ ते
सक्षी॒महि॑+++(←सच समवाये)+++ र॒ण्वया॑+++(=रममाणया)+++ गातु॒मत्या॑+++(=गामिन्या)+++) ।
आवः॒ क्षेम॑+++(य्=लब्धस्य रक्षणे)+++ उ॒त योगे॒+++(=अलब्धस्य लाभे)+++ वरं॑ नो
+++(हे विश्वेदेवाः)+++ यू॒यम् पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।
१९ वास्तोष्पते शग्मया ...{Loading}...
मूलम्
वास्तो॑ष्पते श॒ग्मया॑ स॒ꣳ॒सदा॑ ते सख्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या॑ ।
आवः॒ ख्षेम॑ उ॒त योगे॒ वरं॑ नो यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।
हरदत्तः
वास्तोष्पते इति ॥ हे वास्तोष्पते । शग्मया । शग्ममिति सुखनाम । सुखरूपया रण्वया रममाणया गातुमत्या गतिमत्या सन्मार्गगामिन्या एवम्भूतया ते संसदा परिषदा वयमपि सक्षीमहि । वच समवाये । समवेतास्स्याम तदन्तर्भवेमेत्यर्थः । लब्धस्य रक्षणं क्षेमः । अलब्धस्य लाभो योगः । तृतीयार्थे सप्तमी । क्षेमेण योगेन च नः अस्मान् आवः । लोडर्थे लङ् । वरं क्रियाविशेषणमेतत् । वरिष्ठं यथा भवति तथा आवः । उतशब्दोऽप्यर्थे । चतुर्थः पादः देवतामेदात् भिन्नं वाक्यम् । हे विश्वेदेवाः यूयं स्वस्तिभिः सदा नः अस्मान् पात रक्षत ॥
२० वास्तोष्पते प्रतरणो ...{Loading}...
०२ वास्तोष्पते प्रतरणो ...{Loading}...
वास्तो॑ष्पते प्र॒तर॑णो न एधि॒
गोभि॒र् अश्वे॑भिर् इन्दो+++(←इन्दिर् ऐश्वर्यकर्मा/ उदिर्वा क्लेदकर्मा)+++ ।
अ॒जरा॑सस् ते स॒ख्ये स्या॑म
पि॒तेव॑ पु॒त्रान् प्रति॑ नो जुषस्व ।
२० वास्तोष्पते प्रतरणो ...{Loading}...
मूलम्
वास्तो॑ष्पते प्र॒तर॑णो न एधि॒ गोभि॒रश्वे॑भिरिन्दो ।
अ॒जरा॑सस्ते स॒ख्ये स्या॑म पि॒तेव॑ पु॒त्रान् प्रति॑ नो जुषस्व ।
हरदत्तः
वास्तोष्पत इति ॥ हे वास्तोष्पते नः अस्माकं प्रतरणः प्रतारयिता वर्धयिता एधि भव गोभिः अश्वेभिः अश्वैश्च इन्दो इन्दिरैश्वर्यकर्मा, ईश्वर उदेर्वा क्लेदकर्मणः वृष्टिद्वारेण क्लेरयितः । किञ्च - ते सख्ये स्तुत्यस्तोतृभावलक्षणे वयं अजरासः स्याम अजर्यं नौ सङ्गतमस्त्वित्यर्थः । किं बहुना - पितेव यथा पिता पुत्रान् प्रति जुषते प्रीणयति तथा नः प्रतिजुषस्व ॥
२१ अमीवहा वास्तोष्पते ...{Loading}...
०१ अमीवहा वास्तोष्पते ...{Loading}...
अ॒मी॒व॒हा+++(=व्याधिहा)+++ वास्तो॑ष्पते॒
विश्वा॑ रू॒पाण्य् आ॑ वि॒शन्न् ।
सखा॑ सु॒शेव॑+++(फ)+++ एधि नः ।
२१ अमीवहा वास्तोष्पते ...{Loading}...
मूलम्
अ॒मी॒व॒हा वास्तो॑ष्पते॒ विश्वा॑ रू॒पाण्या॑ वि॒शन्न् ।
सखा॑ सु॒शेव॑ एधि नः ।
हरदत्तः
वास्तोष्पत इति ॥ हे वास्तोष्पते अमीवहा व्याधीनां हन्ता त्वं विश्वा विश्वानि रूपाणि आविशन् प्रविशन् व्याधिशमने यानि रूपाण्युपयुक्तानि भिषग्भेषजादीनां तानि रूपाणि प्रविश्य अमीवह । एवम्भूतः त्वं नः अस्माकं सखासु सुखिषु शेवः वरिष्ठः एधि भव ॥
२२ शिवं शिवम् ...{Loading}...
शि॒व॒ꣳ॒ शि॒वम् ॥
२२ शिवं शिवम् ...{Loading}...
मूलम्
शि॒व॒ꣳ॒ शि॒वम् ॥ (१५)
हरदत्तः
उदकुम्भेन परिषेचनम् - शिवमिति ॥ इदं वास्तु शिवं भवतु । आदरार्थं पुनर्वचनम् ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने पञ्चदशः खण्डः