०१ नक्तञ्चारिण उरस्पेशाञ्छूलहस्तान्कपालपान् ...{Loading}...
न॒क्त॒ञ्चा॒रिण॑ उरस्पे॒शाञ्+++(=उरस्युज्ज्वलान्)+++
छू॑ल-ह॒स्तान् क॑पाल॒पान् ।
पूर्व॑ एषां पि॒ता +++(“ए॒तान् घ्न॑तै॒तान् गृ॑ह्णी॒त”)++++इत्य्
उ॒च्चैश् श्रा॑व्य क॒र्णकः॑ ।
मा॒ता ज॑घ॒न्या॑ सर्प॑ति॒
ग्रामे॑ विधु॒रम् इ॒च्छन्ती॒ स्वाहा॑ ।
०१ नक्तञ्चारिण उरस्पेशाञ्छूलहस्तान्कपालपान् ...{Loading}...
मूलम्
न॒क्त॒ञ्चा॒रिण॑ उरस्पे॒शाञ्छू॑लह॒स्तान्क॑पाल॒पान् ।
पूर्व॑ एषां पि॒तेत्यु॒च्चैश्श्रा॑व्यक॒र्णकः॑ ।
मा॒ता ज॑घ॒न्या॑ सर्प॑ति॒ ग्रामे॑ विधु॒रमि॒च्छन्ती॒ स्वाहा॑ ।
हरदत्तः
नक्तंचारिण इति ॥ नक्तंचारिणः रात्रिंचरान् उरस्पेशान् उरस्युज्ज्वलान् शूलहस्तान् कपालपान् एतान्यपि ता नग्निः इत्यत्र तानिति निर्दिष्टानामेव विशेषणानि । एषां पिशाचानां पिता पूर्वं एति पुरो गच्छति । छान्दसं पररूपम् । किं कृत्वा? उच्चैश्श्राव्य इमम भक्षयितुमागच्छतेत्येवं पुत्राणां श्रावयित्वा कर्णक इति तस्याभिधानम् । अथवा - अकर्णकः कर्ण रहितस्सन्नपि उच्चैश्श्रावी उच्चैश्श्रोता । तेषां माता जघन्या सर्पति पृष्ठतो गच्छति ग्रामे विधुरं व्याधितं दुर्बलं बालं इच्छन्ती ॥
०२ निशीथचारिणी स्वसा ...{Loading}...
नि॒शी॒थ॒चा॒रिणी॒ स्वसा॑
स॒न्धिना॒ प्रेक्ष॑ते॒ कुल॑म् ।
या स्वप॑न्तं बो॒धय॑ति॒
यस्यै॒ विजा॑तायां॒ मनः॑ ।
तासां॒ त्वं कृ॑ष्ण॒वर्त्म॑ने
क्लो॒मान॒ꣳ॒+++(=श्वासकोशः)+++ हृद॑यं॒ यकृ॑त्+++(=liver)+++ ।
अग्ने॒ अक्षी॑णि नि॒र्दह॒ स्वाहा॑ ।
०२ निशीथचारिणी स्वसा ...{Loading}...
मूलम्
नि॒शी॒थ॒चा॒रिणी॒ स्वसा॑ स॒न्धिना॒ प्रेक्ष॑ते॒ कुल॑म् ।
या स्वप॑न्तं बो॒धय॑ति॒ यस्यै॒ विजा॑तायां॒ मनः॑ ।
तासां॒ त्वं कृ॑ष्ण॒वर्त्म॑ने क्लो॒मान॒ꣳ॒ हृद॑यं॒ यकृ॑त् ।
अग्ने॒ अक्षी॑णि नि॒र्दह॒ स्वाहा॑ ।
हरदत्तः
निशीथेति ॥ निशीथचारिणी स्वसा एषामेव सन्धिना कवाटच्छिद्रेण प्रेक्षते कुलं अन्तस्थितं जनसमुदायम् । या चान्या स्वपन्तं बोधयति यस्यै यस्याश्च विजातायां प्रसूतायां अस्यां मद्भार्यायां मनः बाधिष्ये इति, तासां त्वं हे कृष्णवर्त्मने । कृष्णवर्त्मन् क्लोमानं हृदयं यकृत् क्लोमादयोऽन्तर्गतमांसविशेषाः । हे अग्ने । तान् अक्षीणि च निर्दह निश्शेषं दह ॥
०३ अङ्गादङ्गात्सम्भवसि हृदयादधि ...{Loading}...
अङ्गा॑दङ्गा॒त् संभ॑वसि॒ हृद॑या॒दधि॑ जायसे । वे॒दो वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।
०३ अङ्गादङ्गात्सम्भवसि हृदयादधि ...{Loading}...
मूलम्
अङ्गा॑दङ्गा॒त्संभ॑वसि॒ हृद॑या॒दधि॑ जायसे ।
वे॒दो वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।
हरदत्तः
प्रवासादेत्य पुत्रस्याभिमन्त्रणम् - अङ्गादङ्गादिति । गतम् । वेदोसि धनमसि । वेदः विद्वान् धर्मसाधनमसि ॥
०४ अश्मा भवेत्येषा ...{Loading}...
०१ अश्मा भव ...{Loading}...
अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव ।
प॒शू॒नान्त्वा॑ हिङ्का॒रेणा॒भि जि॑घ्राम्य् असौ+++(→नामनिर्देशः)+++।
०४ अश्मा भवेत्येषा ...{Loading}...
मूलम्
अश्मा॑ भ॒वेत्ये॒षा ।
हरदत्तः
मूर्धन्यवघ्राणम् - अश्मा भवेति ॥ गतम् ॥
०५-०९ अग्निरायुष्मान्त्स वनस्पतिभिरायुष्मान्तेन ...{Loading}...
अ॒ग्निर् आयु॑ष्मा॒न्त्, स वन॒स्पति॑भि॒र् आयु॑ष्मा॒न्, तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि ।
सोम॒ आयु॑ष्मा॒न्त्, स ओष॑धीभि॒र् आयु॑ष्मा॒न्, तेन॒ …।
य॒ज्ञ आयु॑ष्मा॒न्त्, स दक्षि॑णाभि॒र् आयु॑ष्मा॒न्, तेन॒ …।
ब्रह्मायु॑ष्मत्, तद् ब्रा॑ह्म॒णैर् आयु॑ष्म॒त्, तेन॒ …।
दे॒वा आयु॑ष्मन्त॒स्, ते॑ऽमृते॒नायु॑ष्मन्त॒स्, तेन॒ …।
[पि॒तर॒ आयु॑ष्मन्त॒स् ते स्व॒धयायु॑ष्मन्त॒स्, तेन॒ …।]
०५-०९ अग्निरायुष्मान्त्स वनस्पतिभिरायुष्मान्तेन ...{Loading}...
मूलम्
अ॒ग्निरायु॑ष्मा॒न्त्स वन॒स्पति॑भि॒रायु॑ष्मा॒न्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒ । सोम॒ आयु॑ष्मा॒न्त्स ओष॑धीभि॒रायु॑ष्मा॒न्तेन॒ …। य॒ज्ञ आयु॑ष्मा॒न्त्स दक्षि॑णाभि॒रायु॑ष्मा॒न्तेन॒ …। ब्रह्मायु॑ष्मत्तद् ब्रा॑ह्म॒णैरायु॑ष्म॒त्तेन॒ …। दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॒नायु॑ष्मन्त॒स्तेन॒ …।
हरदत्तः
दक्षिणे कर्णे जापः - अग्निरायुष्मानिति ॥ पञ्च पर्यायः अग्नेः वनस्पतिभिरायुष्मत्त्वं तदन्नत्वात् । सोमस्य ओषधीभिरायुष्मत्त्वं ओषधिरसरूपामृतात्मकत्वात् । मृतो यज्ञस्त्वदक्षिणः इति वचनात् यज्ञस्य दक्षिणाभिरायुष्मत्त्वम् । ब्रह्म वेदः । ब्राह्मणास्तस्य धारयितारः । तेन तैस्तस्यायुष्मत्त्वम् । देवानाममृतेन आयुष्मत्तेन आयुष्मत्त्वं प्रसिद्धम् । तेन त्वेस्यादि सर्वत्रानुषज्यते शिष्टं स्पष्टम् ॥
१० सर्वस्मादात्मनस्सम्भूताऽसि सा ...{Loading}...
सर्व॑स्माद् आ॒त्मन॒स् संभू॑ताऽसि॒, सा जी॑व श॒रद॑श् श॒तम् ।
१० सर्वस्मादात्मनस्सम्भूताऽसि सा ...{Loading}...
मूलम्
सर्व॑स्मादा॒त्मन॒स्संभू॑ताऽसि॒ सा जी॑व श॒रद॑श्श॒तम् ।
हरदत्तः
कुमार्या अभिमन्त्रणम् - सर्वस्मादिति ॥ सर्वस्मादात्मनः अङ्गादङ्गादित्यर्थः शिष्टं स्पष्टम् ॥
११ -१४ भूरपान् त्वौषधीनाम् ...{Loading}...
भूर् अ॒पां त्वौष॑धीना॒ꣳ॒ रसं॒ प्राश॑यामि।
शि॒वास्त॒ आप॒ ओष॑धयस् सन्त्व्,
अनमी॒वास्त॒ आप॒ ओष॑धयस् सन्त्व् असौ+++(→नामनिर्देशः)+++ ।
भुवो॒ऽपाꣳ …।
सुव॑र॒पां …।
भूर्भुव॒स्सुव॑र॒पां …।
तैत्तिरेण माँसेनेत्य् एके २
११ -१४ भूरपान् त्वौषधीनाम् ...{Loading}...
मूलम्
भूर॒पां त्वौष॑धीना॒ꣳ॒ रसं॒ प्राश॑यामि शि॒वास्त॒ आप॒ ओष॑धयस्सन्त्वनमी॒वास्त॒ आप॒ ओष॑धयस्सन्त्वसौ ।
भुवो॒ऽपाꣳ सुव॑र॒पां भूर्भुव॒स्सुव॑र॒पां त्वौष॑धीना॒ꣳ॒ रसं॒ प्राश॑यामि शि॒वास्त॒ आप॒ ओष॑धयस्सन्त्वनमी॒वास्त॒ आप॒ ओष॑धयस्सन्त्वसौ ।
हरदत्तः
अन्नपाशनमन्त्राः - भूरपामिति ॥ व्याहृतयः उच्चारणमात्रेणोपकारकाः । अपामोषधीनां च रसं त्वां प्राशयामि ता आप ओषधयश्च ते शिवास्सन्तु । अनमीवाः अरोगा आरोग्यहेतवश्च ते सन्तु असौ यज्ञशर्मन् । उत्तरेषु त्र्याहतिमात्रं भिद्यते । अन्यत्समानम् ॥
१५ उष्णेन वायवुदकेनेत्येषः ...{Loading}...
०१ उष्णेन वायवुदकेनेह्यदितिः ...{Loading}...
+++(उष्णा आपः शीतास्वानयति)+++ उ॒ष्णेन॑ वायवुद॒केनेह्य्, अदि॑तिः॒ केशान्॑ वपतु ।
१५ उष्णेन वायवुदकेनेत्येषः ...{Loading}...
मूलम्
उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः ॥ (१४)
हरदत्तः
उष्णेन वायविति ॥ एषोऽनुवाको गतः ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने चतुर्दशः खण्डः