०१ मा ते ...{Loading}...
मा ते॑ कुमा॒रँ रक्षो॑वधी॒न्
मा धे॒नुर॑त्यासा॒रिणी॑ ।
प्रि॒या धन॑स्य भूया॒
एध॑माना॒ स्वे गृ॒हे ।
०१ मा ते ...{Loading}...
मूलम्
मा ते॑ कुमा॒रꣳ रक्षो॑वधी॒न्मा धे॒नुर॑त्यासा॒रिणी॑ ।
प्रि॒या धन॑स्य भूया॒ एध॑माना॒ स्वे गृ॒हे ।
हरदत्तः
मातुरुपस्थे कुमारमादधाति - मा ते कुमारमिति ॥ ते तव कुमारं रक्षो मा वधीत् मा च धेनुः अत्यासारिणी वत्सस्नेहेन अत्यन्तं धावन्ती । धेनुग्रहणं तादृशानामुपलक्षणम् । प्रिया धनस्य पुत्ररूपस्य गवादेर्वा भूयाः एधमाना स्वे गृहे मम स्वभूते गृहे ॥
०२ अयङ् कुमारो ...{Loading}...
अ॒यं कु॑मा॒रो ज॒रां ध॑यतु दी॒र्घमायुः॑ ।
यस्मै॒ त्व२ँ स्तन॒! प्रप्या॒य +++(=प्रक्षर)+++
+आयु॒र्वर्चो॒ यशो॒ बल॑म् ।
०२ अयङ् कुमारो ...{Loading}...
मूलम्
अ॒यं कु॑मा॒रो ज॒रां ध॑यतु दी॒र्घमायुः॑ ।
यस्मै॒ त्व२ꣳ स्तन॒प्रप्या॒यायु॒र्वर्चो॒ यशो॒ बल॑म् ।
हरदत्तः
स्तनं धापयति - अयमिति ॥ अयं कुमारः जरां कुमारः जरां दीर्घंचायुः स्तन्यव्याजेन धयतु पिबतु स्तन्यं पिबन् आजरसं जीवत्वित्यर्थः । यस्मै त्वं हे स्तन । प्रप्याय प्रक्षर । किं? आयुर्वर्चो यशो बलं च क्षीरव्याजेन आयुरादि प्रक्षरेत्यर्थः ॥
०३ यद्भूमेर्हृदयन्दिवि चन्द्रमसि ...{Loading}...
- यद्भूमे॒र्हृद॑यन्दि॒वि च॒न्द्रम॑सि श्रि॒तम् । तदु॑र्वि पश्यं॒ +++(=पश्येयम्)+++ माऽहं पौत्र॒मघꣳ॑ रुदम् ।
०३ यद्भूमेर्हृदयन्दिवि चन्द्रमसि ...{Loading}...
मूलम्
यद्भूमे॒र्हृद॑यन्दि॒वि च॒न्द्रम॑सि श्रि॒तम् ।
तदु॑र्विपश्यं॒ माऽहं पौत्र॒मघꣳ॑ रुदम् ।
हरदत्तः
उत्तराभ्यां पृथिवीमभिमृशति - यद्भूमेरिति ॥ यत् भूमेः तव स्वभूतं हृदयं दिवि आकाशे चन्द्रमसि श्रितं स्थितं कलङ्कत्वेन । भूच्छाया हि चन्द्रमसः कलङ्कः । हे उर्वि । तत्पश्यं पश्येयं, अहं पौत्रं पुत्रनिमित्तं अधं व्यसनमुद्दिश्य मा रुदं त्वदभिमकर्शनात् चक्षुष्मान् भूयासं पुत्रं चोद्दिश्य मा रुदमित्यर्थः ॥
०४ यत्ते सुसीमे ...{Loading}...
- यत्ते॑ सुसी॒मे हृद॑यं॒ वेदा॒हं तत् प्र॒जाप॑तौ +++(=चन्द्रमसि [छायारूपेण])+++ । वेदा॑म॒ तस्य॑ ते व॒यं माऽहं पौत्र॒मघꣳ॑ रुदम् ।
०४ यत्ते सुसीमे ...{Loading}...
मूलम्
यत्ते॑ सुसी॒मे हृद॑यं॒ वेदा॒हं तत् प्र॒जाप॑तौ ।
वेदा॑म॒ तस्य॑ ते व॒यं माऽहं पौत्र॒मघꣳ॑ रुदम् ।
हरदत्तः
यत्त इति ॥ हे सुसीमे । शोभनसीमे यत्ते हृदयं तदहं प्रजापतौ ओषधिजननद्वारेण प्रजानां पालयितरि चन्द्रमसि स्थितं वेद पुनरपि तवाभिमर्शनात् ते तव स्वभूतस्य तस्य । द्वितीयार्थे षष्ठी । तव स्वभूतं तद्धृदयं वयं वेदाम । अस्मदो द्वयोश्च इत्येकस्मिन् बहुवचनम्, प्रार्थने च लोट् । चिरकालमहं वेदानि । माऽहं पौत्रमित्यादि । गतम् ॥
०५ नामयति न ...{Loading}...
न +आम॑यति॒, न रु॑दति॒, यत्र॑ व॒यं व॑दामसि॒, यत्र॑ चा॒भिमृ॑शामसि ।
०५ नामयति न ...{Loading}...
मूलम्
नाम॑यति॒ न रु॑दति॒ यत्र॑ व॒यं व॑दामसि॒ यत्र॑ चा॒भिमृ॑शामसि ।
हरदत्तः
संविष्टं कुमारमभिमृशाति - नामयतीति ॥ यत्र भूप्रदेशे वयं वदमसि मन्त्रमुच्चारयामः यत्र चाभिमृशामसि अभिमर्शनं कुर्मः, तत्र संविष्टोऽयं कुमारः नामयति न व्याधितो भवति, न रुदति । लोडर्थे लट् । नामयतु न रुदत्विति ॥
०६ आपस्सुप्तेषु जाग्रत ...{Loading}...
आप॑स्सु॒प्तेषु॑ जाग्रत॒ रक्षाꣳ॑सि॒ निरि॒तो नु॑दद्ध्वम् ।
०६ आपस्सुप्तेषु जाग्रत ...{Loading}...
मूलम्
आप॑स्सु॒प्तेषु॑ जाग्रत॒ रक्षाꣳ॑सि॒ निरि॒तो नु॑दद्ध्वम् ।
हरदत्तः
शिरस्त उदकुम्भं निदधाति - आपस्सुप्तेष्विति ॥ हे आपः यूयं सुप्तेषु अस्मासु जाग्रत प्रबुद्धा भवत । जागरित्वा च रक्षांसि इतः प्रदेशात् निर्णुदध्वम् आपो वै रक्षोघ्नीः इति दर्शनात् ॥
०७ अयङ् कलिम् ...{Loading}...
अ॒यं क॒लिं प॒तय॑न्त२ꣳ+++(=प्रतिगच्छन्तम्)+++ श्वा॒नम् इ॒वोद्-वृ॑द्धम् ।
अ॒जां वाशि॑ताम् इव मरुतः॒ पर्या॑द्ध्व॒२ꣳ॒+++(=पर्यास्यध्वम्)+++ स्वाहा॑ ।
०७ अयङ् कलिम् ...{Loading}...
मूलम्
अ॒यं क॒लिं प॒तय॑न्त२ꣳ श्वा॒नमि॒वोद्वृ॑द्धम् ।
अ॒जां वाशि॑तामिव मरुतः॒ पर्या॑द्ध्व॒२ꣳ॒ स्वाहा॑ ।
हरदत्तः
सर्षपान् फलीकरणमिश्रान् जुहोति - अयमिति ॥ द्वितीयार्थे प्रथमा । इमं कलिं कलिर्भूतविशेषः, येनाधिष्ठितं चतुर्थं युगमश्लीलं भवति । कलये सभास्थाणुम् इति दर्शनात् । तं कलिं पतयन्तं कुमारं प्रति गच्छन्तं उद्वृद्धं उत्कटं बिभक्षयिषुं श्वानभिब? हे मरुतः पर्याध्वम् । अस्यतेरेतद्रूपं, न पुनरासेः । पर्यास्यध्वम् । अजां वाशितमिव । वाशृ शब्दे यथा बहुकृत्वो वाश्यमानामजामन्यतो निरस्यंति तद्वत् ॥
०८ शण्डेरथश्शण्डिकेर उलूखलः ...{Loading}...
शण्डे॒रथ॒श्+++(शण्डो रथे यस्य)+++ शण्डि॑केर+++(शण्डिकम् बलम् ईरयति)+++ उलूख॒लः ।
च्यव॑नो॒ नश्य॑ताद् इ॒तः स्वाहा॑ ।
०८ शण्डेरथश्शण्डिकेर उलूखलः ...{Loading}...
मूलम्
शण्डे॒रथ॒श्शण्डि॑केर उलूख॒लः ।
च्यव॑नो॒ नश्य॑तादि॒तः स्वाहा॑ ।
हरदत्तः
शण्डेरथ इति ॥ शण्डश्च मर्कश्चासुरौ यत्रेदं भवति - निरस्तश्शण्डः निरस्तो मर्कः इति । शण्डस्य रथः शण्डो वा रथो यस्य स शण्डेरथः ततोपि प्रबलः कश्चित् । शण्डनेतृकं बलं शण्डिकं तदीरयतीति शण्डिकेरः सोपि कश्चित् । उरुश्च भवति खलश्च भवतीत्युलूखलः तदाभरणो वा, सोऽपि कश्चित् । गर्भादेश्च्यावयिताच्यवनः । एते चत्वारः असुरविशेषा नश्यातात् इतः प्रदेशात् अपसर्पन्तु ॥
०९ अयश्शण्डो मर्क ...{Loading}...
अय॒श् शण्डो॒ मर्क॑
उप॒वीर॑+++(यमवेक्ष्यान्ये वीरा न्यूनाः)+++ उलूख॒लः ।
च्यव॑नो॒ नश्य॑ताद् इ॒तः स्वाहा॑ ।
०९ अयश्शण्डो मर्क ...{Loading}...
मूलम्
अय॒श्शण्डो॒ मर्क॑ उप॒वीर॑ उलूख॒लः ।
च्यव॑नो॒ नश्य॑तादि॒तः स्वाहा॑ ।
हरदत्तः
अय इति ॥ अयः अयोमुखः यमवेक्ष्य अन्ये वीरा न्यूना भवन्ति स उपवीरः । अन्ये व्याख्याताः । एते षट् ॥
१० केशिनीश्श्वलोमिनीः खजापोऽजोप ...{Loading}...
के॒शिनी॒श् श्वलो॒मिनीः॒ खजा॑पो॒+++(=खञ्जा =पङ्ग्वयो भूत्वाप्नुवन्ति)+++
ऽजोप॑काशिनीः+++(=अजनिभाः)+++ ।
अपे॑त॒ नश्य॑ताद् इ॒तस् स्वाहा॑ ।
१० केशिनीश्श्वलोमिनीः खजापोऽजोप ...{Loading}...
मूलम्
के॒शिनी॒श्श्वलो॒मिनीः॒ खजा॑पो॒ऽजोप॑ काशिनीः ।
अपे॑त॒ नश्य॑तादि॒तस्स्वाहा॑ ।
हरदत्तः
केशिनिरिति ॥ केशिन्यादयः पिशाच्यः केशिनीः । एकवचनं बहुवचनं वा, निगदादयम्? मत्वर्थीयः । निन्दितकेशा इत्यर्थः । शुन इव लोमानि यासं ताः श्वलेमिन्यः । खंजा भूत्वा या आप्नुवन्ति ताः खजापः । अजा इव या उपकाशन्ते ता - अजोपकाशिन्यः । या एवम्भूताः पिशाच्यः ता यूयं इतः प्रदेशात् अपेत अपसर्पत । अपेत्य च नश्यतात् । नश्यतादिति बहुवचनस्य तादादेशः ॥
११ मिश्रवाससः कौबेरका ...{Loading}...
मि॒श्रवा॑ससः कौबेर॒का
र॑क्षोरा॒जेन॒ प्रेषि॑ताः ।
ग्राम॒ꣳ॒ सजा॑नयो गच्छन्ती॒-
च्छन्तो॑ ऽपरि॒दाकृ॒तान्थ्+++(अनुपनीतान् - “अग्नये त्वा परिददामीति” तत्र मन्त्रः)+++ स्वाहा॑ ।
११ मिश्रवाससः कौबेरका ...{Loading}...
मूलम्
मि॒श्रवा॑ससः कौबेर॒का र॑क्षोरा॒जेन॒ प्रेषि॑ताः ।
ग्राम॒ꣳ॒ सजा॑नयो गच्छन्ती॒च्छन्तो॑ऽपरि॒दाकृ॒तान्त्स्वाहा॑ ।
हरदत्तः
मिश्रेति ॥ मिश्रवाससः अन्योन्यम् कौबेरकाः कुबेरस्य भृत्याः कौबेराः ते कुत्सिताः कौबेरकाः तेनैव कुबेरेण रक्षोराजेन प्रेषिताः सजानयः समर्थाः ग्रामं गच्छन्ति इच्छन्तः अपरिदाकृतान् अग्नये त्वा परि ददामि इत्येवमादिभिः मन्त्रैः देवताभ्यो रक्षणार्थं दत्ताः परिदाकृताः उपनीताः ततोऽन्येऽपरिदाकृताः बालाः तानिच्छन्तः एतान् ॥
१२ एतान्घ्नतैतान्गृह्णीतेत्ययम् ...{Loading}...
ए॒तान् घ्न॑तै॒तान् गृ॑ह्णी॒ते-
त्य् अ॒यं ब्रह्म॑णस्पु॒त्रः ।
तान् अ॒ग्निः पर्य॑सर॒त्
तान् इन्द्र॒स् तान् बृह॒स्पतिः॑ ।
तान् अ॒हं वे॑द ब्राह्म॒णः
प्र॑मृश॒तः कू॑टद॒न्तान्,
वि॑के॒शान् लं॑बनस्त॒नान्थ् स्वाहा॑ ॥ (13)
१२ एतान्घ्नतैतान्गृह्णीतेत्ययम् ...{Loading}...
मूलम्
ए॒तान्घ्न॑तै॒तान्गृ॑ह्णी॒तेत्य॒यं ब्रह्म॑णस्पु॒त्रः ।
तान॒ग्निः पर्य॑सर॒त्तानिन्द्र॒स्तान्बृह॒स्पतिः॑ ।
तान॒हं वे॑द ब्राह्म॒णः प्र॑मृश॒तः कू॑टद॒न्तान् वि॑के॒शान् लं॑बनस्त॒नान्त्स्वाहा॑ ॥ (१३)
हरदत्तः
अर्थ सङ्गतेरुत्तरार्धे व्याख्या आरभ्यते - एतानिति ॥ तान् पूर्वोक्तान् पिशाचान् अग्निः पर्यसरत् परिधावत् । कीदृशः? ब्रह्मणस्पुत्रः अग्ने महान् असीत्याह महान् ह्येष यदग्निर्ब्राह्मणेत्याह ब्राह्मणो ह्येष भारतेत्याहैष हि देवेभ्यो हव्यं भरति इति ब्राह्मणम् । अय मग्निः तान्परिधावतु । किं कुर्वन्? एतान् पिशाचान् घ्नत एतान् गृह्णीतेति वदन् । तान् इन्द्रः तान् बृहस्पतिः पर्यसरदित्येव तान् पिशाचान् अहमपि वेद वेद्मि ब्राह्मणः प्रमृशतः बालान् इतश्चेतश्च मार्गतः कूटदन्तान् कूटवदुन्नतदन्तान् विकेशान् विकीर्णकेशान् लम्बनस्तनावा पिशाचत्वादेव पुंसामपि लम्बनस्तनत्वमविरुद्धम् । पिशाचीनामेव ग्रहरूपेण विवक्षितत्वात् पुल्लिङ्गनिर्देशः ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने त्रयोदशः खण्डः