०१ अश्मा भव ...{Loading}...
अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव ।
प॒शू॒नान्त्वा॑ हिङ्का॒रेणा॒भि जि॑घ्राम्य् असौ+++(→नामनिर्देशः)+++।
०१ अश्मा भव ...{Loading}...
मूलम्
अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव ।
प॒शू॒नान्त्वा॑ हिङ्का॒रेणा॒भि जि॑घ्राम्यसौ ।
हरदत्तः
मूर्धन्यवघ्राणं - अश्मा भवेति ॥ अश्मेव स्थिरो भव । परशुर्भव परशुरिव दुरासदो भव । अस्तृतं अनाच्छादितं मलेन हिरण्यं भव तद्रूपो भव । गावो वत्सलाः यादृशेन हिंकारेण वत्सान् अभिजिघ्रन्ति तेन पशूनां हिंङ्कारेण त्वा त्वां अभिजिघ्रामि असौ नक्षत्रनामनिर्देशः संबुद्ध्या, कृत्तिक, रौहिण इत्यादि ॥
०२ मेधान्ते देवस्सविता ...{Loading}...
मे॒धान् ते॑ दे॒वस् स॑वि॒ता
मे॒धान् दे॒वी सर॑स्वती ।
मे॒धान् ते॑ अ॒श्विनौ॑ दे॒वाव्
आध॑त्तां॒ पुष्क॑रस्रजा ।
०२ मेधान्ते देवस्सविता ...{Loading}...
मूलम्
मे॒धान्ते॑ दे॒वस्स॑वि॒ता मे॒धान्दे॒वी सर॑स्वती ।
मे॒धान्ते॑ अ॒श्विनौ॑ दे॒वावाध॑त्तां॒ पुष्क॑रस्रजा ।
हरदत्तः
दक्षिणे कर्णे जपः - मेधां त इति ॥ मेधां ते देवः सविता दधातु । तथा देवी सरस्वती । अश्विनौ च देवौ आधत्तां स्थापयतां पुष्करस्रजा पुष्करमालिनौ ॥
०३-०५ त्वयि मेधाम् ...{Loading}...
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वय्य् अ॒ग्निस् तेजो॑ दधातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयीन्द्र॑ इन्द्रि॒यं द॑धातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयि॒ सूर्यो॒ भ्राजो॑ दधातु ।
०३-०५ त्वयि मेधाम् ...{Loading}...
मूलम्
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वय्य॒ग्निस्तेजो॑ दधातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वयीन्द्र॑ इन्द्रि॒यं द॑धातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वयि॒ सूर्यो॒ भ्राजो॑ दधातु ।
हरदत्तः
त्वयि मेधामित्यादयः प्राशनमन्त्र निगदसिद्धाः ॥ भ्राजः दीप्तिः ॥
०६ क्षेत्रियै त्वा ...{Loading}...
क्षे॒त्रि॒यै +++(=अचिकित्स्यव्याधेः)+++ त्वा॒ निर्ऋ॑त्यै त्वा..
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि
शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ।
०६ क्षेत्रियै त्वा ...{Loading}...
मूलम्
क्षे॒त्रि॒यै त्वा॒ निर्ऋ॑त्यै त्वा द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ।
हरदत्तः
स्नपनमन्त्राः - क्षेत्रियै त्वेति ॥ क्षेत्री अचिकत्स्यो व्याधिः । पञ्चम्यर्थे चतुर्थी । क्षेत्र्याः रुजः अचिकित्स्यात् व्याधेः त्वां मुञ्चामि । तथा निर्ऋत्यै निर्ऋत्याः त्वा मुञ्चामि । रक्षःपिशाचादीनामधिष्ठात्री देवता निर्ऋतिः । द्रुहः द्रोग्धुश्च पुरुषान्मुञ्चामि । तथा वरुणस्य पाशात् मुञ्चामि । एवं अनागसं अपापं त्वां ब्रह्मणे वेदाय करोमि वेदयोग्यं करोमीत्यर्थः । उभे इमे द्यावापृथिव्यौ ते तव शिवे करोमि ॥
०७ शन्ते अग्निस्सहाद्भिरस्तु ...{Loading}...
शन् ते॑ अ॒ग्निस् स॒हाद्भिर् अ॑स्तु॒
शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः ।
शम् अ॒न्तरि॑क्षꣳ स॒ह वाते॑न ते॒
शन् ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु।
०७ शन्ते अग्निस्सहाद्भिरस्तु ...{Loading}...
मूलम्
शन्ते॑ अ॒ग्निस्स॒हाद्भिर॑स्तु॒ शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः ।
शम॒न्तरि॑क्षꣳ स॒ह वाते॑न ते॒ शन्ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु ।
हरदत्तः
शं त इति ॥ अद्भिस्सहाग्निः ते शमस्तु शं करोतु । ओषधीभिस्सह द्यावापृथीवी शं स्ताम् । अन्तरिक्षं च वातेन सह ते शमस्तु । चतस्रश्च प्रधाना दिशः ते शं भवन्तु ॥
०८ या दैवीश्चतस्रः ...{Loading}...
या दैवी॒श् चत॑स्रः प्र॒दिशो॒ वात॑-पत्नीर्,
अ॒भि सूर्यो॑ विच॒ष्टे +++(=विपश्यति)+++ ।
तासा॑न् त्वा ऽऽज॒रस॒ आ द॑धामि॒।
प्र यक्ष्म॑ एतु॒ निर्ऋ॑तिं परा॒चैः +++(=प्राङ्मुखः)+++ ।
०८ या दैवीश्चतस्रः ...{Loading}...
मूलम्
या दैवी॒श्चत॑स्रः प्र॒दिशो॒ वात॑पत्नीर॒भि सूर्यो॑ विच॒ष्टे ।
तासा॑न्त्वा ज॒रस॒ आ द॑धामि॒ प्र यक्ष्म॑ एतु॒ निर्ऋ॑तिं परा॒चैः ।
हरदत्तः
या इति । इन्द्रादीनां देवानां सम्बन्धिनीः दैवीः याश्चतस्राः प्रधाना दिशः वातपत्नीः वातः पतिः पालयिता यासां सूर्योऽभिविचष्टे अभिविपश्यति, तासां दिशां आ जरसः यावता जीर्यन्ति तावन्तं कालं त्वा आदधामि स्थापयामि । एवं स्थापितात् त्वत्तः यक्ष्मः रोगः निर्ऋर्ति प्रैतु तामेव प्रतिगच्छत् पराचैः पराङ्मुखः ॥
०९ अमोचि यक्ष्माद्दुरितादवर्त्यै ...{Loading}...
अमो॑चि॒ यक्ष्मा॑द् दुरि॒ताद् अव॑र्त्यै +++(=आपत्तः)+++।
द्रु॒हः पाशा॒न् निर्ऋ॑त्यै॒ च+उद॑मोचि ।
अहा॒ +++(=अहासीत्)+++ अव॑र्ति॒म् +++(=दारिद्र्यम्)+++, अवि॑दत् स्यो॒नम् +++(=सुस्वम्)+++।
अप्य॑भूद् भ॒द्रे सु॑कृ॒तस्य॑ लो॒के ।
०९ अमोचि यक्ष्माद्दुरितादवर्त्यै ...{Loading}...
मूलम्
अमो॑चि॒ यक्ष्मा॑द्दुरि॒तादव॑र्त्यै द्रु॒हः पाशा॒न्निर्ऋ॑त्यै॒ चोद॑मोचि ।
अहा॒ अव॑र्ति॒मवि॑दत्स्यो॒नमप्य॑भूद्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के ।
हरदत्तः
अमोचीति ॥ अयं कुमारः यक्ष्मात् दुरिताच्चामोचि । तथा अवर्त्यै अवर्त्याः पापात् आपतः । तथा द्रुहः पाशाश्च निर्ऋत्याश्च उदमोचि । अहाः अहासीत् अवर्ति वृत्त्यभावः अवर्तिः दारिद्र्यम् । अविदत् लब्धवान् स्योनं सुखम् । अपि च भद्रे सुकृतस्य पुण्यस्य लोके च अभूत् । य एवं मया स्नाप्यते स प्राप्त एव पुण्यलोकमिति भूतनिर्देशः ।
१० सूर्यमृतन्तमसो ग्राह्या ...{Loading}...
सूर्य॑म् ऋ॒तन् +++(=प्राप्तम्)+++ तम॑सो॒ ग्राह्या॒
यद् दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न् व्ये॑नसः +++(=व्यसृजन् एनसः)+++ ।
+++(प्रतिज्ञापूर्तिः- )+++
ए॒वम् अ॒हम् इ॒मं क्षे॑त्रि॒याज् +++(=आनुवंशिकाद् [रोगात्])+++ जा॑मिशँ॒साद् +++(=बन्धूक्ताद्)+++
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
१० सूर्यमृतन्तमसो ग्राह्या ...{Loading}...
मूलम्
सूर्य॑मृ॒तन्तम॑सो॒ ग्राह्या॒ यद्दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न्व्ये॑नसः ।
ए॒वम॒हमि॒मं क्षे॑त्रि॒याज्जा॑मिश॒ꣳ॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
हरदत्तः
सूर्यमिति ॥ सूर्यं देवं ऋतं प्राप्तं कैः? वक्ष्यमाणैस्तमादिभिः । तमसस्सकाशात् ग्राह्याः ग्रहणीरोगः ग्राहिर्जग्राह यदि वैतदेनम् इति दर्शनात् । तस्याश्च देवाः यत् यथा अमुञ्चन् एनसश्च व्यसृजन् तमेव सूर्यम् । तथा च ब्राह्मणम् - सुवर्भानुरासुरस्सूर्यं तमसा विध्यत्तस्मै देवाः प्रायश्चित्तिमैच्छन् इति एव महमिमं कुमारं क्षेत्रियात् जातिशंसात् जामीनामभिशापात् - जामयो यानि गेहननि शपन्त्यः पतिपूजिताः । तानि कृत्या हतानीव विनश्यन्ति समन्ततः ॥ इत्येवं निन्दितात् द्रुहो द्रुहश्च पुरुषात् वरुणस्य पाशान्मुञ्चामि । सर्वत्र मुचिरन्तर्भावितण्यर्थः ॥
११ भूस्स्वाहा भुवस्स्वाहा ...{Loading}...
भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहा। ॐ स्वाहा॑ ॥
११ भूस्स्वाहा भुवस्स्वाहा ...{Loading}...
मूलम्
भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहोꣳ स्वाहा॑ ॥ (१२)
हरदत्तः
ओंकारचतुर्थाभिः व्याहृतीभिः पृषदाज्यप्राशनम् - भूस्स्वाहेति ॥ गताः ॥ इति श्रीहृरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने द्वादशः खण्डः