2 11

०१ धाता ददातु ...{Loading}...

धा॒ता द॑दातु नो र॒यिम्
ईशा॑नो॒ जग॑त॒स्+++(!)+++पतिः॑ ।
स नः॑ पू॒र्णेन॑ वावनत् ।

ँश

०१ धाता ददातु ...{Loading}...

हरदत्तोक्त-विनियोगः

सीमन्तोन्नयने होममन्त्राः - धाता ददात्विति ॥

मूलम्

धा॒ता द॑दातु नो र॒यिम्
ईशा॑नो॒ जग॑त॒स्पतिः॑ ।
स नः॑ पू॒र्णेन॑ वावनत् ।

हरदत्तः

जगतः ईशानः पतिः पालयिता च स धाता नः अस्मभ्यं रयिं धनं ददातु । ददच्च सः नः अस्मान् पूर्णेन कामेन वावनत् । वन षण सम्भक्तौ पञ्चमो लकारः । यथा अस्मत्कामः पूर्यते तथा नः संभजेत ॥

भट्टभास्कर-टीका

धाता विश्वस्य धारयिता नोस्मभ्यं धनं ददातु । ईशानः सर्वार्थसाधनशक्तः । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वम् । जगतः पतिः पालयिता । ‘षष्ठ्याः पतिपुत्र’ इति सत्वम् । किञ्च - स देवोस्मान् पूर्णेन पूरणाय वावनत् संभजताम्, अत्यर्थं परिगृह्णात्वस्मानिति । यद्वा - पूर्णेन आप्यायितेन नो ऽस्मान्योजयतु । वनतेर्लेटि शपः श्लुः, लेटोडागमः, तुजादित्वादभ्यासस्य दीर्घत्वम् ॥

०२ धाता प्रजाया ...{Loading}...

धा॒ता प्र॒जाया॑ उ॒त रा॒य ई॑शे +++(=ईष्टे)+++
धा॒तेदं विश्व॒म् भुव॑नं जजान ।
धा॒ता पु॒त्रं यज॑मानाय॒ दाता॑
तस्मा॑ उ ह॒व्यं घृ॒तव॑द् विधेम ।

ँश

०२ धाता प्रजाया ...{Loading}...

मूलम्

धा॒ता प्र॒जाया॑ उ॒त रा॒य ई॑शे
धा॒तेदं विश्व॒म्भुव॑नं जजान ।
धा॒ता पु॒त्रं यज॑मानाय॒ दाता॑
तस्मा॑ उ ह॒व्यं घृ॒तव॑द्विधेम ।

हरदत्तः

धातेति ॥ स एव धाता प्रजायाः उत रायः धनस्यापि ईशे ईष्टो । धातैव इदं विश्वं भुवनं जजान अन्तर्भावितण्यर्थो जनिः जनयामास । धातैव च यजमानाय च पुत्रं दाता । तृन्नन्तमेतत् । तस्मै एवम्भूताय धात्रे घृतवत् घृतयुक्तं हव्यं विधेम । विदधाति रन्यत्र परिचरणकर्मा इह तु दाने द्रष्टव्यः । दद्याम् । विभक्ति व्यत्ययो वा घृतवता हव्येन तं परिचरेमेति । उशब्दोनर्थकः ॥

भट्टभास्कर-टीका

धाता प्रजायाः पुत्रादेः उत अपि च रायो धनस्य च ईशे ईष्टे । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । इद विश्वं भुवनं भूतजातं धाता जनान जनयामास । ण्यन्ताल्लिटि ‘बहुलमन्यत्रापि’ इति णिलुक् । धातेव पुत्रं यजमानाय दाता ताच्छील्येन ददाति । तस्मा उ तस्मा एव देवाय हव्यमिदं घृतवत् घृतयुक्तं विधेम दद्मः । विध विधाने, तौदादिकः ॥

०३ धाता ददातु ...{Loading}...

धा॒ता द॑दातु नो र॒यिम्
प्राचीं॑ जी॒वातु॒म् अक्षि॑ताम् ।
व॒यं दे॒वस्य॑ धीमहि
सुम॒तिँ स॒त्य-रा॑धसः+++(=धनस्य)+++ ।

ँश

०३ धाता ददातु ...{Loading}...

मूलम्

धा॒ता द॑दातु नो र॒यिम्
प्राचीं॑ जी॒वातु॒मक्षि॑ताम् ।
व॒यं दे॒वस्य॑ धीमहि
सुम॒तिँ स॒त्य-रा॑धसः।

हरदत्तः

धातेति । स एव धाता न रयिं ददातु । कीदृशीं? प्राचीं प्राक्कालभवां क्रमागतां यादृशी पूर्वेषां तादृशीमित्यर्थः । जीवातुं जीवनाय पर्याप्तां अक्षितां क्षयरहिताम् । वयं तस्य देवस्य धातुः सुमतिं शोभनां मतिं भक्तेष्वनुग्रहात्मिकां बुद्धिं धीमहि ध्यायामः सत्यराधसः सत्यधनस्य ॥

भट्टभास्कर-टीका

धाता ददातु नो रयिम् । गतम् । प्राचीं प्रकृष्टगमनां अनुगुणां जीवातुं जीवनार्थं जीवनाय पर्याप्तम् । जीवेरातुप्रत्ययः । अक्षितां अक्षीणां, ततश्च तेनैव धनेन वयं देवस्य सवितुः सत्यराधसः सत्यधनस्य सुमतिं शोभनमतिं, कम्? यागम् । धीमहि धारयामः तं यजेमहीत्यर्थः । धीङ् आधारे, शपो लुक् । यद्वा - देवस्य धातुः कल्याणीं मतिं तद्विषयां कल्याणीं बुद्धिं तां धीमहि कुर्मः ॥

०४ धाता ददातु ...{Loading}...

धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि
प्र॒जाका॑माय मी॒ढुषे॑ +++(=सेक्त्रे)+++ दुरो॒णे +++(=दारेषु)+++ ।
तस्मै॑ दे॒वा अ॒मृताः॒ सं व्य॑यन्तां॒ +++(=ददतु)+++
विश्वे॑ दे॒वासो॒ अदि॑तिः स॒जोषाः॑ ।

ँश

०४ धाता ददातु ...{Loading}...

मूलम्

धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि
प्र॒जाका॑माय मी॒ढुषे॑ दुरो॒णे ।
तस्मै॑ दे॒वा अ॒मृताः॒ सं व्य॑यन्तां॒
विश्वे॑ दे॒वासो॒ अदि॑तिः स॒जोषाः॑ ।

हरदत्तः

धातेति ॥ स एव धाता दाशुषे दाशु दाने चरुपुरोडाशादीनां दात्रे मह्यं वसूनि धनानि ददातु प्रजारूपं मम धनं विवक्षितं प्रजाकामाय इति वचनात् । प्रजाकामाय मीढुषे रेतस्सेक्त्रे दुरोणे । दुरोणामिति गृहनाम, इह तु न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते इति न्यायेन भार्यायां वर्तते । योऽहं प्रजाकामो भूत्वा भार्यायां रेतस्सिञ्चामि तस्मै मह्यं प्रजां ददात्विति समुदायार्थः । तस्मा एव मह्यं देवा अपि अमृताः अमरणधर्माणः संव्ययन्तां व्ययशिर्दानकर्मणि ?, ददतु । देवा इति वचनं कतिपयेष्वेव पर्यवस्येत् तदर्थमाह - विश्वे देवास इति । अदितिश्च सजोषाः समानप्रीतिः ॥

भट्टभास्कर-टीका

धाता हवींषि दाशुषे हविर्दत्तवते यजमानाय वसूनि धनानि प्रजार्थानि ददातु प्रजाकामाय प्रजानां कामयमानाय । ‘शीलिकामि’ इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वं च । मीढुषे मेहनसमर्थाय दुरोणे दुःखेनापयितव्ये गृहे वर्तमानाय गृहस्थाय । यद्वा - दुरोणे यज्ञगृहे मीढुषे हविस्सिक्तवते तस्मै देवा अमृता अमरणाः संव्ययन्तां संहत्य वसूनि ददातु, विश्वेदेवाश्च गणाः सजोषाः, अदितिश्च सजोषा समानप्रीतिः । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ॥

०५ यस्त्वा हृदा ...{Loading}...

१० यस्त्वा हृदा ...{Loading}...

य᳓स् त्वा हृदा᳓ कीरि᳓णा +++(=स्तोत्रिणा)+++ म᳓न्यमानो᳓
ऽमर्त्यं म᳓र्त्यो जो᳓हवीमि
जा᳓तवेदो य᳓शो अस्मा᳓सु धेहि
प्रजा᳓भिर् अग्ने अमृतत्व᳓म् अश्याम्

ँश

०५ यस्त्वा हृदा ...{Loading}...

मूलम्

यस्त्वा॑ हृ॒दा की॒रिणा॒ +++(=स्तत्रिणा)+++ मन्य॑मा॒नो
ऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि ।
जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि
प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ॥

010 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वसुश्रुत आत्रेयः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

य᳓स् त्वा हृदा᳓ कीरि᳓णा म᳓न्यमानो
अ᳓मर्तियम् म᳓र्तियो जो᳓हवीमि
जा᳓तवेदो य᳓शो अस्मा᳓सु धेहि
प्रजा᳓भिर् अग्ने अमृतत्व᳓म् अश्याम्

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M
genre M


Morph
hr̥dā́ ← hā́rdi ~ hr̥d- (nominal stem)
{case:INS, gender:N, number:SG}

kīríṇā ← kīrín- (nominal stem)
{case:INS, gender:M, number:SG}

mányamānaḥ ← √man- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

ámartyam ← ámartya- (nominal stem)
{case:ACC, gender:M, number:SG}

jóhavīmi ← √hū- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}

mártyaḥ ← mártya- (nominal stem)
{case:NOM, gender:M, number:SG}

asmā́su ← ahám (pronoun)
{case:LOC, number:PL}

dhehi ← √dhā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

jā́tavedaḥ ← jātávedas- (nominal stem)
{case:VOC, gender:M, number:SG}

yáśaḥ ← yáśas- (nominal stem)
{case:NOM, gender:N, number:SG}

agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

amr̥tatvám ← amr̥tatvá- (nominal stem)
{case:NOM, gender:N, number:SG}

aśyām ← √naś- 1 (root)
{number:SG, person:1, mood:OPT, tense:AOR, voice:ACT}

prajā́bhiḥ ← prajā́- (nominal stem)
{case:INS, gender:F, number:PL}

पद-पाठः

यः । त्वा॒ । हृ॒दा । की॒रिणा॑ । मन्य॑मानः । अम॑र्त्यम् । मर्त्यः॑ । जोह॑वीमि ।
जात॑ऽवेदः । यशः॑ । अ॒स्मासु॑ । धे॒हि॒ । प्र॒ऽजाभिः॑ । अ॒ग्ने॒ । अ॒मृ॒त॒ऽत्वम् । अ॒श्या॒म् ॥

Hellwig Grammar
  • yasyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • tvātvad
  • [noun], instrumental, singular
  • “you.”

  • hṛdāhṛd
  • [noun], instrumental, singular, neuter
  • “heart; heart; mind; breast; hṛd [word].”

  • kīriṇākīrin
  • [noun], instrumental, singular, neuter
  • “singing.”

  • manyamānomanyamānaḥman
  • [verb noun], nominative, singular
  • “think of; name; believe; teach; honor; deem; recommend; approve; think; define; call; respect; believe; enumerate; understand; see; describe.”

  • ‘martyamamartyamamartya
  • [noun], accusative, singular, masculine
  • “immortal.”

  • martyomartyaḥmartya
  • [noun], nominative, singular, masculine
  • “mortal.”

  • johavīmijohav√hvā
  • [verb], singular, Present indikative
  • “appeal.”

  • jātavedojātavedaḥjātavedas
  • [noun], vocative, singular, masculine
  • “Agni; fire.”

  • yaśoyaśaḥyaśas
  • [noun], accusative, singular, neuter
  • “fame; Yaśas.”

  • asmāsumad
  • [noun], locative, plural
  • “I; mine.”

  • dhehidhā
  • [verb], singular, Present imperative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • prajābhirprajābhiḥprajā
  • [noun], instrumental, plural, feminine
  • “people; offspring; being; national; man; prajā [word]; creature; child; descendants; population; race; animal.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • amṛtatvamamṛta
  • [noun]
  • “immortal; amṛta; imperishable.”

  • amṛtatvamtvamtva
  • [noun], accusative, singular, neuter
  • “state; quality; cause; reason.”

  • aśyām
  • [verb], singular, Aorist optative
  • “get; reach; enter (a state).”

सायण-भाष्यम्

यः मर्त्यः मरणधर्माहम् अमर्त्यम् अविनाशं त्वा त्वां कीरिणा स्तुत्यादिषु विक्षिप्तेन हृदा हृदयेन युक्तः मन्यमानः स्तुवन् जोहवीमि अत्यर्थमाह्वयामि । यद्वा । स्तोतृवाचकेन कीरिणाशब्देन स्तुतिरुपलक्ष्यते । स्तुतियुक्तेन मनसा त्वां मन्यमानो जोहवीमि । हे जातवेदः यशः धनं प्रजां वा अस्मासु धेहिप्रजाभिः त्वद्दत्ताभिर्हे अग्ने अहम् अमृतत्वं संतत्यविच्छेदलक्षणम् अश्यां प्राप्नुयाम् । प्रजामनु प्रजायसे तदु ते मर्त्यामृतम्’ (तै. ब्रा. १. ५. ५. ६ ) इति हि श्रुतिः ॥

भट्टभास्कर-टीका

यस्त्वेति त्रिष्टुप् । इयादेशद्वयेन तृतीयपादः पूर्यः ॥ हे अग्ने जातवेदः जातानां वेदितः जातधन वा, योहं मर्त्यः मरणधर्मा मनुष्यः त्वाममर्त्यममरणधर्माणं हृदा मनसा कीरिणा कीर्तयता गुणकीर्तनशीलेन । कीर्तयतेर्ण्यन्तात् ‘अच इः’ इतीप्रत्यये धातोरन्त्यलोपश्छान्दसः । ईदृशेन हृदयेन त्वां मन्यमानः जानन् जोहवीमि भृशमाह्वयामि । ह्वयतेः ‘अभ्यस्तस्य च’ इति सम्प्रसारणम् । यद्वा - त्वदर्थमिदं हविर्जुहोमि । उभयत्रापि यङ्लुगन्ताल्लट्, ‘अनुदात्ते च’ इत्याद्युदात्तत्वम् ।

येषां सम्बन्धी तवाह्वाताहं, तेष्वस्मासु पुत्रपौत्रेषु यशो धेहि स्थापय यशस्विनस्सर्वानस्मान्कुरु । किञ्च - ताभिः प्रजाभिः षुत्रादिभिरविच्छिन्नाभिस्सहाहममृतत्वं दीर्घायुष्यमश्यां प्राप्नुउयाम् । व्यत्ययेन परस्मैपदम् ॥

हरदत्तः

यस्त्वा हृदेति ॥ हे अग्ने । जातवेदः यः अहं मर्त्यः त्वां अमर्त्यं मन्यमानः मरणधर्माणं माममरणधर्मा रक्षितुं समर्थ इति मन्यमानः कीरिणा हृदा कीरिरिति स्तोत्रनाम, स्तुतिपरेण मनसा जोहवीमि आह्वयामि । यच्छब्दश्रुतेः तच्छब्दोऽध्याहार्यः । तस्मिन् आस्मासु, वचनव्यत्ययः तस्मिन्मयि यशः अन्नं कीर्तिं वा धेहि स्थापय । किञ्च - प्रजाभिरमृतत्वं अश्यां प्राप्नुयां प्रजामनु प्रजायसे । तदु ते मर्त्या मृतम् इति श्रुतेः ॥

Wilson

English translation:

“Inasmuch as I who am a mortal earnestly invoke you who are an immortal, praising you with a devoted heart; therefore, Jātavedas, grant us food, and may I obtain immortality through my posterity.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Immortality: an unbroken succession of descendants, amṛtatvam santatyaviccheda lakṣaṇam (amṛtatvam = tadu te partyāmṛtam : Taittirīya Brāhmaṇa 1.5.5.6); another text may be cited: prajām anu prajāyate tad u te martyamṛtam, when progeny is born after progeny, that verily is the immortality of your mortality

Jamison Brereton

Thinking with a simple heart, I, a mortal, who repeatedly invoke you, an immortal—
among us grant glory, o Jātavedas. May I attain immortality through offspring, o Agni.

Griffith

As I, remembering thee with grateful spirit, a mortal, call with might on thee Immortal,
Vouchsafe us high renown, O Jatavedas, and may I be immortal by my children.

Oldenberg

When I, the mortal, call thee, the immortal, thinking of thee with humble mind 1, bestow glory on us, O Gâtavedas; may I attain immortality, O Agni, with my offspring.

Keith

I who deeming thee immortal,
Mortal myself, call on thee with prayerful heart.
Upon us, O wise one, bestow glory;
O Agni, through offspring may I attain immortality.

Geldner

Wenn ich mit dem bloßen Herzen deiner gedenkend, ich der Sterbliche nach dir dem Unsterblichen rufe, so verleih uns, o Jatavedas, Ehre! Durch Kinder möchte ich, Agni, Unsterblichkeit erlangen.

Grassmann

Der dankerfüllten Herzens dein gedenkend, ich Sterblicher dich rufe, der unsterblich; O Wesenkenner schenke hohen Ruhm uns und lass durch Kinder mich unsterblich werden.

Elizarenkova

Думая о тебе от чистого сердца,
Когда я, смертный, зову тебя, бессмертного –
О Джатаведас, дай нам славу!
Пусть достигну я, о Агни, бессмертия через потомство!

अधिमन्त्रम् (VC)
  • अग्निः
  • वसुश्रुत आत्रेयः
  • भुरिक्पङ्क्ति
  • पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (जातवेदः) विज्ञान से युक्त (अग्ने) अग्नि के सदृश वर्तमान राजन् ! (यः) जो (मन्यमानः) जानता हुआ (मर्त्यः) मनुष्य मैं (हृदा) अन्तःकरण और (कीरिणा) स्तुति करनेवाले से (अमर्त्यम्) मरणधर्म्म से रहित (त्वा) आपकी (जोहवीमि) अत्यन्त स्पर्द्धा करूँ और जैसे (प्रजाभिः) पालन करने योग्य प्रजाओं के साथ (अमृतत्वम्) मोक्षभाव को (अश्याम्) प्राप्त होऊँ, वैसे (अस्मासु) हम लोगों में (यशः) कीर्त्ति को (धेहि) धरिये, स्थापन कीजिये ॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जैसे प्रजायें राजा के हित को सिद्ध करती हैं, वैसे ही राजा प्रजा के सुख की इच्छा करें। इस प्रकार परस्पर प्रीति से अतुल सुख को प्राप्त होवें ॥१०॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे जातवेदोऽग्ने ! यो मन्यमानो मर्त्योऽहं हृदा कीरिणामर्त्यं त्वा जोहवीमि यथा प्रजाभिः सहाऽमृतत्वमश्यां तथाऽस्मासु यशो धेहि ॥१०॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (यः) (त्वा) त्वाम् (हृदा) (कीरिणा) स्तावकेन। कीरिरिति स्तोतृनामसु पठितम्। (निघं०३.१६)। (मन्यमानः) विजानन् (अमर्त्यम्) मरणधर्मरहितम् (मर्त्यः) मनुष्यः (जोहवीमि) भृशं स्पर्द्धे (जातवेदः) जातविज्ञान (यशः) कीर्त्तिम् (अस्मासु) (धेहि) (प्रजाभिः) पालनीयाभिस्सह (अग्ने) पावकवद्वर्त्तमान राजन् (अमृतत्वम्) मोक्षभावम् (अश्याम्) प्राप्नुयाम् ॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यथा प्रजा राजहितं साध्नुवन्ति तथैव राजा प्रजासुखमिच्छेदेवं परस्परप्रीत्याऽतुलं सुखं प्राप्नुवन्तु ॥१०॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जशी प्रजा राजाचे हित करते तसे राजाने प्रजेचे सुख इच्छावे. या प्रकारे परस्पर प्रीतीने अमाप सुख प्राप्त करावे. ॥ १० ॥

०६ यस्मै त्वम् ...{Loading}...

११ यस्मै त्वं ...{Loading}...

य᳓स्मै त्वँ᳓ सुकृ᳓ते जातवेद उ᳓
लोक᳓म् अग्ने कृण᳓वः +++(=कुर्याः)+++ स्योन᳓म् +++(सुखमयम्)+++।
अश्वि᳓नँ स᳓ पुत्रि᳓णं वीर᳓वन्तं
गो᳓मन्तँ रयिं᳓ नशते +++(=प्राप्नोति)+++ स्वस्ति᳓ ॥

ँश

०६ यस्मै त्वम् ...{Loading}...

मूलम्

यस्मै॒ त्वँ सु॒कृते॑ जातवेद॒ उ
लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् ।
अ॒श्विनँ॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒
गोम॑न्तँ र॒यिं न॑शते स्व॒स्ति ॥

011 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वसुश्रुत आत्रेयः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

य᳓स्मै तुवं᳓ सुकृ᳓ते जातवेद
उलोक᳓म्† अग्ने कृण᳓वः सियोन᳓म्
अश्वि᳓नं स᳓ पुतृ᳓णं वीर᳓वन्तं
गो᳓मन्तं रयिं᳓ नशते सुअस्ति᳓

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M
genre M


Morph
jātavedaḥ ← jātávedas- (nominal stem)
{case:VOC, gender:M, number:SG}

sukŕ̥te ← sukŕ̥t- (nominal stem)
{case:DAT, gender:M, number:SG}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

yásmai ← yá- (pronoun)
{case:DAT, gender:M, number:SG}

agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

kr̥ṇávaḥ ← √kr̥- (root)
{number:SG, person:2, mood:SBJV, tense:PRS, voice:ACT}

syonám ← syoná- (nominal stem)
{case:ACC, gender:M, number:SG}

ulokám ← uloká- (nominal stem)
{case:ACC, gender:M, number:SG}

aśvínam ← aśvín- (nominal stem)
{case:ACC, gender:M, number:SG}

putríṇam ← putrín- (nominal stem)
{case:ACC, gender:M, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

vīrávantam ← vīrávant- (nominal stem)
{case:ACC, gender:M, number:SG}

gómantam ← gómant- (nominal stem)
{case:ACC, gender:M, number:SG}

naśate ← √naś- 1 (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:MED}

rayím ← rayí- ~ rāy- (nominal stem)
{case:ACC, gender:M, number:SG}

svastí ← svastí- (nominal stem)
{case:ACC, gender:N, number:SG}

पद-पाठः

यस्मै॑ । त्वम् । सु॒ऽकृते॑ । जा॒त॒ऽवे॒दः॒ । ऊं॒ इति॑ । लो॒कम् । अ॒ग्ने॒ । कृ॒णवः॑ । स्यो॒नम् ।
अ॒श्विन॑म् । सः । पु॒त्रिण॑म् । वी॒रऽव॑न्तम् । गोऽम॑न्तम् । र॒यिम् । न॒श॒ते॒ । स्व॒स्ति ॥

Hellwig Grammar
  • yasmaiyad
  • [noun], dative, singular, masculine
  • “who; which; yat [pronoun].”

  • tvaṃtvamtvad
  • [noun], nominative, singular
  • “you.”

  • sukṛtesu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • sukṛtekṛtekṛt
  • [noun], dative, singular, masculine
  • “causing; making; performing; promotive; producing; doing; acting; writing; transforming; effecting.”

  • jātavedajātavedaḥjātavedas
  • [noun], vocative, singular, masculine
  • “Agni; fire.”

  • u
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

  • lokamloka
  • [noun], accusative, singular, masculine
  • “Loka; Earth; world; vernacular; people; room; world; Earth; loka [word]; space; Loka; topographic point; region; common sense.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • kṛṇavaḥkṛ
  • [verb], singular, Present conjunctive (subjunctive)
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • syonamsyona
  • [noun], accusative, singular, masculine
  • “benevolent; agreeable; pleasant; agreeable.”

  • aśvinaṃaśvinamaśvin
  • [noun], accusative, singular, masculine
  • “rich in horses; horsy.”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • putriṇaṃputriṇamputrin
  • [noun], accusative, singular, masculine

  • vīravantaṃvīravantamvīravat
  • [noun], accusative, singular, masculine
  • “rich in men.”

  • gomantaṃgomantamgomat
  • [noun], accusative, singular, masculine
  • “rich in cattle; bovine.”

  • rayiṃrayimrayi
  • [noun], accusative, singular, masculine
  • “wealth; property.”

  • naśatenaś
  • [verb], singular, Present indikative
  • “reach; achieve; enter (a state); reach.”

  • svasti
  • [noun], accusative, singular, neuter
  • “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”

सायण-भाष्यम्

हे जातवेदः अग्ने त्वं यस्मै सुकृते सुकर्मणे यजमानाय । इति पूरणः । लोकं स्योनं सुखकरं कृणवः अकरोः । यद्वा । लोकमालोकेन स्योनं कृणवः अनुग्रहेण कुर्वित्यर्थः । सः यजमान: अश्विनं बह्वश्वोपेतं पुत्रिणं बहुपुत्रोपेतं वीरवन्तं वीरैर्वीर्येण वा उपेतं गोमन्तं गोभिर्युक्तं रयिं धनं नशते प्राप्नोति । स्वस्ति अविनश्वरम् ॥ ॥ १९ ॥

भट्टभास्कर-टीका

वीरवन्तमिति तृतीयपादान्तः ॥ हे अग्ने जातवेदः यस्मै सुकृते शोभनानि कर्माणि कृतवते । उ इत्यवधारणे । (यस्त्वा समिष्टयजूंषि ‘उकाररूपः प्लुत उदात्तः’ इत्युदात्तः प्लुतः ।) यस्मा एव यदर्थमेव स्योनं सुखं लोकं स्थानं कृणवः कुर्याः । कृवि हिंसाकरणयोः, लेट्, ‘धिन्विकृण्व्योर च’ इत्युप्रत्ययः, ‘लेटोडाटौ’ इत्यडागमः । स एव अश्वादिसहितं रयिं धनं स्वस्ति अविच्छेदेन नशते प्राप्नोति । नशतिर्गतिकर्मा । स एव त्वत्प्रसादाद्बह्वश्वो भवति, अश्वपुत्रपौत्रादिमांश्च भवति, अन्यैश्च विक्रान्तैः पुरुषैस्तद्वान् भवति, गोमहिष्यादिसङ्घातस्वामी महाधनश्च भवतीति ॥

हरदत्तः

यस्मा इति ॥ हे अग्ने जातवेदः त्वं यस्मै सुकृते पुरुषाय स्योनं सुखात्मकं लोकं कृणवः कुर्याः । उशब्दोऽनर्थकः । सः अश्विनं अश्वयुक्तं पुत्रिणं पुत्रैश्च युक्तं वीरवन्तं शूरैः परिचारकपुरुषैः पौत्रैर्वा युक्तम् । वीरशब्दः पौत्रवचनः पुत्रिणामीत्युक्तत्वात् । गोमन्तं च रयिं धनं च नशते प्राप्नोति स्वस्ति यथा तथा ॥

Wilson

English translation:

“Upon whatsoever performer of good works you, Agni, who are Jātavedas, cast a favourable regard, he enjoys welfare, and riches, comprehending horses, cattle, sons and male descendants.”

Jamison Brereton

For whom you will make a wide, comfortable place, o Jātavedas, since he acts rightly toward you, o Agni,
he will attain a wealth of horses, sons, heroes, and cattle for his
well-being.

Griffith

The pious man, O Jatavedas Agni, to whom thou grantest ample room and pleasure,
Gaineth abundant wealth with sons and horses, with heroes and with kine for his well-being.

Oldenberg

The well-doer to whom thou, O Agni Gâtavedas, createst pleasant freedom, will happily attain wealth with horses and sons, with valiant men and cows.

Keith

He, for whom, O Agni, thou dost make, O wise one,
For his good deeds a kindly world,
Shall win prosperity and wealth,
Rich in sons, in heroes, in kine.

Geldner

Der Fromme, dem du, Agni Jatavedas, seinen Platz angenehm machen willst, der kommt glücklich zu einem Schatz von Rossen, Söhnen, Mannen, Rindern.

Grassmann

O Wesenkenner, welchem frommen Manne du Raum verschaffst und Lust gewährst, o Agni, Der findet Glück und Habe, die mit Söhnen, mit Männern, Rossen, Rindern reich versehn ist.

Elizarenkova

(Если) какому благочестивому (смертному), о Джатаведас,
Ты хочешь создать приятное место (в жизни),
Он достигнет богатства, состоящего из коней,
Из сыновей, из героев – на счастье.

अधिमन्त्रम् (VC)
  • अग्निः
  • वसुश्रुत आत्रेयः
  • भुरिक्पङ्क्ति
  • पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (जातवेदः) बुद्धि से युक्त (अग्ने) विद्वन् (त्वम्) आप (यस्मै) जिस (सुकृते) धर्मात्मा के लिये (स्योनम्) सुख का कारण (लोकम्) देखने योग्य (कृणवः) करते हो (सः, उ) वही (अश्विनम्) अच्छे घोड़े आदि पदार्थों (पुत्रिणम्) अच्छे पुत्रों (वीरवन्तम्) बहुत वीरों तथा (गोमन्तम्) बहुत गौ आदिकों के सहित (स्वस्ति) सुखस्वरूप (रयिम्) धन को (नशते) प्राप्त होता है ॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन् ! जो आप विद्या और विनय से प्रजाओं को पुत्र आदि ऐश्वर्य्यों से युक्त करें तो ये प्रजायें आपका अति सत्कार करें ॥११॥ इस सूक्त में राजा और प्रजा के गुण वर्णन करने से इस सूक्त के अर्थ की इस से पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥ यह चौथा सूक्त और उन्नीसवाँ वर्ग समाप्त हुआ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे जातवेदोऽग्ने ! त्वं यस्मै सुकते स्योनं लोकं कृणवः स उ अश्विनं पुत्रिणं वीरवन्तं गोमन्तं स्वस्ति रयिं नशते ॥११॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (यस्मै) (त्वम्) (सुकृते) धर्मात्मने (जातवेदः) जातप्रज्ञ (उ) (लोकम्) द्रष्टव्यम् (अग्ने) विद्वन् (कृणवः) करोषि (स्योनम्) सुखकारणम् (अश्विनम्) प्रशस्ताश्वादियुक्तम् (सः) (पुत्रिणम्) प्रशस्तपुत्रयुक्तम् (वीरवन्तम्) बहुवीराढ्यम् (गोमन्तम्) बहुगवादिसहितम् (रयिम्) धनम् (नशते) प्राप्नोति (स्वस्ति) सुखमयम् ॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन् ! यदि भवान् विद्याविनयाभ्यां प्रजाः पुत्राद्यैश्वर्ययुक्ताः कुर्यात् तर्हीमाः प्रजा भवन्तमतिमन्येरन्निति ॥११॥ अत्र राजप्रजागुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति चतुर्थं सूक्तमेकोनविंशो वर्गश्च समाप्तः ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे राजा ! जर तू विद्या व विनयाने प्रजेला ऐश्वर्याने युक्त केलेस तर प्रजा तुझा सत्कार करील. ॥ ११ ॥

०७ त्वे सु ...{Loading}...

१४ त्वे सु ...{Loading}...

त्वे᳓ सु᳓ पुत्त्र +++(आमन्त्रिताङ्गत्वाद् अनुदात्तः←)+++शवसो᳓
ऽवृत्रन् +++(=अवर्तन्त)+++ का᳓म-कातयः +++(=काम-कामनाः [सुतयः])+++ ।
न᳓ त्वा᳓म् इन्द्रा᳓ति रिच्यते ।।

ँश

०७ त्वे सु ...{Loading}...

मूलम्

त्वे सु पु॑त्त्र शव॒सो
ऽवृ॑त्र॒न् काम॑-कातयः ।
न त्वामि॒न्द्राति॑ रिच्यते ॥

014 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - श्रुतकक्षः सुकक्षो वा
  • छन्दः - गायत्री
Thomson & Solcum

तुवे᳓ सु᳓ पुत्र शवसो
अ᳓वृत्रन् का᳓मकातयः
न᳓ त्वा᳓म् इन्द्रा᳓ति रिच्यते

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M


Morph
putra ← putrá- (nominal stem)
{case:VOC, gender:M, number:SG}

śavasaḥ ← śávas- (nominal stem)
{case:GEN, gender:N, number:SG}

sú ← sú (invariable)

tvé ← tvám (pronoun)
{case:LOC, number:SG}

ávr̥tran ← √vr̥t- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:MED}

kā́makātayaḥ ← kā́makāti- (nominal stem)
{case:NOM, gender:M, number:PL}

áti ← áti (invariable)

indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}

ná ← ná (invariable)

ricyate ← √ric- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

tvā́m ← tvám (pronoun)
{case:ACC, number:SG}

पद-पाठः

त्वे इति॑ । सु । पु॒त्र॒ । श॒व॒सः॒ । अवृ॑त्रन् । काम॑ऽकातयः ।
न । त्वाम् । इ॒न्द्र॒ । अति॑ । रि॒च्य॒ते॒ ॥

Hellwig Grammar
  • tvetvad
  • [noun], locative, singular
  • “you.”

  • su
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • putra
  • [noun], vocative, singular, masculine
  • “son; putra [word]; male child; Putra; Bodhisattva.”

  • śavasośavasaḥśavas
  • [noun], genitive, singular, neuter
  • “strength; power; superiority.”

  • ‘vṛtranavṛtranvṛt
  • [verb], plural, Root aorist (Ind.)
  • “behave; happen; exist; return; dwell; die; roll; continue; act; exist; feed on; issue; move; travel; proceed; turn; situate; drive; account for; begin; do; inhere; revolve.”

  • kāmakātayaḥkāma
  • [noun], masculine
  • “wish; desire; sexual love; sexual desire; desire; Kama; sensuality; love; purpose; sexual arousal; pleasure; enjoyment; licentiousness; kāma [word]; sexual intercourse; thorn apple; wish.”

  • kāmakātayaḥkātayaḥkāti
  • [noun], nominative, plural, masculine

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • tvāmtvad
  • [noun], accusative, singular
  • “you.”

  • indrātiindra
  • [noun], vocative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • indrātiati
  • [adverb]
  • “very; excessively; beyond; excessively.”

  • ricyateric
  • [verb], singular, Indikativ Pr¦s. Passiv
  • “empty; liberate; concede; surrender; purge.”

सायण-भाष्यम्

हे शवसःपुत्र बलनिमित्तमुत्पन्नत्वाद्वलस्य पुत्रेन्द्र कामकातयः । ‘कै गै रै शब्दे’। कामपराः कातयः शब्दाः येषां भवन्ति ते तथोक्ताः । तादृशा मनुष्याः त्वे त्वयि सु अवृत्रन् स्वस्वकामाभिपूरणार्थं सुष्ठु वर्तन्ते । तस्मान्मर्त्यत्वानि कामोपेतानि इत्युत्पन्नम्। ‘वृतु वर्तने’। लङि छान्दसो विकरणस्य लुक् । ‘बहुलं छन्दसि’ इति रुडागमः । यत एवं ततो हे इन्द्र त्वां कश्चिदपि देवः अति रिच्यते । बलेन धनेन वातिरिक्तः समर्थो नास्ति ।

भट्टभास्कर-टीका

त्वे त्वयि । ‘सुपां सुलुक्’ इति सप्तम्येकवचनस्य शेआदेशः । हे शवसो बलस्य पुत्र । महाबलश्च बलाज्जात इत्युपचर्यते । ‘परम् अपि च्छन्दसि’ इति परमपि षष्ठ्यन्तं पूर्वमामन्त्रितं प्रत्यङ्गवद्भवतीति षष्ठ्यन्तामन्त्रित-समुदायस्याष्टमिकम् +++(→८.१.१९)+++ आमन्त्रित-सर्वानुदात्तत्वम् ।
कामकातयस् सुतयः कामा वाञ्छितानि कायन्ते प्रार्थ्यन्ते याभिस्ताः कामकातयः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । तास्त्वय्येव स्ववृत्रन् शोभनं वर्तन्ते त्वय्येव महाबले क्रियमाणास्सुतुतयश्शोभन्ते, न पुरुषान्तरवदनर्थकाभिधानतां प्रतिपद्यन्ते । वृतेश्छान्दसो लुङ्, ‘द्युद्भ्यो लङि’ इति परस्मैपदम्, द्युतादित्वादङ्, ‘बहुळं छन्दसि’ इति रुट् । यदुक्तं त्वय्येव स्तुतयश्शोभनवृत्तय इति तदेव समर्थयते - हे इन्द्र तासां स्तुतीनां मध्ये एकापि त्वां नातिरिच्यते त्वां विहाय न प्रवर्तते सर्वा अपि त्वद्विषया एवात्मानं लभन्ते ॥

हरदत्तः

त्वे सु पुत्रेति ॥ हे शवसः पुत्र । शव इति बलनाम, तस्य पुत्र बलातिशयप्रतिपादनपरं चैतत् । बलवतोपि तावत्पुत्रो बलवान्भवति, किंपुनर्बलस्यैव पुत्र इति । दृश्यते चान्यत्रापीदृशं इन्द्रस्याभिधानम् । तद्यथा ओजसो जातमुत मन्य एनम् इति । त्वे त्वयि स्ववृत्रन् वृतेर्लुङि द्युतादित्वादङि बहुलं छन्दसि इति रुटि रूपम् । सुष्ठु वर्तन्ते । काः? कामकातयः काम्यन्त इति कामाः तेषां कातयः कामनाः सर्वेषामेव कामानां कामनास्त्वयि वर्तन्ते । त्वमेव तेषां दातेत्यर्थः । अतश्च न त्वामिन्द्रातिरिच्यते त्वत्तोऽधिकः कश्चिदपि नास्तीत्यर्थः ॥

Wilson

English translation:

“O son of strength, men, uttering their desires, abide happily in you, none, Indra, surpasses you.”

Jamison Brereton

To you, o son of strength, the desirers of desires have turned. Nothing surpasses you, Indra.

Griffith

Those, Son of Strength, are come to thee who cherish wishes in their hearts
O Indra, none excelleth thee.

Keith

To thee, O son of strength, they turn
Who have desires to be fulfilled;
None excelleth thee, O Indra.

Geldner

An dich haben sich baß die Wunschwünscher gewandt, o Sohn der Stärke. Über dich, Indra geht nichts.

Grassmann

Es wandten sich, o Herr der Kraft, zu dir sogleich die wünschenden; Nichts überragt, o Indra, dich.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • श्रुतकक्षः सुकक्षो वा
  • विराड्गायत्री
  • षड्जः

०८ उक्थउक्थे सोम ...{Loading}...

०२ उक्थौक्थे सोम ...{Loading}...

उक्थ᳓उक्थे सो᳓म इ᳓न्द्रं ममाद
नीथे᳓नीथे +++(समाप्ते समाप्ते)+++ मघ᳓वानँ सुता᳓सः ।
य᳓द् ईँ᳓ सबा᳓धः पित᳓रं न᳓ पुत्राः᳓
समान᳓-दक्षा +++(=समानबलाः)+++ अ᳓वसे ह᳓वन्ते ।

ँश

०८ उक्थउक्थे सोम ...{Loading}...

मूलम्

उ॒क्थउ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद
नी॒थेनी॑थे म॒घवा॑नँ सु॒तासः॑ ।
यद् ईँ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः
स॑मा॒न-द॑क्षा॒ अव॑से॒ हव॑न्ते ।

०२ उक्थौक्थे सोम ...{Loading}...

उक्थ᳓उक्थे सो᳓म इ᳓न्द्रं ममाद
नीथे᳓नीथे +++(समाप्ते समाप्ते)+++ मघ᳓वानँ सुता᳓सः ।
य᳓द् ईँ᳓ सबा᳓धः पित᳓रं न᳓ पुत्राः᳓
समान᳓-दक्षा +++(=समानबलाः)+++ अ᳓वसे ह᳓वन्ते ।

०९ भूर्भुवस्सुवः ...{Loading}...

भूर् भुव॒स् सुवः॑

ँश

०९ भूर्भुवस्सुवः ...{Loading}...

मूलम्

भूर्भुव॒स्सुवः॑

हरदत्तः

सीमन्तोन्नयनमन्त्रेषु - व्याहृतयः ॥ गताः ॥

१० राकामहँ सुहवाँ ...{Loading}...

०४ राकामहं सुहवां ...{Loading}...

राका᳓म्+++(=पूर्णचन्द्रा पौर्णमासी)+++ अहँ᳓ सुह᳓वाँ+++(=स्वाह्वानाम्)+++ सुष्टुती᳓+++(त्या)+++ हुवे+++(=आह्वयामि)+++
शृणो᳓तु नस् सुभ᳓गा बो᳓धतु त्म᳓ना ।
सी᳓व्यत्व् अ᳓पस्+++(=कर्म / गर्भापः)+++ सूच्या᳓ ऽच्छिद्यमानया
द᳓दातु वीरँ᳓ शत᳓-दायम्+++(=दातारम्)+++ उक्थ्य᳙म्+++(=प्रशंसनीयम्)+++ । +++(र४)+++

ँश

१० राकामहँ सुहवाँ ...{Loading}...

मूलम्

रा॒काम॒हँ सु॒हवाँ॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नस्सु॒भगा॒ बोध॑तु॒ त्मना॑ ।
सीव्य॒त्वप॑स्सू॒च्याऽच्छि॑द्यमानया॒ ददा॑तु वी॒रँ श॒तदा॑यमु॒क्थ्य॑म् ।

हरदत्तः

राकामहमिति ॥ पूर्णचन्द्रा पौर्णमासी राका तां अहं सुहवां स्वाह्वानाम् । सुष्टुती । तृतीयैकवचनस्य पूर्वसवर्णः । सुष्टुत्या शोभनया स्तुत्या हुवे आह्वयामि । सा च शृणोतु नः अस्माकम् । षष्ठीनिर्देशात् आह्वानमिति शेषः । सुभगा सौभाग्ययुक्ता श्रुत्वा च बोधतु त्मना आत्मना बुध्यतां हृदये करोत्वित्यर्थः । तदनन्तरं च सीव्यत्वपः अप इति कर्मनाम, एतत्सीमन्तोन्नयनलक्षणं कर्म सीव्यतु छिद्रापिधानेन सुष्टु करोतु सूच्या सूचीस्थानीयया स्वया बुद्ध्या अच्छिद्यमानया क्वचिदप्यप्रतिहन्यमानया ददातु वीरं पुत्र नामैतत्, पुत्रं शतदायं बहूनां दातारम् । अण् कर्मणि च इति भविष्यति आकारान्तादण् प्रत्ययः उक्थ्यं प्रशंसनीयम् ॥

११ यास्ते राके ...{Loading}...

०५ यास्ते राके ...{Loading}...

या᳓स् ते राके सुमत᳓यस् सुपे᳓शसो
या᳓भिर् द᳓दासि दाशु᳓षे व᳓सूनि ।
ता᳓भिर् नो अद्य᳓ सुम᳓ना उपा᳓गहि
सहस्र-पोषँ᳓ सुभगे र᳓राणा

ँश

११ यास्ते राके ...{Loading}...

मूलम्

यास्ते॑ राके सुम॒तय॑स्सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि ।
ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षँ सु॑भगे॒ ररा॑णा ।

हरदत्तः

यास्त इति ॥ हे राके । सुपेशसः सुरूपायाः ते याः सुमतयः अनुग्रहात्मिका बुद्धयः याभिर्दाशुषे यजमानाय वसूनि ददासि, ताभिः सुमतिभिः नः अस्मान् सुमना भूत्वा उपागहि अद्यै वोपागच्छ । हे सुभगे । सहस्रपोषं बहुविधं पोषं रराण ददती ॥

१२ यौगन्धरिरेव नो ...{Loading}...

यौग॑न्धरिर् ए॒व नो॒ राजेति॒ साल्वी॑र् अवादिषुः ।
विवृ॑त्तचक्रा॒ आसी॑ना॒स् तीरे॑ण यमुने॒ तव॑ ।

ँश

१२ यौगन्धरिरेव नो ...{Loading}...

मूलम्

यौग॑न्धरिरे॒व नो॒ राजेति॒ साल्वी॑रवादिषुः ।
विवृ॑त्तचक्रा॒ आसी॑ना॒स्तीरे॑ण यमुने॒ तव॑ ।

हरदत्तः

यमुनातीरवासिनां वीणागानमन्त्रः -यौगन्धरिरिति । साल्वो नाम जनपदः तद्विषयवासिन्यः प्रजाः साल्वीः साल्व्यः यौगन्धरिः युगन्धरस्यापत्यं यौगन्धरिः एष एव नो राजेत्यवादिषुः वदन्ति विवृत्तचक्रः विविधं वृत्तं चक्रं राष्ट्रं यासां ताः एवम्भूतां भूत्वा हे यमुने । तव तीरेण तीरे आसीना इति ॥

१३ सोम एव ...{Loading}...

सोम॑ ए॒व नो॒ राजेत्य्
आ॑हुर्ब्राह्म॒णीः प्र॒जाः ।
विवृ॑त्त-चक्रा॒ आसी॑ना॒स्
तीरे॑णासौ॒+++(→उपजीव्यनदीनाम)+++ तव॑ ।

ँश

१३ सोम एव ...{Loading}...

मूलम्

सोम॑ ए॒व नो॒ राजेत्या॑हुर्ब्राह्म॒णीः प्र॒जाः ।
विवृ॑त्तचक्रा॒ आसी॑ना॒स्तीरे॑णासौ॒ तव॑ ।

हरदत्तः

सर्वासां ब्राह्मणीनां प्रजानां वीणागानमन्त्रः - सोम एवेति । ब्राह्मणीः ब्राह्मणजातीयाः प्रजाः सोम एव नो राजेत्याहुः । विवृत्त - चक्रा इत्यादि । गतम् । असावित्यत्र नद्या नामनिर्देशः संबुद्ध्या यामुपजीवन्ति तीरेण कावेरी तव इति ॥

१४ पुंसुवनमसि ...{Loading}...

पुँ॒ सु॒वन॑म् असि ।

ँश

१४ पुंसुवनमसि ...{Loading}...

मूलम्

पुँ॒सु॒वन॑मसि ।

हरदत्तः

पुंसवने दक्षिणे नासिकाछिद्रे न्यग्रोधशृङ्गारसमपि नयति - पुंसवन मसीति ॥ पुमान् सूयते येन तत्पुंसवनं तत्त्वमसि हे रस ॥

१५ आभिष्ट्वाहन् दशभिरभिमृशामि ...{Loading}...

+++(अङ्गुलीभिर्)+++ आ॒भिष् ट्वा॒ ऽहं द॒शभि॑र् अ॒भिमृ॑शामि॒ - दश॒मास्या॑य॒ सूत॑वे ।+++(र४)+++

ँश

१५ आभिष्ट्वाहन् दशभिरभिमृशामि ...{Loading}...

मूलम्

आ॒भिष्ट्वा॒हं द॒शभि॑र॒भिमृ॑शामि॒ दश॒मास्या॑य॒ सूत॑वे ।

हरदत्तः

क्षिप्रपुंसवने यजुषाऽभिमर्शनम् - आभिष्ठ्वाऽहमिति ॥ स्त्रीलिङ्गनिर्देशाद्दशभिरिति लिङ्गाश्च अङ्गुळीभिरिति गम्यते । आभिः दशभिः अङ्गुळीभिः त्वां अहं अभिमृशामि दशमास्याय । द्वितीयार्थे चतुर्थी । दशमासान् भृतं गर्भं सूतवे क्षिप्रं सोतुम् ॥

१६ यथैव सोमः ...{Loading}...

मन्त्रः

  • यथै॒व सोमः॒ पव॑ते॒ यथा॑ समु॒द्र एज॑ति ।
    ए॒वन्ते गर्भ॒ एज॑तु स॒ह ज॒रायु॑णा नि॒ष्क्रम्य॒ प्रति॑तिष्ठतु ।
    आयु॑षि ब्रह्मवर्च॒सि य॒शसि॑ वी॒र्ये॑ऽन्नाद्ये॑ ।

यथै॒व सोमः॒ पव॑ते॒, यथा॑ समु॒द्र एज॑ति+++(=कम्पते)+++,
ए॒वन्ते गर्भ॒ एज॑तु।
स॒ह ज॒रायु॑णा+++(=गर्भवेष्टनेन)+++ नि॒ष्क्रम्य॒ प्रति॑तिष्ठतु - आयु॑षि ब्रह्मवर्च॒सि य॒शसि॑ ।

ँश

१६ यथैव सोमः ...{Loading}...

मूलम्

यथै॒व सोमः॒ पव॑ते॒ यथा॑ समु॒द्र एज॑ति ।
ए॒वन्ते गर्भ॒ एज॑तु स॒ह ज॒रायु॑णा नि॒ष्क्रम्य॒ प्रति॑तिष्ठतु ।
आयु॑षि ब्रह्मवर्च॒सि य॒शसि॑ वी॒र्ये॑ऽन्नाद्ये॑ ।

हरदत्तः

अवोक्षणमन्त्रः-यथैवेति ॥ यथैव येन प्रकारेण सोमः अभिषुतः पवते दशापवित्रेण स्रवति यथा समुद्रः वायुवशात् एजति कम्पते एवं ते गर्भं एजतु स्वस्थानाच्चलतु, चलित्वा च सह जरायुणागर्भवेष्टनेन बहिः निष्क्रम्य आयुरादिषु प्रतितिष्ठतु ॥

१७ दश मासाञ्छशयानो ...{Loading}...

दश॒ मासा॒ञ् छश॑यानो
धा॒त्रा हि तथा॑ कृ॒तम् ।
ऐतु॒ गर्भो॒ अक्षि॑तो
जी॒वो जीव॑न्त्याः ।

ँश

१७ दश मासाञ्छशयानो ...{Loading}...

मूलम्

दश॒ मासा॒ञ्छश॑यानो धा॒त्रा हि तथा॑ कृ॒तम् ।
ऐतु॒ गर्भो॒ अक्षि॑तो जी॒वो जीव॑न्त्याः ।

हरदत्तः

दशेति । दशमासान् शयानः अयं ते गर्भः अक्षतो भूत्वा जीवः जीवन्नेव जीवन्त्याः त्वत्तः ऐतु आगच्छतु । धात्रा हि तथा कृतमिति । दशमासशयनं हि धात्रा कृतं दैवेन निर्मितम्, अतो दश मासांश्च शयानः इति । शकारळोपोऽत्र द्रष्टव्यः ॥

१८ आयमनीर्यमयत गर्भमापो ...{Loading}...

आ॒यम॑नीर् यमयत॒ गर्भ॒म्
आपो॑ देवी॒स् सर॑स्वतीः ।
ऐतु॒ गर्भो॒ अक्षि॑तो
जी॒वो जीव॑न्त्याः ।

ँश

१८ आयमनीर्यमयत गर्भमापो ...{Loading}...

मूलम्

आ॒यम॑नीर्यमयत॒ गर्भ॒मापो॑ देवी॒स्सर॑स्वतीः ।
ऐतु॒ गर्भो॒ अक्षि॑तो जी॒वो जीव॑न्त्याः ।

हरदत्तः

आयमनीरिति ॥ आङ्पूर्वोयमिराकर्षणार्थे वर्तते । आयंस्त पादम् इति यथा । आयमनीः । आयमन्यः गर्भस्याकर्षिण्यो यूयं यमयत । अत्राप्याङ्लोपो द्रष्टव्यः । आयमयत, आकर्षयत गर्भं, हे आपो । देवीः देव्यः सरस्वतीः सरस्वत्यादिषु नदीषु भव यूयम् । ऐतु गर्भः गतम् ॥

१९ तिलदेऽवपद्यस्व न ...{Loading}...

तिल॒दे +++(जरायो!)+++ ऽव॑पद्यस्व॒+++(=अवपत)+++, न माँ॒सम् अ॑सि॒, नोदल॑+++(र)+++म् ।+++(र४)+++

ँश

१९ तिलदेऽवपद्यस्व न ...{Loading}...

मूलम्

तिल॒देऽव॑पद्यस्व॒ न माँ॒सम॑सि॒ नो दल॑म् ।

हरदत्तः

जरायुणः अ - ऋग्पतने यजुर्भ्या मवोक्षणं - तिलदे इति ॥ जरायुनामैतत् । हे तिलदे । अवपद्य स्व अवाक्पत, न हि त्वं मांस मसि नोदलं नाप्युदरम् । रलयोरविशेषः । स्थवित्री स्थूलभूता अविकलैव अवपद्यस्व न मांसेषु बद्धमसि बद्धाऽसि, न स्नावसु नापि सिरासु बद्धाऽसि नापि मज्जसु अस्थिगतस्सारो मज्ज । मांसादिष्वेकदेशेनापि लग्ना मा भूदित्यर्थः ॥

२० स्थवित्र्यवपद्यस्व न ...{Loading}...

स्थ॒वि॒त्र्य् अव॑पद्यस्व॒, न माँ॒सेषु॒, न स्नाव॑सु॒+++(=tendon)+++ न ब॒द्धम॑सि म॒ज्जसु॑ ।
निरै॑तु॒ पृश्नि॒+++(=स्वल्परूपं)+++ शेव॑+++(=सुख)+++लँ शु॒ने ज॒राय्व् अ॒त्तवे॑ ॥ (11)

ँश

२० स्थवित्र्यवपद्यस्व न ...{Loading}...

मूलम्

स्थ॒वि॒त्र्यव॑पद्यस्व॒ न माँ॒सेषु॒ न स्नाव॑सु॒ न ब॒द्धम॑सि म॒ज्जसु॑ ।
निरै॑तु॒ पृश्नि॒शेव॑लँ शु॒ने ज॒राय्व॒त्तवे॑ ॥ (११)

हरदत्तः

निरैत्विति ॥ निरैतु निर्गच्छतु पृश्नि स्वल्परूपं शेवलं शेवमिति सुखनाम, लो मत्वर्थीयः । सुखवद्यथा तथा निर्गच्छतु जरायु । किमर्थं? शुने अत्तवे शुनो भक्षणाय ॥

२१ दिवस् परि ...{Loading}...

०१ दिवस्परि प्रथमं ...{Loading}...

दिव᳓स् प᳓रि प्रथमं᳓ जज्ञे अग्नि᳓र्
अस्म᳓द् द्विती᳓यम् प᳓रि जात᳓वेदाः ।
तृती᳓यम् अप्सु᳓ नृ-म᳓णा अ᳓जस्रम्
इ᳓न्धान एनं जरते+++(=स्तौति)+++ स्वाधीः᳓+++(=सुप्रज्ञाता)+++ ।

ँश

२१ दिवस् परि ...{Loading}...

मूलम्

दि॒वस् परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर्
अ॒स्मद् द्वि॒तीय॒म् परि॑ जा॒तवे॑दाः ।
तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒म्
इन्धा॑न एनं जरते स्वा॒धीः ।

हरदत्तोक्त-विनियोगः

अथ जातकर्म । जातं कुमारमभिमृशति दिवस्परीत्पनु-वाकेन वात्सप्रेण वत्सग्ऋषिणः दृष्टेन - दिवस्परिति ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वत्सप्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

दिव᳓स् प᳓रि प्रथमं᳓ जज्ञे अग्नि᳓र्
अस्म᳓द् द्विती᳓यम् प᳓रि जात᳓वेदाः
तृती᳓यम् अप्सु᳓ नृम᳓णा अ᳓जस्रम्
इ᳓न्धान एनं जरते सुआधीः᳓

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M
genre M


Morph
agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

diváḥ ← dyú- ~ div- (nominal stem)
{case:ABL, gender:M, number:SG}

jajñe ← √janⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

pári ← pári (invariable)

prathamám ← prathamá- (nominal stem)
{case:NOM, gender:N, number:SG}

asmát ← ahám (pronoun)
{case:ABL, number:PL}

dvitī́yam ← dvitī́ya- (nominal stem)
{case:NOM, gender:N, number:SG}

jātávedāḥ ← jātávedas- (nominal stem)
{case:NOM, gender:M, number:SG}

pári ← pári (invariable)

ájasram ← ájasra- (nominal stem)
{case:ACC, gender:M, number:SG}

apsú ← áp- (nominal stem)
{case:LOC, gender:F, number:PL}

nr̥máṇāḥ ← nr̥máṇas- (nominal stem)
{case:NOM, gender:M, number:SG}

tr̥tī́yam ← tr̥tī́ya- (nominal stem)
{case:NOM, gender:N, number:SG}

enam ← ena- (pronoun)
{case:ACC, gender:M, number:SG}

índhānaḥ ← √idh- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

jarate ← √gr̥̄- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

svādhī́ḥ ← svādhī́- (nominal stem)
{case:NOM, gender:M, number:SG}

पद-पाठः

दि॒वः । परि॑ । प्र॒थ॒मम् । ज॒ज्ञे॒ । अ॒ग्निः । अ॒स्मत् । द्वि॒तीय॑म् । परि॑ । जा॒तऽवे॑दाः ।
तृ॒तीय॑म् । अ॒प्ऽसु । नृ॒ऽमनाः॑ । अज॑स्रम् । इन्धा॑नः । ए॒न॒म् । ज॒र॒ते॒ । सु॒ऽआ॒धीः ॥

Hellwig Grammar
  • divasdivaḥdiv
  • [noun], ablative, singular, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • pari
  • [adverb]
  • “from; about; around.”

  • prathamaṃprathamam
  • [adverb]
  • “first.”

  • jajñejan
  • [verb], singular, Perfect indicative
  • “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”

  • agniragniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • asmadasmatmad
  • [noun], ablative, plural
  • “I; mine.”

  • dvitīyam
  • [adverb]

  • pari
  • [adverb]
  • “from; about; around.”

  • jātavedāḥjātavedas
  • [noun], nominative, singular, masculine
  • “Agni; fire.”

  • tṛtīyam
  • [adverb]

  • apsuap
  • [noun], locative, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • nṛmaṇānṛmaṇāḥnṛmaṇas
  • [noun], nominative, singular, masculine

  • ajasram
  • [adverb]
  • “constantly; always.”

  • indhānaindhānaḥindh
  • [verb noun], nominative, singular
  • “kindle; ignite; set ablaze.”

  • enaṃenamenad
  • [noun], accusative, singular, masculine
  • “this; he,she,it (pers. pron.).”

  • jaratejṛ
  • [verb], singular, Present indikative
  • “sing.”

  • svādhīḥsvādhī
  • [noun], nominative, singular, masculine
  • “devout; heedful; prudent.”

सायण-भाष्यम्

अग्निः प्रथमं पूर्वं दिवः द्युलोकस्य परि उपरि आदित्यात्मना जज्ञे जातः । जातवेदाः जातप्रज्ञो जातधनो वाग्निः द्वितीयम् अस्मत् अस्माकं परि उपरि पार्थिवात्मना जज्ञे । नृमणाः नृषु मनुष्येष्व् अनुग्राहकतया सक्त-चित्तोऽग्निः तृतीयमप्सु अन्तरिक्षे वैद्युतात्मना जज्ञे । एवंविधम् एनम् अग्निं स्वाधीः सुप्रज्ञाता अजस्रम् अनवरतम् इन्धानः दीपयन् जरते स्तौति । यद्वा । वाजसनेयकोक्तप्रकारेणास्य मन्त्रस्यार्थो द्रष्टव्यः । तद्यथा- दिवस्परि प्रथमं जज्ञे अग्निरिति । प्राणो वै द्यौः प्राणाद्वा एष प्रथममजायतास्मद्द्वितीयं परि जातवेदा इति यदेनमदो द्वितीयं पुरुषविधोऽजनयत्तृतीयमप्स्विति यदेनमदस्तृतीयमद्भ्योऽजनयन्नृमणा अजस्रमिति प्रजापतिर्वै नृमणा अग्निरजस्रमिन्धान एनं जरते स्वाधीरिति यो वा एनमिन्धे स एनं जनयते स्वाधीः ’ (श. ब्रा. ६. ७. ४. ३) इति ॥

हरदत्तः

परिशब्दः पञ्चम्यर्थानुवादी । अयं जातवेदाः अग्निः प्रथमं दिवो जज्ञे आदि त्यात्मना वैद्युतात्मना वा । अस्मत्परि अस्मत्तः द्वितीयं जज्ञे यजमानादग्निर्जायते? । ते मत्प्रातः प्रजनिष्येथे । ते मा प्रजाते प्रजनयिष्यथः इति दर्शनात् । अप्सु तृतीयं जज्ञे बाडबरूपेण । कीदृशः? नृमणाः नृषु मनो यस्य अनुग्राहकत्वेन स नृमणाः । एनं एवं भूतमाग्निं स्वाधीः स्वाध्यानः पुरुषः अजस्रमिन्धानः भूत्वा जरते स्तौति दुर्बुद्धिस्तु न तथा ॥ ᳓

भट्टभास्कर-टीका

अध्यर्थे परिशब्दः । दिवस्परि द्युलोकस्योपरि दिवः अधि अग्निः प्रथमं जज्ञे आदित्यात्मना अजनिष्ट । ‘पञ्चम्याः परावध्यर्थे’ इति विसर्जनीयस्य सत्वम्, अत एव ज्ञापकात्पञ्चमी । अस्मत् अस्मत्तः परि अस्मास्वधि द्वितीयं जज्ञे द्वितीयं जन्माकरोत् वैश्वानरात्मना । जातवेदाः जातानां भूतानां वेदिता, जातधनो वा अप्स्वन्तरिक्षे तृतीयं जज्ञे तृतीयं जन्म चकार वैद्युतात्मना । यद्वा - अप्सु सलिले और्वात्मना जज्ञे । अजस्रं सर्वदा सर्वेष्वपि जन्मसु, नृमणाः नृषु मनो यस्योपकरोमीति स नृमणाः । ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम्, ‘छन्दस्यृदवग्रहात्’ इति णत्वम् । सर्वदा प्रजानामेवोपकारार्थं जज्ञ इति । तमेनमेवंगुणकं इन्धानः समिच्चरुपुरोडाशाद्यैस्सन्दीपयन् । इन्धी दीप्तौ, रौधादिकः, अनुदात्तेत्, ‘श्नान्नलोपः’ ‘विभाषा वेण्विन्धानयोः’ इत्याद्युतात्तत्वम् । स्वाधीः स्वा आत्मीयैव धीर्यस्य स स्वाधीः स्वकर्मनिरतः । ‘अन्येषामपि दृश्यते’ इति पूर्वपदस्य दीर्घत्वम्, पूर्ववदुत्तरपदाद्युदात्तत्वम् । यद्वा - स्वमात्मानं ध्यायतीति स्वाधीः आत्मनिष्ठः । ‘ध्यायतेस्सम्प्रसारणं च’ इति क्विप् । इन्धानः कर्मनिष्ठः, इन्धानश्च स्वाधीश्च एनं जरते स्तौति । जॄ वयोहानौ छन्दसि स्तुतिकर्मा चौरादिकः आधृषीयः, व्यत्ययेनात्मनेपदम् ॥

Wilson

English translation:

Agni was first born above the sky; as Ja-tavedas he was born the second time among us; the friend ofman, he was born the third time in the watters; the sage kindlin him eternally praises him.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Agni was first borṅi.e., Agni represents successively the sun, fire, lightning. (Yajus. 12.18-29: Agni was first genitive rated as Prāṇa,or vital air, from the breath of heaven, and that man genitive rated him; secondly, that Prajāpati (nṛmaṇaḥ) createdhim eternal in all the waters, and that the yajamāna lighting him also gives birth to him)

Jamison Brereton

From heaven was Agni born first; from us was he born second as Jātavedas. (Born) a third time in the waters, the inexhaustible one—kindling him, the manly minded, very attentive (mortal) sings to him.

Griffith

FIRST Agni sprang to life from out of Heaven: the second time from us came Jatavedas.
Thirdly the Manly-souled was in the waters. The pious lauds and kindles him the Eternal. ᳓

Keith

From the sky was Agni first born,
From us secondly he who knoweth all,
In the waters thirdly the manly;
The pious man singeth of him, the undying, as he kindleth him.

Geldner

Vom Himmel wurde Agni zuerst geboren, ein zweites Mal von uns, der Jatavedas. Den zum dritten im Wasser Geborenen, den nie Ermattenden entzündend, ruft ihn in guter Absicht der wie ein Herrscher Denkende wach.

Grassmann

Erzeugt zuerst ward Agni aus dem Himmel, von uns zum zweiten als der Wesenkenner; Zum dritten im Gewölke stets der starke, wer ihn entzündet, preiset ihn voll Andacht.

Elizarenkova

В первый раз с неба родился Агни,
Во второй раз – от нас, знаток (всех) существ,
В третий раз – в водах. Его, неослабевающего,
Воспевает, зажигая, тот, чья мысль мужественна, чьи намерения прекрасны.

अधिमन्त्रम् (VC)
  • अग्निः
  • वत्सप्रिः
  • निचृत्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - विषयः

इस सूक्त में ‘अग्नि’ शब्द से सूर्य, विद्युत्, अग्नि, तीनों गृहीत हैं, उनकी उत्पत्ति, विज्ञान और उपयोग बतलाया है। अन्तिम छः मन्त्रों में परमात्मा लिया है, वह जैसे-जैसे मनुष्यों का कल्याणसाधक है, वह कहा गया है ।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अग्निः-प्रथमं दिवः-परिजज्ञे) भौतिक अग्नि पदार्थ प्रथम द्युलोक में प्रकट हुआ सूर्यरूप में (जातवेदाः-द्वितीयम्-अस्मत् परि) दूसरा जातवेद नाम से पार्थिव अग्नि हमारी ओर अर्थात् पृथिवी पर प्रकट हुआ (तृतीयम्-अप्सु) तृतीय अग्नि विद्युत् अन्तरिक्ष में उत्पन्न हुआ (नृमणाः) वह यह तीन प्रकार का अग्नि मनुष्यों में मनन करने का बल देनेवाला है-मननशक्तिप्रद है (एनम्-अजस्रम्-इन्धानः स्वाधीः-जरते) इसको निरन्तर प्रज्वलित करता हुआ, होम आदि कार्य में प्रयुक्त करता हुआ, सम्यग्ध्यानी जन परमात्मा की स्तुति करता है, जिसने इस अग्नि को उत्पन्न किया तथा जरावस्था तक इसे काम में लेता है ॥१॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - परमात्मा ने प्रथम द्युलोक में सूर्य अग्नि को उत्पन्न किया, दूसरे पृथिवी पर अग्नि को उत्पन्न किया, तीसरे अन्तरिक्ष में विद्युदग्नि को उत्पन्न किया। इस प्रकार मनुष्य को इन अग्नियों को देखकर परमात्मा का मनन करते हुए, जरापर्यन्त इनसे लाभ लेते हुए परमात्मा की स्तुति करनी चाहिए ॥१॥

ब्रह्ममुनि - विषयः

अस्मिन् सूक्ते ‘अग्नि’शब्देन सूर्यविद्युदग्नयो गृह्यन्ते, तेषामुत्पत्ति-स्थानानि तदुपयोगश्च प्रतिपाद्यते। अन्तिमे मन्त्रषट्के परमात्मा गृह्यते, स च मानवानां कल्याणसाधको यथा यथाभवतीति तदुपदिश्यते ।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अग्निः प्रथमं दिवः-परि जज्ञे) अग्नि-नामकः पदार्थः प्रथमं तु दिवि-द्युलोके “पञ्चम्याः परावध्यर्थे” [अष्टा० ८।३।५१] जातः-जायते सूर्यरूपेण (जातवेदाः-द्वितीयम्-अस्मत् परि) स एव जातानि वस्तूनि वेदयन्ते ज्ञायन्ते प्रत्यक्षीक्रियन्ते खलूपयोगे नीयन्ते येन सोऽस्मासु-अस्माकं निमित्तं पृथिव्यां पार्थिवोऽग्निर्द्वितीयं जज्ञे जायते (तृतीयम्-अप्सु) तृतीयं जायतेऽन्तरिक्षे “आपः-अन्तरिक्षनाम” [निघ० १।३] विद्युदाख्यः (नृमणाः) एषः त्रिविधोऽग्निर्येन नृषु मनो मननबलं भवति सोऽस्ति, तम् (एनम्-अजस्रम्-इन्धानः स्वाधीः जरते ) एवं निरन्तरं दीपयमानः प्रज्वलयन् कार्ये खलूपयोजयन् सम्यग्ध्यानी जनः परमात्मानं स्तौति येनोत्पादितोऽग्निरेष जरां जरापर्यन्तजीवनावस्थां प्राप्तोतीति श्लैषिकोऽर्थः “जरते-अर्चतिकर्मा” [निघ० ३।१४] ॥१॥

२२ विद्मा ते ...{Loading}...

०२ विद्मा ते ...{Loading}...

+++(प्रतिज्ञा+ऋक्। अग्रिमायाम् उत्तरम्।)+++
विद्मा᳓ ते अग्ने त्रेधा᳓ +++{रू᳓पा᳓णि᳓ अ᳓ग्नि᳓-वि᳓द्यु᳓त्-सू᳓र्या᳓स्}+++ त्रया᳓णि
विद्मा᳓ ते स᳓द्म +++{ना᳓ना᳓कु᳓ण्डे᳓षु᳓}+++ वि᳓भृतम् पुरुत्रा᳓ +++(=बहुधा)+++।
विद्मा᳓ ते ना᳓म परमं᳓ गु᳓हा य᳓द्
विद्मा᳓ त᳓म् उ᳓त्सं +++(=fount)+++ य᳓त आजग᳓न्थ ।

ँश

२२ विद्मा ते ...{Loading}...

मूलम्

वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑
वि॒द्मा ते॒ सद्म॒ विभृ॑तम् पुरु॒त्रा ।
वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्
वि॒द्मा तमुत्सं॒ यत॑ आज॒गन्थ॑ ।

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वत्सप्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

विद्मा᳓ ते अग्ने त्रे᳐धा᳓ त्रया᳓णि
विद्मा᳓ ते धा᳓म वि᳓भृता पुरुत्रा᳓
विद्मा᳓ ते ना᳓म परमं᳓ गु᳓हा य᳓द्
विद्मा᳓ त᳓म् उ᳓त्सं य᳓त आजग᳓न्थ

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M
genre M


Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

trayā́ṇi ← trayá- (nominal stem)
{case:NOM, gender:N, number:PL}

tredhā́ ← tredhā́ (invariable)

vidmá ← √vid- 2 (root)
{number:PL, person:1, mood:IND, tense:PRF, voice:ACT}

dhā́ma ← dhā́man- (nominal stem)
{case:ACC, gender:N, number:PL}

purutrā́ ← purutrā́ (invariable)

te ← tvám (pronoun)
{case:DAT, number:SG}

víbhr̥tā ← √bhr̥- (root)
{case:ACC, gender:N, number:PL, non-finite:PPP}

vidmá ← √vid- 2 (root)
{number:PL, person:1, mood:IND, tense:PRF, voice:ACT}

gúhā ← gúhā (invariable)

nā́ma ← nā́man- (nominal stem)
{case:ACC, gender:N, number:SG}

paramám ← paramá- (nominal stem)
{case:ACC, gender:N, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

vidmá ← √vid- 2 (root)
{number:PL, person:1, mood:IND, tense:PRF, voice:ACT}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

ājagántha ← √gam- (root)
{number:SG, person:2, mood:IND, tense:PRF, voice:ACT}

tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}

útsam ← útsa- (nominal stem)
{case:ACC, gender:M, number:SG}

vidmá ← √vid- 2 (root)
{number:PL, person:1, mood:IND, tense:PRF, voice:ACT}

yátas ← yátas (invariable)

पद-पाठः

वि॒द्म । ते॒ । अ॒ग्ने॒ । त्रे॒धा । त्र॒याणि॑ । वि॒द्म । ते॒ । धाम॑ । विऽभृ॑ता । पु॒रु॒ऽत्रा ।
वि॒द्म । ते॒ । नाम॑ । प॒र॒मम् । गुहा॑ । यत् । वि॒द्म । तम् । उत्स॑म् । यतः॑ । आ॒ऽज॒गन्थ॑ ॥

Hellwig Grammar
  • vidmāvidmavid
  • [verb], plural, Perfect indicative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • tredhā
  • [adverb]
  • “threefold.”

  • trayāṇitraya
  • [noun], accusative, plural, neuter
  • “three; trio; saṃnipāta.”

  • vidmāvidmavid
  • [verb], plural, Perfect indicative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • dhāmadhāman
  • [noun], accusative, singular, neuter
  • “domain; dwelling; law; appearance; light; race; agreement; color; location.”

  • vibhṛtāvibhṛ√bhṛ
  • [verb noun], accusative, plural

  • purutrā
  • [adverb]
  • “distributively.”

  • vidmāvidmavid
  • [verb], plural, Perfect indicative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • nāmanāman
  • [noun], accusative, singular, neuter
  • “name; appellation; nāman [word]; nāmakaraṇa; surname; noun; word.”

  • paramaṃparamamparama
  • [noun], accusative, singular, neuter
  • “extreme; best; excellent; highest; highest; devoted(p); maximal; distant; parama [word]; very; farthermost.”

  • guhā
  • [adverb]
  • “secretly.”

  • yadyatyad
  • [noun], nominative, singular, neuter
  • “who; which; yat [pronoun].”

  • vidmāvidmavid
  • [verb], plural, Perfect indicative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

  • tamtad
  • [noun], accusative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • utsaṃutsamutsa
  • [noun], accusative, singular, masculine
  • “spring; fountain; utsa [word]; well.”

  • yatayatas
  • [adverb]
  • “from which; whence; wherein.”

  • ājaganthaāgam√gam
  • [verb], singular, Perfect indicative
  • “come; arrive; return; enter (a state); approach; travel; enter; inherit; hand down; achieve; reach; appear; happen.”

सायण-भाष्यम्

हे अग्ने ते तव त्रेधा त्रिषु स्थानेषु पृथिव्यन्तरिक्षद्युलोकेषु स्थितानि त्रयाणि अग्निवाय्वादित्याख्यानि त्रीणि रूपाणि विद्म वयं जानीमः। किंच हे अग्ने ते तव धाम धामानि स्थानानि विभृता विभृतानि पुरुत्रा बहुधा बहूनि वा गार्हपत्याहवनीयान्वाहार्यपचनादीनि विद्म । किंच ते तव गुहा गूढम् अवेदविद्भिरविज्ञातं परमम् उत्कृष्टं वेदे प्रसिद्धं यत् नाम अस्ति तत् विद्म वेदविदो वयं विजानीमः । किंच त्वं यतः यस्मात् आजगन्थ आगतवानसि । उत्पन्नवानित्यर्थः । तम् उत्सम् उत्स्यन्दयितारमुत्पादयितारं कारणात्मानं विद्म जानीमः ॥

हरदत्तः

विद्मा त इति ॥ हे अग्ने । ते तव स्वभूताति? त्रेधा त्रिषु स्थानेषु पृथिव्यामन्तरिक्षे दिवि च स्थितानि त्रयाणि त्रीणि रूपाणि अग्निवाय्वादित्याख्यानि विद्म जानीमः तथा ते सद्म सद्मानि स्थानानि विभृतं विभृतानि । हृग्रहोर्भः इति छन्दसि भः विहृतानि पुरुत्रा बहुनि वा गार्हपत्याहवनीयादीनि विद्म । तथा ते नाम परमं गुहा गूढं अविज्ञातं अवेदविद्भिः यदेवम्भूतं तव नाम तदपि वयं विद्म । तथा यतः त्वं आजगन्थ आगतवानसि तमप्युत्सं विद्म । उत्सः प्रस्रवणं स चापामुत्पत्तिस्थानमिति तेनो त्पत्तिस्थानमात्रं लक्ष्यते ॥

Wilson

English translation:

“We recognize your threefold station, Agni, and your three (forms); we recognize the many stationsoccupied by you; we know what your supreme secret appellation (is); we know the source, whence you haveproceeded.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

In heaven, earth and mid-air– and as Agni, Vāyu and Sūrya– as the household and other fires

Jamison Brereton

We know your threefold triads, Agni; we know your domains dispersed in many places.
We know your highest name, which is hidden; we know the wellspring whence you have come here.

Griffith

Agni, we know thy three powers in three stations, we know thy forms in many a place divided.
We know what name supreme thou hast in secret: we know the source from which thou hast proceeded.

Geldner

Wir kennen deine dreimal dreierlei Formen, o Agni; wir kennen deine Formen, die vielerorts verteilt sind. Wir kennen deinen höchsten Namen, der geheim ist; wir kennen den Quell, von wannen du gekommen bist.

Grassmann

Wir kennen Agni dreifach deine Dreiheit, wir kennen deine vielvertheilten Stätten, Und deinen höchsten Namen, den verborgnen; den Born auch kennen wir, von dem du ausgingst.

Elizarenkova

Мы знаем, о Агни, твои трижды троякие (жилища).
Мы знаем твои жилища, распределенные по многим местам.
Мы знаем твое высшее имя, которое в тайне.
Мы знаем тот источник, откуда ты пришел.

अधिमन्त्रम् (VC)
  • अग्निः
  • वत्सप्रिः
  • निचृत्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे अग्नि ! (ते त्रेधा त्रयाणि विद्म) तेरे तीन प्रकार के तीन स्वरूपों को हम जानें (ते पुरुत्रा विभृता धाम विद्म) तेरे बहुत प्रकार से फैले हुए स्थानों को, खनिज वस्तुओं को जानें-जानते हैं (ते परमं नाम यत्-गुहा विद्म) तेरे अत्यन्त अभीष्ट प्रशंसनीय स्वरूप को जो विज्ञान क्रिया में है, उसे हम जानें (तम्-उत्सं यतः-आजगन्थ विद्म) उसस्रोत को भी हम जानें, जहाँ से तू उत्पन्न होता है ॥२॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - मनुष्य जैसे अन्य-अन्य विज्ञानों में कुशलता प्राप्त करता है, वैसे-वैसे उसे अग्निविज्ञान में भी कुशलता प्राप्त करनी चाहिए। अर्थात् अग्नि के भिन्न-भिन्न रूप और उसके भिन्न-भिन्न उत्पत्तिस्थान तथा खनिज पदार्थ जिनसे अग्नि उत्पन्न होती है, उन्हें भी जानना चाहिए ॥२॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे अग्ने ! (ते त्रेधा त्रयाणि विद्म) तव त्रिविधानि त्रीणि स्वरूपाणि सम्यगुपयोगतो जानीयाम (ते पुरुत्रा विभृता धाम विद्म) तव बहुत्र विधृतानि धामानि स्थानानि खनिजानि वस्तूनि जानीयाम (ते परमं नाम यत् गुहा विद्म) तव परममभीष्टतमं नाम प्रशंसनीयं स्वरूपं यद् विज्ञानक्रियायां तज्जानीयाम “गुहा बुद्धौ विज्ञाने” [ऋ० १।६७।४ दयानन्दः] (तम्-उत्सं यतः-आजगन्थ विद्म) तमुत्स्यन्दयितारमाशयं जानीयाम यत आगच्छसि ॥२॥

२३ समुद्रे त्वा ...{Loading}...

०३ समुद्रे त्वा ...{Loading}...

+++(प्राक्तनाया विस्तारः!)+++ समुद्रे᳓ त्वा नृम᳓णा अप्स्व् अ᳙न्तर्
नृच᳓क्षा +++(=नृद्रष्टा)+++ ईधे +++(=दीपयते)+++ दिवो᳓ अग्न ऊ᳓ध᳓न्न् +++(=उधस्स्थानीये मेघे)+++ ।
तृती᳓ये त्वा᳓ र᳓जसि +++(=लोके)+++ तस्थिवाँ᳓सम्
ऋत᳓स्य यो᳓नौ महिषा᳓ अहिन्वन्न् +++(=बुद्धवन्तः)+++ ।

ँश

२३ समुद्रे त्वा ...{Loading}...

मूलम्

स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व॑न्तर्
नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् ।
तृ॒तीये॑ त्वा रज॑सि तस्थि॒वाँस॑म्
ऋ॒तस्य॒ योनौ॑ महि॒षा अ॑हिन्वन्न् ।

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वत्सप्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

समुद्रे᳓ त्वा नृम᳓णा अप्सु᳓ अन्त᳓र्
नृच᳓क्षा ईधे दिवो᳓ अग्न ऊ᳓धन्
तृती᳓ये त्वा र᳓जसि तस्थिवां᳓सम्
अपा᳓म् उप᳓स्थे महिषा᳓ अवर्धन्

हरदत्तः

समुद्रे त्वेति ॥ हे अग्ने । समुद्रे अप्स्वन्तः बडवात्मना स्थितं त्वा त्वां नृमणा नृषु अनुग्राहकत्वेन आसक्तमनाः वरुणः ईधे दीपयति । तथा दिवः द्युलोकस्य ऊधन् ऊधस्थानीये मेधे आदित्यमण्डले वा नृचक्षाः नृणां द्रष्टा कृताकृतप्रत्यवेक्षणेन । कः पुनरसौ? सूर्यः स हि कर्मसाक्षी, स च त्वामीधे । तथा तृतीये रजसि लोके कीदृशे? ऋतस्य उदकस्य सत्यस्य वा योनौ उत्पत्तिस्थाने अन्तरिक्षे वैद्युतात्मना तस्थिवांसं त्वां महिषाः महान्तः अहिन्वत् । हि गतौ, गत्यर्थाः बुद्ध्यर्थाः बुध्यन्ते । वर्तमाने लङ् ॥

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M
genre M


Morph
antár ← antár (invariable)

apsú ← áp- (nominal stem)
{case:LOC, gender:F, number:PL}

nr̥máṇāḥ ← nr̥máṇas- (nominal stem)
{case:NOM, gender:M, number:SG}

samudré ← samudrá- (nominal stem)
{case:LOC, gender:M, number:SG}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

diváḥ ← dyú- ~ div- (nominal stem)
{case:ABL, gender:M, number:SG}

īdhe ← √idh- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

nr̥cákṣāḥ ← nr̥cákṣas- (nominal stem)
{case:NOM, gender:M, number:SG}

ū́dhan ← ū́dhar- (nominal stem)
{case:LOC, gender:N, number:SG}

rájasi ← rájas- (nominal stem)
{case:LOC, gender:N, number:SG}

tasthivā́ṁsam ← √sthā- (root)
{case:ACC, gender:M, number:SG, tense:PRF, voice:ACT}

tr̥tī́ye ← tr̥tī́ya- (nominal stem)
{case:LOC, gender:N, number:SG}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

apā́m ← áp- (nominal stem)
{case:GEN, gender:F, number:PL}

avardhan ← √vr̥dh- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

mahiṣā́ḥ ← mahiṣá- (nominal stem)
{case:NOM, gender:F, number:PL}

upásthe ← upástha- (nominal stem)
{case:LOC, gender:M, number:SG}

पद-पाठः

स॒मु॒द्रे । त्वा॒ । नृ॒ऽमनाः॑ । अ॒प्ऽसु । अ॒न्तः । नृ॒ऽचक्षाः॑ । ई॒धे॒ । दि॒वः । अ॒ग्ने॒ । ऊध॑न् ।
तृ॒तीये॑ । त्वा॒ । रज॑सि । त॒स्थि॒ऽवांस॑म् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षाः । अ॒व॒र्ध॒न् ॥

Hellwig Grammar
  • samudresamudra
  • [noun], locative, singular, masculine
  • “ocean; Samudra; sea; samudra [word]; four.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • nṛmaṇānṛmaṇāḥnṛmaṇas
  • [noun], nominative, singular, masculine

  • apsvapsuap
  • [noun], locative, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • antar
  • [adverb]
  • “inside; in; antar [word]; midmost; between; among.”

  • nṛcakṣānṛ
  • [noun], masculine
  • “man; man; nṛ [word]; crew; masculine.”

  • nṛcakṣācakṣāḥcakṣas
  • [noun], nominative, singular, masculine
  • “eye; look; radiance.”

  • īdheindh
  • [verb], singular, Perfect indicative
  • “kindle; ignite; set ablaze.”

  • divodivaḥdiv
  • [noun], genitive, singular, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • agnaagneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • ūdhanūdhas
  • [noun], locative, singular, neuter
  • “udder; ūdhas [word]; night.”

  • tṛtīyetṛtīya
  • [noun], locative, singular, neuter
  • “third; neuter; tṛtīya [word]; homosexual.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • rajasirajas
  • [noun], locative, singular, neuter
  • “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”

  • tasthivāṃsamsthā
  • [verb noun], accusative, singular
  • “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”

  • apāmap
  • [noun], genitive, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • upastheupastha
  • [noun], locative, singular, neuter
  • “genitalia; lap; sexual desire; anus.”

  • mahiṣāmahiṣāḥmahiṣa
  • [noun], nominative, plural, masculine
  • “Old World buffalo; Mahiṣa; Mahiṣa.”

  • avardhanvṛdh
  • [verb], plural, Imperfect
  • “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”

सायण-भाष्यम्

हे अग्ने समुद्रे महोदधौ जायमानम् अप्स्वन्तः अपां मध्ये वडवात्मना स्थितं त्वा त्वां नृमणाः नृषु मनुष्येष्वनुग्राहकतयासक्तचित्तो वरुणः ईधे संदीपितवान् । किंच नृचक्षाः नृणां प्रत्यक्षेण द्रष्टादित्यः दिवः द्युलोकस्य संबन्धिनि ऊधन् ऊधसि ऊधःस्थानीय आदित्यमण्डले यज्ञे वा ईधे संदीपितवान् । किंच तृतीये त्रयाणां पूरके अपां वृष्ट्युदकानाम् उपस्थे स्थाने रजसि अन्तरिक्षलोके तस्थिवांसं विद्युद्रूपेणावस्थितं त्वा त्वां महिषाः महान्तो माध्यमिका देवगणा मरुदादयः स्तोतारः अवर्धन् स्तुतिभिरवर्धयन् । यद्वा । वाजसनेयकोक्तप्रकारेणार्थो द्रष्टव्यः । तद्यथा-’ समुद्रे त्वा नृमणा अप्स्वन्तरिति । प्रजापतिर्वै नृमणा अप्सु त्वा प्रजापतिरित्येतन्नृचक्षा ईधे दिवो अग्र ऊधन्निति प्रजापतिर्वे नृचक्षा आपो दिव ऊधस्तृतीये त्वा रजसि तस्थिवांसमिति द्यौर्वे तृतीयं रजोऽपामुपस्थे महिषा अवर्धन्निति प्राणा वै महिषा दिवि त्वा प्राणा अवर्धन्नित्येतत् ’ (श. ब्रा. ६. ७. ४. ५) इति ॥

Wilson

English translation:

“He who is well disposed towards men illumines the Agni in the ocean (as submarine fire), in the midstof the waters; the beholder of men (illumines) you in the centre of the sky; the mighty (maruts) magnify youabiding in the third region (the firmament), on the lap of the waters.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Nṛmaṇaḥ = Prajāpati; or, Varuṇa;

Nṛcakṣaḥ = the sun; or, Prajāpati;

Mahiṣaḥ = vital airs

Jamison Brereton

In the sea, in the waters has the one with a manly mind (kindled) you; the one with manly eye kindled (you) in the udder of heaven, o Agni.
The buffaloes strengthened you, who were standing in the third realm, in the lap of the waters.

Griffith

The Manly-souled lit thee in sea and waters, man’s Viewer lit thee in the breast of heaven,
There as thou stoodest in the third high region the Steers increased thee in the water’s bosom.

Geldner

Dich, den im Meere, im Wasser Weilenden hat der wie ein Herrscher Denkende, den im Euter des Himmels Weilenden, der wie ein Herrscher Blickende entzündet, o Agni. Dich, den im dritten Dunkelraum Weilenden, im Schoße des Wassers, zogen die Büffel groß.

Grassmann

Im Meer der Luft entflammte dich der Mannheld, im Himmels-Euter dich der Männer schaunde; Als du im dritten Raume standest, Agni, da stärkten dich im Wasserschooss die Büffel.

Elizarenkova

Тебя в океане, в водах, в вымени неба
Зажег, о Агни, тот, чья мысль мужественна, чей взор мужествен.
Тебя, находящегося в третьем пространстве,
В лоне вод вырастили буйволы.

अधिमन्त्रम् (VC)
  • अग्निः
  • वत्सप्रिः
  • निचृत्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे अग्नि ! (त्वा) तुझे (नृमणाः-नृचक्षाः) मनुष्यों में मननबल का प्रेरक तथा मनुष्यों के कर्म का द्रष्टा परमात्मा (दिवः-ऊधन्) द्युलोक के ज्योतिमण्डल में सूर्यरूप से, तथा (समुद्रे-अप्सु-अन्तः ईधे) अन्तरिक्ष में मेघों के अन्दर विद्युद्रूप में दीप्त करता है (तृतीये रजसि तस्थिवांसम्) तीसरे पृथिवीलोक में स्थित ओषधियों में कोष्ठों में वर्त्तमान, तथा (अपाम्-उपस्थे) जलप्रवाहों के मध्य में वर्तमान (महिषाः-अवर्धन्) ऋत्विज् विद्वान प्रकट करते हैं-बढ़ाते हैं ॥३॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - परमात्मा आग्नेय तत्त्व को द्युलोक में सूर्यरूप से, अन्तरिक्ष में विद्युद्रूप से, पृथिवी पर पार्थिव अग्नि के रूप में उत्पन्न करता है, पुनः ऋत्विक् लोग य विद्वान् उसे अपने विविध कार्यों में प्रकट करके उपयोग में लाते हैं ॥३॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे अग्ने ! (त्वा) त्वाम् (नृमणाः-नृचक्षाः) नृषु मननबलं प्रेरकः प्रजापतिः परमात्मा “प्रजापतिर्वै नृमणाः” [श० ६।७।४।३] स एव नृणां द्रष्टा तेषां कर्मव्यवहारस्य ज्ञाता परमात्मा “प्रजापतिर्वै नृचक्षाः” [श० ६।७।४।५] (दिवः-ऊधन्) द्युलोकस्य ज्योतिर्मण्डले सूर्यरूपेण, तथा (समुद्रे-अप्सु-अन्तः-ईधे) अन्तरिक्षे मेघरूपेषु जलेषु विद्युद्रूपेण दीपयति (तृतीये रजसि तस्थिवांसम्) तृतीये पृथिवीलोके स्थितं वर्तमानौषधिषु काष्ठेषु वर्तमानम् तथा (अपाम्-उपस्थे) जलप्रवाहाणां मध्ये वर्तमानम् (महिषाः-अवर्धन्) ऋत्विजो विद्वांसो “ऋत्विजो वै महिषाः” [श० १२।१।८।२] वर्धयन्ति प्रकटीकरणेन ॥३॥

२४ अक्रन्ददग्निस्स्तनयन्निव द्यौः ...{Loading}...

०४ अक्रन्ददग्निः स्तनयन्निव ...{Loading}...

अ᳓क्रन्दद् अग्निः᳓ स्तन᳓यन्निव द्यौः᳓
क्षा᳓मा +++(=पृथिवीं)+++ रे᳓रिहद् +++(=आस्वादयन्)+++ वीरु᳓धः +++(={वृक्ष}गुल्मान्)+++ समञ्ज᳓न्न् ।
सद्यो᳓ जज्ञानो᳓ +++{दा᳓वा᳓न᳓लः᳓}+++ वि᳓ ही᳓म् इद्धो᳓
अ᳓ख्यद् आ᳓ रो᳓दसी भानु᳓ना भात्य् अन्तः᳓ ।

ँश

२४ अक्रन्ददग्निस्स्तनयन्निव द्यौः ...{Loading}...

मूलम्

अक्र॑न्दद॒ग्निस्स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुध॑स्सम॒ञ्जन्न् ।
स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ।

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वत्सप्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ᳓क्रन्दद् अग्नि᳓ स्तन᳓यन्न् इव द्यउः᳓
क्षा᳓मा रे᳓रिहद् वीरु᳓धः समञ्ज᳓न्
सद्यो᳓ जज्ञानो᳓ वि᳓ ही᳓म् इद्धो᳓ अ᳓ख्यद्
आ᳓ रो᳓दसी भानु᳓ना भाति अन्तः᳓

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M
genre M


Morph
agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

ákrandat ← √krand- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}

dyaúḥ ← dyú- ~ div- (nominal stem)
{case:NOM, gender:M, number:SG}

iva ← iva (invariable)

stanáyan ← √stanⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

kṣā́ma ← kṣā́man- (nominal stem)
{case:ACC, gender:N, number:PL}

rérihat ← √rih- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

samañján ← √añj- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

vīrúdhaḥ ← vīrúdh- (nominal stem)
{case:ACC, gender:F, number:PL}

ákhyat ← √khyā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}

hí ← hí (invariable)

iddháḥ ← √idh- 1 (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

īm ← īm (invariable)

jajñānáḥ ← √janⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:MED}

sadyás ← sadyás (invariable)

ví ← ví (invariable)

ā́ ← ā́ (invariable)

antár ← antár (invariable)

bhānúnā ← bhānú- (nominal stem)
{case:INS, gender:M, number:SG}

bhāti ← √bhā- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

ródasī ← ródasī- (nominal stem)
{case:NOM, gender:F, number:DU}

पद-पाठः

अक्र॑न्दत् । अ॒ग्निः । स्त॒नय॑न्ऽइव । द्यौः । क्षाम॑ । रेरि॑हत् । वी॒रुधः॑ । स॒म्ऽअ॒ञ्जन् ।
स॒द्यः । ज॒ज्ञा॒नः । वि । हि । ई॒म् । इ॒द्धः । अख्य॑त् । आ । रोद॑सी॒ इति॑ । भा॒नुना॑ । भा॒ति॒ । अ॒न्तरिति॑ ॥

Hellwig Grammar
  • akrandadakrandatkrand
  • [verb], singular, Imperfect
  • “roar; neigh; cry; howl; shout.”

  • agni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • stanayannstanayanstanay√stan
  • [verb noun], nominative, singular
  • “thunder; thunder.”

  • iva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • dyauḥdiv
  • [noun], nominative, singular
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • kṣāmākṣam
  • [noun], accusative, dual, feminine
  • “Earth; heaven and earth.”

  • rerihadrerihatrerih√rih
  • [verb noun], nominative, singular
  • “lick.”

  • vīrudhaḥvīrudh
  • [noun], accusative, plural, feminine
  • “plant; shrub.”

  • samañjansamañj√añj
  • [verb noun], nominative, singular
  • “anoint.”

  • sadyosadyas
  • [adverb]
  • “immediately; just; daily; sadyas [word].”

  • jajñānojajñānaḥjan
  • [verb noun], nominative, singular
  • “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • hīmhi
  • [adverb]
  • “because; indeed; for; therefore; hi [word].”

  • hīmimiṃ
  • [adverb]

  • iddhoiddhaḥindh
  • [verb noun], nominative, singular
  • “kindle; ignite; set ablaze.”

  • akhyadakhyatkhyā
  • [verb], singular, Thematic aorist (Ind.)
  • “name; describe; call; enumerate; watch; know.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • rodasīrodas
  • [noun], accusative, dual, neuter
  • “heaven and earth; Earth.”

  • bhānunābhānu
  • [noun], instrumental, singular, masculine
  • “sun; Surya; Calotropis gigantea Beng.; sunbeam; beam; luminosity; copper; light; twelve; appearance; Bhānu; flare.”

  • bhātybhātibhā
  • [verb], singular, Present indikative
  • “look; shine; show; look like; glitter; reflect.”

  • antaḥantar
  • [adverb]
  • “inside; in; antar [word]; midmost; between; among.”

सायण-भाष्यम्

दावरूपोऽग्निः स्तूयते । अग्निः दावाग्निः स्तनयन्निव द्यौः यथा दीप्तो विद्युद्रूपः पर्जन्यो महान्तं शब्दं करोति तद्वत् अक्रन्दत् महान्तं शब्दं करोति । किं कुर्वन्नित्यत्राह। क्षाम क्षामां पृथिवीं रेरिहत् आस्वादयन् वीरुधः ओषधीश्च समञ्जन् म्रक्षयन् । संतापयन्नित्यर्थः। किंच सद्यः तत्क्षणे समाने काले जज्ञानः जायमानः इद्धः दीप्तः ईम् इदं स्वेन दग्धं वस्तुजातं वि अख्यत् विविधं पश्यति । हि इति पादपूरणः । किंच रोदसी द्यावापृथिव्यौ अन्तः अन्तरेण भानुना स्वदीप्त्या भाति प्रकाशते । यद्वा । वाजसनेयकोक्तार्थो द्रष्टव्यः । तद्यथा–’ अक्रन्ददग्निः स्तनयन्निव द्यौरिति । क्रन्दतीव हि पर्जन्यः स्तनयन् क्षामा रेरिहद्वीरुधः समञ्जन्निति क्षामा वै रेरिह्यमाणो वीरुधः समनक्ति सद्यो जज्ञानो वि हीमिद्धो अख्यदिति सद्यो वा एष जज्ञान इदं सर्वं विख्यापयत्या रोदसी भानुना भात्यन्तरितीमे वै द्यावापृथिवी रोदसी ते एष भानुना भात्यन्तः । (श. ब्रा. ६. ७. ३. २ ) इति वैद्युतस्य स्तुतिः । यद्वा । इयं दावाग्नेः स्तुतिरिति ॥

भट्टभास्कर-टीका

अयमग्निरक्रन्दत् क्रन्दतु शब्दं करोतु अस्मच्छत्रुकुलं दहन् । छान्दसो लङ् । स्तनयन् द्युरिव यथा द्यौर्घनपटलसञ्छन्ना स्तनयति । स्तन शब्दे चुरादिरदन्तः । यद्वा - क्रन्दयतु अस्मद्रिपुकुलम् गर्जन्तीव द्यौरन्तरिक्षं; दिवि हि गर्जान्त्यां भयेन जना महारवं कुर्वन्ति ।
किं कुर्वन्नित्याह - क्षाम क्षीणं, दग्धमस्मच्छत्रुकुलं रोरिहन्नत्यर्थं लिहन् आस्वादयन् सर्वतो दहन् इत्यर्थः । क्षयि जयि षयि क्षये ‘भूतेपि दृश्यन्ते’ इति भूतेपि कर्मणि मनिन् प्रत्ययः । रिहेर्यङ्लुगन्ताच्छतृप्रत्ययः, ‘नाभ्यस्ताच्छतुः’ इति नुमभावः, ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । ‘कपिलकादीनां संज्ञाछन्दसोर्वालो रमापद्यते’ इति रत्वम् । ‘अन्येषामपि दृश्यते’ इति क्षामशब्दस्य संहितायां दीर्घत्वम् ।
पुनश्च विशेष्यते - वीरुधस्समञ्जन् सम्मृक्षन् सन्दहन्; उपलक्षणं चैतत्. तृणगुल्मलतावनस्पतीनाप्नुवन्नित्यर्थः ।
किमीदृशी शक्तिरप्यस्य विद्यत इत्याह - वि हीमिति । हि यस्मादर्थे वर्तते । ईमित्यवधारणे । यस्मादयमग्निः जज्ञानो जायमानः । जनी प्रादुर्भावे दैवादिकः, ‘बहुळं छन्दसि’ इति शप श्लः । यद्वा - जन जनने जुहोत्यादिकः, व्यत्ययेनात्मनेपदं । सद्य एव तत्क्षणादेव इद्धः दीप्तः रोदसी द्यावापृथिव्यौ व्यख्यत् व्यचेष्टत व्यपश्यत् । छान्दसो लुङ्, ‘अस्यतिवक्तिख्यातिभ्योङ्’, ‘हिच’ इति निघातप्रतिषेधः । स्वयं च भानुना तेजसा अन्तर्द्यावापृथिव्योर्मध्ये आभाति समन्तात्प्रकाशते । यद्वा - रोदसी व्यख्यत् विचष्टे यथावत्प्रकाशयति । स्वयमपि तयोर्मध्ये भाति । तस्मान्महातेजसानेन किं हि नाम कर्तुं न शक्यते इति भावः । `भागधेयेनैवैनँ शमयित्वा परानभि निर्दिशति’ ``इति ब्राह्मणम् ।

‘अभि वा एष एतानुच्यति येषां पूर्वापरा अन्वञ्चः प्रमीयन्ते पुरुषाहुतिर्ह्यस्य प्रियतमाग्नये क्षामवते पुरोःडाशमष्टाकपालं निर्वपेत्’ इत्यस्यापीयमेव पुरोनुवाक्या । तदैवं योजनीयम् - अयमेवंगुणविशिष्टोग्निरस्माकं पूर्वापरप्रमादहेतुं पापं क्षाम क्षीणं यथा तथा रेरिहत् आस्वादयन् नाशयन् अनेन हविषा समिद्धः शब्दं करोत्विति । `‘भागधेयेनैवैनं शमयति नैषां पुरायुषोपरः प्र मीयते’ ``इति ब्राह्मणम् ।

‘अभि वा एष एतस्य गृहानुच्यति यस्य गृहान्दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्’ इत्यस्यापीयमेव पुरोनुवाक्या । तत्र त्वेवं व्याख्येयम् - क्षाम क्षीणं दग्धमस्मद्गृहं रेरिहत् आस्वादयन्वीरुधो गृहावयवान् स्थूणावंशदीन् समञ्जन् भक्षयन्नयं खल्वग्निरक्रन्दत् । तस्मादिममिदानीमेवानेन हविषा प्रसन्नं करोमि, यथा पुनरस्मद्गृहं न धक्ष्यतीति । ‘भागधेयेनैवैनं शमयति नास्यापरं गृहान्दहति’ `इति ब्राह्मणम् ॥

हरदत्तः

दावाग्निस्स्तूयते - अक्रन्ददिति ॥ अक्रन्दत् क्रन्दती अग्निः दावरूपः स्तनयन्निव पर्जन्य इव द्यौः सप्तम्यर्थे प्रथमा । दिवि व्योम्नि क्षाम क्षामेती पृथिवीनाम । पदकाले छान्दसं हृस्वत्वम् । द्वितीयार्थं चैतल्लुप्तविभक्तिकम् । क्षामां रेरिहत् आस्वादयन् अटवीस्थलं दहन्नित्यर्थः । वीरुधः गुल्मान् समञ्जन् सम्यग्गच्छन् भक्षणार्थं भक्षयन्नित्येव वाऽर्थः । किञ्च - जज्ञानः जातोऽयमटव्यां सद्यः तदैव इद्धः दीप्तः व्यख्यत् । व्यत्ययेनायं कर्मणि कर्तृप्रत्ययः । विख्यायते विशेषेण दृश्यते दूरस्थैरपि हि । ईमिति? पादपूरणे । तथा रोदसी सन्तः द्यावापृथिव्योर्मध्ये भानुना स्वया दीप्त्या आभाति समन्ता दीप्यते ॥

मानसतरङ्गिणीकृत्

agni roared out, like dyaus when thundering,
he licking the Earth, stroking the vegetation,
at once, when born, he looked around enkindled,
lighting up heaven and earth from within with splendor.

Wilson

English translation:

Agni cries aloud like the thundering heaven; he licks the earth burning the plural nts; as soon asgenerated, he contemplates this (conflagration); when kindled he blazes with his (own) radiance between heavenand earth.”

Jamison Brereton

Agni has roared like thundering heaven, constantly licking at (heaven and) earth, anointing the plants,
for as soon as he was born kindled, he surveyed them. He radiates with his radiant beam between the two world-halves.

Griffith

Agni roared out, like Dyaus what time he thunders: he licked the ground about the plants he flickered.
At once, when born, he looked around enkindled, and lightened heaven and earth within with splendour.

Keith

Agni hath cried like Dyaus thundering,
Licking the earth, devouring the plants;
Straightway on birth he shone aflame;

Geldner

Es brüllte Agni wie der Himmel donnernd, den Erdboden leckend, die Pflanzen bestreichend. Denn eben geboren hat der Entflammte alsbald nach ihnen Ausschau gehalten; er erglänzt mit seinem Glanze zwischen beiden Welthälften.

Grassmann

Es brüllte Agni, donnernd wie der Himmel, den Boden leckend, um die Pflanzen flackernd; Denn kaum erzeugt, erblickt er Erd’ und Himmel und strahlt entzündet glänzend zwischen beiden.

Elizarenkova

Взревел Агни, как гремящее небо,
Облизывая почву, смазывая растения.
Едва лишь родившись, зажженный, он стал их высматривать.
(Своим) светом сияет он между двух миров.

अधिमन्त्रम् (VC)
  • अग्निः
  • वत्सप्रिः
  • निचृत्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (द्यौः) द्युलोक में दीप्त विद्युदग्नि (स्तनयन्-इव यथा) शब्द करता हुआ चमकता है, तथा (अग्निः) यह पार्थिव अग्नि (क्षाम) पृथिवी के प्रति (अक्रन्दत्) जलता हुआ शब्द करता है (वीरुधः-समञ्जन् रेरिहत्) ओषधियों को काष्ठों को संसक्त हुआ-जलता हुआ भस्मी करने के लिए बार-बार चाटता है-स्पर्श करता है (सद्यः-जज्ञानः) तुरन्त प्रकट हुआ (हि-ईम्-इद्धः) इस प्रकार प्रज्वलित हुआ (अख्यत्) प्रत्यक्ष होता है (रोदसी-अन्तः-भानुना वि भाति) द्युलोक पृथिवीलोक के मध्य में दीप्ति से विशिष्टरूप से प्रकाशित होता है ॥४॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - द्युलोक में सूर्यरूप से अग्नि प्रकाशमान होता है, अन्तरिक्ष में विद्युद्रूप से और पृथ्वी पर काष्ठ इन्धन द्वारा पार्थिव अग्नि के रूप में प्रकाशित होता है, इस प्रकार अग्नितत्त्व द्यावापृथ्वीमय जगत् में प्रसिद्ध हुआ अन्य प्रदार्थों का प्रकाशक है ॥४॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (द्यौः) द्युलोकं प्रति दीप्तो विद्युदग्निः (स्तनयन् इव यथा) शब्दयन् प्रकाशते, तथा (अग्निः) एषः पार्थिवोऽग्निः (क्षाम) पृथिवीं प्रति “क्षाम क्षामा पृथिवीनाम” [निघ० १।१] (अक्रन्दत्) क्रन्दति ज्वलन् सन् शब्दं करोति (वीरुधः-समञ्जन् रेरिहत्) ओषधीः काष्ठानि संसक्तः सन् प्रज्वलयन् पुनः पुनः लेढि भस्मीकरणाय (सद्यः-जज्ञानः) प्रकटीभूतस्तत्काले तदैव (हि-ईम्-इद्धः) एवं खलु दीप्तः प्रज्वलितः (अख्यन्) प्रत्यक्षं भवति (रोदसी-अन्तः भानुना विभाति) द्यावापृथिव्योरन्तर्मध्ये “रोदसी द्यावापृथिवीनाम” [निघ० ३।३०] द्युलोकपृथिवीलोकयोर्मध्ये विशिष्टं प्रकाशते ॥४॥

२५ उशिक्पावको अरतिस्सुमेधा ...{Loading}...

०७ उशिक्पावको अरतिः ...{Loading}...

उशि᳓क् +++(=कामयिता)+++ पावको᳓ अरतिः᳓ +++(=गन्ता)+++ सुमेधा᳓
म᳓र्तेष्व् अग्नि᳓र् अमृ᳓तो नि᳓धायि ।
इ᳓यर्ति +++(=गमयति)+++ धूम᳓म् अरुष᳓म् +++(=महत्)+++ भ᳓रिभ्रद्
उ᳓च् छुक्रे᳓ण शोचि᳓षा द्या᳓म् इ᳓नक्षत् +++(=दीपयत्)+++।

ँश

२५ उशिक्पावको अरतिस्सुमेधा ...{Loading}...

मूलम्

उ॒शिक्पा॑व॒को अ॑र॒तिस्सु॑मे॒धा मर्ते॑ष्व॒ग्निर॒मृतो॒ निधा॑यि ।
इय॑र्ति धू॒मम॑रु॒षम्भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षत् ।

007 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वत्सप्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

उशि᳓क् पवाको᳓+ अरतिः᳓ सुमेधा᳓
म᳓र्तेषु अग्नि᳓र् अमृ᳓तो नि᳓ धायि
इ᳓यर्ति धूम᳓म् अरुष᳓म् भ᳓रिभ्रद्
उ᳓च् छुक्रे᳓ण शोचि᳓षा द्या᳓म् इ᳓नक्षन्

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M;; repeated line
genre M
genre M


Morph
aratíḥ ← aratí- (nominal stem)
{case:NOM, gender:M, number:SG}

pāvakáḥ ← pāvaká- (nominal stem)
{case:NOM, gender:M, number:SG}

sumedhā́ḥ ← sumedhás- (nominal stem)
{case:NOM, gender:M, number:SG}

uśík ← uśíj- (nominal stem)
{case:NOM, gender:M, number:SG}

agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

amŕ̥taḥ ← amŕ̥ta- (nominal stem)
{case:NOM, gender:M, number:SG}

dhāyi ← √dhā- 1 (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:PASS}

márteṣu ← márta- (nominal stem)
{case:LOC, gender:M, number:PL}

ní ← ní (invariable)

aruṣám ← aruṣá- (nominal stem)
{case:ACC, gender:M, number:SG}

bháribhrat ← √bhr̥- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

dhūmám ← dhūmá- (nominal stem)
{case:ACC, gender:M, number:SG}

íyarti ← √r̥- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

dyā́m ← dyú- ~ div- (nominal stem)
{case:ACC, gender:M, number:SG}

ínakṣan ← √naś- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT, mood:DES}

śocíṣā ← śocís- (nominal stem)
{case:INS, gender:N, number:SG}

śukréṇa ← śukrá- (nominal stem)
{case:INS, gender:N, number:SG}

út ← út (invariable)

पद-पाठः

उ॒शिक् । पा॒व॒कः । अ॒र॒तिः । सु॒ऽमे॒धाः । मर्ते॑षु । अ॒ग्निः । अ॒मृतः॑ । नि । धा॒यि॒ ।
इय॑र्ति । धू॒मम् । अ॒रु॒षम् । भरि॑भ्रत् । उत् । शु॒क्रेण॑ । शो॒चिषा॑ । द्याम् । इन॑क्षन् ॥

Hellwig Grammar
  • uśikuśij
  • [noun], nominative, singular, masculine

  • pāvakopāvakaḥpāvaka
  • [noun], nominative, singular, masculine
  • “pure; purifying; pure; āgneya; clear; bright; bright.”

  • aratiḥarati
  • [noun], nominative, singular, masculine
  • “charioteer.”

  • sumedhāsumedhāḥsumedhas
  • [noun], nominative, singular, masculine
  • “wise.”

  • marteṣvmarteṣumarta
  • [noun], locative, plural, masculine
  • “man.”

  • agniragniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • amṛtoamṛtaḥamṛta
  • [noun], nominative, singular, masculine
  • “immortal; amṛta; imperishable.”

  • ni
  • [adverb]
  • “back; down.”

  • dhāyidhā
  • [verb], singular, Aorist passive
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • iyartiṛch
  • [verb], singular, Present indikative
  • “enter (a state); travel; shoot; send; hit; originate; get; raise; begin; harm.”

  • dhūmamdhūma
  • [noun], accusative, singular, masculine
  • “smoke; dhūmavedha; carbon black; dhūmana; mist; vapor; vaporization; dhūma [word]; incense.”

  • aruṣamaruṣa
  • [noun], accusative, singular, masculine
  • “red; red.”

  • bharibhradbharibhratbharibhṛ√bhṛ
  • [verb noun], nominative, singular

  • ucud
  • [adverb]
  • “up.”

  • chukreṇaśukreṇaśukra
  • [noun], instrumental, singular, neuter
  • “bright; clear; white; light; pure.”

  • śociṣāśocis
  • [noun], instrumental, singular, neuter
  • “fire; flare; burn; radiance.”

  • dyāmdiv
  • [noun], accusative, singular, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • inakṣaninakṣ√naś
  • [verb noun], nominative, singular
  • “wish.”

सायण-भाष्यम्

उशिक् हवींषि कामयमानः पावकः सर्वस्य लोकस्य शोधकः अरतिः गन्ता भूतानामारथिता वा सुमेधाः सुप्रज्ञः अमृतः मरणधर्मरहितः अग्निः मर्तेषु मनुष्येषु नि धायि निहितः । सोऽयमग्निः धूमम् इयर्ति प्रेरयति । किंच अरुषम् आरोचमानं रूपं भरिभ्रत् धारयन् शुक्रेण शुक्लेन शोचिषा रोचिषा द्यां दिवम् इनक्षन् व्याप्नुवन् गच्छतीति शेषः ॥

हरदत्तः

उशिगिति ॥ वशोरिङ् उशिक् कामयिता, काम्यो वा पावकः शोधयिता अरतिः गन्ता सुमेधाः सुपक्षः सुप्रज्ञः मर्तेषु मनुष्येषु मनुष्यलोके वा अग्निः अमृतः अमरणधर्मा निधायि निहितः गार्हपत्यादिरूपेण । स च इयर्ति उच्छब्दो वक्ष्यमाणोऽपेक्ष्यते, उदियर्ति उद्गमयति धूमं अरुषं महन्नामैतत् महान्तं रोचनं वा भरिभ्रत् किं? लोकम्,योह्ययं धूममुद्गमयति स मेघो भूत्वा वर्षति वर्षायत्ता च लोकस्य स्थितिः । शुक्रेण दीप्तेन शोचिषा तेजसा द्यां आकाशं इनक्षत् दीपयत् । लिङ्गव्यत्ययः इनक्षन् । नक्षातिर्व्याप्तिकर्मा, इकार उपजनः । व्याप्नुवन् ॥ ᳓

Wilson

English translation:

“Desiring (oblations), purifying, moving quickly, sagacious, immortal, Agni has been stationed amongmortals; he sends forth the smoke, and goes wearing a radiant (form), and percading the heaven with brilliantlustre.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Moving quickly: arati = going; or, the destroyer of beings; or, paryāptamati, of sufficient understanding;or, duṣṭeṣu prītirahitā, devoid of affection for the wicked; smoke wearing a radiant form: aruṣam = dhāmam,smoke not hurtint the eyes, or not shining;

Bharibhart = supporting;

Jagat = the world

Jamison Brereton

The fire-priest, pure circlet, very wise—Agni has been installed as immortal among the mortals.
He raises reddish smoke, as he carries it here and there, seeking to reach up to heaven with his blazing flame.

Griffith

So among mortals was Immortal Agni stablished as holy wise and willing envoy.
He waves the red smoke that he lifts above him, striving to reach the heavens with radiant lustre.

Geldner

Ein lauterer Fürbitter, ein weiser Rosselenker ist Agni, der Unsterbliche, unter den Sterblichen eingesetzt. Er treibt wirbelnd den rötlichen Rauch fort, mit seiner hellen Glut zum Himmel aufstrebend.

Grassmann

Verlangend, flammend, emsig, voller Weisheit steht Agni bei den Sterblichen, unsterblich, Den rothen Rauch erregt er und trägt fort ihn, mit hellem Lichte auf zum Himmel steigend.

Elizarenkova

Ревностный, чистый, с венцом из спиц, мудрый,
Среди смертных помещен бессмертный Агни.
Он гонит алый дым, вздымая вихрь,
Светлым пламенем стремясь подняться к небу.

अधिमन्त्रम् (VC)
  • अग्निः
  • वत्सप्रिः
  • निचृत्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (उशिक्) जीवों के लिए कल्याण कामना करनेवाला (पावकः) तथा पवित्रकर्त्ता (अरतिः) सर्वत्र व्यापक या भोगरति से रहित (सुमेधाः) शोभनबुद्धिवाला सर्वज्ञ (मर्तेषु-अमृतः-अग्निः-निधायि) मरणधर्मी प्राणियों में अमृत-मरणधर्मरहित ज्ञानस्वरूप परमात्मा निहित है (अरुषं धूमम्-इयर्ति) अज्ञाननिवारक प्रकाश को प्रेरित करता है (शुक्रेण शोचिषा द्याम्-इनक्षन्-भरिभ्रत्) शुभ्र प्रकाश से मोक्षधाम को व्याप्त होता हुआ धारण करता है ॥७॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - परमात्मा प्राणियों की कल्याण कामना करता हुआ सबके अन्दर व्यापक होकर जीवनप्रकाश प्रदान करता है और विशिष्ट मनुष्यों को मोक्ष की ओर भी प्रेरित करता है ॥७॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (उशिक्) जीवानां कल्याणं कामयमानः (पावकः) पवित्रीकर्त्ता (अरतिः) सर्वत्र व्याप्तो भोगरहितो वा (सुमेधाः) शोभनप्रज्ञः सर्वज्ञः (मर्तेषु-अमृतः-अग्निः निधायि) मरणधर्मकेषु प्राणिषु खल्वमृतो मरणधर्मरहितोऽग्निर्ज्ञानस्वरूपः परमात्मा निधीयते निहितो-ऽन्तर्हितोऽस्ति (अरुषं धूमम्-इयर्ति) आरोचमानं प्रकाशं धूनयितारमज्ञाननिवारकं प्रेरयति (शुक्रेण शोचिषा द्याम्-इनक्षन् भरिभ्रत्) शुभ्रेण प्रकाशेन मोक्षधाम “पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि” [ऋ १०।९०।३] “इनक्षन्-व्याप्नुवन्” [यजु० १२।२४ दयानन्दः] व्याप्नुवन्, बिभर्ति धारयति ॥७॥

२६ विश्वस्य केतुर्भुवनस्य ...{Loading}...

०६ विश्वस्य केतुर्भुवनस्य ...{Loading}...

वि᳓श्वस्य केतु᳓र् भु᳓वनस्य ग᳓र्भ
आ᳓ रो᳓दसी अपृणाज् +++(=अपूरयत्)+++ जा᳓यमानः ।
वीडुं᳓ +++(=दृढं)+++ चिद् अ᳓द्रिम् अभिनत् पराय᳓ञ् +++(=परागच्छन्)+++
ज᳓ना य᳓द् अग्नि᳓म् अ᳓यजन्त प᳓ञ्च ।

ँश

२६ विश्वस्य केतुर्भुवनस्य ...{Loading}...

मूलम्

विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ।
वी॒डुञ्चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ।

006 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वत्सप्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

वि᳓श्वस्य केतु᳓र् भु᳓वनस्य ग᳓र्भ
आ᳓ रो᳓दसी अपृणाज् जा᳓यमानः
वीळुं᳓ चिद् अ᳓द्रिम् अभिनत् पराय᳓ञ्
ज᳓ना य᳓द् अग्नि᳓म् अ᳓यजन्त प᳓ञ्च

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M;; repeated line
genre M
genre M


Morph
bhúvanasya ← bhúvana- (nominal stem)
{case:GEN, gender:N, number:SG}

gárbhaḥ ← gárbha- (nominal stem)
{case:NOM, gender:M, number:SG}

ketúḥ ← ketú- (nominal stem)
{case:NOM, gender:M, number:SG}

víśvasya ← víśva- (nominal stem)
{case:GEN, gender:M, number:SG}

ā́ ← ā́ (invariable)

apr̥ṇāt ← √pr̥̄- 1 (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}

jā́yamānaḥ ← √janⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

ródasī ← ródasī- (nominal stem)
{case:NOM, gender:F, number:DU}

abhinat ← √bhid- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}

ádrim ← ádri- (nominal stem)
{case:ACC, gender:M, number:SG}

cit ← cit (invariable)

parāyán ← √i- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

vīḷúm ← vīḷú- (nominal stem)
{case:ACC, gender:M, number:SG}

agním ← agní- (nominal stem)
{case:ACC, gender:M, number:SG}

áyajanta ← √yaj- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}

jánāḥ ← jána- (nominal stem)
{case:NOM, gender:M, number:PL}

páñca ← páñca- (nominal stem)
{case:NOM, gender:M, number:PL}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

पद-पाठः

विश्व॑स्य । के॒तुः । भुव॑नस्य । गर्भः॑ । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः ।
वी॒ळुम् । चि॒त् । अद्रि॑म् । अ॒भि॒न॒त् । प॒रा॒ऽयन् । जनाः॑ । यत् । अ॒ग्निम् । अय॑जन्त । पञ्च॑ ॥

Hellwig Grammar
  • viśvasyaviśva
  • [noun], genitive, singular, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • keturketuḥketu
  • [noun], nominative, singular, masculine
  • “banner; ketu; sunbeam; enemy; sign; Premna spinosa Roxb.; comet; signal; signal; luminosity.”

  • bhuvanasyabhuvana
  • [noun], genitive, singular, neuter
  • “Earth; being; world; bhuvana [word].”

  • garbhagarbhaḥgarbha
  • [noun], nominative, singular, masculine
  • “fetus; garbha; inside; cavity; embryo; uterus; child; pit; garbhadruti; filling; pregnancy; room; abdomen; fertilization; inside; hole; baby; calyx; midst.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • rodasī
  • [noun], accusative, dual, feminine
  • “heaven and earth; Earth.”

  • apṛṇājapṛṇātpṛ
  • [verb], singular, Imperfect
  • “fill; elapse; pull back; fill; satisfy; bestow; meet; stuff; load; mix; complete.”

  • jāyamānaḥjan
  • [verb noun], nominative, singular
  • “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”

  • vīḍuṃvīḍumvīḍu
  • [noun], accusative, singular, masculine
  • “hard; firm.”

  • cidcit
  • [adverb]
  • “even; indeed.”

  • adrimadri
  • [noun], accusative, singular, masculine
  • “mountain; rock; seven; stone; adri; grindstone; adri; rock.”

  • abhinatbhid
  • [verb], singular, Imperfect
  • “break; incise; burst; divide; cut; cleave; destroy; cure; disturb; lance; break; distinguish; disclose; pierce; tear; separate; transgress; break open; scratch; penetrate; sever; bribe; grind; betray; fester; strike.”

  • parāyañparāyanpare√i
  • [verb noun], nominative, singular
  • “travel; depart; go; die.”

  • janājana
  • [noun], instrumental, singular, masculine
  • “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”

  • yadyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • agnimagni
  • [noun], accusative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • ayajantayaj
  • [verb], plural, Imperfect
  • “sacrifice; worship; worship.”

  • pañcapañcan
  • [noun], nominative, plural, masculine
  • “five; fifth; pañcan [word].”

सायण-भाष्यम्

विश्वस्य सर्वस्य केतुः प्रज्ञापकः भुवनस्य उदकस्य गर्भः गर्भभूतोऽग्निः जायमानः प्रादुर्भवन्नेव रोदसी द्यावापृथिव्यौ अपृणात् आपूरयति । परायन् परागच्छन् वीळुं चित् दृढमपि अद्रिं मेघम् अभिनत् भिनत्ति च । कदेत्यत्राह । यत् यदा पञ्च जनाः मनुष्याः अग्निमयजन्त यजन्ते ॥ ॥ २८ ॥ ᳓

हरदत्तः

विश्वस्येति ॥ विश्वस्य केतुः सर्वस्य ज्ञाता भुवनस्य भूत जातस्य गर्भः वैश्वानरात्मना । एवम्भूतोऽग्निः जायमान एव रोदसी आऽपृणात् आपूरयति स्वेन तेजसा । किञ्च - वीडुं चित् वीडुरिति दृढनाम, दृढमपि अद्रिं मेघं पर्वतं वा अभिनत् भिनत्ति परायन् परागच्छन् यत् यदा अग्निं एनं पञ्च जनाः निषादपञ्चमाश्चत्वारो वर्णाः अयजन्त यजन्ते तदा हविर्गृहीत्वा प्रतिगच्छन् पर्वतादिकमपि भित्त्वा गच्छतीत्यर्थः ॥ ᳓

Wilson

English translation:

“The manifester of all, the germ of the world, Agni, as soon as born fills heaven and earth (with light);he fractures as he advances the solid cloud, for which the classes of men praise him.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Five classes: pañcajanāḥ = five men; or, the four chief priests and the yajamāna

Jamison Brereton

Beacon of all creation, the embryo filled both world-halves while he was being born. He split even the solid rock in leaving it, when the five peoples sacrificed to Agni.

Griffith

Germ of the world, ensign of all creation, be sprang to life and filled the earth and heavens.
Even the firm rock he cleft when passing over, when the Five Tribes brought sacrifice to Agni.

Geldner

Das Banner des Alls, das Kind der Welt hat er bei seiner Geburt Himmel und Erde erfüllt. Er spaltete sogar den festen Fels in die Ferne ziehend, als die fünf Völker den Agni anbeteten.

Grassmann

Als Spross des Weltalls, aller Wesen Leuchte, erfüllte Erd’ und Himmel der geborne, Den festen Fels auch brach er, als er hinging, als die fünf Stämme huldigten dem Agni.

Elizarenkova

Знамя всего, зародыш вселенной,
Рождаясь, он заполнил оба мира.
Даже твердую скалу расколол он, уходя вдаль,
Когда пять народов почтили Агни.

अधिमन्त्रम् (VC)
  • अग्निः
  • वत्सप्रिः
  • त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (विश्वस्य केतुः) संसार का प्रकाशक, प्रेरक, संचालक (भुवनस्य गर्भः) प्राणिमात्र का ग्रहण करनेवाला-स्वीकार करनेवाला (जायमानः-रोदसी-अपृणात्) उदय होता हुआ द्युलोक और पृथ्वीलोक को अपने प्रकाश से भर देता है-छिन्न-भिन्न कर देता है (परायन् वीळुं चित्-अद्रिम्-अभिनत्) बलवान्मेघ को भी पराक्रम से तोड़ देता है-छिन्न-भिन्न कर देता है (यत्-पञ्च जनाः-अग्निम्-अयजन्त) ब्राह्मण, क्षत्रिय, वैश्य, शूद्र, निषाद नामक पाँचों जन जब अग्निहोत्र में अग्नि का यजन करते हैं, उस समय ॥६॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - सूर्य संसार में प्रगति देनेवाला है, आकाश और पृथ्वी के मध्य में अपने प्रकाश को भर देता है। मनुष्यमात्र जब सामूहिकरूप से यजन करते हैं और यज्ञ में मेघ बनते हैं, उन मेघों को पृथ्वी पर बरसा देनेवाला सूर्य है। वह मेघों को छिन्न-भिन्न कर पृथ्वी पर बरसा देता है, जो प्राणियों के पोषण का निमित्त बनता है ॥६॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (विश्वस्य केतुः) संसारस्य प्रद्योतयिता प्रेरयिता चालयिता (भुवनस्य गर्भः) भूतजातस्य प्राणिमात्रस्य ग्रहणकर्त्ता स्वीकर्त्ता (जायमानः-रोदसी-अपृणात्) उदयन् द्यावापृथिव्यौ स्वप्रकाशेन पूरयति (परायन् वीळुं चित्-अद्रिम्-अभिनत्) बलवन्तमपि मेघम् “अद्रिर्मेघनाम” [निघ० १।१०] पराक्रमं कुर्वन् भिनत्ति (यत् पञ्च जनाः-अग्निम्-अयजन्त) ब्राह्मणक्षत्रियवैश्यशूद्रनिषादाः यदाऽग्निहोत्रेऽग्निं यजन्ति-अग्निहोत्रं कुर्वन्ति तदा “पञ्चजना………चत्वारो वर्णा निषादः पञ्चमः [निरु० ३।८] ॥६॥

२७ श्रीणामुदारो धरुणो ...{Loading}...

०५ श्रीणामुदारो धरुणो ...{Loading}...

श्रीणा᳓म् उदारो᳓ धरु᳓णो रयीणा᳓म्
मनीषा᳓णाम् प्रा᳓र्पणः सो᳓मगोपाः ।
व᳓सोः सूनुः᳓ स᳓हसो अप्सु᳓ रा᳓जा +++(=दीप्यमानः)+++
वि᳓ भात्य् अ᳓ग्र उष᳓साम् इधानः᳓ ।

ँश

२७ श्रीणामुदारो धरुणो ...{Loading}...

मूलम्

श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम्म॑नी॒षाणा॒म्प्रार्प॑ण॒स्सोम॑गोपाः ।
वसोः॑ सू॒नुस्सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः ।

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वत्सप्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

श्रीणा᳓म् उदारो᳓ धरु᳓णो रयीणा᳓म्
मनीषा᳓णाम् प्रा᳓र्पणः सो᳓मगोपाः
व᳓सुः सूनुः᳓ स᳓हसो अप्सु᳓ रा᳓जा
वि᳓ भाति अ᳓ग्र उष᳓साम् इधानः᳓

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M
genre M


Morph
dharúṇaḥ ← dharúṇa- (nominal stem)
{case:NOM, gender:M, number:SG}

rayīṇā́m ← rayí- ~ rāy- (nominal stem)
{case:GEN, gender:M, number:PL}

śrīṇā́m ← śrī́- (nominal stem)
{case:GEN, gender:F, number:PL}

udāráḥ ← udārá- (nominal stem)
{case:NOM, gender:M, number:SG}

manīṣā́ṇām ← manīṣā́- (nominal stem)
{case:GEN, gender:F, number:PL}

prā́rpaṇaḥ ← prā́rpaṇa- (nominal stem)
{case:NOM, gender:M, number:SG}

sómagopāḥ ← sómagopā- (nominal stem)
{case:NOM, gender:M, number:SG}

apsú ← áp- (nominal stem)
{case:LOC, gender:F, number:PL}

rā́jā ← rā́jan- (nominal stem)
{case:NOM, gender:M, number:SG}

sáhasaḥ ← sáhas- (nominal stem)
{case:ABL, gender:N, number:SG}

sūnúḥ ← sūnú- (nominal stem)
{case:NOM, gender:M, number:SG}

vásuḥ ← vásu- (nominal stem)
{case:NOM, gender:M, number:SG}

ágre ← ágra- (nominal stem)
{case:LOC, gender:N, number:SG}

bhāti ← √bhā- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

idhānáḥ ← √idh- 1 (root)
{case:NOM, gender:M, number:SG, tense:AOR, voice:MED}

uṣásām ← uṣás- (nominal stem)
{case:GEN, gender:F, number:PL}

ví ← ví (invariable)

पद-पाठः

श्री॒णाम् । उ॒त्ऽआ॒रः । ध॒रुणः॑ । र॒यी॒णाम् । म॒नी॒षाणा॑म् । प्र॒ऽअर्प॑णः । सोम॑ऽगोपाः ।
वसुः॑ । सू॒नुः । सह॑सः । अ॒प्ऽसु । राजा॑ । वि । भा॒ति॒ । अग्रे॑ । उ॒षसा॑म् । इ॒धा॒नः ॥

Hellwig Grammar
  • śrīṇāmśrī
  • [noun], genitive, plural, feminine
  • “mister; Ms.; Lakshmi; good fortune; well-being; magnificence; glory; beauty; Aegle marmelos (Linn.) Correa; dignity; power; śrī [word]; śrī; prosperity; auspiciousness.”

  • udāroudāraḥudāra
  • [noun], nominative, singular, masculine
  • “eminent; strong; distinguished.”

  • dharuṇodharuṇaḥdharuṇa
  • [noun], nominative, singular, masculine
  • “holding; supportive.”

  • rayīṇāmrayi
  • [noun], genitive, plural, masculine
  • “wealth; property.”

  • manīṣāṇāmmanīṣā
  • [noun], genitive, plural, feminine
  • “hymn; inspiration; idea; thinking; wish; consideration; intelligence.”

  • prārpaṇaḥprārpaṇa
  • [noun], nominative, singular, masculine

  • somagopāḥsoma
  • [noun], masculine
  • “Soma; moon; soma [word]; Candra.”

  • somagopāḥgopāḥgopā
  • [noun], nominative, singular, masculine
  • “herder; defender.”

  • vasuḥvasu
  • [noun], nominative, singular, masculine
  • “good; good; benign; vasu [word].”

  • sūnuḥsūnu
  • [noun], nominative, singular, masculine
  • “son; offspring.”

  • sahasosahasaḥsahas
  • [noun], genitive, singular, neuter
  • “force; strength; might; sahas [word]; conquest.”

  • apsuap
  • [noun], locative, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • rājārājan
  • [noun], nominative, singular, masculine
  • “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • bhātybhātibhā
  • [verb], singular, Present indikative
  • “look; shine; show; look like; glitter; reflect.”

  • agraagreagra
  • [noun], locative, singular, neuter
  • “tip; beginning; peak; end; front; top; beginning; battlefront; agra [word]; acme; fingertip; top; best; optimum; climax; matter; glans.”

  • uṣasāmuṣas
  • [noun], genitive, plural, feminine
  • “Ushas; dawn; uṣas [word]; morning.”

  • idhānaḥindh
  • [verb noun], nominative, singular
  • “kindle; ignite; set ablaze.”

सायण-भाष्यम्

श्रीणां विभूतीनाम् उदारः उद्गमयिता दाता रयीणां धनानां धरुणः धारकः मनीषाणाम् ईप्सितार्थानां प्रार्पणः प्रापयिता सोमगोपाः सोमस्य गोपा वसुः सर्वस्य लोकस्य वासकः सहसः बलस्य सूनुः अप्सु उदकेषु स्थितः राजा सर्वस्येश्वरः उषसाम् अग्रे प्रभातकाले इधानः अग्निहोत्रार्थं समिध्यमानोऽग्निः वि भाति प्रकाशते ॥ ᳓

हरदत्तः

श्रीणामिति । श्रीणां सम्पदां उदारः उद्नमयिता दाता धरुणो रयीणां धारयिता धनानां मनीषाणां बुद्धीनां सदर्थविषयाणां प्रार्पणः प्रापयिता समगोपाः सोमस्य गोपयिता । वसोः । प्रथमार्थे षष्ठी । बह्वृचानां तु तथैव पाठः । वसुः प्रशस्तः सूनुस्सहस्रः । सह इति बलनाम । बलस्य पुत्रः प्राणाद्धि बलाग्मथ्यमानोधिजायत इति । अप्सु राजा अप्सु दीप्यमानः वैद्युतात्मना बडबात्मना वा विभाति उषसामग्रे इधानः अग्निहोत्रिभिरिध्यमानः ॥

Wilson

English translation:

“Liberal, exciter of splendours, depositary of riches, granter of desires, preserver of the Soma, theinhabiter (of the world), the son of strength, (plural ced) in the waters, the king (Agni) blazes, kindled at thecommencement of dawn.”

Jamison Brereton

Rouser of beauties, buttress of riches, propeller of inspired thoughts, with Soma as herdsman,
good one, son of strength, king in the waters, he radiates forth, being kindled at the forefront of the dawns.

Griffith

The spring of glories and support of riches, rouser of thoughts and guardian of the Soma,
Good Son of Strength, a King amid the waters, in forefront of the Dawns he shines enkindled.

Geldner

Freigebig mit Auszeichnungen, Träger der Reichtümer, Erwecker der Gedanken, Wächter des Soma, der gute Sohn der Kraft, der König in den Gewässern, erstrahlt er von den Morgenröten entflammt.

Grassmann

Des Glücks Erreger und des Reichthums Gründer, der Lieder Wecker und des Soma’s Hüter, Der gute Sohn der Kraft in Wassern herrschend erstrahlt entzündet in der Morgen Anbruch.

Elizarenkova

Поощритель наград, основа богатств,
Возбудитель мыслей, хранитель сомы,
Добрый сын силы, царь вод,
Ярко сверкает он, зажигаемый перед утренними зорями.

अधिमन्त्रम् (VC)
  • अग्निः
  • वत्सप्रिः
  • निचृत्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (श्रीणाम्-उदारः) यह सूर्य अग्नि प्राणों का उत्तेजक है-उत्पन्न करनेवाला है (रयीणां धरुणः) पुष्टियों का धारक है (मनीषाणां प्रार्पणः) बुद्धियों का प्रेरक है (सोमगोपाः) उत्पन्न होते हुए पदार्थों का रक्षक है (वसुः) बसानेवाला-विस्तृत करनेवाला है (सहसः सूनुः) बल का उद्बोधक है(अप्सु राजा) अन्तरिक्ष में वर्तमान पिण्डों के राजा की भाँति है (उषसाम्-अग्रे-इधानः-विभाति) प्रभात मेंज्योतिरेखाओं के आगे अर्थात् पश्चात् विशिष्टरूप से दीप्त होता है ॥५॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - सूर्य संसार में प्राणशक्ति का प्रेरक है, नाना प्रकार की पुष्टियों को देनेवाला है। बुद्धियों का प्रेरक, उत्पन्न होनेवाले पदार्थों को बढ़ानेवाला, बलवर्धक, आकाश के पिण्डों को प्रकाश देनेवाला और उषावेलाओं के पश्चात् प्रकाशित होनेवाला या उदय होनेवाला उपयोगी पिण्ड है ॥५॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (श्रीणाम्-उदारः) एष सूर्यरूपोऽग्निः प्राणानाम् “प्राणाः श्रियः” [श० ६।१।१।४] उत्प्रेरक उन्नायकः (रयीणां धरुणः) पुष्टीनां धारको धारयिता (मनीषाणां प्रार्पणः) बुद्धीनां प्रेरयिता (सोमगोपाः) सवनीयानामुत्पद्यमानानां गोपायिता रक्षकः (वसुः) वासयिता (सहसः सूनुः) बलस्य-उत्प्रेरकः (अप्सु राजा) अन्तरिक्षे आकाशे पिण्डानां राजेव (उषसाम्-अग्रे-इधानः-विभाति) उषसां प्रभाते भवानां ज्योतीरेखानामग्रे-अनन्तरं विशिष्टं दीप्यते ॥५॥

२८ यस्ते अद्य ...{Loading}...

०९ यस्ते अद्य ...{Loading}...

य᳓स् ते अद्य᳓ कृण᳓वद् भद्रशोचे
ऽपूपं᳓ देव घृत᳓वन्तम् अग्ने।
प्र᳓ तं᳓ नय प्रतरां᳓ +++(=नितरां)+++ व᳓स्यो +++(=वसीयः)+++
अ᳓च्छाभि᳓ द्युम्नं᳓ +++(=धनं)+++ देव᳓भक्तं यविष्ठ ।

ँश

२८ यस्ते अद्य ...{Loading}...

मूलम्

यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पन्दे॑व घृ॒तव॑न्तमग्ने ।
प्र तन्न॑य प्रत॒राव्ँवस्यो॒ अच्छा॒भि द्यु॒म्नन्दे॒वभ॑क्तय्ँयविष्ठ । आ [८]

009 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वत्सप्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

य᳓स् ते अद्य᳓ कृण᳓वद् भद्रशोचे
अपूपं᳓ देव घृत᳓वन्तम् अग्ने
प्र᳓ तं᳓ नय प्रतरं᳓ व᳓स्यो अ᳓छ
अभि᳓ सुम्नं᳓ देव᳓भक्तं यविष्ठ

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M
genre M


Morph
adyá ← adyá (invariable)

bhadraśoce ← bhadraśoci- (nominal stem)
{case:VOC, gender:M, number:SG}

kr̥ṇávat ← √kr̥- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}

te ← tvám (pronoun)
{case:DAT, number:SG}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

apūpám ← apūpá- (nominal stem)
{case:ACC, gender:M, number:SG}

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

ghr̥távantam ← ghr̥távant- (nominal stem)
{case:ACC, gender:M, number:SG}

ácha ← ácha (invariable)

naya ← √nī- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

prá ← prá (invariable)

pratarám ← pratarám (invariable)

tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}

vásyaḥ ← vásyaṁs- (nominal stem)
{case:NOM, gender:N, number:SG}

abhí ← abhí (invariable)

devábhaktam ← devábhakta- (nominal stem)
{case:NOM, gender:N, number:SG}

sumnám ← sumná- (nominal stem)
{case:NOM, gender:N, number:SG}

yaviṣṭha ← yáviṣṭha- (nominal stem)
{case:VOC, gender:M, number:SG}

पद-पाठः

यः । ते॒ । अ॒द्य । कृ॒णव॑त् । भ॒द्र॒ऽशो॒चे॒ । अ॒पू॒पम् । दे॒व॒ । घृ॒तऽव॑न्तम् । अ॒ग्ने॒ ।
प्र । तम् । न॒य॒ । प्र॒ऽत॒रम् । वस्यः॑ । अच्छ॑ । अ॒भि । सु॒म्नम् । दे॒वऽभ॑क्तम् । य॒वि॒ष्ठ॒ ॥

Hellwig Grammar
  • yasyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • adya
  • [adverb]
  • “now; today; then; nowadays; adya [word].”

  • kṛṇavadkṛṇavatkṛ
  • [verb], singular, Present conjunctive (subjunctive)
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • bhadraśocebhadra
  • [noun]
  • “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”

  • bhadraśoceśoceśoci
  • [noun], vocative, singular, masculine
  • “fire.”

  • ‘pūpaṃapūpamapūpa
  • [noun], accusative, singular, masculine
  • “Apūpa; apūpa [word]; wheat.”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • ghṛtavantamghṛtavat
  • [noun], accusative, singular, masculine
  • “buttery.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • taṃtamtad
  • [noun], accusative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • naya
  • [verb], singular, Present imperative
  • “bring; lead; spend; decant; enter (a state); remove; take out; take away; enforce; marry; carry; fill into; bring; learn; go out; add.”

  • prataraṃprataram
  • [adverb]
  • “farther.”

  • vasyovasyaḥvasyas
  • [noun], accusative, singular, neuter
  • “good fortune; well-being.”

  • acchābhiacchaacchā
  • [adverb]
  • “towards; accha [prefix].”

  • acchābhiabhi
  • [adverb]
  • “towards; on.”

  • sumnaṃsumnamsumna
  • [noun], accusative, singular, neuter
  • “favor; benevolence; sumna [word]; entreaty; favor.”

  • devabhaktaṃdeva
  • [noun], masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • devabhaktaṃbhaktambhaj
  • [verb noun], accusative, singular
  • “eat; enjoy; enter (a state); worship; love; flee; possess; fall to one’s share; partake; share; get; approach; love; use.”

  • yaviṣṭha
  • [noun], vocative, singular, masculine
  • “youngest.”

सायण-भाष्यम्

हे भद्रशोचे कल्याणदीप्ते हे देव द्योतमान यविष्ठ युवतम अग्ने ते तुभ्यं यः यजमानः अद्य अस्मिन्नहनि घृतवन्तं घृतेन युक्तम् अपूपं पुरोडाशं कृणवत् करोति प्रतरं प्रकृष्टतरं यजमानं वस्यः वसीयः अच्छ प्रति प्र नय अत्यर्थं प्रापय । तथा देवभक्तं स्तुतिभिर्हविर्भिश्च देवानां संभक्तारं सेवितारं तं यजमानं सुम्नं सुखम् अभि प्रति प्र नय ॥ ᳓

हरदत्तः

यस्त इति ॥ हे देव । अग्ने भद्र शोचे कल्याणदीप्ते यो मनुष्या ते तुभ्यं घृतवन्तं अपूपं पुरोडाशं अद्य कृणवत् कुर्यात् दद्यात् तं देवभक्तं वस्यः वसीयः श्रेयः अच्छ आप्तुं प्रणय प्रकर्षेण नय श्रेयः प्रापयेत्यर्थः । द्युम्नं धनं यशो वा तच्च अभिप्रतरां नय प्रकृष्टतरं नय हे यविष्ठ । युवतम ॥ ᳓

Wilson

English translation:

“Auspiciously radiant and divine Agni, youngest (of the gods), grant ample wealth to the eminent(worshipper), who presents to you today cakes dressed with butter, and confer happiness upon one devoted tothe gods.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Gomantam = radiant; from go, a ray of light; vrajamārga (a road), the way to the solar orb, the path ofthe gods

Jamison Brereton

Whoever will make for you today a ghee-covered cake, o god Agni of fortunate flame,
lead him further forward, toward a better state, toward favor
apportioned by the gods, o youngest one.

Griffith

Whoso this day, O God whose flames are lovely, prepares a cake, O Agni, mixt with butter,
Lead thou and further him to higher fortune, to bliss bestowed by Gods, O thou Most Youthful.

Geldner

Wer dir heute einen schmalzigen Kuchen bereiten wird, Gott Agni von wohltätiger Glut, den geleite weiter zum Glück, zu gottgeschenkter Gunst, o Jüngster!

Grassmann

Der heute dir den butterreichen Kuchen, o Agni, Gott, hellfunkelnder, bereitet, Den führe vorwärts du zu schönem Gute, o jüngster, zu dem Gott-ertheilten Segen.

Elizarenkova

Кто тебе сегодня приготовил лепешку,
Пропитанную жиром, о бог Агни с благородным пламенем,
Поведи того дальше к счастью,
К благосклонности, дарованной богами, о самый юный!

अधिमन्त्रम् (VC)
  • अग्निः
  • वत्सप्रिः
  • विराट्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (भद्रशोचे यविष्ठ देव-अग्ने) हे कल्याणदीप्तिवाले ! अत्यन्तसङ्गमनीय ! परमात्मदेव ! (ते) तेरे लिए (अद्य) इस वर्तमान काल में या जीवन में (यः) जो उपासक (घृतवन्तम्-अपूपं कृणवत्) संयम द्वारा इन्द्रियगण को तेजस्वी बनाता है (तं प्रतरं वस्यः-अभि-अच्छ सुम्नं देवभक्तं प्र नय) उस उपासक जन को प्रकृष्टतर, श्रेष्ठ, अत्यन्त बसनेवाला, प्रशंसनीय, धनैश्वर्यरूप, मुमुक्षुओं के द्वारा भजनीय सुखविशेष-मोक्ष के प्रति प्रेरित कर-ले जा ॥९॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - परमात्मा का ज्ञानप्रकाश कल्याणकारी है, वह समागम के योग्य है। जो उपासक संयम द्वारा अपनी इन्द्रियों को तेजस्वी बना लेता है, उसे परमात्मा सांसारिक सुख भोगों से उत्कृष्ट सुखविशेषरूप मोक्ष को प्राप्त कराता है ॥९॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (भद्रशोचे यविष्ठ देव-अग्ने) हे कल्याणदीप्तिक ! अतिसङ्गतिशील ! ज्ञानप्रकाशक परमात्मदेव ! (ते) तुभ्यम् (अद्य) अस्मिन् वर्तमाने काले जन्मनि वा (यः) यः खलूपासकः (घृतवन्तम्-अपूपं कृणवत्) स यमेन तेजस्विनं खल्विन्द्रियगणम् “इन्द्रियमपूपः” [ऐ० २।२४] करोति (तं प्रतरं वस्यः-अभि-अच्छ-सुम्नं देवभक्तं प्र नय) तमुपासकं जनमतिप्रकृष्टं श्रेष्ठं वसुतरं वासयितृतरं प्रशंसनीयधनैश्वर्यरूपं सुम्नं सुखविशेषं देवैर्भजनीयमभिमोक्षं प्रति “सुम्नं सुखनाम” [निघ० ३।६] प्रेरय-प्रगमय ॥९॥

२९ तम्भज सौश्रवसेष्वग्न ...{Loading}...

१० आ तं ...{Loading}...

आ᳓ त᳓म् भज सौश्रवसे᳓ष्व् +++(स्वन्नेषु [यागेषु])+++ अग्न
उक्थ᳓उक्थ आ᳓ भज शस्य᳓माने ।
प्रियः᳓ सू᳓र्ये प्रियो᳓ अग्ना᳓ भवात्य्
उ᳓ज् जाते᳓न +++{पुत्रादिना}+++ भिन᳓दद् +++(=उद्भिद्य प्रकाशताम्)+++ उ᳓ज्ज᳓नित्वैः +++(=जनिष्यमाणैः)+++।

ँश

२९ तम्भज सौश्रवसेष्वग्न ...{Loading}...

मूलम्

(आ) तम्भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थउ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।
प्रि॒यस्सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ।

010 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वत्सप्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

आ᳓ त᳓म् भज सौश्रवसे᳓षु अग्न
उक्थ᳓-उक्थ आ᳓ भज शस्य᳓माने
प्रियः᳓ सू᳓र्ये प्रियो᳓ अग्ना᳓ भवाति
उ᳓ज् जाते᳓न भिन᳓दद् उ᳓ज् ज᳓नित्वैः

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M;; repeated line
genre M


Morph
ā́ ← ā́ (invariable)

agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

bhaja ← √bhaj- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

sauśravaséṣu ← sauśravasá- (nominal stem)
{case:LOC, gender:N, number:PL}

tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}

ā́ ← ā́ (invariable)

bhaja ← √bhaj- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

śasyámāne ← √śaṁs- (root)
{case:LOC, gender:N, number:SG, tense:PRS, voice:PASS}

ukthá-ukthe ← ukthá- (nominal stem)
{case:LOC, gender:N, number:SG}

agnā́ ← agní- (nominal stem)
{case:LOC, gender:M, number:SG}

bhavāti ← √bhū- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}

priyáḥ ← priyá- (nominal stem)
{case:NOM, gender:M, number:SG}

priyáḥ ← priyá- (nominal stem)
{case:NOM, gender:M, number:SG}

sū́rye ← sū́rya- (nominal stem)
{case:LOC, gender:M, number:SG}

bhinádat ← √bhid- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}

jánitvaiḥ ← jánitva- (nominal stem)
{case:INS, gender:M, number:PL}

jāténa ← √janⁱ- (root)
{case:INS, gender:M, number:SG, non-finite:PPP}

út ← út (invariable)

út ← út (invariable)

पद-पाठः

आ । तम् । भ॒ज॒ । सौ॒श्र॒वसेषु॑ । अ॒ग्ने॒ । उ॒क्थेऽउ॑क्थे । आ । भ॒ज॒ । श॒स्यमा॑ने ।
प्रि॒यः । सूर्ये॑ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । उत् । जा॒तेन॑ । भि॒नद॑त् । उत् । जनि॑ऽत्वैः ॥

Hellwig Grammar
  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • tamtad
  • [noun], accusative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • bhajabhaj
  • [verb], singular, Present imperative
  • “eat; enjoy; enter (a state); worship; love; flee; possess; fall to one’s share; partake; share; get; approach; love; use.”

  • sauśravaseṣvsauśravaseṣusauśravasa
  • [noun], locative, plural, neuter

  • agnaagneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • ukthauktheuktha
  • [noun], locative, singular, neuter
  • “hymn; praise; uktha [word]; encomium.”

  • ukthauktheuktha
  • [noun], locative, singular, neuter
  • “hymn; praise; uktha [word]; encomium.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • bhajabhaj
  • [verb], singular, Present imperative
  • “eat; enjoy; enter (a state); worship; love; flee; possess; fall to one’s share; partake; share; get; approach; love; use.”

  • śasyamāneśaṃs
  • [verb noun], locative, singular
  • “recommend; tell; praise; approve; communicate; recite; commend; bode; name; agree.”

  • priyaḥpriya
  • [noun], nominative, singular, masculine
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

  • sūryesūrya
  • [noun], locative, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

  • priyopriyaḥpriya
  • [noun], nominative, singular, masculine
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

  • agnāagni
  • [noun], locative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • bhavātybhavātibhū
  • [verb], singular, Present conjunctive (subjunctive)
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • ujud
  • [adverb]
  • “up.”

  • jātenajan
  • [verb noun], instrumental, singular
  • “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”

  • bhinadadbhinadatbhid
  • [verb], singular, Present conjunctive (subjunctive)
  • “break; incise; burst; divide; cut; cleave; destroy; cure; disturb; lance; break; distinguish; disclose; pierce; tear; separate; transgress; break open; scratch; penetrate; sever; bribe; grind; betray; fester; strike.”

  • ujud
  • [adverb]
  • “up.”

  • janitvaiḥjan
  • [verb noun], instrumental, plural
  • “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”

सायण-भाष्यम्

हे अग्ने त्वं सौश्रवसेषु । शोभनानि श्रवांस्यन्नानि हवींषि येषु कर्मसु तानि सौश्रवसानि । तेषु क्रियमाणेषु तं यजमानं स्तोतारं वा भज अभीष्टफलप्रदानेन सेवस्व । किंच उक्थे शस्त्रे शस्यमाने पठ्यमाने सति तम् भज अभीष्टफलप्रदानेनैव सेवस्व । सोऽयं यजमानः स्तोता वा सूर्ये प्रियो भवाति भवतु । तथा अग्ना अग्नावपि प्रियो भवति । किंच सोऽयं जातेन उत्पन्नेन पुत्रेण उत् भिनदत् शत्रून् विदारयतु । तथा जनित्वैः जनिष्यमाणैश्च पुत्रैः शत्रून् उत् भिनदत् ॥ ᳓

हरदत्तः

आतमिति ॥ हे अग्ने । तं अपूपस्य दातारं आभज । सौ श्रवसेषु । श्रव इत्यन्ननाम । शोभनैश्चरुपुरोडाशादिभिर्युक्तेषु यागेषु उक्थउक्थे शस्त्रेशस्त्रे शस्यमाने प्रतिशस्रमित्यर्थः । आभज । स च त्वत्प्रसादात् सूर्ये सूर्यस्य प्रियो भवाति भवेत् । प्रियो अग्ना अग्नेश्च तव प्रियो भवेत् । किञ्च - जातेन । जातावेकवचनम् । जातैः पुत्रैः । उद्भिनदत् उद्भियतां प्रताशताम् । उज्जनित्वैः जनिष्यमाणैश्च पुत्रै रुद्भिनदत् ॥ ᳓

Wilson

English translation:

“Prosper the worshipper, Agni, when beautiful sacrificial viands (are being offered), when sacredpraises are being recited (by him). May he be dear to Sūrya, dear to Agni; may he by a son born, or sons to beborn, overcome (his foes).”

Jamison Brereton

Give him a portion in (ritual acts) deserving good fame, Agni; give him a portion in every solemn speech being pronounced.
He will become dear to the Sun, dear to Agni. He will burst out with (offspring already) born, burst out with those to be born.

Griffith

Endow him, Agni, with a share of glory, at every song of praise sung forth enrich him.
Dear let him be to Surya, dear to Agni, preeminent with son and children’s children.

Geldner

Gib ihm Anteil an ruhmreichen Werken, o Agni, gib ihm Anteil an jedem vorgetragenen Lobgedicht! Beliebt bei Surya, beliebt bei Agni soll er sein, mit dem geborenen und den künftigen Söhnen soll er Erfolg haben.

Grassmann

Dem theile zu, o Agni, reichen Segen, bei jedem Spruch, den er dir nennt, gewähr’s ihm; Er sei beliebt bei Agni, bei der Sonne und rag hervor durch Kind und Kindeskinder.

Elizarenkova

Дай ему волю в славных делах, о Агни!
Дай ему долю в каждом произносимом восхвалении!
Любимым у Сурьи, любимым у Агни пусть будет он!
Пусть он бурно проявиться в рожденном (потомстве) и в тех, кто должен родиться!

अधिमन्त्रम् (VC)
  • अग्निः
  • वत्सप्रिः
  • विराट्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे ज्ञानप्रकाशस्वरूप परमात्मन् ! तू (तं सौश्रवसेषु-आ भज) उसइस संयमी को शोभन श्रवण-वेदश्रवण में होनेवाले श्रवण, मनन, निदिध्यासन, साक्षात्कार में इनके सेवन करने पर स्वीकार कर-चाहना कर (शस्यमाने-उक्थे-उक्थे आ भज) प्रस्तूयमान अर्थात् स्तुत किये जाते हुए-समर्पित किये जाते हुए प्रत्येक वचन में स्वीकार कर (सूर्ये प्रियः-अग्ना प्रियः-भवाति) वह सूर्यरूप सर्वप्रकाशक तुझ में-तेरी दृष्टि में प्यारा होवे, तुझ अग्रनेता में तेरीदृष्टिमें प्रिय होवे (जातेन-उत् भिनदत्-जनित्वेन-उत्) हुए पापकर्म से सम्पर्करहित हो तथा होनेवाले पापकर्म से भी सम्पर्करहित हो ॥१०॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - परमात्मा का जो श्रवण, मनन, निदिध्यासन, साक्षात्कार करता है तथा उसकी स्तुति करने में लगा रहता है, वह सर्वप्रकाशक, अग्रनेता परमात्मा का प्रिय हो जाता है। वह किसी भी काल में पापकर्म नहीं करता है, पापकर्म के दुःख को नहीं भोगता है ॥१०॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे ज्ञानप्रकाशस्वरूप परमात्मन् ! त्वम् (तं सौश्रवसेषु-आ भज) तं खल्विमं संयमिनं शोभने श्रवसि श्रवणे वेदश्रवणे भवानि सौश्रवसानि श्रवणमनननिदिध्यासनसाक्षात्कारास्तेषु-आभज-अभिलष स्वीकुरु “भज अभिलष” [ऋ० १।१२५।१५ दयानन्दः] (शस्यमाने-उक्थे-उक्थे-आ भज) प्रस्तूयमाने समर्प्यमाणे प्रत्येकवचने तमभिलष स्वीकुरु (सूर्ये प्रियः-अग्ना प्रियः-भवाति) स च सूर्यरूपे सूर्य इव प्रकाशके त्वयि प्रियो भवेत् “लिङर्थे लेट्” [अष्टा० ३।४।७] अग्ना-अग्नौ ‘आकारादेशश्छान्दसः’ अग्रणेतरि त्वयि प्रियो भवेत् (जातेन-उद्भिनदत्-जनित्वेन-उत्) जातेन पापकर्मणा-उद्भिन्नः सम्पर्करहितो जनिष्यमाणेन पापकर्मणा सम्पर्करहितो भवेत् ॥१०॥

३० त्वामग्ने यजमाना ...{Loading}...

११ त्वामग्ने यजमाना ...{Loading}...

त्वा᳓म् अग्ने य᳓जमाना अ᳓नु द्यू᳓न्
वि᳓श्वा व᳓सूनि दधिरे वा᳓र्याणि +++(=वरणीयानि)+++ ।
त्व᳓या सह᳓ द्र᳓विणम् इच्छ᳓माना
व्रजं᳓ गो᳓मन्तम् उशि᳓जो +++(=मेधाविनो)+++ वि᳓ वव्रुः ।

ँश

३० त्वामग्ने यजमाना ...{Loading}...

मूलम्

त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून् विश्वा॒ वसू॑नि दधिरे॒ वार्या॑णि ।
त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जङ्गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ।

011 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वत्सप्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

तुवा᳓म् अग्ने य᳓जमाना अ᳓नु द्यू᳓न्
वि᳓श्वा व᳓सु दधिरे वा᳓रियाणि
त्व᳓या सह᳓ द्र᳓विणम् इछ᳓माना
व्रजं᳓ गो᳓मन्तम् उशि᳓जो वि᳓ वव्रुः

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M
genre M;; repeated line


Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

ánu ← ánu (invariable)

dyū́n ← dyú- ~ div- (nominal stem)
{case:ACC, gender:M, number:PL}

tvā́m ← tvám (pronoun)
{case:ACC, number:SG}

yájamānāḥ ← √yaj- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:MED}

dadhire ← √dhā- 1 (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}

vā́ryāṇi ← vā́rya- (nominal stem)
{case:ACC, gender:N, number:PL}

vásu ← vásu- (nominal stem)
{case:ACC, gender:N, number:PL}

víśvā ← víśva- (nominal stem)
{case:ACC, gender:N, number:PL}

dráviṇam ← dráviṇa- (nominal stem)
{case:NOM, gender:N, number:SG}

ichámānāḥ ← √iṣ- 2 (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:MED}

sahá ← sahá (invariable)

tváyā ← tvám (pronoun)
{case:INS, number:SG}

gómantam ← gómant- (nominal stem)
{case:ACC, gender:M, number:SG}

uśíjaḥ ← uśíj- (nominal stem)
{case:NOM, number:PL}

vavruḥ ← √vr̥- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}

ví ← ví (invariable)

vrajám ← vrajá- (nominal stem)
{case:ACC, gender:M, number:SG}

पद-पाठः

त्वाम् । अ॒ग्ने॒ । यज॑मानाः । अनु॑ । द्यून् । विश्वा॑ । वसु॑ । द॒धि॒रे॒ । वार्या॑णि ।
त्वया॑ । स॒ह । द्रवि॑णम् । इ॒च्छमा॑नाः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥

Hellwig Grammar
  • tvāmtvad
  • [noun], accusative, singular
  • “you.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • yajamānāyajamānāḥyaj
  • [verb noun], nominative, plural
  • “sacrifice; worship; worship.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • dyūndiv
  • [noun], accusative, plural, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • viśvāviśva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • vasu
  • [noun], accusative, plural, neuter
  • “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”

  • dadhiredhā
  • [verb], plural, Perfect indicative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • vāryāṇivārya
  • [noun], accusative, plural, neuter
  • “precious; valuable.”

  • tvayātvad
  • [noun], instrumental, singular
  • “you.”

  • saha
  • [adverb]
  • “together; together; with; jointly; together; saha [word]; along.”

  • draviṇamdraviṇa
  • [noun], accusative, singular, neuter
  • “wealth; property; money; jewel.”

  • icchamānāicchamānāḥiṣ
  • [verb noun], nominative, plural
  • “desire; recommend; approve; seek; call; search; try; prefer; love; commend; assent; permit; choose.”

  • vrajaṃvrajamvraja
  • [noun], accusative, singular, masculine
  • “cow pen; Vraja; battalion; Vraja; Vraja; vraja [word]; vraj; herd; flock; group.”

  • gomantamgomat
  • [noun], accusative, singular, masculine
  • “rich in cattle; bovine.”

  • uśijouśijaḥuśija
  • [noun], nominative, singular, masculine

  • vi
  • [adverb]
  • “apart; away; away.”

  • vavruḥvṛ
  • [verb], plural, Perfect indicative
  • “surround; accompany; cover; cover; obstruct; check; spread; envelop.”

सायण-भाष्यम्

हे अग्ने त्वां प्रति यजमानाः अनु द्यून प्रत्यहं विश्वा विश्वानि वार्याणि वरणीयानि वसु वसूनि धनानि दधिरे धारयन्ति । किंच त्वया सह द्रविणम् असुरैरपहृतं गोरूपं धनम् इच्छमानाः कामयमानाः उशिजः मेधाविनो देवाः गोमन्तं पशुमन्तं व्रजं वि वव्रुः विवृतद्वारं कृतवन्तः ॥ ᳓

हरदत्तः

त्वामग्न इति ॥ हे अग्ने । त्वां अनुद्युन् अनुदिनं यजमानाः पुरुषाः विश्वा विश्वानि वार्याणि वरणीयानि स्पृहणीयानि वसूनि दधिरे । धारणवृत्तेः दधातेर्वर्तमाने लिट् । धारयन्ति लभन्त इत्यर्थः । त्वया सहेति । अत्रेतिहासमाचक्षते - पुरा असुरा देवगवीरपहत्य गिरिदुर्गं स्थापयित्वा द्वारमपिदधुः । तज्ज्ञात्वा अग्निमुखा देवाः अङ्गिरेभिः बृहस्पतिना च सह गत्वा असुरानपजित्य गिरिदुर्गं भित्त्वा गाः प्रत्याजहुरिति । तदिदमत्रोच्यते - त्वया सह द्रविणं असुररैपहृतं गोधनमिच्छमानाः व्रजं गोष्ठं गोमन्तं गोभिर्निबिडं उशिजः । मेधाविनामैतत् । मेधाविनोभऽङ्गिराप्रभृतयः विवव्रुः विवृतवन्तः विवृतद्वारं कृतवन्तः ॥ ᳓

Wilson

English translation:

“To you, Agni, the worshippers offer daily all desirable treasures; (abiding) with you, desirous of wealth,the sages have set open the pasturage frequented by cattle.”

Jamison Brereton

Sacrificing to you, Agni, through the days, they have acquired all desirable goods.
Together with you the fire-priests, seeking wealth, have opened up the pen full of cows.

Griffith

While, Agni, day by day men pay thee worship they win themselves all treasures worth the wishing.
Allied with thee, eager and craving riches, they have disclosed the stable filled with cattle.

Geldner

Die dich, Agni, Tag für Tag anbeten, haben alle wünschenswerten Güter erworben. Mit dir zusammen haben Reichtum erstrebend die Usij den Rinderpferch erbrochen.

Grassmann

Die dich, o Agni, Tag für Tag verehren, die haben alles schöne Gut empfangen; Mit dir im Bund nach Reichthum trachtend schlossen die heischenden sich auf den Stall der Kühe.

Elizarenkova

Почитающие тебя, о Агни, изо дня в день
Приобрели все желанные блага.
Стремясь с тобою к богатству,
Ревностные открыли загон с коровами.

अधिमन्त्रम् (VC)
  • अग्निः
  • वत्सप्रिः
  • विराट्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! (यजमानाः)अध्यात्मयज्ञ के यजमान-आत्मयाजी (त्वाम्-अनु) तेरे अनुकूल हो (द्यून्) सब दिन (विश्वा वार्याणि वसु दधिरे) सारे वरणीय धनों को धारण करते हैं-प्राप्त करते हैं (त्वया सह द्रविणम्-इच्छमानाः) तेरे साहाय्य से धन को चाहते हुए (उशिजः) मेधावी जन (गोमन्तं व्रजं वि वव्रुः) वाणीवाले ज्ञानमार्ग को विवृत करते हैं-खोलते हैं ॥११॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - परमात्मा के आदेशानुकूल जीवन के सब दिनों में वरणीय धनों को मनुष्य प्राप्त करते हैं और वे अपने लिए ज्ञानमार्ग का विस्तार करते हैं ॥११॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! (यजमानाः) अध्यात्मयज्ञस्य यजमानाः-आत्मयाजिनः (त्वाम्-अनु) त्वामनुलक्ष्य (द्यून्) दिनानि प्रतिदिनम् (विश्वा वार्याणि वसु दधिरे) सर्वाणि वरणीयानि वसूनि धनानि धारयन्ति प्राप्नुवन्ति (त्वया सह द्रविणम्-इच्छमानाः) तव साहाय्येन धनमिच्छन्तः (उशिजः), मेधाविनः “उशिजः-मेधाविनाम” [निघ० ३।१५] (गोमन्तं व्रजं विवव्रुः) वाग्वन्तं ज्ञानमार्गं विवृतं कुर्वन्ति ॥११॥

३१ दृशानो रुक्म ...{Loading}...

०८ दृशानो रुक्म ...{Loading}...

दृशानो᳓ रुक्म᳓ +++(=रोचमानः)+++ उर्व्या᳓ +++(=महत्या)+++ व्यद्यौद्,
दुर्म᳓र्षम् आ᳓युः श्रिये᳓ रुचानः᳓ ।
अग्नि᳓र् अमृ᳓तो अभवद् व᳓योभिर्
य᳓द् एनं द्यौ᳓र् अ᳓जनयत् सुरे᳓ताः ॥

ँश

३१ दृशानो रुक्म ...{Loading}...

मूलम्

दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायु॑श्श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑न॒न्द्यौरज॑नयत्सु॒रेताः॑ ॥ [९]

008 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वत्सप्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

दृशानो᳓ रुक्म᳓ उर्विया᳓ वि᳓ अद्यौद्
दुर्म᳓र्षम् आ᳓युः श्रिये᳓ रुचानः᳓
अग्नि᳓र् अमृ᳓तो अभवद् व᳓योभिर्
य᳓द् एनं दियउ᳓र् जन᳓यत् सुरे᳓ताः

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M
genre M


Morph
adyaut ← √dyut- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}

dr̥śānáḥ ← √dr̥ś- (root)
{case:NOM, gender:M, number:SG, tense:AOR, voice:MED}

rukmáḥ ← rukmá- (nominal stem)
{case:NOM, gender:M, number:SG}

urviyā́ ← urviyā́ (invariable)

ví ← ví (invariable)

ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}

durmárṣam ← durmárṣa- (nominal stem)
{case:NOM, gender:N, number:SG}

rucānáḥ ← √ruc- (root)
{case:NOM, gender:M, number:SG, tense:AOR, voice:MED}

śriyé ← śrī́- (nominal stem)
{case:DAT, gender:F, number:SG}

abhavat ← √bhū- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}

agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

amŕ̥taḥ ← amŕ̥ta- (nominal stem)
{case:NOM, gender:M, number:SG}

váyobhiḥ ← váyas- 2 (nominal stem)
{case:INS, gender:N, number:PL}

dyaúḥ ← dyú- ~ div- (nominal stem)
{case:NOM, gender:M, number:SG}

enam ← ena- (pronoun)
{case:ACC, gender:M, number:SG}

janáyat ← √janⁱ- (root)
{number:SG, person:3, mood:INJ, tense:PRS, voice:ACT}

surétāḥ ← surétas- (nominal stem)
{case:NOM, gender:M, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

पद-पाठः

दृ॒शा॒नः । रु॒क्मः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । दुः॒ऽमर्ष॑म् । आयुः॑ । श्रि॒ये । रु॒चा॒नः ।
अ॒ग्निः । अ॒मृतः॑ । अ॒भ॒व॒त् । वयः॑ऽभिः । यत् । ए॒न॒म् । द्यौः । ज॒नय॑त् । सु॒ऽरेताः॑ ॥

Hellwig Grammar
  • dṛśānodṛśānaḥdṛś
  • [verb noun], nominative, singular
  • “see; observe; view; visit; look; learn; meet; read; teach; examine; watch; see; notice; perceive; diagnose; travel to; show; detect; know; know; understand; understand; follow.”

  • rukmarukmaḥrukma
  • [noun], nominative, singular, masculine
  • “adornment.”

  • urviyā
  • [adverb]
  • “wide; widely.”

  • vyvi
  • [adverb]
  • “apart; away; away.”

  • adyaudadyautdyut
  • [verb], singular, Athematic s aor. (Ind.)
  • “shine; inflame.”

  • durmarṣamdurmarṣa
  • [noun], accusative, singular, neuter

  • āyuḥāyus
  • [noun], accusative, singular, neuter
  • “life; longevity; āyus; life; āyus [word]; Āyus.”

  • śriyeśrī
  • [noun], dative, singular, feminine
  • “mister; Ms.; Lakshmi; good fortune; well-being; magnificence; glory; beauty; Aegle marmelos (Linn.) Correa; dignity; power; śrī [word]; śrī; prosperity; auspiciousness.”

  • rucānaḥruc
  • [verb noun], nominative, singular
  • “please; shine.”

  • agniragniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • amṛtoamṛtaḥamṛta
  • [noun], nominative, singular, masculine
  • “immortal; amṛta; imperishable.”

  • abhavadabhavatbhū
  • [verb], singular, Imperfect
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • vayobhirvayobhiḥvayas
  • [noun], instrumental, plural, neuter
  • “age; vigor; old age; strength; vayas [word]; aging; power; youth; food.”

  • yadyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • enaṃenamenad
  • [noun], accusative, singular, masculine
  • “this; he,she,it (pers. pron.).”

  • dyaurdyauḥdiv
  • [noun], nominative, singular, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • janayatjanay√jan
  • [verb], singular, Present injunctive
  • “cause; give birth; produce; beget; generate; originate; create; create; make.”

  • suretāḥsu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • suretāḥretāḥretas
  • [noun], nominative, singular, masculine
  • “semen; sperm.”

सायण-भाष्यम्

दृशानः प्रत्यक्षेण दृश्यमानः रुक्मः रोचमानोऽग्निः उर्विया उरु अत्यन्तं व्यद्यौत् विद्योतते । किंच आयुः गन्ता स सर्वतोऽयमग्निः श्रिये विभूत्यै दुर्मर्षं दुरभिभवं यथा भवति तथा रुचानः रोचमानो भवति । सोऽयम् अग्निः वयोभिः अन्नैर्वनस्पतिभिः अमृतः मरणरहितः अभवत्यत यस्मात् कारणात् एनम् अग्निं सुरेताः शोभनरेतस्कः द्यौः प्राण आदिस्यो वा जनयत् जनयति ॥ ᳓

हरदत्तः

दृशान इति ॥ दृशानः दूरस्थैरपि दृश्यमानः रुक्मः रोचन स्वभावः उर्व्या महत्या दीप्त्या व्यद्यौत् विद्योतते द्दुर्म दुरभिभवं यथा तथा व्यद्यौत् । आयुः चतुर्थ्या लुक् । पाणिनामायुषे श्रिये श्रियै च रुचानः दीप्यमानः एवम्भूतः अग्निरमृतः अभवत् भवतु वयोभिः वयः अन्नं हविर्लणैरन्नैः सह ॥ यत् यं अग्निं अजनयद्यौः वैद्युतरूपेण सुरेताः शोभनं वृष्टिलक्षणं रेतो यस्यास्सा द्यौः ॥ ᳓

भट्टभास्कर-टीका

‘अत्र प्रयाजान्मे’ इत्यग्निना हवींषि प्रार्थयता ‘अग्नेश्च दीर्घमायुरस्तु देवाः’ इत्यायुश्च प्रार्थितम् । ‘तव प्रयाजाः’ इत्यादिना च देवैः प्रत्तानीति दाशतये श्रूयते । तदिदमत्रोच्यते - दृशानः साध्वंशनिरूपकः । ‘युधिबुधिदृशः किच्च’ इत्यानच्प्रत्ययः । रुक्मः रोचनशीलः दीप्तिमान् उर्व्या महत्या । तया दीप्त्येति सामर्थ्याद्गम्यते । अयं व्यद्यौत् विविधं प्राप्तावान् । द्यु अभिगमने आदादिकः, अतो लङ्, ‘उतो वृद्धिर्लुकि हलि’ इति वृद्धिः । किं प्राप्तवान्? दुर्मर्षं दुर्धर्षं अन्यैरप्रधृष्यमायुर्जीवनमन्नं वा । कीदृशः? श्रिये श्रयणाय सेवायै तादृशस्यायुषो लाभाय रुचान इच्छन् । व्यत्ययेन लसार्वधातुकानुदात्तत्वाभावः । ताच्छीलिको वा चानश् ।

किञ्च - अतोयमग्निरमृतोभवत् अमरणधर्मा बभूव । वयोभिरन्नैर्देवदत्तैः प्रजातिभिः । यद्यस्मादेनमग्निं द्यौः द्युलोकवासी देवगणः तात्स्थ्याल्लक्षणया द्यौरिति व्यपदिश्यते । अजनयत् एवंगुणकमकरोत् । सुरेताः अमोघबीजः । ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् । तस्मादमृतो भवेति । यद्वा- अयमग्निः दुर्मर्षमायुर्जीवनमन्नं वा श्रिये श्रयितुं देवेम्यो लब्धुं रुचान इच्छन् । तुमर्थे केप्रत्ययः, ‘दृशे विख्ये च’ इति चकारस्य अनुक्तसमुच्चयार्थत्वात् । रुक्मः पूर्वमेव द्योतनशीलः अधुनाभीष्टवरलाभेन उर्व्या महत्या दीप्त्या व्यद्यौत् व्यद्युतत् विविधं दीप्तवान् । द्युत दीप्तौ, ‘द्युद्भ्यो लुङि’ इति परस्मैपदम्, विकरणव्यत्ययनाङं बाधित्वा च्लेस्सिजादेशः, तस्य ‘छन्दस्युभयथा’ इति सार्वधातुकत्वादिडभावः, हलन्तलक्षणा वृद्धिः, ‘बहुलं छन्दसि’ इतीडभावः, हल्ङ्यादिसंयोगान्तलोपौ ।

अत्रैव हेतुमाह - अमृतः खल्वयं वयोभिरभवदिति । तदपि कुत इत्याह – यदेनं द्यौरेवंविधमजनयदिति । तस्मादयमस्मद्दत्तान्यात्मीयानि हवींषि गृहीत्वा यजमाने रुचं दधात्विति शेषः ॥ ᳓

Wilson

English translation:

“Conspicuous, glorious, Agni shines with great splendour, moving everywhere, and blazingunsurpassingly with glory; Agni became immortal through the food (of sacrifice) when the prolific heavenengendered him.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Glorious: dṛśāno rukmaḥ = rocamānaḥ, an epithet of Agni; or devatā, a gold ornament ofthe neck, which at a particular time the yajamāna is to take off with this mantra; moving everywhere: āyuḥ =going everywhere; or, life: desiring an irreproachable life to give perpetually to people

Jamison Brereton

Seen as a bright ornament, he has flashed forth widely, alight for beauty through a lifetime hard to forget.
Agni became immortal through his vital powers, when Heaven of good seed begat him.

Griffith

Like gold to look on, far he shone refulgent, beaming imperishable life for glory,
Agni by vital powers became immortal when his prolific Father Dyaus begat him. ᳓

Keith

Shining like gold, he hath become widely resplendent,
For glory shining with immortal life;
Agni became immortal in his strength [5],
What time prolific Dyaus begat him.

Geldner

Wie ein Goldschmuck aussehend ist er weithin erglänzt; in unvergeßlicher Lebenskraft zur Pracht erglänzend, ward Agni unsterblich an Kräften, als ihn der Himmel aus gutem Samen erzeugte.

Grassmann

Wie Gold zu schauen glänzt er in die Weite, zum Heile unvergänglich Leben strahlend, Durch Jugendkräfte ward unsterblich Agni, als ihn der samenreiche Himmel zeugte.

Elizarenkova

Выглядя как золотое украшение, он далеко засверкал,
Незабываемым образом даруя светом срок жизни для блеска.
Агни стал бессмертным благодаря жизненным силам,
Когда его породило небо, имея прекрасное семя.

अधिमन्त्रम् (VC)
  • अग्निः
  • वत्सप्रिः
  • पादनिचृत्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अमृतः-अग्निः-अभवत्) यह अमर-मरणधर्मरहित परमात्मा सर्वत्र स्वामिरूप में विराजता है (दृशानः) द्रष्टा (रुक्मः) रोचमान (उर्विया व्यद्यौत्) महती दीप्ति से विशिष्टरूप से प्रकाशित है-प्रकाश करता है (दुर्मर्षम्-आयुः श्रिये रुचानः) आश्रय लेनेवाले उपासक के लिए अबाध्य ज्ञान को प्रकाशित करता हुआ-प्रकट करता हुआ (सुरेताः-द्यौः-वयोभिः-यत्-एनं जनयत्) सम्यक्उत्पादक शक्तिवाले पिता की भाँति तेजो वीर्यवान् प्राणों के द्वारा इस उपासक को सम्पन्न करता है ॥८॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - परमात्मा सर्वत्र एकरस विराजमान है। अबाध्य ज्ञान को विशेषरूप से अपने आश्रयी उपासक के लिए देता है और उत्तम प्राणों से समृद्ध करता है ॥८॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अमृतः-अग्निः-अभवत्) एषोऽमरो मरणधर्मरहितः परमात्माग्निः सर्वत्र विराजते (दृशानः) द्रष्टा (रुक्मः) रोचमानः (उर्विया व्यद्यौत्) महत्या दीप्त्या विशिष्टतया प्रकाशते (दुर्मर्षम्-आयुः श्रिये रुचानः) आश्रयति यस्तस्मै-आश्रयप्राप्तये खलूपासकाय “श्रिञ् धातोः क्विप्” [उणा० २।५७] अबाध्यमापुः प्रकाशयन् प्रकटयन् (सुरेताः-द्यौः-वयोभिः-एत् एनं जनयत्) सोऽग्निः परमात्मा सम्यगुत्पादकशक्तिमान् पितेव तेजोवीर्यवान् प्राणैः “प्राणो वै वयः” [ऐ० १।२८] यतः एनमुपासकं जनयति ॥८॥

३२ अस्मिन्नहं सहस्रम् ...{Loading}...

अ॒स्मिन्न॒हँस॒हस्रं॑ पुष्या॒म्येध॑मान॒स् स्वे वशे॑ ।

ँश

३२ अस्मिन्नहं सहस्रम् ...{Loading}...

मूलम्

अ॒स्मिन्न॒हँ स॒हस्रं॑ पुष्या॒म्येध॑मान॒स्स्वे वशे॑ ।

हरदत्तः

उत्तरेण यजुषा कुमारमुपस्थ आदधाति - अस्मिन्नहमिति ॥ अस्मिन् कुमारे अहं सहस्रं कामात् पुष्यामि पुष्येयं प्राप्नुयां एधमानः वर्धमानः स्वे वशे तिष्ठन् स्वतन्त्र इत्यर्थः ॥

३३ अङ्गादङ्गात्सम्भवसि हृदयादधि ...{Loading}...

अङ्गा॑दङ्गा॒त्संभ॑वसि॒ हृद॑या॒दधि॑ जायसे ।
आ॒त्मा वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।

ँश

३३ अङ्गादङ्गात्सम्भवसि हृदयादधि ...{Loading}...

मूलम्

अङ्गा॑दङ्गा॒त्संभ॑वसि॒ हृद॑या॒दधि॑ जायसे ।
आ॒त्मा वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।

हरदत्तः

अथाभिमन्त्रणम्-अङ्गादङ्गादिति ॥ स्त्रीसंयोगे बलवता प्रयत्नेन सर्वाङ्गीणं रेतो निषिच्यते । तदिदमुच्यते ॥ अङ्गादङ्गात्सम्भवसीति । हृदयं कामस्याधिष्ठानं, तेन तस्य पुनर्वचनं - हृदयादधिजायते । अधिः पञ्चम्यर्थानुवादी । एवम्भूतस्त्वं पुत्रनामा मम आत्मैवासि । वैशब्दः प्रसिद्धौ । स त्वं शरदश्शतं जीव ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने एकादशः खण्डः