०१ त्रय्यै विद्यायै ...{Loading}...
+++(गोमधुपर्कार्हो वेदाध्यायीति-)+++ त्र॒य्यै वि॒द्यायै॒ यशो॑ऽसि।
यश॑सो॒ यशो॑सि।
ब्रह्म॑णो॒ दीप्ति॑रसि ।
तं मा॑ प्रि॒यं प्र॒जानां॑ कु॒र्व्, अधि॑पतिं पशू॒नाम् ।
०१ त्रय्यै विद्यायै ...{Loading}...
मूलम्
त्र॒य्यै वि॒द्यायै॒ यशो॑ऽसि॒ यश॑सो॒ यशो॑सि॒ ब्रह्म॑णो॒ दीप्ति॑रसि ।
तं मा॑ प्रि॒यं प्र॒जानां॑ कु॒र्वधि॑पतिं पशू॒नाम् ।
हरदत्तः
उत्तराभ्यां मधुपर्कमभिमन्त्रयते - त्रय्यै विद्याया इति ॥ त्रयो वेदास्रयी विद्या तस्यै, षष्ठ्यर्ये चतुर्थी । तस्या यशोसि यशः गोमधुपर्कार्हो वेदाध्यायीति । किञ्च - यशसो यशोसि? प्रशंसा परमेतत् । यथा आभरणस्याभरणनिति । ब्रह्मणो वेदस्य दीप्तिरसि । तं मा प्रियमित्यादि गतम् ॥
०२ आमागन्नित्येषा ...{Loading}...
१६ आमाऽगन् यशसा ...{Loading}...
+++(उदक!)+++ आ मा॑ ऽग॒न्॒ यश॑सा॒ वर्च॑सा॒
सꣳसृ॑ज॒ पय॑सा॒ तेज॑सा च ।
तं मा॑ प्रि॒यं प्र॒जानां॑
कु॒र्व् अधि॑पतिं पशू॒नाम् ।
०२ आमागन्नित्येषा ...{Loading}...
मूलम्
आमा॑ग॒न्नित्ये॒षा ।
हरदत्तः
आमा गन्निति ॥ गतम् ॥
०३ अमृतोपस्तरणमसि ...{Loading}...
अ॒मृ॒तो॒प॒स्तर॑णम् असि +++(यथा हविरादाने)+++।
०३ अमृतोपस्तरणमसि ...{Loading}...
मूलम्
अ॒मृ॒तो॒प॒स्तर॑णमसि ।
हरदत्तः
अप आचामति - अमृतोपस्तरणमसीति ॥ अमृतस्य अमृतसदृशस्य त्वं उपस्तरणमसि यथा अवदानानामुपस्तरणम् ॥
०४ अमृतापिधानमसि ...{Loading}...
अ॒मृ॒ता॒ऽपि॒धा॒नम॑सि ।
०४ अमृतापिधानमसि ...{Loading}...
मूलम्
अ॒मृ॒ता॒पि॒धा॒नम॑सि ।
हरदत्तः
उपरिष्टादप आचामति - अमृतापिधानमसीति ॥ अमृतस्य त्वं अपिधानमसि ॥
०५ यन्मधुनो मधव्यम् ...{Loading}...
यन् मधु॑नो मध॒व्यं॑ पर॒मम् अ॒न्नाद्यं॑ वी॒र्य॑म्,
तेना॒हं मधु॑नो मध॒व्ये॑न पर॒मेणा॒न्नाद्ये॑न वी॒र्ये॑ण
पर॒मो॑ऽन्ना॒दो म॑ध॒व्यो॑ ऽसानि ।
०५ यन्मधुनो मधव्यम् ...{Loading}...
मूलम्
यन्मधु॑नो मध॒व्यं॑ पर॒मम॒न्नाद्यं॑ वी॒र्य॑म् ।
तेना॒हं मधु॑नो मध॒व्ये॑न पर॒मेणा॒न्नाद्ये॑न वी॒र्ये॑ण पर॒मो॑ऽन्ना॒दो म॑ध॒व्यो॑ऽसानि ।
हरदत्तः
मधुपर्कं प्राश्नाति - यन्मधुन इति ॥ मधुनि भवं मधव्यं मधुनः संवन्धि यत् मधव्यं यथा गवां गापतिः? वसूनां वसुपति रित्यादौ गोपतिर्वसुपतिरित्यतः परमार्थतो नातिरिच्यते अथ चोभयं प्रयुज्यते तथेहापि मधुनो मधव्यमिति । अर्थस्तु मधव्यमित्येतावानेव । किंपुनस्तत्? परममन्नाद्यं इदं हि परमन्नादनं यन्मधुनः प्राशनं वीर्यं वीर्यकरम् । एवम्भूतं यत् मधव्यं तेन मधुनो मधव्येन परमेणान्नाद्येन वीर्येण । पूर्वानुसारेण योज्यम् । अहमपि परमोऽन्नादो मधव्यश्च असानि भूयासम्, मधुपर्कार्हो मधव्यः ॥
०६ गौरस्यपहतपाप्माऽप पाप्मानञ्जहि ...{Loading}...
गौर्॒ अस्य् अप॑हतपा॒प्मा।
अप॑ पा॒प्मान॑ञ् जहि॒ मम॑ चा॒मुष्य॑ च ।
०६ गौरस्यपहतपाप्माऽप पाप्मानञ्जहि ...{Loading}...
मूलम्
गौर॒स्यप॑हतपा॒प्माऽप॑ पा॒प्मान॑ञ्जहि॒ मम॑ चा॒मुष्य॑ च ।
हरदत्तः
गां निवेदितामभिमन्त्रयते - गौरसीति ॥ हे गौः । त्वं अपहतपाप्माऽसि ततश्च पाप्मानं अपजहि । कस्य? मम च अमुष्य च दातुः ॥
०७ अग्निः प्राश्नातु ...{Loading}...
अ॒ग्निः प्राश्ना॑तु प्रथ॒मस्-
स हि वेद॒ यथा॑ ह॒विः ।
अरि॑ष्टम् अ॒स्माकं॑ कृ॒ण्वन्
ब्रा॑ह्म॒णो ब्रा॑ह्म॒णेभ्यः॑ ।+++(र५)+++
०७ अग्निः प्राश्नातु ...{Loading}...
मूलम्
अ॒ग्निः प्राश्ना॑तु प्रथ॒मस्स हि वेद॒ यथा॑ ह॒विः ।
अरि॑ष्टम॒स्माकं॑ कृ॒ण्वन् ब्रा॑ह्म॒णो ब्रा॑ह्म॒णेभ्यः॑ ।
हरदत्तः
आलम्भनपक्षे वपाहोममन्त्रः - अग्निरिति ॥ अयं अग्निः प्रथमः प्राश्नातु किमर्थम्? स हि वेद यथा हविः समीचीनसमसमीचीनं वा । स च प्राश्नन् अनष्टमस्माकं कृण्वन् प्राश्नातु अस्माकमपिशेषयित्वैष प्राश्नातु । कीदृशोऽग्निः? ब्राह्मणेभ्योपि ब्राह्मणः अति शयेन ब्राह्मण इत्यर्थः । अथवा - ब्राह्मणेभ्य इति षष्ठ्यर्थे चतुर्थी । ब्राह्मणानामस्माकमनष्टं कुर्वन्, स्वयं च ब्राह्मण इति ॥
०८ यज्ञो वर्द्धताम् ...{Loading}...
य॒ज्ञो व॑र्द्धताम्।
य॒ज्ञस्य॒ वृद्धि॒म् अनु॑ व॒र्द्ध+++(स्व)+++।
अप॑चितिर॒स्य्, अप॑चितं मा कु॒रु। अप॑चितो॒हं म॑नु॒ष्ये॑षु भूयासम् ।
०८ यज्ञो वर्द्धताम् ...{Loading}...
मूलम्
य॒ज्ञो व॑र्द्धतां य॒ज्ञस्य॒ वृद्धि॒मनु॑ व॒र्द्धाप॑चितिर॒स्यप॑चितं मा कु॒र्वप॑चितो॒हं म॑नु॒ष्ये॑षु भूयासम् ।
हरदत्तः
उत्सर्गपक्षे जपः -यज्ञ इति ॥ अयं मनुष्ययज्ञोऽस्मत्पूजालक्षणो वर्धतां उत्सर्गपक्षेऽपि वैकल्यं मा भूत् । तस्य यज्ञस्य वृद्धिमनु वृद्धेः पश्चात् हे गौः त्वमपि वर्ध वर्धस्व अपचितिरसि तत्साधनत्वात् मां च अपचितिं कुरु । कोर्थः? अहं त्वामुत्सृजन् मनुष्येषु अपचितः पूजितः भूयासम् ॥
०९-११ गौर्धेनुभव्या माता ...{Loading}...
गौर् धे॑नुभ॒व्या+++(=धेनुर्भविष्यन्ती)+++, मा॒ता रु॒द्राणां॑, दुहि॒ता वसू॑ना॒ꣳ॒, स्वसा॑ऽऽदि॒त्याना॑म्, +++(आज्यादिद्वारेण)+++ अ॒मृत॑स्य॒ नाभिः॑ ।
प्र णु॒ वोच॑ञ् चिकि॒तुषे॒+++(=जानते)+++ जना॑य॒ - मा गाम् अना॑गा॒म्+++(=अनागसं)+++ अदि॑तिं वधिष्ट ।
पिब॑तूद॒कं, तृणा॑न्य् अत्तु ।
ओम् उत्सृ॒जत ।
०९-११ गौर्धेनुभव्या माता ...{Loading}...
मूलम्
गौर्धे॑नुभ॒व्या मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑ना॒ꣳ॒ स्वसा॑ऽऽदि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ ।
प्रणु॒वोच॑ञ्चिकि॒तुषे॒ जना॑य॒ मागामना॑गा॒मदि॑तिं वधिष्ट ।
पिब॑तूद॒कं तृणा॑न्यत्तु ।
ओमुत्सृ॒जत ।
हरदत्तः
गौर्धेनुभव्येति ॥ गोरियं धेनुभव्या धेनुर्भविष्यन्ती, उत्सर्गपक्षे स्तुत्यर्थमिदं उत्सृष्टा हि गौरियं धेनुर्भविष्यति ततश्च महाफला । आलम्भपक्षे तु क्षणिका तृप्तिः । किञ्च - इयं रुद्रादीनां देवानां मात्रादिस्थानीया सर्वेषां यज्ञभागित्वात् तस्य चाज्यादिगव्यसाध्यत्वात् । अमृतस्य अमृतत्वप्राप्तिहेतोर्यज्ञस्य नाभिः प्रधानावयवः आज्यादिद्वारेण एष वाव यज्ञो यदाज्यम् इति श्रुतेः । एवंनाम प्रशस्तेयं अतश्च प्रणुवोचं नुः क्षिप्रार्थे क्षिप्रं प्रकर्षेण च ब्रवीमि ।चिकितुषे कित ज्ञाने, जानते जनाय । कि ब्रवीमि? मा गां अनागां अनागसं इमां गां अदितिं अस्त्रण्डितां मा वधिष्ट । एषा कामं उदकं पिबतु तृणानि च अत्तु । ओमुत्सृजत उत्सृजतेति प्रसिद्धेऽर्थे ओमित्यनुज्ञावचनं सर्वैरनुज्ञातामुत्सृजत ॥
१२ भूतम् ...{Loading}...
भू॒तम् ।
सु॒भू॒तम् ।
१२ भूतम् ...{Loading}...
मूलम्
भू॒तम् ।
सु॒भू॒तम् ।
हरदत्तः
सिद्धेऽन्ने भूतमित्याह । भूतं सिद्धमित्यर्थः ॥
१३ -१५ सा विराट् ...{Loading}...
सा वि॒राट् ।
तन् मा क्षा॑यि ।
तस्य॒ तेऽशी॑य ।
तन्म॒ ऊर्जं॑धाः ।
ओं कल्प॒यत +++(परिचारकाः)+++ ॥ (10)
१३ -१५ सा विराट् ...{Loading}...
मूलम्
सा वि॒राट् ।
तन्मा क्षा॑यि ।
तस्य॒ तेऽशी॑य ।
तन्म॒ ऊर्जं॑धाः ।
ओं कल्प॒यत ॥ (१०)
हरदत्तः
तथोक्ते उत्तरान् जपति - सा विराडिती ॥ विराट्-छब्दस्य स्त्रीलिङ्गत्वात् सेत्युक्तम् । तदन्नं विराट् विविधं राजत इति कृत्वा । तन्मा क्षायि क्षीणं मा भूत् । तस्य ते । द्वितीयार्थे षष्ठी । तत् त्वां अशीय अश्नीयां तत् त्वं मे मह्यं ऊर्जं बलं धाः धेहि देहि । ओमित्यनुज्ञायाम् । कल्पयत उपनयत हे परिचारकाः ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने दशमः खण्डः