०१- ४ मयि पर्वतपूरुषम् ...{Loading}...
मयि॑ पर्वतपूरु॒षम् ।
मयि॑ पर्वतवर्च॒सम् ।
मयि॑ पर्वतभेष॒जम् ।
मयि॑ पर्वतायु॒षम् ।
०१- ४ मयि पर्वतपूरुषम् ...{Loading}...
मूलम्
मयि॑ पर्वतपूरु॒षम् ।
मयि॑ पर्वतवर्च॒सम् ।
मयि॑ पर्वतभेष॒जम् ।
मयि॑ पर्वतायु॒षम् ।
हरदत्तः
मयि पर्वतपूरुषमिति ॥ पर्वते यादृशं पुरुषं पौरुषं पुंस्त्वं धारणशक्तिः तत्पर्वतपूरुषं मयि भवतु यादृशी च पर्वतस्व वर्चः दीप्तिः श्लक्ष्णता, यच्च पर्वते भेषजं, यच्च पर्वते आयुषं पर्वतस्यायुः तत्सर्वं मयि भवतु ॥
०५ यन्मे वर्चः ...{Loading}...
यन् मे॒ वर्चः॑ प॒राग॑तम् +++(आदर्शतलस्थितं)+++
आ॒त्मान॑म् उप॒तिष्ठ॑ति ।
इ॒दन् तत् पुन॒र् आद॑दे
दीर्घायु॒त्वाय॒ वर्च॑से ।
०५ यन्मे वर्चः ...{Loading}...
मूलम्
यन्मे॒ वर्चः॑ प॒राग॑तमा॒त्मान॑मुप॒तिष्ठ॑ति ।
इ॒दन्तत्पुन॒राद॑दे दीर्घायु॒त्वाय॒ वर्च॑से ।
हरदत्तः
आदर्शावेक्षणमन्त्रः - यन्मे वर्च इति ॥ यत् मे मम वर्चः परागतं मत्तो निर्गतं आत्मानं आदर्शतलस्थितं मां उपतिष्ठति प्राप्नोति इदं तत् वर्चः पुनराददे दीर्घायुत्वाय वर्चसे ॥
०६ प्रतिष्ठे स्थो ...{Loading}...
प्र॒ति॒ष्ठे स्थो॑ दे॒वता॑ना॒म्।
मा मा॒ +++(नवपादरक्ष-व्रणोत्पादनेन)+++ सन्ता॑प्तम् ।+++(४)+++
०६ प्रतिष्ठे स्थो ...{Loading}...
मूलम्
प्र॒ति॒ष्ठे स्थो॑ दे॒वता॑नां॒ मा मा॒ सन्ता॑प्तम् ।
हरदत्तः
उपानद्ग्रहणमन्त्रः - प्रतिष्ठे स्थ इति ॥ प्रतिशब्दः प्रशब्दार्थे । हे उपानहौ । युवां प्रतिष्ठे प्रस्थानसाधने स्थः देवतानां अपीत्यध्यहार्यम्, देवतानामपि, किमुतास्माकम् । मा मा संतप्तं? व्रणोत्पाद नेना सन्तापं मा कार्ष्टं? कण्टकादिकृतो वा सन्तापो मे मा भूदित्यर्थः ॥
०७ प्रजापतेश्शरणमसि ब्रह्मणश्छदिर्विश्वजनस्य ...{Loading}...
प्र॒जाप॑ते॒श् शर॑णम् असि।
ब्रह्म॑णश् छ॒दिर् वि॑श्व-ज॒नस्य॑ छा॒याऽसि॑।
स॒र्वतो॑ मा पाहि ।
०७ प्रजापतेश्शरणमसि ब्रह्मणश्छदिर्विश्वजनस्य ...{Loading}...
मूलम्
प्र॒जाप॑ते॒श्शर॑णमसि॒ ब्रह्म॑णश्छ॒दिर्वि॑श्वज॒नस्य॑ छा॒याऽसि॑ स॒र्वतो॑ मा पाहि ।
हरदत्तः
छत्रधारणमन्त्रः - प्रजापतेरिति ॥ हे छत्र प्रजापतेः शरणं गृहं असि ब्रह्मणः छदिरसि छदिः पटलं एवंनाम प्रशस्तमित्यर्थः । किx बहुना? विश्वजनस्य छायासि छायाकार्यसि एवम्भूतस्त्वं सर्वतो मा पाहि ॥
०८ देवस्य त्वा ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑+++(=अनुज्ञायां)+++
ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒म्
आ द॑दे।
द्विष॒तो व॒धायेन्द्र॑स्य॒ वज्रो॑ऽसि॒।+++(५)+++
वार्त्र॑घ्न॒श् +++(त्वं)+++ शर्म॑ मे भव।
यत् पा॒पन् तन् निवा॑रय ।
०८ देवस्य त्वा ...{Loading}...
मूलम्
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒मा द॑दे द्विष॒तो व॒धायेन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒श्शर्म॑ मे भव॒ यत्पा॒पन्तन्निवा॑रय ।
हरदत्तः
दण्डादानमन्त्रः - देवस्य त्वेति ॥ देवस्य सवितुः प्रसवे अनुज्ञायां सत्यां अश्विनोर्बाहुभ्यां तदधिष्ठिताभ्यां मम बाहुभ्यामित्यर्थः । एवं पूष्णो हस्ताभ्यमिति । मध्यमसन्धेरुपरिभागो बाहुः, अधोभागो हस्तः । त्वामाददे द्विषते वधाय श्वादेर्निस्सारणाय इन्द्रस्य वज्रोसि यथेन्द्रस्य वज्रः तथा मम त्वमसि वार्त्रघ्नः वृत्र इति शत्रुनाम तस्य हन्ता वृत्रहा स एव वार्त्रघ्नः एवंभूतस्त्वं शर्म मे भव सुखकरो भव यत्पापं अनर्थकारि श्वादि तन्निवारय ॥
०९ देवीः षडुर्वीरुरु ...{Loading}...
मन्त्रः
देवीः॑ षड्+++(←४+ऊर्ध्वाधरे)+++ उर्वीर्, उ॒रु ण॑ᳵ कृणोत।
विश्वे॑ देवास इ॒ह वी॑रयध्वम्+++(वीरयन्तु)+++ ।
०९ देवीः षडुर्वीरुरु ...{Loading}...
मूलम्
देवीः॑ षडुर्वीरु॒रु ण॑ᳵ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् ।
हरदत्तः
दिशामुपस्थानम् - देवीष्षडिति ॥ त्रीणि दिशामामन्त्रणानि । देवीः । हे देव्यः चतस्रः प्रधाना दिशः प्राच्यादयः ऊर्ध्वाधरा चेति षट् उर्वीः उर्व्यः विस्तीर्णाः उरु विस्तीर्णं प्रभूतं धनं नः अस्मभ्यं कृणोत कुरुत । हे विश्वे देवासः तासामेव दिशामधिपतपयस्सर्वे देवाः इन्द्रादयः यूयं चेह कर्मणि वीरयध्वं वीरकर्म कुरुत वीरवन्तं पुत्रवन्तं वा मां कुरुत ॥
१० मा हास्महि ...{Loading}...
मा हा॑स्महि प्र॒जया॒, मा त॒नूभिः॑।
मा र॑धाम+++(←रधिः वशीकरणकर्म)+++ द्विष॒ते सो॑म राजन्न् ।
१० मा हास्महि ...{Loading}...
मूलम्
मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन्न् ।
हरदत्तः
नक्षत्रणां चन्द्रमसश्चोपस्थानम् - मा हास्महीति ॥ अत्र राजन्नित्यनेन नक्षत्राणि सूच्यन्ते । हे नक्षत्राणां राजन् सोम युष्मत्प्रसादात् वयं प्रजया मा हास्महि हानिः त्यागः त्यक्ता मा भूम । मा च तनूभिः हास्महि पुत्रादिशरीरापेक्षं बहुवचनम् । मा रधाम द्विषते रधिः वशीकरणकर्म, षष्ठ्यर्थे चतुर्थी । द्विषतो वश्या मा भूम ॥
११-१३ राष्ट्रभृदस्याचार्यासन्दी मा ...{Loading}...
राष्ट्र॒भृद् अ॑सि सम्राड्+++(=अभिषिक्त-क्षत्रिय)+++-आस॒न्दी। मा त्वद् यो॑षम्।
राष्ट्र॒भृद् अ॑स्य् अधिपत्न्य्-आस॒न्दी। मा त्वद् यो॑षम्।
११-१३ राष्ट्रभृदस्याचार्यासन्दी मा ...{Loading}...
मूलम्
रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दी मा त्वद्यो॑षꣳ राष्ट्र॒भृद॑सि सम्राडास॒न्दी मा त्वद्यो॑षꣳ राष्ट्र॒भृद॑स्यधिपत्न्यास॒न्दी मा त्वद्यो॑षम् ।
हरदत्तः
अथमधुपर्कमन्त्राः- राष्ट्रभृदिति । गतम् । सम्राट् अभिषिक्तः क्षत्रियः तदनुरूपमासनं सम्राडासन्दी । अधिपति मंण्डलाधिपतिः अनभिषिक्तः तस्यासनं अधिपत्न्यासन्दी । नकारश्छान्दस उपजनः ॥
१४ आपः पादावनेजनीर्द्विषन्तम् ...{Loading}...
आपः॑ पादाव॒नेज॑नीर्
द्वि॒षन्तं॑ नाशयन्तु मे ।
अ॒स्मिन् कुले॑ ब्रह्मवर्च॒स्य् अ॑सानि+++(=भूयासम्)+++ ।
१४ आपः पादावनेजनीर्द्विषन्तम् ...{Loading}...
मूलम्
आपः॑ पादाव॒नेज॑नीर्द्वि॒षन्तं॑ नाशयन्तु मे ।
अ॒स्मिन्कुले॑ ब्रह्मवर्च॒स्य॑सानि ।
हरदत्तः
पाद्याभिमन्त्रणम्-आपः पादेति ॥ पादाववनिज्येते प्रक्षाळयेते याभिस्ताः पादावनेजनीः पादावनेजन्यः ताः आपो मे द्विषन्तं नाशयन्तु । अस्मिन्कुले अहं ब्रह्मवर्चसी असानि भूयासम् ।
१५ मयि महो ...{Loading}...
मयि॒ महो॒+++(=पूजा)+++, मयि॒ यशो॒, मयी॑न्द्रि॒यं वी॒र्य॑म् ।
१५ मयि महो ...{Loading}...
मूलम्
मयि॒ महो॒ मयि॒ यशो॒ मयी॑न्द्रि॒यं वी॒र्य॑म् ।
हरदत्तः
आत्मनः प्रत्यभिमर्शः - मयि मह इति ॥ महः पूजा यशः कीर्तिः, इन्द्रियं चक्षुरादि, वीर्यं रेतः । भवत्विति शेषः । ब्राह्मणेन पादे स्पृष्टे एतेषामुपगमशङ्कया प्रार्थ्यते ॥
१६ आमाऽगन् यशसा ...{Loading}...
+++(उदक!)+++ आ मा॑ ऽग॒न्॒ यश॑सा॒ वर्च॑सा॒
सꣳसृ॑ज॒ पय॑सा॒ तेज॑सा च ।
तं मा॑ प्रि॒यं प्र॒जानां॑
कु॒र्व् अधि॑पतिं पशू॒नाम् ।
१६ आमाऽगन् यशसा ...{Loading}...
मूलम्
आमा॑ऽग॒न्॒ यश॑सा॒ वर्च॑सा॒ सꣳसृ॑ज॒ पय॑सा॒ तेज॑सा च ।
तं मा॑ प्रि॒यं प्र॒जानां॑ कु॒र्वधि॑पतिं पशू॒नाम् ।
हरदत्तः
अर्घ्याभिमन्त्रणम् - आ मा गन्निति ॥ हे अर्घ्योदक त्वं मां आगन् आगमः आगच्छ वा । आगत्य च यशसा वर्चसा च मां संसृज पयसा क्षीरेण तेजसा च । किञ्च - एतैः संसृष्टं तं मां प्रजानां प्रियं कुरु पशूनां च गवादीनां अधिपतिं कुरु ॥
१७ विराजो दोहोऽसि ...{Loading}...
वि॒राजो॒ +++(ऽन्नस्य)+++ दोहो॑ऽसि।
वि॒राजो॒ दोह॑म् अशीय॒।
मम॒ पद्या॑य॒ +++(पुत्रादये)+++ विरा॑ज+++(=दीप्यस्व)+++ ।
१७ विराजो दोहोऽसि ...{Loading}...
मूलम्
वि॒राजो॒ दोहो॑ऽसि वि॒राजो॒ दोह॑मशीय॒ मम॒ पद्या॑य॒ विरा॑ज ।
हरदत्तः
अञ्जलावानीयमानेर्घ्ये - जपति - विराज इति ॥ विराट् अन्नं अन्नं विराट् तस्य त्वं दोहोसि दोहः क्षरणं अतश्च त्वत्परिग्रहात् विराजो दोहमशीय प्राप्रुयाम् । मम पद्याय पदं स्थानं तत्र भवः पद्यः मम यः पद्यः मस्थानापन्नः पुत्रः तस्मै विराज दीप्यस्य तमप्येवंविधं कुरु ॥
१८ समुद्रं वः ...{Loading}...
स॒मु॒द्रं वः॒ प्रहि॑णोमि॒
स्वां योनि॒म् अपि॑ गच्छत ।
अच्छि॑द्रः प्र॒जया॑ भूयासं॒
मा परा॑ सेचि॒ मत् पयः॑ ॥ (9)
१८ समुद्रं वः ...{Loading}...
मूलम्
स॒मु॒द्रं वः॒ प्रहि॑णोमि॒ स्वां योनि॒मपि॑ गच्छत ।
अच्छि॑द्रः प्र॒जया॑ भूयासं॒ मा परा॑ सेचि॒ मत्पयः॑ ॥ (९)
हरदत्तः
शेषं पुरस्तान्निनीयमानमुत्तरयानुमन्त्रयते - समुद्रं व इति ॥ हे आपः । वः युष्मान् समुद्रं प्रहिणोमि प्रापयामि । यूयं स्वां योनिं समुद्रं अपिगच्छत प्रतिगच्छत । सर्वासामपां समुद्रो योनिः अहमपि युष्मत्प्रसादात् प्रजया अच्छिद्रः निरन्तरो भूयासं प्रजा मे मा विच्छेदि । मा च मत् मत्तः परासेचि पयः । पुनस्तदुपभोग्यं यथा न भवति तथा सेकः परासेकः ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने नवमः खण्डः