2 07

०१ इम२ं स्तोममर्हते …{Loading}…

इमँ᳓ स्तो᳓मम् अ᳓र्हते+++(=स्तुत्यर्हाय)+++ जात᳓वेदसे
+++(यथा तक्षा!)+++ र᳓थम् इव सं᳓महेमा मनीष᳓या+++(=बुद्ध्या)+++ ।+++(४)+++
भद्रा᳓ हि᳓ नः प्र᳓मतिर् अस्य +++(अग्नेः)+++ सँस᳓द्य्
अ᳓ग्ने सख्ये᳙ मा᳓ रिषामा वयं᳓ त᳓व ।+++(५)+++

मूलम्

इ॒मँ स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ संम॑हेमा मनी॒षया॑ ।
भ॒द्रा हि नः॒ प्रम॑तिरस्य सँ॒सद्यग्ने॑ स॒ख्ये॑ मारि॑षामा व॒यं तव॑ ।

हरदत्तः

अथ समावर्तने समिदाधानम् - इमं स्तोममिति ॥ इमं स्तोमं इमां स्तुतिं अर्हते स्तुत्यर्हाय जातवेदसे जातधनाय जातप्रज्ञाय वा संमहेम । महिः पूजायामन्यत्र, इह तु करोत्यर्थे संस्कारे वा द्रष्टव्यः कर्तं संस्कर्तुं वा शक्नुयाम मनीषया स्वया बुद्ध्या रथमिव यथा तक्षा रथं करोति गन्तुकामो वा संस्करोति तद्वत् । किंकारणमग्नेस्स्तुतिः क्रियते? उच्यते, भद्रा हि हिशब्दो यस्मादित्यर्थे, यस्मात् भद्रा कल्याणी नः अस्माकं उपरि अस्मासु वा प्रमतिः प्रकृष्टा अनुग्रहात्मिका मतिः अस्य अग्नेः संसदि सभायां यस्मादयं यज्ञादिसभा स्वस्माकमनुग्राहक इत्यर्थः । परः पादः प्रत्यक्षकृतत्वाद्भिन्नं वाक्यम् । हे अग्ने तव सख्ये देवानां मनुष्याणां च स्तुत्यस्तोतृभावलक्षणं सख्यं तत्र वर्तमाना वयं मा रिषाम मा केनचिद्धिंसिष्महि ॥

०२ त्र्यायुषञ् जमदग्नेः …{Loading}…

त्र्यायुषं᳓+++(=कौमारयौवनस्थाविराणि)+++ जम᳓दग्नेः
कश्य᳓पस्य त्र्य्-आयुष᳓म् ।
य᳓द् देवा᳓नां त्र्य्-आयुष᳓न्
त᳓न्मे अस्तु त्र्य्-आयुष᳓म् ।+++(५)+++

मूलम्

त्र्या॒यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् ।
यद्दे॒वानां॑ त्र्यायु॒षन्तन्मे॑ अस्तु त्र्यायु॒षम् ।

हरदत्तः

क्षुराभिमन्त्रणम् - त्र्यायुषमिति ॥ त्र्यायुषं कौमारयौवनस्थाविराणि त्रीण्यायूंषि तेषां समाहारः त्र्यायुषं जमदग्न्यादीनां यादृशं त्र्यायुषं ममापि तादृशं त्र्यायुषं अस्तु । क्षुरकर्मणोनाऽयुष्करत्वात् तत्साधनस्यैवमभिमन्त्रणम् ॥

०३ शिवो नामासि …{Loading}…

शिवो᳓ ना᳓मासि,
स्व᳓धितिस्+++(=परशुः, वज्रः)+++ ते पिता᳓।
+++(वज्रो वै स्वधितिः इति दर्शनात्)+++
न᳓मस् ते अस्तु।
मा᳓ मा हिँसीः ।

मूलम्

शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिँसीः ।

हरदत्तः

क्षुरं वप्त्रे प्रयच्छति - शिवो नामेति ॥ नामशब्दो निपातोवधारणे । शिव एव त्वमसि स्वधितिः वज्रः वज्रो वै स्वधितिः इति दर्शनात् स ते पिता सर्वशस्त्रेषु तस्य प्रधानत्वात्, नमस्ते अस्तु मा मा हिंसीः ॥

०१ उष्णेन वायवुदकेनेह्यदितिः …{Loading}…

+++(उष्णा आपः शीतास्वानयति)+++ उष्णे᳓न वायव् उदके᳓ने᳓ह्य्,
अ᳓दितिः के᳓शान् वपतु ।

०२ आप उन्दन्तु …{Loading}…

+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आ᳓प उन्दन्तु जीव᳓से
दीर्घायुत्वा᳓य व᳓र्चसे ।
ज्यो᳓क् च सू᳓र्यं दृशे᳓ ।

०३ येनावपत्सविता क्षुरेण …{Loading}…

+++(प्राच्यान्दिशि)+++ ये᳓ना᳓वपत् सविता᳓ क्षुरे᳓ण
सो᳓मस्य रा᳓ज्ञो व᳓रुणस्य विद्वा᳓न् ।
ते᳓न ब्रह्माणो! वपतेद᳓म् अस्या᳓-
ऽऽयुष्माञ् ज᳓रदष्टिर् य᳓था᳓ ऽसद् अय᳓म्
असौ᳓ +++(←अत्रोहः)+++।

०४ येन पूषा …{Loading}…

+++(दक्षिणतः)+++ ये᳓न पूषा᳓ बृ᳓हस्प᳓तेर् अग्ने᳓र्
इ᳓न्द्रस्य चा᳓ऽऽयुषे᳓ ऽवपत् ।
ते᳓नास्या᳓ऽऽयुषे वप
सौ᳓श्लोक्याय स्वस्त᳓ये ।

०५ येन भूयश्चरात्ययञ्ज्योक्च …{Loading}…

+++(पश्चात्)+++ ये᳓न भू᳓यश् च᳓रात्य् अय᳓ञ्,
ज्यो᳓क् च प᳓श्याति सू᳓र्यम् ।
ते᳓नास्या᳓ऽऽयुषे वप
सौ᳓श्लोक्याय स्वस्त᳓ये ।

०६ येन पूषा …{Loading}…

+++(उत्तरे)+++ ये᳓न पूषा᳓ बृ᳓हस्प᳓तेर् अग्ने᳓र्
इ᳓न्द्रस्य चा᳓ऽऽयुषे᳓ ऽवपत् ।
ते᳓न ते वपाम्य् असाव्+++(←अत्रोहः)+++
आ᳓युषा व᳓र्चसा य᳓था ज्यो᳓क् सुम᳓ना अ᳓साः ।

०७ यत्क्षुरेण मर्चयता …{Loading}…

+++(नापितम् अनुमन्त्रयति-)+++ य᳓त् क्षुरे᳓ण मर्च᳓यता +++(=तीक्ष्णेन)+++
सुपेश᳓सा व᳓प्त्रा व᳓पसि के᳓शान् ।
शु᳓न्धि शि᳓रो, मा᳓स्या᳓युः प्र᳓मोषीः ।

०८ उप्त्वाय केशान् …{Loading}…

उप्त्वा᳓स्य के᳓शान् व᳓रुणस्य रा᳓ज्ञो,
बृ᳓हस्प᳓तिस् सविता᳓ सो᳓मो अग्निः᳓ ।
ते᳓भ्यो +++(=केशेभ्यः)+++ निधा᳓नं बहुधा᳓ ऽन्वविन्दन्न्
अन्तरा᳓ द्या᳓वापृथिवी᳓ अप᳓स् सु᳓वः ॥

मूलम्

उ॒ष्णेन॑ वायवुद॒केनेह्यदि॑तिः॒ केशान्॑ वपतु ।

हरदत्तः

अथोपनयनमन्त्राः । तत्र उष्णा अपः शीतास्वानयति उष्णेनेति ॥ हे वायो । उष्णेन उदकेन उष्णमुदकं गृहीत्वा एहि आगच्छ । किमर्थे? अदितिः केशान्वपतु अदित्याः वपने अनुग्रह कर्तृत्वं एवं वायोरुदकानयने ॥

मूलम्

आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से ।
ज्योक्च॒ सूर्यं॑ दृ॒शे ।

हरदत्तः

उत्तरया शिर उनत्ति - आप उन्दन्त्विति ॥ माणवकस्यास्य शिरः आपः उन्दन्तु क्लेदयन्तु जीवसे जीवितुं जीवनाय । कियन्तं कालं? दीर्घायुत्वाय षोडशवर्षयुतं शतं दीर्घमायुः वर्चसे दीप्तये ज्योक् दीर्घकालं सूर्यं दृशे द्रष्टुं यथा अयं दीर्घकालं जीवेत्, तावन्तं कालं चक्षुष्मान्भवति वर्चस्वी च तथोन्दन्तु ॥

मूलम्

येनाव॑पत्सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो वपते॒दम॒स्यायु॑ष्मा॒ञ्जर॑दष्टि॒र्यथाऽस॑द॒यम॒सौ ।

हरदत्तः

उत्तराभिः प्रतिदिशं प्रवपत्याचार्यः । तत्र प्राच्यां दिशि - येनावपदिति ॥ येन क्षुरेण सविता सोमस्य राज्ञः वरुणस्य शिर अवपत् विद्वान् नापितकर्मणि कुशलः तेन क्षुरेण जातिद्वारेणैक्यं तादृशेन वा क्षुरेण हे ब्रह्माणः । ब्राह्मणाः पुण्याहवाचनस्य कर्तारः इदं अस्य माणवकस्य शिरः वपत वपने मां प्रयुङ्ध्वमित्यर्थः । युष्मदनुज्ञयाहं प्रवपामीति यावत् । यथा वपने सति अयं माणवकः असौ यज्ञशर्मा आयुष्मन् जरदष्टिः जीर्णाशनश्च असत् स्यात् तथा वपत । असावित्यत्र माणवकस्य नामनिर्देशः प्रथमया ॥

मूलम्

येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत् ।
तेना॒स्यायु॑षे वप॒ सौश्लो॑क्याय स्व॒स्तये॑ ।

हरदत्तः

अथ दक्षिणतः - येन पूषेति ॥ येन क्षुरेणेति गतम् । तेन क्षुरेण अस्य शिरः आयुषे वप शरीरात्मानं प्रत्यन्तरात्मनः प्रैषः, हे मदीयशरीरात्मन् । वप सौश्लोक्याय सुश्लोकः सुकीर्तिः तस्य भावः सौश्लोक्यं यथा अयं सुकीर्तिः स्यात् तथेत्यर्थः । स्वस्तये अवि नाशाय च ॥

मूलम्

येन॒ भूय॒श्चरा॑त्य॒यञ्ज्योक्च॒ पश्या॑ति॒ सूर्य॑म् ।
तेना॒स्यायु॑षे वप॒ सौश्लो॑क्याय स्व॒स्तये॑ ।

हरदत्तः

अथ पश्चात् - येन भूय इति ॥ येन क्षुरेण उप्तः अयं माणवकः भूयश्चराति । पञ्चमो लकारः । भूयिष्ठं चरेत् सर्वानतीत्य चरेत्, ज्योक् दीर्घकालं च सूर्यं पश्याति पश्येत् । छान्दस उभयत्र दीर्घः । तेनेत्यादि गतम् ॥

मूलम्

येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत् ।
तेन॑ ते वपाम्यसा॒वायु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक्सु॒मना॒ असाः॑ ।

हरदत्तः

अथोत्तरतः - येन पूषेति ॥ पूर्वार्धं गतम् । तेन क्षुरेण ते तव शिरो वपामि असौ इति नामनिर्देशः संबुद्ध्या यज्ञशर्मन् ।यथा वपने सति आयुषा वर्चसा च युक्तः ज्योक् दीर्घकालं सुमनाः त्वं असाः अत्रापि पञ्चमो लकारः । स्याः तथा वपामि ॥

मूलम्

यत्क्षु॒रेण॑ म॒र्चय॑ता सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ ।
शुन्धि॒ शिरो॒ मास्यायुः॒ प्रमो॑षीः ।

हरदत्तः

अथ वपन्तं नापितं उत्तरयानुमन्त्रयते आचार्यः यत्क्षुरेणेति ॥ यत् यदा क्षुरेण मर्चयता तीक्ष्णभूतेन सुपेशसा सुरूपेण उज्र्वलेन वप्त्रा करणस्य कर्तृत्वविवक्षा, एवम्भूतेन क्षुरेण यदास्य केशान्वपसि । यदिति वचनात्तदेत्यध्याहार्यम् । तदा अस्य शिरः शुन्धि शुद्धं कुरु यथा केशाः निर्मूला भवन्ति तथेत्यर्थः । आयुस्तु अस्य मा प्रमोषीः वपनस्य स्वतोमङ्गलत्वात् एवं प्रार्थ्यते । तथा च ब्राह्मणम् । रिक्तो वा एषोनपिहितो यन्मुण्डः इति ।।

मूलम्

उ॒प्त्वाय॒ केशा॒न् वरु॑णस्य॒ राज्ञो॒ बृह॒स्पति॑स्सवि॒ता सोमो॑ अ॒ग्निः ।
तेभ्यो॑ नि॒धानं॑ बहु॒धाऽन्व॑विन्दन्नन्त॒रा द्यावा॑पृथि॒वी अ॒पस्सुवः॑ ॥

हरदत्तः

अथ केशनिधानमन्त्रः उप्त्वाय केशानिति ॥ उप्त्वाय उप्त्वा । क्त्वो यत् । केशान् कस्य? वरुणस्य राज्ञः के? बृहस्पत्यादयः । ते किमकुर्वन्? तेभ्यः तेषां केशानां निधानम् । अधिकरणे ल्युट् । ते यत्र निधीयन्ते तत्स्थानं बहुधा बहुभिः प्रकारैः अन्वविन्दन् अनुक्रयेण लब्धवन्तः । क्वा? अन्तराद्यावापृथिवी द्यावापृथिव्योर्मध्ये अपः अन्तरिक्षे सुवः स्वर्गे लोके, कालभेदेन स्थानभेदः । एवं अहमपि उदुम्बरमूले दर्भस्तम्बे वा निदधामीति योज्यम् ।

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने द्वितीयप्रश्ने प्रथमः खण्डः

१२ इदमहममुष्यामुष्यायणस्य पाप्मानमुपगूहाम्युत्तरोऽसौ …{Loading}…

इद᳓म् अह᳓म् अमु᳓ष्याऽऽमुष्यायण᳓स्य+++(←नामनिर्देशः)+++ पाप्मा᳓नम् उ᳓पगूहाम्य्,
उ᳓त्तरो ऽसौ᳓+++(←नामनिर्देशः)+++ द्विष᳓द्भ्यः ।+++(५)+++

मूलम्

इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्य॑ पा॒प्मान॒मुप॑गूहा॒म्युत्त॑रो॒ऽसौ द्वि॒षद्भ्यः॑ ।

हरदत्तः

मेखलाया उपगूहनम् - इदमहमिति ॥ अमुष्य यज्ञशर्मणः आमुष्यायणस्य वात्स्यस्य वात्स्यायनस्य वा पाप्मानमिदं अहं उपगूहामि उपगूहनं अप्रकाशीकरणम् । सूत्रोक्तमुपगूहनमप्येतदेव । यन्मेखलाया उपगूहनं तत्पाप्मन एव उपगूहनत्वेन निरूप्यते । असौ यज्ञशर्मा द्विषद्भ्यः उत्तरः उधिकोस्तु ॥

१३ आपो हि …{Loading}…

आ᳓पो हि᳓ ष्ठा᳓ मयो-भु᳓वस्
ता᳓ न ऊर्जे᳓+++(जाः)+++ दधातन ।
महे᳓ र᳓णाय+++(=रमणीयाय)+++ च᳓क्षसे+++(=दर्शनाय)+++ ॥

मूलम्

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से॥

हरदत्तः

स्नानमन्त्राः - आपो हिष्ठेति ॥ हे आपः यूयं मयोभुवः स्थ मय इति सुखनाम, सुखस्य भावयित्र्यः स्थ । हिः प्रसिद्धौ । ताः युयं नः अस्मान् ऊर्जे अन्नाय दधातन धत्त अन्नमस्मभ्यं धत्तेत्यर्थः महे महते रणाय रमणीयाय चक्षसे दर्शनाय दधातन ॥

१४ यो वः …{Loading}…

यो᳓ वः शिव᳓तमो र᳓सस्
त᳓स्य भाजयतेह᳓ नः ।
उशती᳓र्+++(=कामयमाना)+++ इव मात᳓रः ॥

मूलम्

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीरि॑व मा॒तरः॑ ॥

हरदत्तः

य इति ॥ वः युष्माकं सम्बन्धी यश्शिवतमो रसः तस्य तृतीयार्थे षष्ठी, तेन रसेन नः अस्मान् भाजयत सः यथा अस्मान्भजते तथा कुरुत इह लोके उशतीः कामयमाना इव मातरो यथा मातरोवत्सला भूत्वा स्तन्यं प्रापयन्ति तद्वत् ॥

१५ तस्मा अरम् …{Loading}…

+++(रसाय)+++ त᳓स्मा अ᳓रं+++(=शीघ्रम्)+++ गमाम वो
य᳓स्य +++(प्रभावेण)+++ क्ष᳓याय+++(=निवासाय)+++ जि᳓न्वथ+++(=प्रीणयथ)+++ ।
आ᳓पो +++(प्रजा)+++ जन᳓यथा च नः ॥
+++(चादिषु च इति न स्वर-निघातः। )+++

मूलम्

तस्मा॒ अरं॑ गमाम वो
यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥

हरदत्तः

तस्मा इति ॥ तस्मै रसाय अरं शीघ्रं पर्याप्तं वा गमाम गच्छेम वः युष्मान् तद्रसस्य पानार्थं युष्मान् गच्छेम । यस्येति तृतीयार्थे षष्ठी, येन रसेन क्षयाय । निवासवचनोयं आद्युदात्तत्वात् द्वितीयार्थे चतुर्थी । क्षयं निवासं अस्मदीयं जिन्वथ प्रीणयथ । येन च हे आपः जनयथ पुत्रपौत्रादिभिः प्रजातान् कुरुथ नः अस्मान् ॥

१६ हिरण्यवर्णाश्शुचयः पावकाः …{Loading}…

हि᳓रण्य-वर्णाश् शु᳓चयः पावका᳓
या᳓सु जातः᳓ कश्य᳓पो या᳓स्व् इ᳓न्द्रः ।
अग्नि᳓य्ँ या᳓ ग᳓र्भन् दधिरे᳓, वि᳓रूपास् -
ता᳓स् त आ᳓पश् शँ᳓ स्योना᳓ +++(=सुखा)+++ भवन्तु ।+++(५)+++

१७ यासां राजा वरुणो याति …{Loading}…

या᳓साँ रा᳓जा व᳓रुणो या᳓ति म᳓ध्ये,
सत्यानृते᳓ अवप᳓श्यञ् ज᳓नानाम् ।
मधुश्-चु᳓तश् शु᳓चयो याᳶ᳓ पावका᳓स् -
ता᳓ न आ᳓पश् शँ᳓ स्योना᳓ भवन्तु ।

१८ यासां देवा दिवि कृण्वन्ति …{Loading}…

या᳓सान् देवा᳓ दिवि᳓ कृण्व᳓न्ति भक्षय्ँ᳓ -
या᳓ अन्त᳓रिक्षे बहुधा᳓ भ᳓वन्ति ।
याᳶ᳓ पृथिवी᳓म् प᳓यसोन्द᳓न्ति शुक्रा᳓स् -
ता᳓ न आ᳓पश् शँ᳓ स्योना᳓ भवन्तु ।

मूलम्

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का, यासु॑ जा॒तᳵ क॒श्यपो॒, यास्विन्द्रः॑ ।

अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् - ता न॒ आप॒श्शँ स्यो॒ना भ॑वन्तु ।

हरदत्तः

हिरण्यवर्णाश्शुच इति ॥ गताः । यदप्यगतं तदपि स्पष्टम् । इन्द्रः । पर्जन्यः तस्य मेधेष्वाविर्भावात् अप्सुजातत्वम् ॥

मूलम्

यासाँ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑, सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।

म॒धु॒श्चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् - ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।

मूलम्

यासा॑न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षय्ँ - या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् - ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।

१९ अन्नाद्याय व्यूहद्ध्वम् …{Loading}…

+++(दन्ताः!)+++ अन्ना᳓द्याय व्यू᳙हध्वं+++(=पृथग्भवत)+++
दीर्घायु᳓र् अह᳓म् अन्नादो᳓ भूयासम् ।
सो᳓मो रा᳓जाऽय᳓म् आ᳓गमत्,
स᳓ मे मु᳓खं प्र᳓वेक्ष्यति भ᳓गेन सह᳓ व᳓र्चसा ।+++(र५)+++

मूलम्

अ॒न्नाद्या॑य॒ व्यू॑हद्ध्वं दीर्घा॒युर॒हम॑न्ना॒दो भू॑यासम् ।
सोमो॒ राजा॒ऽयमाग॑म॒त्स मे॒ मुखं॒ प्रवे॑क्ष्यति॒ भगे॑न स॒हवर्च॑सा ।

हरदत्तः

दन्तधावनम् - अन्नाद्यायेति ॥ अन्नाद्याय अन्नादनाय व्यूहभ्वं व्यूहः पृथग्भावः पृथग्भवत हे दन्ताः मलेन पृथग्भूता भवत । अहं च युष्माभिः शुद्धैः दीर्घायुः अन्नादश्च भूयासं सोमो राजा यमागमत् दन्तधावनकाष्ठस्य वार्क्षत्वात् वृक्षणां च सोमाधिष्ठितत्वादेवमुच्यते । स चागतः मे मम मुखं प्रवेक्ष्यति भगेन सौभाग्येन वर्चसा दीप्त्या च सह । दन्तशोधने सति मुखमतीव शोभते इत्युच्यते ॥

२० सोमस्य तनूरसि …{Loading}…

सो᳓मस्य तनू᳓र् असि। +++(सौम्यँ वै वासः इति श्रुतेः।)+++
तनु᳓वं मे पाहि।
स्वा᳓मा तनू᳓र् आ᳓विश +++(सोमस्य यथा)+++।+++(र५)+++

मूलम्

सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पाहि॒ स्वामा॑ त॒नूरावि॑श ।

हरदत्तः

अनन्तरं वासः परिधत्ते सोमस्य तनूरसीति ॥ हे वासः । त्वं सोमस्य तनूरसि सौम्यँ वै वासः इति श्रुतेः । एवं भूतं त्वं मे तनुवं तनूं पाहि त्वयाच्छादितं शरीरं रक्षितं भवति । न केवलं सोमस्य तनूः । किं तर्हि? ममापि स्वा तनूः शरीरतुल्यत्वादेवमुच्यते । तथा च मन्त्रान्तरं आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् इति । एवंभूतं त्वं मामाविश ॥

२१ नमो ग्रहाय चाभिग्रहाय …{Loading}…

न᳓मो ग्रहा᳓य चाभिग्रहा᳓य च ।

२२ नमश्शाकजञ्जभाभ्याम् …{Loading}…

न᳓मश् शाकजञ्जभा᳓भ्याम् ।

२३ नमस्ताभ्यो देवताभ्यः …{Loading}…

न᳓मस् ता᳓भ्यो देव᳓ताभ्यो या᳓ अभिग्राहि᳓णीः ।

मूलम्

नमो॑ ग्र॒हाय॑ चाभिग्र॒हाय॑ च ।

हरदत्तः

देवताभ्यः चन्दनप्रदानम् - नम इति ॥ नमआदय स्त्रयो मन्त्राः । देवताश्च मान्त्रवर्णिक्यः ग्रहश्च अभिग्रहश्च शाक जम्भवौ च अभिग्राहिण्यश्च । एताश्च अलङ्कारसमये पुरुषमुपसर्पन्ति ताभ्यश्चन्दनप्रदानम् ।।

मूलम्

नम॑श्शाकजञ्ज॒भाभ्या॑म् ।

मूलम्

नम॒स्ताभ्यो॑ दे॒वता॑भ्यो॒ या अ॑भिग्रा॒हिणीः॑ ।

२४ अप्सरस्सु यो …{Loading}…

अप्सर᳓स्सु यो᳓ गन्धो᳓
गन्धर्वे᳓षु च य᳓द् य᳓शः ।
दै᳓वो यो᳓ मानुषो᳓ गन्ध᳓स्
स᳓ मा गन्ध᳓स् सुरभि᳓र् जुषताम् ।

मूलम्

अ॒प्स॒रस्सु॒ यो ग॒न्धो ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑ ।
दैवो॒ यो मा॑नु॒षो ग॒न्धस्स मा॑ ग॒न्धस्सु॑र॒भिर्जु॑षताम् ।

हरदत्तः

उत्तरया आत्मानमनुलिम्पति - अप्सरसस्स्विति ॥ अप्सरसामुपभोगयोग्यो यो गन्धः गन्धर्वेषु च यद्यशः कीर्तिः प्रसिद्धा गन्धर्वेषु च यः प्रसिद्धो गन्धः यद्योगात्ते गन्धर्वा भवन्ति गन्धवन्तो गन्धर्वा इति, यश्च दैवो गन्धः यश्च मानुषः स सर्वोपि सुरभिर्गन्धः मां जुषतां भजताम् । सुरभिर्घ्राणतर्पणः ॥

२५ इयमोषधे त्रायमाणा …{Loading}…

इय᳓म् +++(पृथिवी पार्थिवसुवर्णे वर्तमाना)+++ ओ᳓षधे+++(धीः)+++ त्रा᳓यमाणा
स᳓हमाना स᳓हस्वती ।
सा᳓ मा हि᳓रण्य-वर्चसं
ब्रह्मवर्चसि᳓नं मा करोतु ।

मूलम्

इ॒यमोष॑धे॒ त्राय॑माणा॒ सह॑माना॒ सह॑स्वती ।
सा मा॒ हिर॑ण्यवर्चसं ब्रह्मवर्च॒सिनं॑ मा करोतु ।

हरदत्तः

सौवर्णे मणिं उदपात्रे परिप्लावयति - इयमोषध इति ॥ पार्थिवस्य सुवर्णस्य पृथिवीत्वेन स्तुतिः इयं पृथिवी ओषधे ओषधीः । विभक्तिलोपश्छान्दसः । त्रायमाणा ओषधीनामाधारभूतेत्यर्थः सहमाना सर्वकार्येषु समर्था सहस्वती बलवती एवम्भूता पृथिवी सा मां हिरण्यवर्चसं हिरण्यवद्दीप्तं करोतु ब्रह्मवर्चसिनं ब्रह्मवर्चसयुक्तं च मां करोतु ॥

२६ अपाशोऽस्युरो मे …{Loading}…

अ᳓पाशो ऽस्य् - उ᳓रो मे मा᳓ सँ᳓शारीः+++(=हिंसीः)+++ ।
शिवो᳓ मो᳓पतिष्ठस्व - दीर्घायुत्वा᳓य शत᳓शारदाय ।
शतँ᳓ शर᳓द्भ्य आ᳓युषे व᳓र्चसे जीवा᳓त्वै+++(=जीवनाय जीवा᳓त्वै)+++ पु᳓ण्याय ।

मूलम्

अपा॑शो॒ऽस्युरो॑ मे॒ मा सँशा॑रीः ।
शि॒वो मोप॑तिष्ठस्व दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।
श॒तँ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से जी॒वात्वै पुण्या॑य ।

हरदत्तः

ग्रीवास्वाबध्नाति - अपाशोसीति ॥ येन चोरादि बध्यते स पाशः स त्वं न भवसि । अतश्च उरः उरस्थलं मे मा संशारीः मा हिंसीः ग्रीवास्वावबद्ध्यमानस्य अवपतनादुरसो बाधशङ्का । शिवो मा उपतिष्ठस्व दीर्घायुत्वाय । कीदृशाय? शतशारदाय शतं शरदो भावि यद्दीर्घायुष्यं तस्मै । शतम् चतुर्थ्यर्थे प्रथमा शताय शरद्भयः शतवर्षार्थमायुषे शतवर्षभावि यदायुः तदर्थम् । वर्चसे जीवात्वै जीवातुः जीवनं तस्मै पुण्याय प्रशस्ताय शिषो मोप तिष्ठस्वेत्येव । आदरार्थं चायुषः पुनर्वचनम् ॥

२७ रेवतीस्त्वा व्यक्ष्णन् …{Loading}…

+++(नक्षत्रेषु)+++ रेव᳓तीस् त्वा व्य᳙क्ष्णन्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृ᳓त्तिकाश् चा᳓कृन्तँस् त्वा ।
धि᳓यो ऽवयन्न्, अ᳓व ग्ना᳓+++(=देवता)+++ अवृञ्जन्त्+++(=अच्छिन्दन्)+++
सह᳓स्रम् अ᳓न्ताँ+++(=दशासूत्राणि)+++ अभि᳓तो अयच्छन् ।

२८ देवीर्देवाय परिधी सवित्रे …{Loading}…

देवी᳓र् देवा᳓य +++(वस्त्र)+++परिधी᳓+++(धौ)+++ सवित्रे᳓ ।
मह᳓त् त᳓द् आसाम् अभवन् महित्वन᳓म्+++(=महत्वम्)+++ ।+++(र४)+++

२९ या अकृन्तन्नवयन् …{Loading}…

या᳓ अ᳓कृन्तन्न् अ᳓वयन् या᳓ अ᳓तन्वत
या᳓श् च देवी᳓र् +++(वस्त्रस्य)+++ अ᳓न्तान् अभि᳓तो ऽददन्त+++(←दद् दाने)+++ ।
ता᳓स् त्वा देवी᳓र् जर᳓से सं᳓व्ययन्त्व्
आ᳓युष्मान् इदं᳓ प᳓रिधत्स्व वा᳓सः ।

३० परिधत्त धत्त …{Loading}…

प᳓रिधत्त धत्त वा᳓ससैनँ
शता᳓युषं कृणुत दीर्घ᳓म् आ᳓युः ।
बृ᳓हस्प᳓तिः प्रा᳓यच्छद् वा᳓स एत᳓त्
सो᳓माय रा᳓ज्ञे प᳓रिधातवा᳓ उ ।

३१ परिधत्त धत्त …{Loading}…

प᳓रिधत्त धत्त वा᳓ससैनँ
शता᳓युषं कृणुत दीर्घ᳓म् आ᳓युः ।
बृ᳓हस्प᳓तिः प्रा᳓यच्छद् वा᳓स एत᳓त्
सो᳓माय रा᳓ज्ञे प᳓रिधातवा᳓ उ ।

३२ जरां गच्छासि …{Loading}…

जरां᳓ गच्छासि, प᳓रिधत्स्व वा᳓सो
भ᳓वा कृष्टीना᳓म्+++(=मनुष्याणां)+++ अभिशस्ति-पा᳓वा+++(ता)+++ ।
शत᳓ञ् च जीव शर᳓दस् सुव᳓र्चा
राय᳓श् च पो᳓षम् उ᳓प सं᳓व्ययस्व +++(वासो यथा रायस्पोषं भवति तथा)+++।

मूलम्

रे॒वती॑स्त्वा॒ व्य॑क्ष्ण॒न्कृत्ति॑का॒श्चाकृ॑न्तँ स्त्वा ।
धियो॑ऽवय॒न्नव॒ग्न आ॑वृञ्जन्त्स॒हस्र॒मन्ताँ॑ अ॒भितो॑ अयच्छन्न् ।

हरदत्तः

रेवतीस्त्वा व्यक्ष्णन् इत्यदि ॥ गताः । ताभिरेव द्वितीयं वासः परिधत्ते ॥

मूलम्

दे॒वीर्दे॒वाय॑ परि॒धी स॑वि॒त्रे ।
म॒हत्तदा॑सामभवन्महित्व॒नम् ।

मूलम्

या अकृ॑न्त॒न्नव॑य॒न् या अत॑न्वत॒ याश्च॑ दे॒वीरन्ता॑न॒भितो॑ऽददन्त ।
तास्त्वा॑ दे॒वीर्ज॒रसे॒ संव्य॑य॒न्त्वायु॑ष्मानि॒दं परि॑धत्स्व॒ वासः॑ ।

मूलम्

परि॑धत्त धत्त॒ वास॑सैनँ श॒तायु॑षं कृणुत दी॒र्घमायुः॑ ।
बृह॒स्पतिः॒ प्राय॑च्छ॒द्वास॑ ए॒तत्सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।

मूलम्

परि॑धत्त धत्त॒ वास॑सैनँ श॒तायु॑षं कृणुत दी॒र्घमायुः॑ ।
बृह॒स्पतिः॒ प्राय॑च्छ॒द्वास॑ ए॒तत्सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।

मूलम्

ज॒रां ग॑च्छासि॒ परि॑धत्स्व॒ वासो॒ भवा॑ कृष्टी॒नाम॑भिशस्ति॒पावा॑ ।
श॒तञ्च॑ जीव श॒रद॑स्सु॒वर्चा॑ रा॒यश्च॒ पोष॒मुप॒ संव्य॑यस्व ।

हरदत्तः

इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने सप्तमः खण्डः