०१ इम२ं स्तोममर्हते ...{Loading}...
इ॒म२ꣳ स्तोम॒म् अर्ह॑ते+++(=स्तुत्यर्हाय)+++ जा॒तवे॑दसे॒
+++(यथा तक्षा!)+++ रथ॑मिव॒ संम॑हेमा मनी॒षया॑+++(=बुद्ध्या)+++ ।+++(४)+++
भ॒द्रा हि नः॒ प्रम॑तिर् अस्य +++(अग्नेः)+++ स॒ꣳ॒सद्य्
अग्ने॑ स॒ख्ये॑ मा रि॑षामा व॒यं तव॑ ।+++(५)+++
०१ इम२ं स्तोममर्हते ...{Loading}...
मूलम्
इ॒म२ꣳ स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ संम॑हेमा मनी॒षया॑ ।
भ॒द्रा हि नः॒ प्रम॑तिरस्य स॒ꣳ॒सद्यग्ने॑ स॒ख्ये॑ मारि॑षामा व॒यं तव॑ ।
हरदत्तः
अथ समावर्तने समिदाधानम् - इमं स्तोममिति ॥ इमं स्तोमं इमां स्तुतिं अर्हते स्तुत्यर्हाय जातवेदसे जातधनाय जातप्रज्ञाय वा संमहेम । महिः पूजायामन्यत्र, इह तु करोत्यर्थे संस्कारे वा द्रष्टव्यः कर्तं संस्कर्तुं वा शक्नुयाम मनीषया स्वया बुद्ध्या रथमिव यथा तक्षा रथं करोति गन्तुकामो वा संस्करोति तद्वत् । किंकारणमग्नेस्स्तुतिः क्रियते? उच्यते, भद्रा हि हिशब्दो यस्मादित्यर्थे, यस्मात् भद्रा कल्याणी नः अस्माकं उपरि अस्मासु वा प्रमतिः प्रकृष्टा अनुग्रहात्मिका मतिः अस्य अग्नेः संसदि सभायां यस्मादयं यज्ञादिसभा स्वस्माकमनुग्राहक इत्यर्थः । परः पादः प्रत्यक्षकृतत्वाद्भिन्नं वाक्यम् । हे अग्ने तव सख्ये देवानां मनुष्याणां च स्तुत्यस्तोतृभावलक्षणं सख्यं तत्र वर्तमाना वयं मा रिषाम मा केनचिद्धिंसिष्महि ॥
०२ त्र्यायुषञ् जमदग्नेः ...{Loading}...
त्र्या॒यु॒षं+++(=कौमारयौवनस्थाविराणि)+++ ज॒मद॑ग्नेः
क॒श्यप॑स्य त्र्यायु॒षम् ।
यद्दे॒वानां॑ त्र्यायु॒षन्
तन्मे॑ अस्तु त्र्यायु॒षम् ।+++(५)+++
०२ त्र्यायुषञ् जमदग्नेः ...{Loading}...
मूलम्
त्र्या॒यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् ।
यद्दे॒वानां॑ त्र्यायु॒षन्तन्मे॑ अस्तु त्र्यायु॒षम् ।
हरदत्तः
क्षुराभिमन्त्रणम् - त्र्यायुषमिति ॥ त्र्यायुषं कौमारयौवनस्थाविराणि त्रीण्यायूंषि तेषां समाहारः त्र्यायुषं जमदग्न्यादीनां यादृशं त्र्यायुषं ममापि तादृशं त्र्यायुषं अस्तु । क्षुरकर्मणोनाऽयुष्करत्वात् तत्साधनस्यैवमभिमन्त्रणम् ॥
०३ शिवो नामासि ...{Loading}...
शि॒वो नामा॑सि॒,
स्वधि॑तिस्+++(=परशुः, वज्रः)+++ ते पि॒ता।
+++(वज्रो वै स्वधितिः इति दर्शनात्)+++
नम॑स्ते अस्तु॒।
मा मा॑ हिꣳसीः ।
०३ शिवो नामासि ...{Loading}...
मूलम्
शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ।
हरदत्तः
क्षुरं वप्त्रे प्रयच्छति - शिवो नामेति ॥ नामशब्दो निपातोवधारणे । शिव एव त्वमसि स्वधितिः वज्रः वज्रो वै स्वधितिः इति दर्शनात् स ते पिता सर्वशस्त्रेषु तस्य प्रधानत्वात्, नमस्ते अस्तु मा मा हिंसीः ॥
०४-११ उष्णेन वायवुदकेनेत्येषः ...{Loading}...
दिग्वपनम् ...{Loading}...
शिरस उन्दनम्
१० ०५ ब्राह्मणान् भोजयित्वाशिषो ...{Loading}...
ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वा
+++(उपनयने - एवमन्तं पित्रादेः कर्म । अथाचार्यः उष्णाश्शीताश्चापः संसृजति।)+++
ऽनुवाकस्य प्रथमेन यजुषाऽपः +++(“उष्णेनवाय” वित्येतेन)+++
संसृज्योष्णाश् शीतास्व् आनीय +++(न शीता उष्णासु)+++
हरदत्तो ऽत्र।
०१ उष्णेन वायवुदकेनेह्यदितिः ...{Loading}...
+++(उष्णा आपः शीतास्वानयति)+++ उ॒ष्णेन॑ वायवुद॒केनेह्य्, अदि॑तिः॒ केशान्॑ वपतु ।
उत्तरया +++(आप उन्दन्त्विऽत्येतया)+++ शिर उनत्ति ५
०२ आप उन्दन्तु ...{Loading}...
+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आप॑ उन्दन्तु जी॒वसे॑
दीर्घायु॒त्वाय॒ वर्च॑से ।
ज्योक् च॒ सूर्यं॑ दृ॒शे ।
+++(तत्राचार्यस्संसर्जनोन्दने कृत्वा क्षुरं नापितादपादाय प्रतिदिशं प्रवाप्य पुनस्तस्मै प्रदाय तं च वपन्तमुत्तरयानुमन्त्रयते । इति स्नातकसंस्कारे हरदत्तः। नाचार्यः - अन्योऽपि ब्राह्मण इति सुदर्शनसूरिः।)+++
प्रवपनम्
१० ०६ त्रींस्त्रीन् ...{Loading}...
त्रींस्त्रीन् दर्भान् अन्तर्धायोत्तराभिश् चतसृभिः +++(“येनावपत्"इत्यादिभिः)+++ प्रतिमन्त्रं प्रतिदिशं प्रवपति ६
०३ येनावपत्सविता क्षुरेण ...{Loading}...
+++(प्राच्यान्दिशि)+++ येनाव॑पत् सवि॒ता क्षु॒रेण॒
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो! वपते॒दम् अ॒स्या-
ऽऽयु॑ष्मा॒ञ् जर॑दष्टि॒र् यथा ऽस॑द् अ॒यम्
अ॒सौ +++(←अत्रोहः)+++।
०४ येन पूषा ...{Loading}...
+++(दक्षिणतः)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।
०५ येन भूयश्चरात्ययञ्ज्योक्च ...{Loading}...
+++(पश्चात्)+++ येन॒ भूय॒श् चरा॑त्य् अ॒यञ्,
ज्योक् च॒ पश्या॑ति॒ सूर्य॑म् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।
०६ येन पूषा ...{Loading}...
+++(उत्तरे)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत् ।
तेन॑ ते वपाम्य् असा॒व्+++(←अत्रोहः)+++
आयु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक् सु॒मना॒ असाः॑ ।
क्षुर-शोधन-मन्त्रणम्
१० ०७ वपन्तमुत्तरयानुमन्त्रयते ...{Loading}...
वपन्तम् उत्तरया +++(“यत् क्षुरेण” इत्य् एतया)+++ ऽनुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ७
०७ यत्क्षुरेण मर्चयता ...{Loading}...
+++(नापितम् अनुमन्त्रयति-)+++ यत् क्षु॒रेण॑ म॒र्चय॑ता +++(=तीक्ष्णेन)+++
सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ ।
शुन्धि॒ शिरो॒, मास्यायुः॒ प्रमो॑षीः ।
केश-दर्भ-निक्षेपः
१० ०८ आनडुहे शकृत्पिण्डे ...{Loading}...
आनडुहे शकृत्पिण्डे यवान् निधाय तस्मिन् केशान् उपयम्योत्तरया +++(“उप्त्वाय केशा"नित्येतया)+++ उम्बर-मूले दर्भ-स्तम्बे वा निदधाति ८
०८ उप्त्वाय केशान् ...{Loading}...
उ॒प्त्वास्य॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒,
बृह॒स्पति॑स् सवि॒ता सोमो॑ अ॒ग्निः ।
तेभ्यो॑ +++(=केशेभ्यः)+++ नि॒धानं॑ बहु॒धा ऽन्व॑विन्दन्न्
अन्त॒रा द्यावा॑पृथि॒वी अ॒पस् सुवः॑ ॥
०४-११ उष्णेन वायवुदकेनेत्येषः ...{Loading}...
मूलम्
उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः ।
हरदत्तः
उष्णेन वायवुदकेन इति ॥ गतार्थाः ॥
१२ इदमहममुष्यामुष्यायणस्य पाप्मानमुपगूहाम्युत्तरोऽसौ ...{Loading}...
इ॒दम् अ॒हम् अ॒मुष्या॑ऽऽमुष्याय॒णस्य॑+++(←नामनिर्देशः)+++ पा॒प्मान॒म् उप॑गूहा॒म्य्,
उत्त॑रो॒ ऽसौ+++(←नामनिर्देशः)+++ द्वि॒षद्भ्यः॑ ।+++(५)+++
१२ इदमहममुष्यामुष्यायणस्य पाप्मानमुपगूहाम्युत्तरोऽसौ ...{Loading}...
मूलम्
इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्य॑ पा॒प्मान॒मुप॑गूहा॒म्युत्त॑रो॒ऽसौ द्वि॒षद्भ्यः॑ ।
हरदत्तः
मेखलाया उपगूहनम् - इदमहमिति ॥ अमुष्य यज्ञशर्मणः आमुष्यायणस्य वात्स्यस्य वात्स्यायनस्य वा पाप्मानमिदं अहं उपगूहामि उपगूहनं अप्रकाशीकरणम् । सूत्रोक्तमुपगूहनमप्येतदेव । यन्मेखलाया उपगूहनं तत्पाप्मन एव उपगूहनत्वेन निरूप्यते । असौ यज्ञशर्मा द्विषद्भ्यः उत्तरः उधिकोस्तु ॥
१३ आपो हि ...{Loading}...
०१ आपो हि ...{Loading}...
आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥
१३ आपो हि ...{Loading}...
मूलम्
आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से॥
हरदत्तः
स्नानमन्त्राः - आपो हिष्ठेति ॥ हे आपः यूयं मयोभुवः स्थ मय इति सुखनाम, सुखस्य भावयित्र्यः स्थ । हिः प्रसिद्धौ । ताः युयं नः अस्मान् ऊर्जे अन्नाय दधातन धत्त अन्नमस्मभ्यं धत्तेत्यर्थः महे महते रणाय रमणीयाय चक्षसे दर्शनाय दधातन ॥
१४ यो वः ...{Loading}...
०२ यो वः ...{Loading}...
यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥
१४ यो वः ...{Loading}...
मूलम्
यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीरि॑व मा॒तरः॑ ॥
हरदत्तः
य इति ॥ वः युष्माकं सम्बन्धी यश्शिवतमो रसः तस्य तृतीयार्थे षष्ठी, तेन रसेन नः अस्मान् भाजयत सः यथा अस्मान्भजते तथा कुरुत इह लोके उशतीः कामयमाना इव मातरो यथा मातरोवत्सला भूत्वा स्तन्यं प्रापयन्ति तद्वत् ॥
१५ तस्मा अरम् ...{Loading}...
०३ तस्मा अरं ...{Loading}...
+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥
१५ तस्मा अरम् ...{Loading}...
मूलम्
तस्मा॒ अरं॑ गमाम वो
यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥
हरदत्तः
तस्मा इति ॥ तस्मै रसाय अरं शीघ्रं पर्याप्तं वा गमाम गच्छेम वः युष्मान् तद्रसस्य पानार्थं युष्मान् गच्छेम । यस्येति तृतीयार्थे षष्ठी, येन रसेन क्षयाय । निवासवचनोयं आद्युदात्तत्वात् द्वितीयार्थे चतुर्थी । क्षयं निवासं अस्मदीयं जिन्वथ प्रीणयथ । येन च हे आपः जनयथ पुत्रपौत्रादिभिः प्रजातान् कुरुथ नः अस्मान् ॥
१६-१८ हिरण्यवर्णाश्शुचयः पावका ...{Loading}...
०१ हिरण्यवर्णाः शुचयः ...{Loading}...
हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒काः
प्रच॑क्रमुर् हि॒त्वा ऽव॒द्यम् आपः॑ ।
श॒तं प॒वित्रा॒ वित॑ता॒ ह्य् आ॑सु॒ +++(अप्सु)+++
ताभि॑ष् ट्वा दे॒वस् स॑वि॒ता पु॑नातु ।+++(र५)+++
हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒का
यासु॑ जा॒तः क॒श्यपो॒ यास्व् अ॒ग्निः ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना +++(=सुखा)+++ भ॑वन्तु ।+++(५)+++
०२ यासां राजा ...{Loading}...
यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना भ॑वन्तु ।+++(५)+++
१६-१८ हिरण्यवर्णाश्शुचयः पावका ...{Loading}...
मूलम्
हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒का इति॑ ति॒स्रः ।
हरदत्तः
हिरण्यवर्णाश्शुच इति ॥ गताः । यदप्यगतं तदपि स्पष्टम् । इन्द्रः । पर्जन्यः तस्य मेधेष्वाविर्भावात् अप्सुजातत्वम् ॥
१९ अन्नाद्याय व्यूहद्ध्वम् ...{Loading}...
+++(दन्ताः!)+++ अ॒न्नाद्या॑य॒ व्यू॑हध्वं+++(=पृथग्भवत)+++
दीर्घा॒युर् अ॒हम् अ॑न्ना॒दो भू॑यासम् ।
सोमो॒ राजा॒ऽयम् आग॑म॒त्,
स मे॒ मुखं॒ प्रवे॑क्ष्यति॒ भगे॑न स॒ह वर्च॑सा ।+++(र५)+++
१९ अन्नाद्याय व्यूहद्ध्वम् ...{Loading}...
मूलम्
अ॒न्नाद्या॑य॒ व्यू॑हद्ध्वं दीर्घा॒युर॒हम॑न्ना॒दो भू॑यासम् ।
सोमो॒ राजा॒ऽयमाग॑म॒त्स मे॒ मुखं॒ प्रवे॑क्ष्यति॒ भगे॑न स॒हवर्च॑सा ।
हरदत्तः
दन्तधावनम् - अन्नाद्यायेति ॥ अन्नाद्याय अन्नादनाय व्यूहभ्वं व्यूहः पृथग्भावः पृथग्भवत हे दन्ताः मलेन पृथग्भूता भवत । अहं च युष्माभिः शुद्धैः दीर्घायुः अन्नादश्च भूयासं सोमो राजा यमागमत् दन्तधावनकाष्ठस्य वार्क्षत्वात् वृक्षणां च सोमाधिष्ठितत्वादेवमुच्यते । स चागतः मे मम मुखं प्रवेक्ष्यति भगेन सौभाग्येन वर्चसा दीप्त्या च सह । दन्तशोधने सति मुखमतीव शोभते इत्युच्यते ॥
२० सोमस्य तनूरसि ...{Loading}...
सोम॑स्य त॒नूर् अ॑सि। +++(सौम्यँ वै वासः इति श्रुतेः।)+++
त॒नुवं॑ मे पाहि॒।
स्वामा॑ त॒नूर् आवि॑श +++(सोमस्य यथा)+++।+++(र५)+++
२० सोमस्य तनूरसि ...{Loading}...
मूलम्
सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पाहि॒ स्वामा॑ त॒नूरावि॑श ।
हरदत्तः
अनन्तरं वासः परिधत्ते सोमस्य तनूरसीति ॥ हे वासः । त्वं सोमस्य तनूरसि सौम्यँ वै वासः इति श्रुतेः । एवं भूतं त्वं मे तनुवं तनूं पाहि त्वयाच्छादितं शरीरं रक्षितं भवति । न केवलं सोमस्य तनूः । किं तर्हि? ममापि स्वा तनूः शरीरतुल्यत्वादेवमुच्यते । तथा च मन्त्रान्तरं आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् इति । एवंभूतं त्वं मामाविश ॥
२१-२३ नमो ग्रहाय ...{Loading}...
नमो॑ ग्र॒हाय॑ चाभिग्र॒हाय॑ च ।
नम॑श् शाकजञ्ज॒भाभ्या॑म् ।
नम॒स् ताभ्यो॑ दे॒वता॑भ्यो॒ या अ॑भिग्रा॒हिणीः॑ ।
२१-२३ नमो ग्रहाय ...{Loading}...
मूलम्
नमो॑ ग्र॒हाय॑ चाभिग्र॒हाय॑ च ।
नम॑श्शाकजञ्ज॒भाभ्या॑म् ।
नम॒स्ताभ्यो॑ दे॒वता॑भ्यो॒ या अ॑भिग्रा॒हिणीः॑ ।
हरदत्तः
देवताभ्यः चन्दनप्रदानम् - नम इति ॥ नमआदय स्त्रयो मन्त्राः । देवताश्च मान्त्रवर्णिक्यः ग्रहश्च अभिग्रहश्च शाक जम्भवौ च अभिग्राहिण्यश्च । एताश्च अलङ्कारसमये पुरुषमुपसर्पन्ति ताभ्यश्चन्दनप्रदानम् ।।
२४ अप्सरस्सु यो ...{Loading}...
अ॒प्स॒रस्सु॒ यो ग॒न्धो
ग॑न्ध॒र्वेषु॑ च॒ यद् यशः॑ ।
दैवो॒ यो मा॑नु॒षो ग॒न्धस्
स मा॑ ग॒न्धस् सु॑र॒भिर् जु॑षताम् ।
२४ अप्सरस्सु यो ...{Loading}...
मूलम्
अ॒प्स॒रस्सु॒ यो ग॒न्धो ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑ ।
दैवो॒ यो मा॑नु॒षो ग॒न्धस्स मा॑ ग॒न्धस्सु॑र॒भिर्जु॑षताम् ।
हरदत्तः
उत्तरया आत्मानमनुलिम्पति - अप्सरसस्स्विति ॥ अप्सरसामुपभोगयोग्यो यो गन्धः गन्धर्वेषु च यद्यशः कीर्तिः प्रसिद्धा गन्धर्वेषु च यः प्रसिद्धो गन्धः यद्योगात्ते गन्धर्वा भवन्ति गन्धवन्तो गन्धर्वा इति, यश्च दैवो गन्धः यश्च मानुषः स सर्वोपि सुरभिर्गन्धः मां जुषतां भजताम् । सुरभिर्घ्राणतर्पणः ॥
२५ इयमोषधे त्रायमाणा ...{Loading}...
इ॒यम् +++(पृथिवी पार्थिवसुवर्णे वर्तमाना)+++ ओष॑धे॒+++(धीः)+++ त्राय॑माणा॒
सह॑माना॒ सह॑स्वती ।
सा मा॒ हिर॑ण्यवर्चसं
ब्रह्मवर्च॒सिनं॑ मा करोतु ।
२५ इयमोषधे त्रायमाणा ...{Loading}...
मूलम्
इ॒यमोष॑धे॒ त्राय॑माणा॒ सह॑माना॒ सह॑स्वती ।
सा मा॒ हिर॑ण्यवर्चसं ब्रह्मवर्च॒सिनं॑ मा करोतु ।
हरदत्तः
सौवर्णे मणिं उदपात्रे परिप्लावयति - इयमोषध इति ॥ पार्थिवस्य सुवर्णस्य पृथिवीत्वेन स्तुतिः इयं पृथिवी ओषधे ओषधीः । विभक्तिलोपश्छान्दसः । त्रायमाणा ओषधीनामाधारभूतेत्यर्थः सहमाना सर्वकार्येषु समर्था सहस्वती बलवती एवम्भूता पृथिवी सा मां हिरण्यवर्चसं हिरण्यवद्दीप्तं करोतु ब्रह्मवर्चसिनं ब्रह्मवर्चसयुक्तं च मां करोतु ॥
२६ अपाशोऽस्युरो मे ...{Loading}...
अपा॑शो॒ ऽस्य् - उरो॑ मे॒ मा सꣳशा॑रीः+++(=हिंसीः)+++ ।
शि॒वो मोप॑तिष्ठस्व - दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।
श॒तꣳ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से जी॒वात्वै+++(=जीवनाय)+++ पुण्या॑य ।
२६ अपाशोऽस्युरो मे ...{Loading}...
मूलम्
अपा॑शो॒ऽस्युरो॑ मे॒ मा सꣳशा॑रीः ।
शि॒वो मोप॑तिष्ठस्व दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।
श॒तꣳ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से जी॒वात्वै पुण्या॑य ।
हरदत्तः
ग्रीवास्वाबध्नाति - अपाशोसीति ॥ येन चोरादि बध्यते स पाशः स त्वं न भवसि । अतश्च उरः उरस्थलं मे मा संशारीः मा हिंसीः ग्रीवास्वावबद्ध्यमानस्य अवपतनादुरसो बाधशङ्का । शिवो मा उपतिष्ठस्व दीर्घायुत्वाय । कीदृशाय? शतशारदाय शतं शरदो भावि यद्दीर्घायुष्यं तस्मै । शतम् चतुर्थ्यर्थे प्रथमा शताय शरद्भयः शतवर्षार्थमायुषे शतवर्षभावि यदायुः तदर्थम् । वर्चसे जीवात्वै जीवातुः जीवनं तस्मै पुण्याय प्रशस्ताय शिषो मोप तिष्ठस्वेत्येव । आदरार्थं चायुषः पुनर्वचनम् ॥
२७ -३२ रेवतीस्त्वा व्यक्ष्णन्नित्येताः ...{Loading}...
०३-०४ रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चाकृन्त२म् ...{Loading}...
+++(नक्षत्रेषु)+++ रे॒वती॑स् त्वा॒ व्य॑क्ष्ण॒न्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृत्ति॑का॒श् चाकृ॑न्त२ꣳस् त्वा ।
धियो॑ ऽवय॒न्न्, अव॒ ग्न+++(=देवता)+++ आ॑वृञ्जन्त्+++(=अच्छिन्दन्)+++
स॒हस्र॒म् अन्ताꣳ॑+++(=दशासूत्राणि)+++ अ॒भितो॑ अयच्छन्न् ।
दे॒वीर् दे॒वाय॑ +++(वस्त्र)+++परि॒धी+++(धौ)+++ स॑वि॒त्रे ।
म॒हत् तद् आ॑साम् अभवन् महित्व॒नम्+++(=महत्वम्)+++ ।+++(र४)+++
२७ -३२ रेवतीस्त्वा व्यक्ष्णन्नित्येताः ...{Loading}...
मूलम्
रे॒वती॑स्त्वा॒ व्य॑क्ष्ण॒न्नित्ये॒ताः ॥ (७)
हरदत्तः
रेवतीस्त्वा व्यक्ष्णन् इत्यदि ॥ गताः । ताभिरेव द्वितीयं वासः परिधत्ते ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने सप्तमः खण्डः