०१ परि त्वाऽग्ने ...{Loading}...
परि॑ त्वाऽग्ने॒ परि॑मृजा॒म्य् आयु॑षा च॒ धने॑न च ।
सु॒प्र॒जाः प्र॒जया॑ भूयासꣳ,
सु॒वीरो॑ वी॒रैस्, सु॒वर्चा॒ वर्च॑सा, सु॒पोषः॒ पोषै॑स्, सु॒गृहो॑ गृ॒हैस्, सु॒पतिः॒ पत्या॑+++(→आचार्येण)+++, सुमे॒धा मे॒धया॑, सु॒ब्रह्मा॑ +++(स)+++ब्र॑ह्मचा॒रिभिः॑ ।
०१ परि त्वाऽग्ने ...{Loading}...
मूलम्
परि॑ त्वाऽग्ने॒ परि॑मृजा॒म्यायु॑षा च॒ धने॑न च ।
सु॒प्र॒जाः प्र॒जया॑ भूयासꣳ,
सु॒वीरो॑ वी॒रैस्, सु॒वर्चा॒ वर्च॑सा, सु॒पोषः॒ पोषै॑स्, सु॒गृहो॑ गृ॒हैस्, सु॒पतिः॒ पत्या॑, सुमे॒धा मे॒धया॑, सु॒ब्रह्मा ब्र॑ह्मचा॒रिभिः॑ ।
हरदत्तोक्त-विनियोगः
समिदाधाने परिमार्जनमन्त्रः परि त्वेति ॥
हरदत्तः
हे अग्ने ।
त्वां अहं परिमृजामि सर्वतः शोधयामि । परि-शब्दस्य द्विश्रुतेर् आख्यातम् अप्य् आवर्तते । आदरार्थं पुनर्वचनम् ।
आयुषा च धनेन च प्रार्थितेन ।
सुप्रजा इत्यादि । गतम् । +++(उपनयनप्रकरणे - सु॒प्र॒जाः प्र॒जया॑ भूयास् सु॒वीरो॑ वी॒रैस्सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषैः॑। वीराः पौत्राः। )+++ अत्र भूयासम् इति विशेषः।
पतिः पालयिता आचार्यः ।
मेधया धारणावत्या धिया सुमेधाः ।
सुब्रह्मा शोभन-वेदः ब्रह्मचारिभिः सहाध्यायिभिः - पादं सब्रह्मचारिभ्यः इति वचनात् ॥
०२ अग्नये समिधमाहार्षम् ...{Loading}...
अ॒ग्नये॑ स॒मिध॒म् आहा॑र्षं
बृह॒ते जा॒तवे॑दसे ।
यथा॒ त्वम॑ग्ने स॒मिधा॑ समि॒द्ध्यस॑, ए॒वं माम् आयु॑षा॒ वर्च॑सा स॒न्या+++(=लाभेन)+++ मे॒धया॑ प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒+++(=अन्नादनेन)+++ समे॑धय॒ स्वाहा॑ ।
०२ अग्नये समिधमाहार्षम् ...{Loading}...
मूलम्
अ॒ग्नये॑ स॒मिध॒माहा॑र्षं बृह॒ते जा॒तवे॑दसे ।
यथा॒ त्वम॑ग्ने स॒मिधा॑ समि॒द्ध्यस॑ ए॒वं मामायु॑षा॒ वर्च॑सा स॒न्या मे॒धया॑ प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒ समे॑धय॒ स्वाहा॑ ।
हरदत्तः
समिदाधानमन्त्राः - अग्नय इति । तुभ्यं समिधं इमां आहार्षं आहरामि बृहते प्रभावते महते वा जातवेदसे जातधनाय जातप्रज्ञाय वा । आहरन्तं च मां यथा त्वमग्ने समिधा अनया समिध्यते संदीप्यते एवं मामायुरादिभिः समेधय संवर्धय । सनिः लाभः । अन्नस्यादनमन्नाद्यम् । अन्यत्प्रसिद्धम् ॥
०३ एधोऽस्येधिषीमहि स्वाहा ...{Loading}...
+++(हे समित्, अग्नेर्)+++ एधो॑+++(←इन्धी दीप्तौ)+++ ऽस्येधिषी॒महि॒ स्वाहा॑ ।
०३ एधोऽस्येधिषीमहि स्वाहा ...{Loading}...
Keith
Thou art fuel; may we prosper;
मूलम्
एधो॑ऽस्येधिषी॒महि॒ स्वाहा॑ ।
हरदत्तः
एधोसीति ॥ समिधं प्रतिवचनम् । हे समित् । त्वं एधोसि ञि इन्धी दीप्तौ, दीप्तिसाधनमस्यग्नेः । वयमपि त्वां आदधानाः एधिषीमहि प्रवृद्धास्स्याम ॥
भट्टभास्कर-टीका
हे समित् एधोसि एधनी वर्धनी त्वमस्यग्नेः । अतस्तादृश्या त्वया वयमपि एधिषीमहि वृद्धिं प्राप्नुयामः । यद्वा - तादृश्या त्वया अग्निं वर्धयेम ॥
०४ समिदसि समेधिषीमहि ...{Loading}...
- स॒मिद् अ॑सि समेधिषी॒महि॒ +++(अग्निं)+++ स्वाहा॑ ।
०४ समिदसि समेधिषीमहि ...{Loading}...
Keith
thou art kindling; (may we prosper;)
मूलम्
स॒मिद॑सि समेधिषी॒महि॒ स्वाहा॑ ।
हरदत्तः
समिदसीति ॥ निगदव्याख्यातमेतत् ॥
भट्टभास्कर-टीका
समित्समिन्धनी सन्दीपनी त्वमग्नेरसि ।
०५ तेजोसि तेजो ...{Loading}...
- तेजो॑सि॒ तेजो॒ मयि॑ धेहि॒ स्वाहा॑ ।+++(५)+++
०५ तेजोसि तेजो ...{Loading}...
Keith
thou art brilliance, grant me brilliance.
मूलम्
तेजो॑सि॒ तेजो॒ मयि॑ धेहि॒ स्वाहा॑ ।
हरदत्तः
तेजोसीति ॥ दीप्तिहेतुत्वात् मय्यपि? तेजो धेहि स्थापय ॥
भास्करोक्त-विनियोगः
तस्मात्तेजोसि तेजस्साधनमग्नेरसि । तादृशी सा त्वम्मय्यपि तेजो धेहि स्थापय ॥
०६ अपो अद्यान्वचारिषम् ...{Loading}...
अपो॑+++(=कर्म)+++ अ॒द्य +अन्व॑चारिष॒ꣳ॒
+++(श्रद्धा)+++रसे॑न॒ सम॑सृक्ष्महि+++(=संसृष्टो भवेयम्। समगन्महीति शाकले)+++ ।
पय॑स्वाꣳ+++(→हविष्मान्)+++ अग्न॒ आग॑म॒न्
तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा॑ ।
०६ अपो अद्यान्वचारिषम् ...{Loading}...
Keith
I have penetrated to the waters;
We are united with the sap;
I have come rich in milk, O Agni;
Do thou unite me with radiance.
मूलम्
अपो॑ अ॒द्यान्व॑चारिष॒ꣳ॒ रसे॑न॒ सम॑सृक्ष्महि ।
पय॑स्वाꣳ अग्न॒ आग॑म॒न्तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा॑ ।
हरदत्तः
अपो अद्येति ॥ अप इति कर्मनाम । अपः समिदाधान लक्षणं कर्म अद्य अन्वचारिषं अनुक्रमेण करोमि । रसः इच्छः कर्म विषया श्रद्धा, तेन रसेन समसृक्ष्मही । एकवचनस्थाने बहुवचनम् । लिङर्थे लुङ् । संसृष्टो भवेयं समिदाधाने कर्मणि श्रद्धापि मे वर्धता मित्यर्थः अथ वा रस इति ब्रह्मनाम स एव रसानां रसतमः इति श्रुतेः त्वत्प्रसादात् मे ब्रह्मसायुज्यं भूयादित्यर्थः ॥ पयस्वान् पय इति हविष उपलक्षणं, हविष्मान् भूत्वा हे अग्ने त्वां अहं अहरहः आगमम् । लिङर्थे लुङ् ।आगच्छेयम् । तमेवंभूतं मां वर्चसा दीप्त्या संसृज ॥
भट्टभास्कर-टीका
हे अग्ने अपः कर्म । व्यत्ययेनान्तोदात्तत्वम् । अप्शब्द एव वा कर्मणि वर्तते । ‘ऊडिदम्’ इति शस उदात्तत्वम् । अपोवभृथाख्यं कर्मान्वचारिषमानुपूर्व्येण कृतवानस्मि । अतो वयं सर्वेपि रसेन फलेन समसृक्ष्महि सङ्गतास्स्मः । वचनव्यत्ययो वा, समसृक्ष्महि । सङ्गतोस्मि । ‘लिङ्सिचावात्मनेपदेषु’ इति सिचः कित्वम् । हे अग्ने पयस्वानन्नवान् हविर्भिस्तद्वान् त्वामागममागतोस्मि । ‘आतोटि नित्यम्’ इति संहितायां रुत्वम् । तस्मात्त्वां प्राप्तं मा संसृज संयोजय वर्चसा बलेन ॥
व्याख्याता चेयं ‘उरुं हि’ इत्यत्र । अपः कर्माण्यनुक्रमेण करोमि । रसेन संसृष्टो भूयासम् । हे अग्ने पयस्वान् हविष्मान् त्वामागमं तम्मा वर्चसा बलेन संसृजेति ॥
०७ सम् माऽग्ने ...{Loading}...
सं मा॑ऽग्ने॒ वर्च॑सा सृज
प्र॒जया॑ च॒ धने॑न च॒ स्वाहा॑ ।
०७ सम् माऽग्ने ...{Loading}...
मूलम्
सं मा॑ऽग्ने॒ वर्च॑सा सृज प्र॒जया॑ च॒ धने॑न च॒ स्वाहा॑ ।
हरदत्तः
समिति ॥ हे अग्ने मा वर्चसा प्रजया धनेन च संसृज ॥
०८ विद्युन्मे अस्य ...{Loading}...
वि॒द्युन्+++(र्)+++ मे॑ अस्य दे॒वा
इन्द्रो॑ वि॒द्यात् स॒हर्षि॑भिः॒ स्वाहा॑ ।+++(५)+++
०८ विद्युन्मे अस्य ...{Loading}...
मूलम्
वि॒द्युन्मे॑ अस्य दे॒वा इन्द्रो॑ वि॒द्यात्स॒हर्षि॑भिः॒ स्वाहा॑ ।
हरदत्तः
विद्युदिति ॥ अस्य द्वितीयार्थे षष्ठी, इमं मां देवाः विद्युत् छान्दसस्तकारः, विद्युः । बह्वृचाश्चैवमेवाधीयते । एवं कर्म कुर्वन्तं देवा जानीयुरित्यर्थः । इन्द्रश्च मां ऋषिभिः सह विद्यात् जानीयात् ॥
०९ अग्नये बृहते ...{Loading}...
अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॑ ।
+++(दिविनाको नामाग्निः इति ब्राह्मणम् ।)+++
०९ अग्नये बृहते ...{Loading}...
मूलम्
अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॑ ।
हरदत्तः
अग्नय इति ॥ बृहते प्रभावते महते वा नाकाय दिविनाको नामाग्निः इति ब्राह्मणम् । तस्मै ॥
१० द्यावापृथिवीभ्यां स्वाहा ...{Loading}...
द्यावा॑पृथि॒वीभ्या॒ꣳ॒ स्वाहा॑ ।
१० द्यावापृथिवीभ्यां स्वाहा ...{Loading}...
मूलम्
द्यावा॑पृथि॒वीभ्या॒ꣳ॒ स्वाहा॑ ।
हरदत्तः
द्यावापृथिवीभ्यामिति ॥ द्याव्यपृथिव्यौ प्रसिद्धे ॥
११ एषा ते ...{Loading}...
ए॒षा ते॑ अग्ने स॒मित्, तया॒ वर्द्ध॑स्व॒ चाप्या॑यस्व च॒, तया॒ऽहं वर्ध॑मानो भूयासम्, आ॒प्याय॑मानश्च॒ स्वाहा॑ ।
११ एषा ते ...{Loading}...
मूलम्
ए॒षा ते॑ अग्ने स॒मित्तया॒ वर्द्ध॑स्व॒ चाप्या॑यस्व च॒ तया॒ऽहं वर्ध॑मानो भूयासमा॒प्याय॑मानश्च॒ स्वाहा॑ ।
हरदत्तः
एषा त इति ॥ हे अग्ने । ते तुभ्यं एषा समित् दीयते तथा त्वं वर्धस्व च आप्यायस्व च आप्यायनमभिपूरणं, पूर्णश्च भव । अहमपि तथा समिधा वर्धमानः आप्ययमानश्च भूयासम् ॥
१२ यो माऽग्ने ...{Loading}...
यो मा॑ऽग्ने भा॒गिनꣳ॑ स॒न्तम्
अथा॑भा॒गञ् चिकी॑र्षति ।
अभा॒गम् अ॑ग्ने॒ तं कु॑रु॒
माम् अ॑ग्ने भा॒गिनं॑ कुरु॒ स्वाहा॑ ।+++(५)+++
१२ यो माऽग्ने ...{Loading}...
मूलम्
यो मा॑ऽग्ने भा॒गिनꣳ॑ स॒न्तमथा॑भा॒गञ्चिकी॑र्षति ।
अभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गिनं॑ कुरु॒ स्वाहा॑ ।
हरदत्तः
यो माग्न इति ॥ हे अग्ने योमां भागिनं भागप्राप्तियोग्यं सन्तं अथ अनर्थकोयं निपातः, अभागं चिकीर्षति कर्तुमिच्छति तं अभागं कुरु मां तु भागिनं कुरु । आदरार्थे पुनः पुनरामन्त्रणम् ।
१३ समिधमाधायाग्ने सर्वव्रतो ...{Loading}...
स॒मिध॑मा॒धाया॑ग्ने॒ सर्व॑व्रतो भूयास॒२ꣳ॒ स्वाहा॑ ।
१३ समिधमाधायाग्ने सर्वव्रतो ...{Loading}...
मूलम्
स॒मिध॑मा॒धाया॑ग्ने॒ सर्व॑व्रतो भूयास॒२ꣳ॒ स्वाहा॑ ।
हरदत्तः
समिधमिति ॥ हे अग्ने अहं इमां समिधमाधाय सर्वव्रतः परिपूर्णव्रतो भूयासम् ॥
१४ ब्रह्मचार्यस्य्, अपोऽशान ...{Loading}...
ब्र॒ह्म॒चा॒र्य् अ॑सि।
(वटुः - बाढम्।)
अपो॑ऽशान +++(नानिवेदितम् अन्नम्)+++।
(वटुः - बाढम्।)
कर्म॑ कुरु।
(वटुः - बाढम्।)
मा सुषु॑प्थाः।
+++(अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति एवंविधो वा स्वापाभावः ।)+++
(वटुः - बाढम्।)
भि॒क्षा॒च॒र्य॑ञ् चर। (वटुः - बाढम्।)
आ॒चा॒र्या॒धी॒नो भ॑व ।
(वटुः - बाढम्।)
१४ ब्रह्मचार्यस्य्, अपोऽशान ...{Loading}...
मूलम्
ब्र॒ह्म॒चा॒र्य॑स्य्, अपो॑ऽशान॒ कर्म॑ कुरु॒, मा सुषु॑प्थाः ।
भि॒क्षा॒च॒र्य॑ञ्चराचार्याधी॒नो भ॑व ।
हरदत्तः
संशासनम् - ब्रह्मचार्यसीति ॥ ब्रह्मचर्याश्रमं प्राप्तोसि । अपोऽशान अप एव मयानुज्ञातः अशान । कर्म कुरु समिदाहरणादि । मा सुषुप्थाः दिवा मा स्वाप्सीः अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति एवंविधो वा स्वापाभावः । भिक्षाचर्यं चर निमन्त्राणादिना स्वयमभुञ्जानोप्यस्मदर्थं भैक्षमाहर । आचार्याधीनो भव मया अननुज्ञातः याजनाध्यापनादि कस्यचिन्माकार्षीः ॥
१५ यस्य ते ...{Loading}...
यस्य॑ ते प्रथमवा॒स्यꣳ॑+++(=प्रथमाच्छादितं)+++ हरा॑म॒स्
तं त्वा॒ विश्वे॑ अवन्तु दे॒वाः ।
तन् त्वा॒ भ्रात॑रस् सु॒वृधो॒ वर्ध॑मान॒म्
अनु॑ जायन्तां ब॒हव॒स् सुजा॑तम् ॥
१५ यस्य ते ...{Loading}...
मूलम्
यस्य॑ ते प्रथमवा॒स्यꣳ॑ हरा॑म॒स्तं त्वा॒ विश्वे॑ अवन्तु दे॒वाः ।
तन्त्वा॒ भ्रात॑रस्सु॒वृधो॒ वर्ध॑मान॒मनु॑ जायन्तां ब॒हव॒स्सुजा॑तम् ॥ (६)
हरदत्तः
वासस आदानम् - यस्य त इति ॥ प्रथमवास्यं प्रथमाच्छादितं वासः वयं हरामः तं त्वा विश्वे देवा अवन्तु । किञ्च - तमेव त्वां वर्धमानं सुजातं शोभनजन्मानं वहवो भ्रातरः ॥ सुवृधः सुष्ठु वर्धयितारः भूत्वा अनुजायन्तां त्वमपि एवंविधो भूयाः तवानुजा अप्येवंविधा भूयासुरित्यर्थः ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने षष्ठः खण्डः