०१ सुश्रवस्सुश्रवसम् मा ...{Loading}...
सु॒श्रव॑स् +++(पलाश!)+++ सु॒श्रव॑सं मा कुरु।+++(५)+++
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवा॑ अस्य्, ए॒वम् अ॒हꣳ सु॒श्रव॑स् सु॒श्रवा॑ भूयासम्॥
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवो॑ दे॒वानां॑ निधिगो॒पो॑ ऽस्य्, ए॒वम॒हं ब्रा॑ह्म॒णानां॒ ब्रह्म॑णो निधि-गो॒पो भू॑यासम् ।+++(५)+++
०१ सुश्रवस्सुश्रवसम् मा ...{Loading}...
मूलम्
सु॒श्रव॑स्सु॒श्रव॑सं मा कुरु॒
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवा॑ अस्ये॒वम॒हꣳ सु॒श्रव॑स् सु॒श्रवा॑ भूयासं॒॥
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवो॑ दे॒वानां॑ निधिगो॒पो॑ऽस्ये॒वम॒हं ब्रा॑ह्म॒णानां॒ ब्रह्म॑णो निधिगो॒पो भू॑यासम् ।
हरदत्तः
दण्डमादत्ते - सुश्रव इति ॥ सुश्रवाः पालाशः श्रूयते हि देवा वै ब्रह्मन्नवदन्त तत्पर्णं उपाशृणोत् सुश्रवा वै नाम इति तस्यामन्त्रणं, हे सुश्रवः । मामपि सुश्रवसं सुष्ठु श्रोतारं कुरु । यथा त्वमित्यादि पुनर्वचनमादरार्थं तच्च स्पष्टार्थम् । यथा त्वं देवानां निधिगोपोसि निधिर्यज्ञः तं पालाशो गोपायति जुह्वादिरूपेण, एवमहमपि त्वद्धारणात् ब्राह्मणानां निधेः ब्रह्मणो देवस्य गोपो गोप्ता भूयासम् । उपसर्जनस्पापि निधिशब्दस्य ब्राह्मणैस्सह सम्बन्धः ॥
०२-१० स्मृतञ्च मे ...{Loading}...
स्मृ॒तञ् च॒ मे, ऽस्मृ॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
नि॒न्दा च॒ मे ऽनि॑न्दा च मे॒ - तन् म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्र॒द्धा च॒ मे ऽश्र॑द्धा च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
वि॒द्या च॒ मे ऽवि॑द्या च मे॒ - तन् म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्रु॒तञ् च॒ मे ऽश्रु॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तꣳ,
स॒त्यञ् च॒ मे ऽनृ॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
तप॑श् च॒ मे ऽत॑पश्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
व्र॒तञ् च॒ मे ऽव्र॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
यद् ब्रा॑ह्म॒णानां॒ ब्रह्म॑णि+++(=वेदविषये)+++ व्र॒तम्,
यद् अ॒ग्नेस् +++(→यातृत्वं)+++ सेन्द्र॑स्य॒ +++(→प्राधान्यम्)+++ सप्र॑जापतिकस्य॒ +++(→स्रष्टृत्वं)+++ सदे॑वस्य॒ +++(→दातृत्वादि)+++ सदे॑वराजस्य॒ सम॑नुष्यस्य॒ +++(→प्रियवचनादि)+++ सम॑नुष्यराजस्य॒ +++(→प्रजारक्षणम्)+++ सपि॑तृकस्य॒ +++(→पुत्रोत्पत्ति)+++ सपि॑तृराजस्य॒ +++(यमस्य → सर्वसमत्वं)+++ सग॑न्धर्वाप्सर॒स्कस्य॑ +++(→परिचरणकौशलम्, उदात्तद्वयम्?? )+++,
यन् म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तन्,
तेना॒हꣳ सर्व॑व्रतो भूयासम् ।
०२-१० स्मृतञ्च मे ...{Loading}...
मूलम्
स्मृ॒तञ्च॒ मे ऽस्मृ॑तञ्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं,
नि॒न्दा च॒ मे ऽनि॑न्दा च मे॒ तन्म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्र॒द्धा च॒ मे ऽश्र॑द्धा च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं,
वि॒द्या च॒ मेऽवि॑द्या च मे॒ तन्म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्रु॒तञ्च॒ मेऽश्रु॑तञ्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तꣳ,
स॒त्यञ्च॒ मेऽनृ॑तञ्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं,
तप॑श्च॒ मेऽत॑पश्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं,
व्र॒तञ्च॒ मेऽव्र॑तञ्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं,
यद्ब्रा॑ह्म॒णानां॒ ब्रह्म॑णि व्र॒तम्,
यद॒ग्नेस् सेन्द्र॑स्य॒ सप्र॑जापतिकस्य॒ सदे॑वस्य॒ सदे॑वराजस्य॒ सम॑नुष्यस्य॒ सम॑नुष्यराजस्य॒ सपि॑तृकस्य॒ सपि॑तृराजस्य॒ सग॑न्धर्वाप्सर॒स्कस्य॑,
यन्म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तन्,
तेना॒हꣳ सर्व॑व्रतो भूयासम् ।
हरदत्तः
अथ कुमारं वाचयति - स्मृतं च म इति ॥ स्मृतं चिन्तितं एवमिदं कर्तव्यमिति, तद्विपरीतं अस्मृतं असामर्थ्यात् आपदि प्रवर्तितं तदुभयमपि मे मम व्रतम् । निन्दा कुत्सा निन्द्यविषया अनिन्दा वेदादिविषया । श्रद्धा कर्तव्यविषया । अश्रद्धा निषिद्धविषया विद्या वेदितव्यस्य ज्ञानम् । अविद्या अवेदितव्यविषया । श्रुतं श्रवणं वेदतदङ्गादीनाम् । अश्रुतं पाषण्डागमादीनाम् सत्यं यथादृष्टवचनं एतत् स्वतः प्राप्तम् । अनृतं प्राणात्ययादिविषये तपो भिक्षाचरणादि । अशक्तौ तदकरणं अतपः । व्रतं अनध्ययन वर्जनादि । अव्रतं भयादिना तदतिक्रमः ।
यच्चान्यत् ब्राह्मणानां ब्रह्मणि वेदविषये व्रतं यच्च अग्नेरिन्द्रादिसहितस्य । यच्च मे मम आत्मनः आत्मनि व्रतं मयैवोत्प्रेक्षितं आचार्येणान्यार्थं प्रेषितस्य तदुपयोग्यर्थान्तरकरणादि तेन अनेन सर्वप्रकारेण व्रतेन सर्वव्रतो भूयासम् । तत्राग्नेर्व्रतं यातृत्वं त्वमग्ने व्रतपा असि इति दर्शनात्, इन्द्रस्य प्राधान्यं, प्रजापतेः स्रष्टत्वं, देवानां दातृत्वादि, देवराजस्य देवरञ्जनं, मनुष्याणां प्रियवचनं, मनुष्यराजस्य प्रजारक्षणं पितृणां पुत्रोत्पत्ति, पितृराजस्य यमस्य सर्वसमत्वं गन्धर्वाणां देवस्तुतिः अफ्सरसां परिचरणे कौशलम् ॥
११ उदायुषा स्वायुषोदोषधीनाम् ...{Loading}...
उद् आयु॑षा स्वा॒युषा,
+उद् ओष॑धीना॒ꣳ॒ रसे॑न॒+,
+उत् प॒र्जन्य॑स्य॒ शुष्मे॑ण+++(=बलेन)++++
+उद् अ॑स्थाम्,
अ॒मृता॒ꣳ॒+++(=देवान्)+++ अनु॑ ।
११ उदायुषा स्वायुषोदोषधीनाम् ...{Loading}...
मूलम्
उदायु॑षा स्वा॒युषोदोष॑धीना॒ꣳ॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृता॒ꣳ॒ अनु॑ ।
हरदत्तः
उत्थापनमन्त्रः - उदिति ॥ अमृता देवाः ताननु अहं उदस्थां उत्तिष्ठामि । तत्र विशेषः- उदायुषा आयुषा सहोत्तिष्ठामि । स्वायुषा स्वकीयेन शतसंवत्सरलक्षणेन सह उदोषधीनां रसेन रसो बलहेतुः तेन बलं लक्ष्यते तेनोत्तिष्ठामि । उत्पर्जन्यस्य शुष्मेण शुष्ममिति बलनाम पर्जन्यस्य यादृशं बलं तादृशेन बलेन उत्तिष्ठामि उदस्थाग्मिति सर्वत्रानुषङ्गः ॥
१२ तच्चक्षुर्देवहितम् पुरस्ताच्छुक्रमुच्चरत् ...{Loading}...
+++(सूर्यस्)+++ तच् चक्षु॑र् दे॒व+++(नि)+++हि॑तं पु॒रस्ता॑च् छु॒क्र+++(द्ध)+++म् उ॒च्चर॑त् ।
पश्ये॑म श॒रद॑श् श॒तं
जीवे॑म श॒रद॑श् श॒तं
नन्दा॑म श॒रद॑श् श॒तं
मोदा॑म श॒रद॑श् श॒तं
भवा॑म श॒रद॑श् श॒तꣳ
शृ॒णवा॑म श॒रद॑श् श॒तं
प्रब्र॑वाम श॒रद॑श् श॒तम्
अजी॑ताः स्याम श॒रद॑श् श॒तं
ज्योक्+++(=दीर्घकालं)+++ च॒ सूर्य॑न् दृ॒शे ।
१२ तच्चक्षुर्देवहितम् पुरस्ताच्छुक्रमुच्चरत् ...{Loading}...
मूलम्
तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छु॒क्रमु॒च्चर॑त् ।
पश्ये॑म श॒रद॑श्श॒तं
जीवे॑म श॒रद॑श्श॒तं
नन्दा॑म श॒रद॑श्श॒तं
मोदा॑म श॒रद॑श्श॒तं
भवा॑म श॒रद॑श्श॒तꣳ
शृ॒णवा॑म श॒रद॑श्श॒तं
प्रब्र॑वाम श॒रद॑श्श॒तम्
अजी॑ताः स्याम श॒रद॑श्श॒तं
ज्योक्च॒ सूर्य॑न्दृ॒शे ।
हरदत्तः
आदित्योपस्थानम् - तच्चक्षुरित्यादि ॥ तदिति प्रसिद्धिमाह । चक्षु चक्षुस्स्थानीयं लोकस्य देवहितं देवेन इन्द्रेण निहितं इन्द्रो दीर्घाय चक्षसे । असूर्यं रोहयद्दिवि इति दर्शनात् पुरस्तात् पूर्वस्यां दिशि उच्चरत् उद्गच्छत् शुक्रं परिशुद्धं ज्योतिः सूर्याख्यं पश्येम प्रार्थने लिङ्, एवमुत्तरेष्वपि लिङ् लोटौ । जीवेम सहषोडशं वर्षशतं । समृद्धास्स्याम । नन्दाम । मोदाम पुत्रपौत्रादिभिस्सह सन्तुष्याम । भवाम भूतिमन्तस्स्याम । शृणवाम प्रियहितवचनानि । प्रब्रवाम प्रवचने कर्तारस्स्याम । अजीताः अहिंसिताः स्याम ज्योक् दीर्घकालं सूर्यं दृशे द्रष्ट्रं च स्यामेत्यनुषङ्गः ॥
१३ यस्मिन्भूतञ्च भव्यञ्च ...{Loading}...
यस्मि॑न् भू॒तञ् च॒ भव्य॑ञ् च॒
सर्वे॑ लो॒कास् स॒माहि॑ताः ।
तेन॑ गृह्णामि त्वाम् अ॒हं,
मह्यं॑ गृह्णामि त्वाम् अ॒हं
प्र॒जाप॑तिना त्वा॒ मह्यं॑ गृह्णाम्य् असौ+++(→नामनिर्देशः)+++ ॥
१३ यस्मिन्भूतञ्च भव्यञ्च ...{Loading}...
मूलम्
यस्मि॑न्भू॒तञ्च॒ भव्य॑ञ्च॒ सर्वे॑ लो॒कास्स॒माहि॑ताः ।
तेन॑ गृह्णामि त्वाम॒हं मह्यं॑ गृह्णामि त्वाम॒हं प्र॒जाप॑तिना त्वा॒ मह्यं॑ गृह्णाम्यसौ ॥
हरदत्तः
हस्तग्रहणमन्त्रः - यस्मिन्भूतमिति ॥ यस्मिन् प्रजापतौ भूतं भव्यं भविष्यच्च सर्वे लोका इदानीं वर्तमानाः समाहिताः समाश्रिताः । तेन तदनुज्ञया त्वामहं गृह्णमि । मह्यं गृह्णामि त्वामहं यथा त्वं मत्तो न विच्छिद्येथाः तथा गृह्णामि । प्रजापतिनेत्यादि पुनर्वचनमादरार्थम् । असाविति संबुद्ध्या माणवकस्य नामनिर्देशः ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने पञ्चमः खण्डः