2 04

०१ योगेयोगे तवस्तरम् ...{Loading}...

०७ योगेयोगे तवस्तरं ...{Loading}...

+++(रथादि)+++यो᳓गेयोगे तव᳓स्+++(=गति[वत्])+++तरव्ँ
वा᳓जेवाजे हवामहे ।
+++(वयं स्तोतृत्वेन)+++ स᳓खाय+++(ः)+++ इ᳓न्द्रम् ऊत᳓ये ।+++(५)+++

०२ इममग्न आयुषे ...{Loading}...

इ॒मम् अ॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि
ति॒ग्मम् ओजो॑ वरुण॒ सँशि॑शाधि
मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ॒
विश्वे॑ देवा॒ जर॑दष्टि॒र् यथा ऽस॑त् +++(जनः)+++॥

(अग्नि-वरुण-सोमादिति-विश्वेभ्यः देवेभ्यः इदन्न मम ।)

०३ शतमिन्नु शरदो ...{Loading}...

०९ शतमिन्नु शरदो ...{Loading}...

शत᳓म् इ᳓न् नु᳓ शर᳓दो अ᳓न्ति+++(कं)+++ देवा,
य᳓त्रा नश् चक्रा᳓+++(क्रुः)+++ जर᳓सन् तनू᳓नाम् ।
पुत्रा᳓सो य᳓त्र पित᳓रो भ᳓वन्ति
+++(तादृशे काले)+++ मा᳓ नो मध्या᳓ रीरिषता᳓ऽऽयुर् +++(आ स्वतो)+++ग᳓न्तोः+++(=गमनात्)+++ ।+++(४)+++

(दे॒वेभ्यः॒ इद॒न्न मम॑ । )

०४ अग्निष्ट आयुः ...{Loading}...

अ॒ग्निष् ट॒ आयुः॑ प्र+++(कृष्ट)+++त॒रां द॑धात्व्
अ॒ग्निष् टे॒ पुष्टिं॑ प्रत॒रां कृ॑णोतु
इन्द्रो॑ म॒रुद्भि॑र् ऋतु॒-धा +++(पुष्टिं)+++ कृ॑णोत्व्
आदि॒त्यैस् ते॒ वसु॑भि॒र् आ द॑धातु

(अग्नीन्द्र-मरुद्-आदित्य-वसुभ्य इदन्न मम ।)

०५ मेधाम् मह्यमङ्गिरसो ...{Loading}...

मे॒धां मह्य॒म् अङ्गि॑रसो
मे॒धाँ स॑प्तऋ॒षयो॑ ददुः
मे॒धां मह्यं॑ प्र॒जाप॑तिर्
मे॒धाम् अ॒ग्निर् द॑दातु मे ।

(अङ्गिरस्-सप्तर्षि-प्रजापति+अग्निभ्यः इदन्न मम । )

०६ अप्सरासु या ...{Loading}...

अ॒प्स॒रासु॒ या मे॒धा
ग॑न्ध॒र्वेषु॑ च॒ यद् यशः॑ ।
दैवी॒ या मा॑नु॒षी मे॒धा
सा मामा वि॑शतादि॒ह ।

(मेधायशोभ्याम् इदन्न मम ।)

१९ इमं मे ...{Loading}...

इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥

१२ राष्ट्रभृदस्याचार्यासन्दी मा ...{Loading}...

+++(हे कूर्च!)+++ रा॒ष्ट्र॒भृद् अ॑स्य् आचार्याऽऽस॒न्दी, मा त्वद्+++(तः)+++ यो॑षम्+++(←यौतिः पृथग्भावे)+++ ।

१३ तत्सवितुर्वरेण्यमित्येषा ...{Loading}...

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

त᳓त् सवितु᳓र् व᳓रेण्य᳓+++(णिय)+++म्
भ᳓र्गो+++(=भर्जनम्)+++ देव᳓स्य धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धि᳓यो यो᳓ नः प्रचोद᳓यात् ॥
(परो᳓-रजसे ऽसा᳓वद् ओ᳓३म् ॥)

प्र᳓चो᳓द᳓या᳓त्-स्व᳓रः᳓

प्र᳓ + चु᳓द् + णि᳓च् उ᳓दा᳓त्तः᳓ + श᳓प् अ᳓नु᳓दा᳓त्तः᳓ पि᳓त्त्वा᳓त् + [ले᳓ट् → आ᳓ट् + ति᳓प् अ᳓नु᳓दा᳓त्तः᳓ पि᳓त्त्वा᳓त्]।

प्रा᳓नु᳓दा᳓त्त᳓त्वं᳓ ति᳓ङ᳓न्त᳓स्यो᳓दा᳓त्त᳓व᳓त्त्वा᳓त्। त᳓च्च᳓ य᳓त्का᳓र᳓स᳓द्भा᳓वा᳓त्।

१४ अवृधमसौ सौम्य ...{Loading}...

+++(सावित्रीग्रहणात्)+++ अवृ॑धम् अ॒सौ+++(←प्राण-सम्बोधने)+++ सौ॑म्य प्रा॒ण, स्वं मे॑ गोपाय ।+++(५)+++

+++(सम्बोधने स्वरः कथम्??)+++

१५ ब्रह्मण आणी ...{Loading}...

+++(सावित्री)+++ब्रह्म॑ण+++(=मन्त्रस्य)+++ आ॒णी+++(=कीले)+++ स्थः॑ ॥+++(५)+++


  1. A Titan, even as Savitṛ is also called Asura in the RV ↩︎

  2. Word analysis suggests that Viśvāmitra had a particular propensity for alliterative or polyptotonic usages such as the āmreḍita. See: A note on āmreḍita-s in the Ṛgveda and issues of word distribution ↩︎