०१ आगन्त्रा समगन्महि ...{Loading}...
आ॒ग॒न्त्रा +++(छात्रेण)+++ सम॑गन्महि॒
प्र सु॑ मृ॒त्युं यु॑योतन+++(←यौतिः पृथग्भावे)+++ ।
अरि॑ष्टा॒स् सञ्च॑रेमहि स्व॒स्ति,
+++(ब्रह्मचर्यं)+++ च॑रताद् इ॒ह स्व॒स्त्य् आ गृ॒हेभ्यः॑+++(→आगृहस्थाश्रमम्)+++ ।+++(५)+++
०१ आगन्त्रा समगन्महि ...{Loading}...
मूलम्
आ॒ग॒न्त्रा सम॑गन्महि॒ प्र सु॑ मृ॒त्युं यु॑योतन ।
अरि॑ष्टा॒स्सञ्च॑रेमहि स्व॒स्ति च॑रतादि॒ह स्व॒स्त्या गृ॒हेभ्यः॑ ।
हरदत्तः
उत्तरेणाग्नि दर्भेषु अवस्थापनमन्त्रः - आगन्त्रेति ॥ आगन्त्रा आगन्त्रा आगच्छता आचार्येण समगन्महि सङ्गतास्स्यः । सङ्गतास्स्यः । सङ्गताश्च मृत्युं मरणं प्रसुयुयोतन यौतिः पृथग्भावे लोटमध्यमपुरुषबहुवचनस्य तनवादेशः व्यत्ययेन च उत्तमपुरुषस्य स्थाने मध्यमः । प्रकर्षेण सुष्ठु च पृथत्करवाम । अरिष्टाश्च संचरेमहि ॥ आचार्योपि स्वस्ति चरतात् ममापि इह ब्रह्मचर्ये स्वस्ति भवतु आ गृहेभ्यः आ गृहस्थाश्रमप्राप्तेः ॥
०२ समुद्रादूर्मिर्मधुमां उदारदुपांशुना ...{Loading}...
स॒मु॒द्राद् ऊ॒र्मिर् मधु॑मा॒ꣳ॒ उदा॑रद् +++(=उदागमद् [एतैः प्रोक्षणबिन्दुभिः])+++
उपा॒ꣳ॒शुना॒+++(=उपांशैः →अंशुनिभैः)+++ सम् अ॑मृत॒त्वम् अ॑श्याम् ।
इ॒मे नु ते र॒श्मय॒स् सूर्य॑स्य॒
येभि॑स् सपि॒त्वं+++(=समानपानं)+++ पि॒तरो॑ न॒ आय॑न् ।
०२ समुद्रादूर्मिर्मधुमां उदारदुपांशुना ...{Loading}...
मूलम्
स॒मु॒द्रादू॒र्मिर्मधु॑मा॒ꣳ॒ उदा॑रदुपा॒ꣳ॒शुना॒ सम॑मृत॒त्वम॑श्याम् ।
इ॒मे नु ते र॒श्मय॒स्सूर्य॑स्य॒ येभि॑स्सपि॒त्वं पि॒तरो॑ न॒ आयन्न्॑ ।
हरदत्तः
प्रोक्षणमन्त्रः - समुद्रादूर्मिरिति ॥ यत्प्रोक्षणबिन्दवः मयि पतन्ति तत् समुद्रादेव मधुमान् ऊर्मिः मां उदारत् उन्मुखं आगमत् । उपेत्यस्य अश्यामित्याख्यातेन सम्बन्धः । अनुदात्तपाठस्तु व्यत्ययेन । बह्वृचास्तु आद्युदात्तमेव अधयिते ।? अंशुना अन्तर्हीतमत्त्वर्थमेतत्, अंशुमता दीप्तिमता तेनोर्मिणा अमृतत्वं समुपाश्यां सम्यगुपाश्नुवीय इमे नु ते नु इत्यनर्थकः यद्यप्यूर्मिरित्येकवचनान्तं प्रकृतं, तथापि रश्मय इत्यनेन सामानाधिकरण्यात् इमे ते इति बहुवचनम् । इमे ते सूर्यस्य रश्मयः योयं ऊर्मिमानुदारत् कार्यकारणयोरभेदोपचारः, आदित्याज्जायते वृष्टिः इति । अपां बिन्दवः सूर्यस्य रश्मयः येभिः यै रश्मिभिः सपित्वं समानपानं नः अस्मकं पितरः अङ्गिरसः आयन् इतवन्तः आङ्गिरसस्य वामदेवस्य वैतद्वचनम् । अङ्गिरसो देवानां सखायः अतो रश्मिभिरन्यैश्च देवैस्सह पानमुपपन्नम् । एतदुक्तं भवति - यैः रश्मिभिस्सहास्मत्पितरो अङ्गिरसः सोमपानं कृतवन्तः तत्कारणका बिन्दवो मयि पतिताः तैश्चामृतत्वमुपाश्नुवीयेति ॥
०३-१२ अग्निष्टे हस्तमग्रभीत्सोमस्ते ...{Loading}...
अ॒ग्निष् टे॒ हस्त॑म् अग्रभी+++(ही)+++त्।
सोम॑स् ते॒ हस्त॑म् अग्रभीत्।
स॒वि॒ता ते॒ हस्त॑म् अग्रभीत्।
सर॑स्वती ते॒ हस्त॑म् अग्रभीत्।
पू॒षा ते॒ हस्त॑म् अग्रभीत्।
अ॒र्य॒मा ते॒ हस्त॑म् अग्रभीत्।
अꣳशु॑स् ते॒ हस्त॑म् अग्रभीत्।
भग॑स् ते॒ हस्त॑म् अग्रभीत्।
मि॒त्रस् ते॒ हस्त॑म् अग्रभीत्।
मि॒त्रस् त्वम् अ॑सि॒ धर्म॑णा॒,
ऽग्निर् आ॑चा॒र्यस् तव॑ ।+++(५)+++
०३-१२ अग्निष्टे हस्तमग्रभीत्सोमस्ते ...{Loading}...
मूलम्
अ॒ग्निष्टे॒ हस्त॑मग्रभी॒त्सोम॑स्ते॒ हस्त॑मग्रभीत्सवि॒ता ते॒ हस्त॑मग्रभी॒त्सर॑स्वती ते॒ हस्त॑मग्रभीत्पू॒षा ते॒ हस्त॑मग्रभीदर्य॒मा ते॒ हस्त॑मग्रभी॒दꣳशु॑स्ते॒ हस्त॑मग्रभी॒द्भग॑स्ते॒ हस्त॑मग्रभीन्मि॒त्रस्ते॒ हस्त॑मग्रभीन्मि॒त्रस्त्वम॑सि॒ धर्म॑णा॒ऽग्निरा॑चा॒र्यस्तव॑ ।
हरदत्तः
हस्तग्रहणमन्त्राः - अग्निष्ट इति ॥ यदिदं मया तव हस्तग्रहणं तदग्न्यादिभिरेव ग्रहणमस्त्वित्युपचारः । लोडर्थे लुङ् । अग्रभीत् अग्रहीत् गृह्णातु । अग्निः सोमः सरस्वती च प्रसिद्धाः । सवित्रादयोपि द्वादशादित्यानामन्यतमे । त्वं धर्मणा धर्मेण मित्रोसि यादृशो मित्रो देवः तादृशोसि । कीदृशश्च सः? मित्रं देवा अब्रुवन्तसोमं राजानं हनामेति सोब्रवीन्नाहं सर्वस्य वा अहं मित्रमस्मि । इति । एवंविधः अग्निः तवाचार्यस्थानीयः ॥
१३ -२३ अग्नये त्वा ...{Loading}...
+++(असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्ध्या, स्वरं विना ॥)+++
अ॒ग्नये॑ त्वा॒ परि॑ददाम्य्+++(→रक्षार्थे दानं परिदानम्)+++ असौ।
सोमा॑य त्वा॒ परि॑ददाम्य् असौ।
स॒वि॒त्रे त्वा॒ परि॑ददाम्य् असौ।
सर॑स्वत्यै त्वा॒ परि॑ददाम्य् असौ।
मृ॒त्यवे॑ त्वा॒ परि॑ददाम्य् असौ।
य॒माय॑ त्वा॒ परि॑ददाम्य् असौ।
ग॒दाय॑ त्वा॒ परि॑ददाम्य् असौ।
अन्त॑काय त्वा॒ परि॑ददाम्य् असौ।
अ॒द्भ्यस् त्वा॒ परि॑ददाम्य् असौ।
ओष॑धीभ्यस् त्वा॒ परि॑ददाम्य् असौ।
पृ॒थि॒व्यै त्वा॒ सवै॑श्वान॒रायै॒+++(←उदात्तद्वयम्??)+++ परि॑ददाम्य् असौ ।
१३ -२३ अग्नये त्वा ...{Loading}...
मूलम्
अ॒ग्नये॑ त्वा॒ परि॑ददाम्यसौ॒ सोमा॑य त्वा॒ परि॑ददाम्यसौ सवि॒त्रे त्वा॒ परि॑ददाम्यसौ॒ सर॑स्वत्यै त्वा॒ परि॑ददाम्यसौ मृ॒त्यवे॑ त्वा॒ परि॑ददाम्यसौ य॒माय॑ त्वा॒ परि॑ददाम्यसौ ग॒दाय॑ त्वा॒ परि॑ददाम्यसा॒वन्त॑काय त्वा॒ परि॑ददाम्यसा- व॒द्भ्यस्त्वा॒ परि॑ददाम्यसा॒वोष॑धीभ्यस्त्वा॒ परि॑ददाम्यसौ पृथि॒व्यै त्वा॒ सवै॑श्वान॒रायै॒ परि॑ददाम्यसौ ।
हरदत्तः
उत्तरे परिदानमन्त्राः अग्नये त्वेत्यादयः ॥ रक्षार्थे दानं परिदानम् । सर्वत्र च असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्ध्या ॥
२४ देवस्य त्वा ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व+++(=अनुज्ञायाम्)+++ उप॑नये॒ ऽसौ +++(←नामनिर्देशः पूर्ववत् । केचित्तु - अन्तोदात्तस्य पाठात् आचार्यस्य नाम्नः प्रथमया निर्देशं मन्यन्ते ॥ )+++ ।
२४ देवस्य त्वा ...{Loading}...
मूलम्
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व उप॑नये॒ऽसौ ।
हरदत्तः
अथोपनयनमन्त्रः - देवस्य त्वेति ॥ देवस्य सवितुः प्रसवे अनुज्ञायां सत्यां त्वां अहं उपनये आत्मनः समीपं प्रापयामि वशं नयामीत्यर्थः । नामनिर्देशः पूर्ववत् । केचित्तु - अन्तोदात्तस्य पाठात् आचार्यस्य नाम्नः प्रथमया निर्देशं मन्यन्ते ॥
२५ सुप्रजाः प्रजया ...{Loading}...
सु॒प्र॒जाः प्र॒जया॑ भूयास्,
सु॒वीरो॑ वी॒रैस्,
सु॒वर्चा॒ वर्च॑सा,
सु॒पोषः॒ पोषैः॑ ।
+++(→सूपसर्ग-बहुव्रीहाव् उत्तरपदादिर् उदात्तः। )+++
२५ सुप्रजाः प्रजया ...{Loading}...
मूलम्
सु॒प्र॒जाः प्र॒जया॑ भूयास् सु॒वीरो॑ वी॒रैस्सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषैः॑ ।
हरदत्तः
अथ कर्णे जपः- सुप्रजा इति ॥ हे ब्रह्मचारिन् ।
त्वं प्रजया सुप्रजां भूयाः ।
सुवीरो वीरैः । अत्र वीराः पौत्राः प्रजाया उक्तत्वात् ।
वर्चसा सुवर्चाः
पोषैश्च सुपोषः
भूया इति सर्वत्रानुषङ्गः ॥
२६ ब्रह्मचर्यमागामुप मानयस्व ...{Loading}...
ब्र॒ह्म॒चर्य॒म् आगा॒म्, उप॒ माऽऽन॑यस्व, दे॒वेन॑ सवि॒त्रा प्रसू॑तः+++(=अनुज्ञातः)+++ ।
२६ ब्रह्मचर्यमागामुप मानयस्व ...{Loading}...
मूलम्
ब्र॒ह्म॒चर्य॒मागा॒मुप॒ मान॑यस्व दे॒वेन॑ सवि॒त्रा प्रसू॑तः ।
हरदत्तः
अथ कुमारस्य मन्त्रः - ब्रह्मचर्यमिति ॥ ब्रह्म वेदः तदर्थं व्रतं ब्रह्मचर्यं तदहं आगाम् । आशंसायां भूतवच्च इति भविष्यति लुङ् । प्राप्नुवानि, तं मां उपनयस्व देवेन सवित्रा प्रसूतः अनुज्ञातस्त्वम् ॥
२७ को नामासि ...{Loading}...
+++(आचार्यः-)+++ को नामा॑सि?
+++(ब्रह्मचारी-)+++ अ॒सौ+++(←नामनिर्देशः प्रथमया)+++ नामा॑ऽस्मि।
+++(आचार्यः-)+++ कस्य॑ ब्रह्मचा॒र्य॑सि असौ+++(←नामनिर्देशस्संबुद्ध्या)+++?
+++(ब्रह्मचारी-)+++ “प्रा॒णस्य॑ ब्रह्मचा॒र्य् अ॑स्मि अ॒सौ”+++(←स्वनामनिर्देशः प्रथमया)+++।
२७ को नामासि ...{Loading}...
मूलम्
को नामा॑सि
अ॒सौ नामा॑ऽस्मि॒
कस्य॑ ब्रह्मचा॒र्य॑सि असौ
प्रा॒णस्य॑ ब्रह्मचा॒र्य॑स्मि अ॒साव्
हरदत्तः
कोनामासीति ॥ कोनामासि किंनामधेयोसीत्याचार्यः । असौ नामास्मि इति माणवकः नामनिर्देशः प्रथमया । कस्य ब्रह्मचार्यस्यसौ इत्याचार्यः । नामनिर्देशस्संबुद्ध्य । प्राणस्य ब्राह्म चार्यस्म्यसौ इति माणवकः । नामनिर्देशः प्रथमया । प्राण आत्मा ॥
२८ एष ते ...{Loading}...
+++(आचार्यः-)+++ ए॒ष ते॑ देव सूर्य ब्रह्मचा॒री।
तं गो॑पाय, स॒ मा मृ॑त।
ए॒ष ते॑ सूर्य पु॒त्रस्, स दी॑र्घा॒युस्, स॒ मा मृ॑त ।
याꣳ स्व॒स्तिम् अ॒ग्निर् वा॒युस् सूर्य॑श् च॒न्द्रमा॒ आपो ऽनु॑ स॒ञ्चर॑न्ति॒,
ताꣳ स्व॒स्तिम् अनु॒ सञ्च॑रासौ+++(←नामनिर्देशस्संबुद्ध्या)+++ ।
२८ एष ते ...{Loading}...
मूलम्
ए॒ष ते॑ देव सूर्य ब्रह्मचा॒री
तं गो॑पाय स॒मामृ॑तै॒ष ते॑ सूर्यपु॒त्रस्स दी॑र्घा॒युस्स॒मामृ॑त ।
याꣳ स्व॒स्तिम॒ग्निर्वा॒युस्सूर्य॑श्च॒न्द्रमा॒ आपोऽनु॑ स॒ञ्चर॑न्ति॒ ताꣳ स्व॒स्तिमनु॒ सञ्च॑रासौ ।
हरदत्तः
एष इत्याचार्यः एष । माणवकः हे देव । सूर्य । ते तव ब्रह्मचारी तं गोपाय रक्षस्व । स च मा मृत मरणं मा गमत्, हे सूर्य । ते तव एष पुत्रश्च सुदीर्घायुः भवतु स च मा मृत दीर्घायुषो मध्ये मरणं मा गमत् । यां स्वस्तिं अग्न्यादयः अनुक्रमेण सञ्चरन्ति तां स्वस्ति त्वमपि अनुसञ्चर असौ यज्ञशर्मन् ।
२९ अद्ध्वनामद्ध्वपते श्रेष्ठस्याद्ध्वनः ...{Loading}...
+++(ब्रह्मचारी सूर्यम् प्रति-)+++ अध्व॑नाम् अध्वपते॒ +++(सूर्य)+++ श्रेष्ठ॒स्याऽध्व॑नः॒ +++(ब्रह्मचर्यामार्गस्य)+++ पा॒रम् अ॑शीय ॥ (3)
२९ अद्ध्वनामद्ध्वपते श्रेष्ठस्याद्ध्वनः ...{Loading}...
मूलम्
अद्ध्व॑नामद्ध्वपते॒ श्रेष्ठ॒स्याद्ध्व॑नः॒ पा॒रम॑शीय ॥ (३) स॒मामृ॑त॒ द्वे च॑ ॥३॥
हरदत्तः
अध्वनामिति माणवकः ॥ अध्वपत इत्युक्ते एकस्याध्वनः पतिरित्यपि गम्यते अतः अध्वनामिति पुनर्वचनं, सर्वेषामध्वानां अध्वपते । सूर्य । अहं त्वत्प्रसादात् श्रेष्ठस्य श्रेशस्करस्य अध्वनः ब्रह्मचर्यामार्गस्य पारं पर्यन्तं अशीय अश्नुवीव । ध्वं दुःखं तत् यत्र नास्ति सोऽध्वा तस्य सुखसाधनस्य मार्गस्य पते । इत्यर्थः ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने तृतीयः खण्डः