०१ आयुर्दा देव ...{Loading}...
आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो
घृ॒त+++(√ क्षरणदीप्त्यो)+++-प्र॑तीको+++(=अवयवो)+++ घृ॒त-पृ॑ष्ठो अग्ने ।
घृ॒तं पिब॑न्न् अ॒मृत॒ञ् चारु॒ गव्यं॑
पि॒तेव॑ पु॒त्रञ् ज॒रसे॑ नये॒मम् ।
०१ आयुर्दा देव ...{Loading}...
मूलम्
आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने ।
घृ॒तं पिब॑न्न॒मृत॒ञ्चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रञ्ज॒रसे॑ नये॒मम् ।
हरदत्तः
अथ समिदाधानम् - आयुर्दा देवेति । हे देव । अग्ने । आयुर्दाः त्वं जरसं जरा स्तुतिः तां गृणानः उच्चारणकर्मायमन्यत्र इह तु प्रहणे द्रष्टव्यः स्तुति गृह्णन् इत्यर्थः । घृतप्रतीकः घृ क्षरणदीप्त्यो, प्रतीकमिति अवयवनाम दीप्तावयवः घृतं आज्यं पृष्ठे यस्य सः घृतपृष्ठः घृतं पिबन् । कीदृशं? अमृतं चारु गव्यं अस्मिन्कर्मणि आज्यभागादिरूपेण । एवंभूतस्त्वं इदानीं अनया समिदाहुत्या इमं माणवकं जरसे नय जरां प्रापय यथायं दीर्घमायुः भवति तथा कुरु पितेव पुत्रं यथा सर्व प्रकारेण प्रापयति तद्वत् । एवं तावदाचार्यो मन्त्रस्य वक्तेति पक्षे योजना । माणवकपक्षे तु इमं मां नयेति ।
०२ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...
०१ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...
आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्व२ꣳ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++
०२ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...
मूलम्
आति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्व२ꣳ स्थि॒रो भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्सह॑स्व पृतनाय॒तः ।
हरदत्तः
अश्मास्थापनम् - अतिष्ठेति ॥ गतम् ॥
०३-०४ रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चाकृन्त२म् ...{Loading}...
+++(नक्षत्रेषु)+++ रे॒वती॑स् त्वा॒ व्य॑क्ष्ण॒न्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृत्ति॑का॒श् चाकृ॑न्त२ꣳस् त्वा ।
धियो॑ ऽवय॒न्न्, अव॒ ग्न+++(=देवता)+++ आ॑वृञ्जन्त्+++(=अच्छिन्दन्)+++
स॒हस्र॒म् अन्ताꣳ॑+++(=दशासूत्राणि)+++ अ॒भितो॑ अयच्छन्न् ।
दे॒वीर् दे॒वाय॑ +++(वस्त्र)+++परि॒धी+++(धौ)+++ स॑वि॒त्रे ।
म॒हत् तद् आ॑साम् अभवन् महित्व॒नम्+++(=महत्वम्)+++ ।+++(र४)+++
०३-०४ रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चाकृन्त२म् ...{Loading}...
मूलम्
रे॒वती॑स्त्वा॒ व्य॑क्ष्ण॒न्कृत्ति॑का॒श्चाकृ॑न्त२ꣳ स्त्वा ।
धियो॑ऽवय॒न्नव॒ग्न आ॑वृञ्जन्त्स॒हस्र॒मन्ताꣳ॑ अ॒भितो॑ अयच्छन्न् ।
दे॒वीर्दे॒वाय॑ परि॒धी स॑वि॒त्रे ।
म॒हत्तदा॑सामभवन्महित्व॒नम् ।
हरदत्तः
उत्तराभ्यं वासोभिमन्त्रणम् - रेवतीरिति ॥ हे वासः । त्वा त्वां रेवतीः वा छन्दसि इति जसि पूर्वसवर्णः रेवत्यो नाम देवताः व्यक्ष्णन् विविधमध्वंनयन् कार्पासावस्थायां बीजनिर्हरणार्थम् ।
कार्यकारणयोरभेदोपचारात् वास एव ताः व्यक्ष्णन् ।
कृत्तिकाश्च त्वा त्वां अकृन्तन् कर्तनं तन्तुकरणम् । अत्राप्यभेदोपचारः ।
धियो नाम देवताः त्वा अवयन् तन्तुसन्तानं कृत्वा वासः कृतवत्यः ।
ग्नाश् च देवतास् त्वाम् अवावृञ्जन् । अन्तरयोर् अच्छिन्दन् । किञ्च - उक्त्ता अन्याश्च सहस्रं देव्यः अन्तान् दशासूत्राणि अभितः उभयोः पार्श्वयोः अयच्छम् दाण् दाने, तस्य यच्छादेशः दत्तवत्यः ।
देवीः देव्यः सहस्रमित्यनेन पूर्वेण सम्बन्धः । देवाय सवित्रे देवस्य सवितुः परिधी परिधिः परिधानं, सप्तम्येकवचनस्य पूर्वसवर्णः, परिधौ परिधानकाले आसां देवीनां तत् महित्वनं महत्वं महदभवत् एवं नाम ता देव्यो महत्यो यद्देवस्य सवितुः वासः कृतवत्यः एवम्भूतं च त्वमसीत्यभिमन्त्रणार्थः ॥
०५ या अकृन्तन्नवयन् ...{Loading}...
या अकृ॑न्त॒न्न् अव॑य॒न्॒ या अत॑न्वत॒
याश् च॑ दे॒वीर् +++(वस्त्रस्य)+++ अन्ता॑न् अ॒भितो॑ ऽददन्त+++(←दद् दाने)+++ ।
तास् त्वा॑ दे॒वीर् ज॒रसे॒ संव्य॑य॒न्त्व्
आयु॑ष्मान् इ॒दं परि॑धत्स्व॒ वासः॑ ।
०५ या अकृन्तन्नवयन् ...{Loading}...
मूलम्
या अकृ॑न्त॒न्नव॑य॒न्॒ या अत॑न्वत॒ याश्च॑ दे॒वीरन्ता॑न॒भितो॑ऽददन्त ।
तास्त्वा॑ दे॒वीर्ज॒रसे॒ संव्य॑य॒न्त्वायु॑ष्मानि॒दं परि॑धत्स्व॒ वासः॑ ।
हरदत्तः
उत्तराभिः तिसृमिः परिधापयति - या अकृन्तन्निति ॥ या देव्यः त्वां अकृन्तन् याश्चावयन् याश्चातन्वत विस्तारितवत्यः याश्च अन्तान् दशासूत्राणि अभितः उभयोः पार्श्वयोः अददन्त दत्तवत्यः दद् दाने, तास्त्वा रेवत्यादयो देवीः देव्यः जरसे यथा त्वं जरां प्राप्नुयाः तथा संव्ययन्तु परिधापयन्तु, त्वं च आयुष्मान् भवन् इदं वासः परिधत्स्व परिधेहि ॥ ।
०६ परिधत्त धत्त ...{Loading}...
परि॑धत्त धत्त॒ वास॑सैनꣳ
श॒तायु॑षं कृणुत दी॒र्घम् आयुः॑ ।
बृह॒स्पतिः॒ प्राय॑च्छ॒द् वास॑ ए॒तत्
सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।
०६ परिधत्त धत्त ...{Loading}...
मूलम्
परि॑धत्त धत्त॒ वास॑सैनꣳ श॒तायु॑षं कृणुत दी॒र्घमायुः॑ ।
बृह॒स्पतिः॒ प्राय॑च्छ॒द्वास॑ ए॒तत्सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।
हरदत्तः
परिधत्तेति ॥ हे देव्यो । रेवत्यादयः । एनं कुमारं वाससा परिधत्त आच्छादयत धत्त अत्रापि परिरपेक्ष्यते, आदरार्थं पुनर्वचनम् । परिदधत्यश्च शतायुषमेनं कृणुत । दीर्घमायुरिति । अस्योत्तरेण सम्बन्धः कारणे च कार्योपचारः दीर्घस्यायुषो निमित्तभूतं एतद्वासो बृहस्पतिः प्रायच्छत् । कस्मै? सोमाय राज्ञे । किमर्थं? परिधातवै परिधानार्थम् । उ इत्यनर्थकः ॥
०७ जराङ् गच्छासि ...{Loading}...
ज॒रां ग॑च्छासि॒, परि॑धत्स्व॒ वासो॒
भवा॑ कृष्टी॒नाम्+++(=मनुष्याणां)+++ अ॑भिशस्ति॒-पावा॑+++(ता)+++ ।
श॒तञ् च॑ जीव श॒रद॑स् सु॒वर्चा॑
रा॒यश् च॒ पोष॒म् उप॒ संव्य॑यस्व +++(वासो यथा रायस्पोषं भवति तथा)+++।
०७ जराङ् गच्छासि ...{Loading}...
मूलम्
ज॒रां ग॑च्छासि॒ परि॑धत्स्व॒ वासो॒ भवा॑ कृष्टी॒नाम॑भिशस्ति॒पावा॑ ।
श॒तञ्च॑ जीव श॒रद॑स्सु॒वर्चा॑ रा॒यश्च॒ पोष॒मुप॒ संव्य॑यस्व ।
हरदत्तः
जरां गच्छासीति ॥ इदं वासः परिधत्स्व, परिधाय च जरां गच्छासि गच्छे । कृष्टीनां बन्धुमनुष्याणां च याचना अभिशस्तेः पाता रक्षिता भव । जरां गच्छसीत्युक्तमेव विशिष्यते - शतं च जीव शरदः संवत्सरान् सुवर्चा भूत्वा रायश्च पोषं रायो धनस्य च पोषं उप उपेत्ययममेरर्थे, अभिसंव्ययस्व वासो यथा रायस्पोषं भवति तथेत्यर्थः ॥
०८ परीदं वासो ...{Loading}...
परी॒दं वासो॒ अधि॑+++(+अ)+++धास् स्व॒स्तये
ऽभू॑र् आपी॒नाम्+++(=आप्तानां)+++ अ॑भिशस्ति॒-पावा॑+++(ता!)+++ ।
श॒तञ् च॑ जीव श॒रदः॑ पुरू॒चीर्+++(=बहुगतीः)+++
वसू॑नि चा॒र्यो वि॑भजासि॒ जीवन्न्॑ ।
०८ परीदं वासो ...{Loading}...
मूलम्
परी॒दं वासो॒ अधि॑धास्स्व॒स्तयेऽभू॑रापी॒नाम॑भिशस्ति॒पावा॑ ।
श॒तञ्च॑ जीव श॒रदः॑ पुरू॒चीर्वसू॑नि चा॒र्यो वि॑भजासि॒ जीवन्न्॑ ।
हरदत्तः
परिहितवन्तं कुमारमुत्तरयानुमन्त्रयते - परिदं वास इति ॥ त्वं इदं वासः पर्यधिधाः परिहितवानसि । धाञो लुङि रूपमेतत्, यकारस्य धकारश्छान्दसः । किमर्थं? स्वस्तये । परिधाय च आपीनां आप्तानां ज्ञात्यादीनां अभिशस्तिपावा अभिशस्तेः पाता अभूः । शतं च जीव शरदः गतम् । पुरूचीः बहुगतिः वसूनि च आर्यः स्वामी भूत्वा विभजासि विभजेः विभज्य दद्याः जीवन् सम्पन्नस्सन्, लोके हि स जीवतीत्युच्यते यस्सम्पन्नो भवति ॥
०९ इयन् दुरुक्तात्परिबाधमाना ...{Loading}...
इ॒यं दुरु॑क्तात् परि॒बाध॑माना॒
शर्म॒ वरू॑थं+++(=वरणीयं)+++ पुन॒ती न॒ आगा॑त् ।
प्रा॒णा॒पा॒नाभ्यां॒ बल॑म् आ॒भर॑न्ती
प्रि॒या दे॒वानाꣳ॑ सु॒भगा॒ मेख॑ले॒यम् ।
०९ इयन् दुरुक्तात्परिबाधमाना ...{Loading}...
मूलम्
इ॒यं दुरु॑क्तात्परि॒बाध॑माना॒ शर्म॒ वरू॑थं पुन॒ती न॒ आगा॑त् ।
प्रा॒णा॒पा॒नाभ्यां॒ बल॑मा॒भर॑न्ती प्रि॒या दे॒वानाꣳ॑ सु॒भगा॒ मेख॑ले॒यम् ।
हरदत्तः
मौञ्ज्याः परिव्ययनमन्त्रौ - इयं दुरुक्तादिति ॥ इयं मेखला दुरुक्तात् । शस आदादेशः । दुरुक्तानि तथैव शाबरगृह्यपाठः । परिबाधमाना सर्वतो नाशयन्ती शर्म शरणं गृहं वरूथं वरणीयं पुनती शोधयन्ती नः अस्माकं सम्बन्धि अस्मान्वा आगात् आगतवती प्राणापानाभ्यां चतुर्थ्यन्तमेतत्, ताभ्यां बलमाभरन्ती आहरन्ती प्रिया देवानां एवम्भूता इयं मेखला, अतश्च इयमेव सुभगा ॥
१० ऋतस्य गोप्त्री ...{Loading}...
ऋ॒तस्य॑ गो॒प्त्री, तप॑सः पर॒स्+++(=प्र)+++पी+++(=पात्री)+++
घ्न॒ती रक्ष॒स् सह॑माना॒ अरा॑तीः ।
सा न॑स् सम॒न्तम् अनु॒ परी॑हि भ॒द्रया॑
भ॒र्तार॑स्+++(=बिभ्राणाः)+++ ते मेखले॒ मा रि॑षाम ।
१० ऋतस्य गोप्त्री ...{Loading}...
मूलम्
ऋ॒तस्य॑ गो॒प्त्री तप॑सः पर॒स्पी घ्न॒ती रक्ष॒स्सह॑माना॒ अरा॑तीः ।
सा न॑स्सम॒न्तमनु॒ परी॑हि भ॒द्रया॑ भ॒र्तार॑स्ते मेखले॒ मा रि॑षाम ।
हरदत्तः
ऋतस्येति ॥ ऋतस्य सत्यस्य यज्ञस्य वा गोप्त्री तपसः परस्पी, पातेरेतद्रूपं परशब्दः प्रकर्षे, तपसः प्रकर्षेण पात्री रक्षित्री घ्नती रक्षः रक्षसां हननं कुर्वन्ती सहमाना अभिभवन्ती अरातीः शत्रुजातीः, छान्दसः प्रकृतिभावः । या एवंभूता सा त्वं नः अस्मान् समन्तं परितः अनु आनुपूर्व्येण परीहि परिगच्छ, भद्राया त्वया रक्षिता वयं हे मेखले । मा रिषाम रिष्टा मा भूम भर्तारः ते त्वां बिभ्राणाः कर्तृकर्मणोः कृति ॥
११ मित्रस्य चक्षुर्धरुणम् ...{Loading}...
मि॒त्रस्य॒ चक्षु॒र्, धरु॑णं॒ बली॑य॒स्
तेजो॑ यश॒स्वि स्थवि॑र॒ꣳ॒ समि॑द्धम् ।
अ॒ना॒ह॒न॒स्यं+++(=अधूर्तयोग्यं)+++ वस॑नञ् जरि॒ष्णु
परी॒दं वा॒ज्य्+++(=अन्नवत्)+++ अजिन॑न् दधे॒ ऽहम् ॥ (२)
११ मित्रस्य चक्षुर्धरुणम् ...{Loading}...
मूलम्
मि॒त्रस्य॒ चक्षु॒र्धरु॑णं॒ बली॑य॒स्तेजो॑ यश॒स्वि स्थवि॑र॒ꣳ॒ समि॑द्धम् ।
अ॒ना॒ह॒न॒स्यं वस॑नञ्जरि॒ष्णु परी॒दं वा॒ज्यजिन॑न्दधे॒ऽहम् ॥ (२)
हरदत्तः
अजिनमन्त्रः - मित्रस्येति ॥ मित्रस्य आदित्यस्य चक्षुः प्रकाशकं, अजिनोत्तरीयो हि दीर्घायुर्भवति, स च आदित्यं पश्पति अतः तस्य प्रकाशकं धरुणं धार्यमाणं बलीयः तेजः अत्यन्तं बलिष्ठं तेजः यशस्वि धारयतो यशोनिमित्तत्वात् स्वयमेव यशस्वि स्थविरं प्रवृद्धं समिद्धं सम्यगिद्धं दीप्तिमत् अनाहनस्यं आहनसः धूर्ताः ये ते मदा आहनसः इत्यादौ दर्शानात् । तेषां कर्म आहनस्यं मणितशब्दादि । आहनस्याद्वै रेतस्सिच्यते । हवि बह्वृचब्राह्मणम् । तद्विपरीतं अनाहनस्यं धूर्तानामयोग्यमित्यर्थः । वसनं उपरिवासः अरिष्णु, जीर्यतिस्स्तुत्यर्थः कर्मणि च कर्तृप्रत्ययः, स्तोतव्यं जरायाः प्रापयितृ वा वाजि अन्नवत् अन्नस्य दातृ वा इदं एवम्भूतं अजिनं अहं परिदधे प्रावृणोमि ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने द्वितीयः खण्डः