द्वितीय प्रश्न प्रारम्भः
०१ उष्णेन वायवुदकेनेह्यदितिः ...{Loading}...
+++(उष्णा आपः शीतास्वानयति)+++ उ॒ष्णेन॑ वायवुद॒केनेह्य्, अदि॑तिः॒ केशान्॑ वपतु ।
०१ उष्णेन वायवुदकेनेह्यदितिः ...{Loading}...
मूलम्
उ॒ष्णेन॑ वायवुद॒केनेह्यदि॑तिः॒ केशान्॑ वपतु ।
हरदत्तः
अथोपनयनमन्त्राः । तत्र उष्णा अपः शीतास्वानयति उष्णेनेति ॥ हे वायो । उष्णेन उदकेन उष्णमुदकं गृहीत्वा एहि आगच्छ । किमर्थे? अदितिः केशान्वपतु अदित्याः वपने अनुग्रह कर्तृत्वं एवं वायोरुदकानयने ॥
०२ आप उन्दन्तु ...{Loading}...
+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आप॑ उन्दन्तु जी॒वसे॑
दीर्घायु॒त्वाय॒ वर्च॑से ।
ज्योक् च॒ सूर्यं॑ दृ॒शे ।
०२ आप उन्दन्तु ...{Loading}...
मूलम्
आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से ।
ज्योक्च॒ सूर्यं॑ दृ॒शे ।
हरदत्तः
उत्तरया शिर उनत्ति - आप उन्दन्त्विति ॥ माणवकस्यास्य शिरः आपः उन्दन्तु क्लेदयन्तु जीवसे जीवितुं जीवनाय । कियन्तं कालं? दीर्घायुत्वाय षोडशवर्षयुतं शतं दीर्घमायुः वर्चसे दीप्तये ज्योक् दीर्घकालं सूर्यं दृशे द्रष्टुं यथा अयं दीर्घकालं जीवेत्, तावन्तं कालं चक्षुष्मान्भवति वर्चस्वी च तथोन्दन्तु ॥
०३ येनावपत्सविता क्षुरेण ...{Loading}...
+++(प्राच्यान्दिशि)+++ येनाव॑पत् सवि॒ता क्षु॒रेण॒
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो! वपते॒दम् अ॒स्या-
ऽऽयु॑ष्मा॒ञ् जर॑दष्टि॒र् यथा ऽस॑द् अ॒यम्
अ॒सौ +++(←अत्रोहः)+++।
०३ येनावपत्सविता क्षुरेण ...{Loading}...
मूलम्
येनाव॑पत्सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो वपते॒दम॒स्यायु॑ष्मा॒ञ्जर॑दष्टि॒र्यथाऽस॑द॒यम॒सौ ।
हरदत्तः
उत्तराभिः प्रतिदिशं प्रवपत्याचार्यः । तत्र प्राच्यां दिशि - येनावपदिति ॥ येन क्षुरेण सविता सोमस्य राज्ञः वरुणस्य शिर अवपत् विद्वान् नापितकर्मणि कुशलः तेन क्षुरेण जातिद्वारेणैक्यं तादृशेन वा क्षुरेण हे ब्रह्माणः । ब्राह्मणाः पुण्याहवाचनस्य कर्तारः इदं अस्य माणवकस्य शिरः वपत वपने मां प्रयुङ्ध्वमित्यर्थः । युष्मदनुज्ञयाहं प्रवपामीति यावत् । यथा वपने सति अयं माणवकः असौ यज्ञशर्मा आयुष्मन् जरदष्टिः जीर्णाशनश्च असत् स्यात् तथा वपत । असावित्यत्र माणवकस्य नामनिर्देशः प्रथमया ॥
०४ येन पूषा ...{Loading}...
+++(दक्षिणतः)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।
०४ येन पूषा ...{Loading}...
मूलम्
येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत् ।
तेना॒स्यायु॑षे वप॒ सौश्लो॑क्याय स्व॒स्तये॑ ।
हरदत्तः
अथ दक्षिणतः - येन पूषेति ॥ येन क्षुरेणेति गतम् । तेन क्षुरेण अस्य शिरः आयुषे वप शरीरात्मानं प्रत्यन्तरात्मनः प्रैषः, हे मदीयशरीरात्मन् । वप सौश्लोक्याय सुश्लोकः सुकीर्तिः तस्य भावः सौश्लोक्यं यथा अयं सुकीर्तिः स्यात् तथेत्यर्थः । स्वस्तये अवि नाशाय च ॥
०५ येन भूयश्चरात्ययञ्ज्योक्च ...{Loading}...
+++(पश्चात्)+++ येन॒ भूय॒श् चरा॑त्य् अ॒यञ्,
ज्योक् च॒ पश्या॑ति॒ सूर्य॑म् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।
०५ येन भूयश्चरात्ययञ्ज्योक्च ...{Loading}...
मूलम्
येन॒ भूय॒श्चरा॑त्य॒यञ्ज्योक्च॒ पश्या॑ति॒ सूर्य॑म् ।
तेना॒स्यायु॑षे वप॒ सौश्लो॑क्याय स्व॒स्तये॑ ।
हरदत्तः
अथ पश्चात् - येन भूय इति ॥ येन क्षुरेण उप्तः अयं माणवकः भूयश्चराति । पञ्चमो लकारः । भूयिष्ठं चरेत् सर्वानतीत्य चरेत्, ज्योक् दीर्घकालं च सूर्यं पश्याति पश्येत् । छान्दस उभयत्र दीर्घः । तेनेत्यादि गतम् ॥
०६ येन पूषा ...{Loading}...
+++(उत्तरे)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत् ।
तेन॑ ते वपाम्य् असा॒व्+++(←अत्रोहः)+++
आयु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक् सु॒मना॒ असाः॑ ।
०६ येन पूषा ...{Loading}...
मूलम्
येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत् ।
तेन॑ ते वपाम्यसा॒वायु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक्सु॒मना॒ असाः॑ ।
हरदत्तः
अथोत्तरतः - येन पूषेति ॥ पूर्वार्धं गतम् । तेन क्षुरेण ते तव शिरो वपामि असौ इति नामनिर्देशः संबुद्ध्या यज्ञशर्मन् ।यथा वपने सति आयुषा वर्चसा च युक्तः ज्योक् दीर्घकालं सुमनाः त्वं असाः अत्रापि पञ्चमो लकारः । स्याः तथा वपामि ॥
०७ यत्क्षुरेण मर्चयता ...{Loading}...
+++(नापितम् अनुमन्त्रयति-)+++ यत् क्षु॒रेण॑ म॒र्चय॑ता +++(=तीक्ष्णेन)+++
सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ ।
शुन्धि॒ शिरो॒, मास्यायुः॒ प्रमो॑षीः ।
०७ यत्क्षुरेण मर्चयता ...{Loading}...
मूलम्
यत्क्षु॒रेण॑ म॒र्चय॑ता सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ ।
शुन्धि॒ शिरो॒ मास्यायुः॒ प्रमो॑षीः ।
हरदत्तः
अथ वपन्तं नापितं उत्तरयानुमन्त्रयते आचार्यः यत्क्षुरेणेति ॥ यत् यदा क्षुरेण मर्चयता तीक्ष्णभूतेन सुपेशसा सुरूपेण उज्र्वलेन वप्त्रा करणस्य कर्तृत्वविवक्षा, एवम्भूतेन क्षुरेण यदास्य केशान्वपसि । यदिति वचनात्तदेत्यध्याहार्यम् । तदा अस्य शिरः शुन्धि शुद्धं कुरु यथा केशाः निर्मूला भवन्ति तथेत्यर्थः । आयुस्तु अस्य मा प्रमोषीः वपनस्य स्वतोमङ्गलत्वात् एवं प्रार्थ्यते । तथा च ब्राह्मणम् । रिक्तो वा एषोनपिहितो यन्मुण्डः इति ।।
०८ उप्त्वाय केशान् ...{Loading}...
उ॒प्त्वास्य॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒,
बृह॒स्पति॑स् सवि॒ता सोमो॑ अ॒ग्निः ।
तेभ्यो॑ +++(=केशेभ्यः)+++ नि॒धानं॑ बहु॒धा ऽन्व॑विन्दन्न्
अन्त॒रा द्यावा॑पृथि॒वी अ॒पस् सुवः॑ ॥
०८ उप्त्वाय केशान् ...{Loading}...
मूलम्
उ॒प्त्वाय॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒ बृह॒स्पति॑स्सवि॒ता सोमो॑ अ॒ग्निः ।
तेभ्यो॑ नि॒धानं॑ बहु॒धाऽन्व॑विन्दन्नन्त॒रा द्यावा॑पृथि॒वी अ॒पस्सुवः॑ ॥
हरदत्तः
अथ केशनिधानमन्त्रः उप्त्वाय केशानिति ॥ उप्त्वाय उप्त्वा । क्त्वो यत् । केशान् कस्य? वरुणस्य राज्ञः के? बृहस्पत्यादयः । ते किमकुर्वन्? तेभ्यः तेषां केशानां निधानम् । अधिकरणे ल्युट् । ते यत्र निधीयन्ते तत्स्थानं बहुधा बहुभिः प्रकारैः अन्वविन्दन् अनुक्रयेण लब्धवन्तः । क्वा? अन्तराद्यावापृथिवी द्यावापृथिव्योर्मध्ये अपः अन्तरिक्षे सुवः स्वर्गे लोके, कालभेदेन स्थानभेदः । एवं अहमपि उदुम्बरमूले दर्भस्तम्बे वा निदधामीति योज्यम् ।
इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने द्वितीयप्रश्ने प्रथमः खण्डः