०१ इमाङ् खनाम्योषधीम् ...{Loading}...
इ॒मां खना॒म्य् ओष॑धीं
वी॒रुधं॒+++(हां)+++ बल॑वत्तमाम् ।
यया॑ स॒पत्नीं॒ बाध॑ते॒
यया॑ संवि॒न्दते॒ पति॑म् ।
०१ इमाङ् खनाम्योषधीम् ...{Loading}...
मूलम्
इ॒मां खना॒म्योष॑धीं वी॒रुधं॒ बल॑वत्तमाम् ।
यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति॑म् ।
हरदत्तः
पत्युर्वशीकरणे पाठाया उत्पाटन मन्त्रः - इमां खनामिति ॥ इमां पाठाख्यां ओषधीं खनामि उत्पाटयामि । वीरुधं विविधं रोहन्ती प्रतानवतीमित्यर्थः । बलवत्तमां अतिशयेन वीर्यवतीमित्यर्थः । यथा ओषध्या सपत्नी बाधते सर्व एव स्रीजनः, यथा च सम्यक् विन्दते असाधारणं लभते पतिम् ॥
०२ उत्तानपर्णे सुभगे ...{Loading}...
उ॒त्ता॒नप॑र्णे॒ सुभ॑गे॒
सह॑माने॒ सह॑स्वति ।
स॒पत्नीं॑ मे॒ परा॑धम॒
पतिं॑ मे॒ केव॑लं कृधि ।
०२ उत्तानपर्णे सुभगे ...{Loading}...
मूलम्
उ॒त्ता॒नप॑र्णे॒ सुभ॑गे॒ सह॑माने॒ सह॑स्वति ।
स॒पत्नीं॑ मे॒ परा॑धम॒ पतिं॑ मे॒ केव॑लं कृधि ।
हरदत्तः
उत्तराभिः तस्याः पाठाया अभिमन्त्रणम् - उत्तानपर्णे इति ॥ उत्तानानि पर्णानि यस्यास्सा उत्तानपर्णा । हे उत्तानपर्णे सुभगे सौभाग्यस्य निमित्तभूते । सहमाने । सह मर्षणे, अभिभवे छन्दसि । सपत्नीं बाधमाने । सहस्वति । अतिबलवति । सपत्नी । मे पराधम मम सपत्नी परागमय पतिं मे केवलं कृधि ममैवासाधारणं कुरु ॥
०३ उत्तराऽहमुत्तर उत्तरेदुत्तराभ्यः ...{Loading}...
उत्त॑रा॒ ऽहम् +++(हे)+++ उत्त॑र॒+++(य्)+++
उत्त॒रेद् उत्त॑राभ्यः ।
अथा॑ स॒पत्नी॒ या ममा-
ऽध॑रा॒ साऽध॑राभ्यः ।+++(र५)+++
०३ उत्तराऽहमुत्तर उत्तरेदुत्तराभ्यः ...{Loading}...
मूलम्
उत्त॑रा॒ऽहमुत्त॑र॒ उत्त॒रेदुत्त॑राभ्यः ।
अथा॑ स॒पत्नी॒ या ममाध॑रा॒ साऽध॑राभ्यः ।
हरदत्तः
उत्तरेति ॥ हे उत्तरे । उत्कृष्टे । पाठे उत्तरा उत्कृष्टा अहं स्वत एव, पुनरपि उत्तराभ्योपि उत्तरा भूयासम् इच्छब्द, एवार्थे । तथैव बह्वृचाः पठन्ति । अथ या मम सपत्नी सा अधराभ्योप्यधरा भवतु ॥
०४ न ह्यस्यै ...{Loading}...
न ह्य॑स्यै॒ नाम॑ गृभ्णामि॒
+++(यतः)+++ नो अ॒स्मिन् र॑मते॒ जने॑ ।
परा॑म् ए॒व प॑रा॒वतꣳ॑+++(=दूरम्)+++
स॒पत्नीं॑ नाशयामसि ।
०४ न ह्यस्यै ...{Loading}...
मूलम्
न ह्य॑स्यै॒ नाम॑ गृभ्णामि॒ नो अ॒स्मिन्र॑मते॒ जने॑ ।
परा॑मे॒व प॑रा॒वतꣳ॑ स॒पत्नीं॑ नाशयामसि ।
हरदत्तः
नहीति ॥ अस्यै अस्याः नामाप्यहं न गृह्णामि । कि कारणं? अस्मिन् जने आत्मन एवायं निर्देशः, सा नो रमते यतः । किं बहुना? परामेव परावतं परावदिति दूरनाम अत्यन्तं दूरं सपत्नीं नाशयामसि नाशयामः गमयामः । इदन्तो मसि ॥
०५ अहमस्मि सहमानाऽथ ...{Loading}...
अ॒हम॑स्मि॒ सह॑मा॒ना ऽथ॒
त्वम॑सि सास॒हिः+++(=सहमाना)+++ ।
उ॒भे सह॑स्वती भू॒त्वा
स॒पत्नीं॑ मे सहावहै ।
०५ अहमस्मि सहमानाऽथ ...{Loading}...
मूलम्
अ॒हम॑स्मि॒ सह॑मा॒नाऽथ॒ त्वम॑सि सास॒हिः ।
उ॒भे सह॑स्वती भू॒त्वा स॒पत्नीं॑ मे सहावहै ।
हरदत्तः
उत्तरया तां पाठां द्विधा कृत्वा हस्तयोराबध्नाति - अहमस्मीति ॥ सहमाना सपत्नीः अभिभवन्ती अहमस्मि । अथ पाठे । त्वं असि सासहिः सहमानासि । ते उभे आवां सहस्वती बलवत्यौ भूत्वा सपत्नीं मे सहावहै अभिभवाव ॥
०६ उप तेऽधाम् ...{Loading}...
+++(हे भर्तः।)+++ उप॑ ते ऽधा॒ꣳ॒ सह॑मानाम् +++(बाहुं)+++
अ॒भि त्वा॑ऽधा॒ꣳ॒ +++(अपराम् बाहुम्)+++ सही॑यसा +++(मनसा)+++ ।
माम् अनु॒ प्र ते॒ मनो॑ व॒त्सं
गौरि॑व धावतु, प॒था वारि॑+++(री)+++व धावतु ॥ (16)
०६ उप तेऽधाम् ...{Loading}...
मूलम्
उप॑ तेऽधा॒ꣳ॒ सह॑मानाम॒भि त्वा॑ऽधा॒ꣳ॒ सही॑यसा ।
मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥ (१६)
हरदत्तः
उत्तरया शय्याकाले बाहुभ्यां भर्तारं परिगृहीयात् - उपतेधामिति ॥ भर्तारं प्रतीदमुच्यते । इमां सहमानां ते तव उपाधां अधोधां तामेव त्वा अभ्यधां तवोपर्यधां सहीयसा अतिशयेनाभि भवित्रा मनसा युक्ता । एवंच तथा परिग्रहः कर्तव्यः यथैको हस्तो भर्तुरधो निहितो भवति अपरश्चोपरि । एवं कृते सति मामनु मां प्रति ते मनः प्रधावतु वत्सं गौरिव यथाचिरप्रसूता गौः वत्सं प्रति धावति, तथा पथा वारिव यथा च निम्नेन पथा वारि धावति तद्वत् ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने षोडशः खण्डः