०१ करोमि ते ...{Loading}...
क॒रोमि॑ ते प्राजाप॒त्यम्
आ गर्भो॒ योनि॑म् एतु ते ।
अनू॑नः पू॒र्णो जा॑यता॒म्
अश्लो॒णो ऽपि॑शाचधीतः ।
०१ करोमि ते ...{Loading}...
मूलम्
क॒रोमि॑ ते प्राजाप॒त्यमा गर्भो॒ योनि॑मेतु ते ।
अनू॑नः पू॒र्णो जा॑यता॒मश्लो॒णोऽपि॑शाचधीतः ।
हरदत्तः
करोमीति ॥ ते प्राजापत्यं पजापतिकर्म रेतसः सेचनं “आसिञ्चतु प्रजापतिः” इति दर्शनात् । तत्ते करोमि । ततश्च गर्भः ते तव योनिमेतु । स च अनूनः अन्यूनाङ्गः पूर्णः पूर्णकालः दशमास्यः जायतां अश्लोणः अपङ्गुः अबधिरो वा अपिशाचधीता धीयतेर्ध्वायतेर्वा धीतः यः पिशाचैः धीतः ध्यातो वा स न भवतीति ॥
०२ पुमांस्ते पुत्रो ...{Loading}...
पुमाꣳ॑स् ते पु॒त्रो ना॑रि॒ तं
पुमा॒न् अनु॑ जायताम् ।
तानि॑ भ॒द्राणि॒ बीजा॑न्य्
ऋष॒भा ज॑नयन्तु नौ ।
०२ पुमांस्ते पुत्रो ...{Loading}...
मूलम्
पुमाꣳ॑स्ते पु॒त्रो ना॑रि॒ तं पुमा॒ननु॑ जायताम् ।
तानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॑नयन्तु नौ ।
हरदत्तः
पुमानिति ॥ हे नारि । पुमांस्ते पुत्रः जायताम् इति वक्ष्यमाणमपेक्ष्यते प्रथमस्तावद्गर्भः पुमान्भवतु तं च पुमानेव अनुजायतां द्वितीयादयोपि गर्भाः पुमांस एव भवन्त्वित्यर्थः । तानि तादृशानि भद्राणि कल्याणानि अमोघानि वीजानि वीर्याणि ऋषभाः ऋषभवत्सेचनसमर्थाः । के पुनस्ते? प्रजापत्यादयः ओषधयो वा माषादयः वृष्ट्या जनयन्तु नौ आवयोः यथा पुत्रा एव उपर्युपरि जायन्ते तादृशानि वीर्याणि आवयोरुत्पादयन्तु ॥
०३ यानि भद्राणि ...{Loading}...
यानि॑ भ॒द्राणि॒ बीजा॑न्य्
ऋष॒भा ज॑नय॒न्ति नः॑ ।
तैस् त्वं पु॒त्रान् वि॑न्दस्व॒
सा प्र॒सूर् धे॑नु॒का भ॑व ।
०३ यानि भद्राणि ...{Loading}...
मूलम्
यानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॑नय॒न्ति नः॑ ।
तैस्त्वं पु॒त्रान् वि॑न्दस्व॒ सा प्र॒सूर्धे॑नु॒का भ॑व ।
हरदत्तः
यानीति ॥ पूर्वोक्ताः ऋषभाः यानि भद्राणि बीजानि नः अस्मदो द्वयोश्च इति बहुवचनम् नौ जनयन्ति तैः बीजैः त्वं पुत्रानेव विन्दस्व सा त्वं प्रसूः प्रसवशीला धेनुका धेनुसदृशी भव । यथा धेनुः वत्सेन पीयते एवं त्वं पुत्रेण नित्यं पीयमाना भव ॥
०४ काम प्रमृद्ध्यताम् ...{Loading}...
काम॒ प्रमृ॑द्ध्यतां॒ मह्य॒म्
अप॑राजितम् ए॒व मे॑ ।
यं कामं॑ का॒मये॑ देव॒
तं मे॑ वायो॒ सम॑र्द्धय ।
०४ काम प्रमृद्ध्यताम् ...{Loading}...
मूलम्
काम॒ प्रमृ॑द्ध्यतां॒ मह्य॒मप॑राजितमे॒व मे॑ ।
यं कामं॑ का॒मये॑ देव॒ तं मे॑ वायो॒ सम॑र्द्धय ।
हरदत्तः
कामप्रमिति ॥ प्रा पूरणे कामान्पूरयतीति कामप्रं मह्यं ममेदं कर्म ऋध्यतां ऋद्वमस्तु, अपराजितमेव अमोघमेव मे भवतु । हे देव । वायो । यं कामं कामये पुमांसं जनयेयमिति तं मे कामं समर्धय समृद्धं कुरु । वायुप्रेरितं रेतस्सिच्यत इति स एवं प्रार्थ्यते ॥
०५ अनुहवम् परिहवम् ...{Loading}...
अ॒नु॒ह॒वं+++(=पृष्ठत आह्वानं)+++ प॑रिह॒वं+++(=परित आह्वानं)+++
प॑रीवा॒दं प॑रिक्ष॒पम्+++(=परितः क्षवतुः → अक्षिशब्दः)+++ ।
दुस्स्व॑प्नं॒ दुरु॑दितं॒
तद् द्वि॒षद्भ्यो॑ दिशाम्य् अ॒हम् ।
०५ अनुहवम् परिहवम् ...{Loading}...
मूलम्
अ॒नु॒ह॒वं प॑रिह॒वं प॑रीवा॒दं प॑रिक्ष॒पम् ।
दुस्स्व॑प्नं॒ दुरु॑दितं॒ तद्द्वि॒षद्भ्यो॑ दिशाम्य॒हम् ।
हरदत्तः
अर्थप्राध्वस्य परिक्षवपरिकासनयोः जपः - अनुहवमिति ॥ पृष्ठत आह्वानं अनुहवः सर्वत आह्वानं परिहवः निन्दितो वादः परिवादः छिन्दि भिन्धि इत्यादिः परितः क्षवतुः परिक्षवः मन्त्रे तु छान्दसो वकारस्य पकारः । दुस्स्वप्नः प्रसिद्धः दुरुदितं वैधवेयादिशब्दोच्चारणम् यच्चान्यदेवं दुर्निमित्तं तत् द्विषद्भ्यो दिशाम्यहं अतिसृजामि ॥
०६ अनुहूतम् परिहूतम् ...{Loading}...
अनु॑हूतं॒ परि॑हूतꣳ
श॒कुने॒र् यद् अशा॑कु॒नम्+++(→दुर्निमित्तम्)+++ ।
मृ॒गस्य॑ +++(अपसव्यादि)+++सृ॒तम् अ॑क्ष्णया॒+++(→अक्षणेन)+++
तद् द्वि॒षद्भ्यो॑ दिशाम्य् अ॒हम् ।
०६ अनुहूतम् परिहूतम् ...{Loading}...
मूलम्
अनु॑हूतं॒ परि॑हूतꣳ श॒कुने॒र्यदशा॑कु॒नम् ।
मृ॒गस्य॑ सृ॒तम॑क्ष्णया॒ तद्द्वि॒षद्भ्यो॑ दिशाम्य॒हम् ।
हरदत्तः
अनुति ॥ यत् अनुहूतं यच्च परिहूतं यच्च शकुनेः सम्बन्धि अशाकुनं अनिमित्तभूतं यच्च मृगस्य सृगालादेः अक्ष्णया सृतं तिर्यग्गमनं अपसव्यादि तच्च द्विषद्भ्यो दिशाम्यहम् । शकुनं निमित्तं शाकुनं तत्प्रतिपक्षभूतं अशाकुनं दुर्निमित्तम् ॥
०७ आरात्ते अग्निरस्त्वारात्परशुरस्तु ...{Loading}...
आ॒रात्+++(=दूरतः)+++ ते॑ अ॒ग्निर् अ॑स्त्व्
आ॒रात् प॑र॒शुर् अ॑स्तु ते ।
नि॒+++(र्)+++वा॒ते त्वा॒ ऽभिव॑र्षतु।
स्व॒स्ति ते॑ऽस्तु वनस्पते।
स्व॒स्ति मे॑ऽस्तु वनस्पते ।
०७ आरात्ते अग्निरस्त्वारात्परशुरस्तु ...{Loading}...
मूलम्
आ॒रात्ते॑ अ॒ग्निर॑स्त्वा॒रात्प॑र॒शुर॑स्तु ते ।
नि॒वा॒ते त्वा॒ऽभिव॑र्षतु स्व॒स्ति ते॑ऽस्तु वनस्पते स्व॒स्ति मे॑ऽस्तु वनस्पते ।
हरदत्तः
चित्रियस्य वनस्पतेरभिमन्त्रणम् - आरात्त इत्यादि ॥ हे वनस्पते । ते तव आरात् दूरतः अग्निरस्तु । एवं परशुरपि ते दूरतोस्तु । वाताभावो निवातः तादृशे निवाते सति देवः त्वा त्वां अभिवर्षतु वाते सति भङ्गप्रसङ्गः, एवं ते स्वस्त्यस्तु वनस्पते । एवं ममापि स्वस्त्यस्तु वनस्पते । त्वदभिमन्त्रणात् ॥
०८ नमश्शकृत्सदे रुद्राय ...{Loading}...
नम॑श् शकृ॒त्सदे॑ रु॒द्राय॒
नमो॑ रु॒द्राय॑ शकृ॒त्सदे॑ ।
+++(शकृत्!)+++ गो॒ष्ठम् अ॑सि॒ नम॑स्ते अस्तु॒, मा मा॑ हिꣳसीः।
०८ नमश्शकृत्सदे रुद्राय ...{Loading}...
मूलम्
नम॑श्शकृ॒त्सदे॑ रु॒द्राय॒ नमो॑ रु॒द्राय॑ शकृ॒त्सदे॑ ।
गो॒ष्ठम॑सि॒ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः।
हरदत्तः
शकृद्रीतेरुपस्थानम् - नमश्शकृत्सदे इति ॥ शकृति सीदते रुद्राय, आदरार्थं पुनर्वचनम्, नमो रुद्राय शकृत्सदे । हे शकृत् त्वं गोष्ठमसि गवि स्थितमसि नमस्ते अस्तु मा मा हिंसी, गावोपि न किंचिदपि हिंसन्ति, त्वं च गोष्ठमसि ॥
०९ सिगसि नसि ...{Loading}...
सिग्+++(=वस्र-सीमा)+++ अ॑सि॒, न+++(ना)+++सि॒ वज्रो॒, नम॑स् ते अस्तु॒, मा मा॑ हिꣳसीः ।
०९ सिगसि नसि ...{Loading}...
मूलम्
सिग॑सि॒ नसि॒ वज्रो॒ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ।
हरदत्तः
सिग्वातस्याभिमन्त्रणम् - सिगसीति ॥ सिक् वस्रस्य दशा असि सिगेव त्वमसि, नसि वज्रः नासि वज्रः न वज्रस्त्वामसि, छान्दसं पररूपम् । नमस्ते इत्यादि गतम् ॥
१० उद्गातेव शकुने ...{Loading}...
उ॒द्गा॒तेव॑ श॒कुने॒ साम॑ गायसि
ब्रह्मपु॒त्र+++(=ब्राह्मणाच्छंसी)+++ इ॑व॒ सव॑नेषु शꣳससि ।
स्व॒स्ति न॑श् श॒कुने॑ अस्तु॒
प्रति॑ नस् सु॒मना॑ भव ॥ (14)
१० उद्गातेव शकुने ...{Loading}...
मूलम्
उ॒द्गा॒तेव॑ श॒कुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शꣳससि ।
स्व॒स्ति न॑श्श॒कुने॑ अस्तु॒ प्रति॑ नस्सु॒मना॑ भव ॥ (१४)
हरदत्तः
शकुनेरभिमन्त्रणम् - उद्गातेति ॥ हे शकुने । त्वं उद्गातेव साम गायसि यथा उद्गाता साम गायति तद्वत् त्वं गायसि । किंच शंससि प्रशस्तं वदसि ब्रह्मपुत्र इव सवनेषु ब्रह्मपुत्रः ब्रह्मवर्गोद्भवो ब्राह्मणाच्छंसी, स यथा उक्थ्यादिसंस्थासु त्रिष्वपि सवनेषु शंसति तद्वत् । यज्ञवाची सवनशब्दः । किञ्च - हे शकुने । नः अस्मभ्यं स्वस्त्यस्तु, नः अस्मान् च प्रति त्वं सुमना भव ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने चतुर्दशः खण्डः