1 13

०१ विष्णुर्योनिङ्कल्पयतु त्वष्टा ...{Loading}...

०१ विष्णुर्योनिं कल्पयतु ...{Loading}...

वि᳓ष्णुर् यो᳓निं कल्पयतु
त्व᳓ष्टा रूपा᳓णि पिंशतु
आ᳓ सिञ्चतु प्रजा᳓पतिर्
धाता᳓ ग᳓र्भं दधातु ते

ँश

०१ विष्णुर्योनिङ्कल्पयतु त्वष्टा ...{Loading}...

मूलम्

विष्णु॒र्योनि॑ङ्कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिँशतु ।
आसि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ।

हरदत्तः

अथ ऋतुसमावेशने भार्याया अभिमन्त्रणम् - विष्णुर्यो निमिति ॥ विष्णुः ते तव योनि कल्पयतु गर्भाधानक्षमां करोतु । प्रजापतिश्च मामाविश्य तत्र रेतः आसिञ्चतु । तच्च निषिक्तं रेतः धाता आदित्यानामन्यतमः प्रजापतिरेव वा गर्भं दधातु गर्भरूपेण परिणमयतु । तस्य च रूपाणि हस्तपादादीति त्वष्टा पिंशतु दीप्तिकर्मायम् । नक्षत्रेभिः पितरो द्यामपिंशन् इति दर्शनात् दीप्तानि करोतु ॥

०२ गर्भन्धेहि सिनीवालि ...{Loading}...

०२ गर्भं धेहि ...{Loading}...

ग᳓र्भं धेहि सिनीवालि
ग᳓र्भं धेहि सरस्वति
ग᳓र्भं ते अश्वि᳓नौ देवा᳓व्
आ᳓ धत्ताम् पु᳓ष्करस्रजा

ँश

०२ गर्भन्धेहि सिनीवालि ...{Loading}...

मूलम्

गर्भ॑न्धेहि सिनीवालि॒ गर्भ॑न्धेहि सरस्वति ।
गर्भ॑न्ते अ॒श्विनौ॑ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ।

हरदत्तः

गर्भं धेहीति ॥ सिनीवाल्या सरस्वत्या च अधिष्ठिता वधूरेव तथाभिमन्त्र्यते । धेहि धारय । अश्विनौ च देवौ ते तव गर्भं आधत्तां पुष्करस्रजा पुष्करमालिनौ ॥

०३ हिरण्ययी अरणी ...{Loading}...

०३ हिरण्ययी अरणी ...{Loading}...

हिरण्य᳓यी अर᳓णी
यं᳓ निर्म᳓न्थतो अश्वि᳓ना
तं᳓ ते ग᳓र्भं हवामहे
दशमे᳓ मासि᳓ सू᳓तवे

ँश

०३ हिरण्ययी अरणी ...{Loading}...

मूलम्

हि॒र॒ण्ययी॑ अ॒रणी॒ यन्नि॒र्मन्थ॑तो अ॒श्विना॑ ।
तन्ते॒ गर्भँ॑ हवामहे दश॒मे मा॒सि सूत॑वे ।

हरदत्तः

हिरण्ययी अरणीति ॥ तृतीयैकवचनस्य पूर्वसवर्णः । हिरण्मय्या? अरण्या तत्सदृशेन प्रजननेन यं यादृशं गर्भं निर्मन्थतः प्रयत्नेन जनितवन्तौ अश्विना अश्विनौ तं तादृशं ते गर्भं हवामहे आशास्महे दशमे मासि सूतवे सोतुम्, अश्विनौ रूपवन्तौ तत्पुत्रोपि रूपवान् तादृशस्ते गर्भो भवत्वित्यर्थः ॥

०४ यथेयम् पृथिवी ...{Loading}...

यथे॒यं पृ॑थि॒वी म॒ही
तिष्ठ॑न्ती॒ गर्भ॑म् आद॒धे ।
ए॒वन् त्वं गर्भ॒म् आ ध॑त्स्व
दश॒मे मा॒सि सूत॑वे ।

ँश

०४ यथेयम् पृथिवी ...{Loading}...

मूलम्

यथे॒यं पृ॑थि॒वी म॒ही तिष्ठ॑न्ती॒ गर्भ॑माद॒धे ।
ए॒वन्त्वं गर्भ॒मा ध॑त्स्व दश॒मे मा॒सि सूत॑वे ।

हरदत्तः

यथेयमिति ॥ पृथिवी यथा मही महती तिष्ठन्ती यथेयमिदानीं तिष्ठति तथैव तिष्ठन्ती उत्ताना सतीत्यर्थः उत्तानेत्येव बह्वृचानां पाठः । गर्भमादधे द्युलोकतो निषिक्तं वृष्टिलक्षणं रेतो गृहीत्वा सस्य - लक्षणं गर्भं पृथिवी यथा धारयति एवं त्वं गर्भं आधत्स्व धारय । दशमे मासि इति गतम् ॥

०५ यथा पृथिव्यग्निगर्भा ...{Loading}...

यथा॑ पृथि॒व्य् अ॒॑ग्निग॑र्भा॒
द्यौर् यथेन्द्रे॑ण ग॒र्भिणी॑ ।
वा॒युर् यथा॑ दि॒शां गर्भ॑
ए॒वं गर्भं॑ दधामि ते ।

ँश

०५ यथा पृथिव्यग्निगर्भा ...{Loading}...

मूलम्

यथा॑ पृथि॒व्य॑ग्निग॑र्भा॒ द्यौर्यथेन्द्रे॑ण ग॒र्भिणी॑ ।
वा॒युर्यथा॑ दि॒शां गर्भ॑ ए॒वं गर्भं॑ दधामि ते ।

हरदत्तः

यथा पृथिवीति ॥ पार्थिवेषु अरण्यादिषु अग्नेरवस्थानात् पृथिवी अग्निगर्भेत्युच्यते, द्युलोके इन्द्रः प्रधानभूतः सः तस्याः गर्भत्वेन निरूप्यते, वायुश्च दिग्भ्यः प्रभवति, तेनासौ ताप्तां गर्भः यथा आसां एते गर्भाः एवं गर्भं दधामि ते ॥

०६ विष्णो श्रेष्ठेन ...{Loading}...

विष्णो॒ श्रेष्ठे॑न रू॒पेणा॒+
ऽऽस्यान् नार्यां॑ गवी॒न्या॑म् +++(=कमनीयायाम्)+++ ।
पुमाँ॑सं॒ गर्भ॒म् आ धे॑हि
दश॒मे मा॒सि सूत॑वे ।

ँश

०६ विष्णो श्रेष्ठेन ...{Loading}...

मूलम्

विष्णो॒ श्रेष्ठे॑न रू॒पेणा॒स्यान्नार्यां॑ गवी॒न्या॑म् ।
पुमाँ॑सं॒ गर्भ॒मा धे॑हि दश॒मे मा॒सि सूत॑वे ।

हरदत्तः

विष्णो इति ॥ हे विष्णो । श्रेष्ठेन रूपेण युक्तं पुमांसं गर्भं अस्या नार्यां आधेहि । कीदृश्यां नार्यां? गवीन्यां कमेरेतद्रूपम् । कमनीयायां काम्यायां कामयितुं योग्यायां ऋतुस्नातायामित्यर्थः । अन्ये तु गविनीति स्त्रीणां वीर्यातिशयस्याभिधानं मन्यन्ते वि ते भिनद्मि तकरीं वि योनिं विगवीन्यौ इति दर्शनात् । अस्यां नार्यां वा गविनी तस्यामित्यर्थः । दशमे मासीति गतम् ॥

०७ नेजमेष परा ...{Loading}...

नेज॑मेष॒ परा॑ पत॒
सुपु॑त्रः॒ पुन॒र् आ प॑त ।
अ॒स्यै मे पु॒त्रका॑मायै॒
गर्भ॒म् आ धे॑हि॒ यः पुमा॑न् ।

ँश

०७ नेजमेष परा ...{Loading}...

मूलम्

नेज॑मेष॒ परा॑ पत॒ सुपु॑त्रः॒ पुन॒रा प॑त ।
अ॒स्यै मे पु॒त्रका॑मायै॒ गर्भ॒मा धे॑हि॒ यः पुमान्॑ ।

हरदत्तः

नेजमेषेति ॥ स्कन्द ग्रहेष्यन्यतमः नेजमेष इतीतिहास पुराणयोः प्रसिद्धः तथाच वैद्यके कुमारग्रहपीडायां नेजमेशं च पूजयेत् इति पठ्यते । हे नेजमेष । परापत परगच्छ त्वं हि गर्भस्य दूषकः । यद्यवश्यमागन्तव्यं सपुत्रः पुनरापत पुत्रं गृहीत्वा आगच्छ । आगत्य च अस्यै मे मम स्वभूतायां अस्यां पुत्राकामायां गर्भमाधेहि । कीदृशं? यः पुमान् ॥

०८ व्यस्य योनिम् ...{Loading}...

व्यस्य॒ योनिं॒ प्रति॒ रेतो॑ गृहाण॒
पुमा॑न् पु॒त्रो धी॑यतां॒ गर्भो॑ अ॒न्तः ।
तं मा॒ता द॑श॒मासो॑ बिभर्तु॒
स जा॑यतां वी॒रत॑म॒स् स्वाना॑म् ।

ँश

०८ व्यस्य योनिम् ...{Loading}...

मूलम्

व्यस्य॒ योनिं॒ प्रति॒ रेतो॑ गृहाण॒ पुमा॑न्पु॒त्रो धी॑यतां॒ गर्भो॑ अ॒न्तः ।
तं मा॒ता द॑श॒मासो॑ बिभर्तु॒ स जा॑यतां वी॒रत॑म॒स्स्वाना॑म् ।

हरदत्तः

व्यस्येति ॥ मया निषिच्यमानं रेतः त्वं योनिं व्यस्य विक्षिप्य विवृत्य प्रतिगृहाण । तथा सति ते अन्तः गर्भो धीयतां स च पुमान् पुत्रः धीयताम् । तं च माता त्वं दशमासः । मासशब्दस्य अयं पद्दन् इत्यादिसूत्रेण मासादेशः । दशमासान् बिभर्तु पुरुषव्यत्ययः बिभृहि, स च स्वानां ज्ञातिनां मध्ये वीरतमः भूत्वा जायताम् ॥

०९ आ ते ...{Loading}...

आ ते॒ गर्भो॒ योनि॑म् एतु॒
पुमा॒न् बाण॑ इवेषु॒धिम् ।
आ वी॒रो जा॑यतां
पु॒त्रस् ते॑ दश॒मास्यः॑ ॥

ँश

०९ आ ते ...{Loading}...

मूलम्

आ ते॒ गर्भो॒ योनि॑मेतु॒ पुमा॒न्बाण॑ इवेषु॒धिम् ।
आ वी॒रो जा॑यतां पु॒त्रस्ते॑ दश॒मास्यः॑ ॥ (१३)

हरदत्तः

आ त इति ॥ ते तव योनिं पूमान् गर्भः ऐतु आगच्छतु क इव? वाण इव इषुधिं इषवो यत्र धीयन्ते तं यथा बाणः प्रविशति तद्वत् । यदा चासौ दशमास्यो भवति दशमासभृतो भवति ततः ते पुत्रः वीरः वीर्ययुक्तो भूत्वा आजायताम् ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने त्रयोदशः खण्डः