०१ अपश्यन्त्वा मनसा ...{Loading}...
अप॑श्यन् त्वा॒ मन॑सा॒ चेकि॑तानं॒+++(=जानन्तं)+++
तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
इ॒ह प्र॒जाम् इ॒ह र॒यिꣳ ररा॑णः॒
प्रजा॑यस्व प्र॒जया॑ पुत्रकाम ।
०१ अपश्यन्त्वा मनसा ...{Loading}...
मूलम्
अप॑श्यन्त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
इ॒ह प्र॒जामि॒ह र॒यिꣳ ररा॑णः॒ प्रजा॑यस्व प्र॒जया॑ पुत्रकाम ।
हरदत्तः
अथ वधूर्वरं समीक्षते - अपश्यं त्वेति ॥ अपश्यं त्वा त्वां पश्यामिमनसा हृदयेन सस्नेहं इत्यर्थः चेकितानं जानन्तं मदभिप्रायं तपसः गर्भाधानादेरुपनयनपर्यन्तात् जातं द्विजत्वेन जातं तपसः भिक्षाचर्यादेरध्ययनाङ्गभूतात् विभूतं विभूतिमत्त्वेन निष्पन्नं विभूतिः श्रीः ऋचस्सामानि यजूंषि सा हि श्रीरमृता सताम् इति इह मयि प्रजां इह मम च गृहे रयिं धनं रराणः ददत् प्रजया प्रजायस्व हे पुत्रकाम । यत्प्रजाया जन्म तज्जनाहितुरेव जन्म । श्रूयते हि प्रजामनुप्रजायसे । तदु ते मर्त्यामृतम् इति ॥
०२ अपश्यन्त्वा मनसा ...{Loading}...
अप॑श्यन् त्वा॒ मन॑सा॒ दीध्या॑ना॒ꣳ॒+++(=ध्यायन्तीं)+++
स्वायां॑ त॒नूꣳ+++(न्वां)+++ ऋ॒त्विये॒ +++(काले)+++ नाथ॑मानाम् ।
उप॒ माम् +++(सम्भोगकाले)+++ उ॒च्चा यु॑व॒तिर् बुभू॑याः॒+++(=अनुभूयाः)+++
प्रजा॑यस्व प्र॒जया॑ पुत्रकामे ।+++(४)+++
०२ अपश्यन्त्वा मनसा ...{Loading}...
मूलम्
अप॑श्यन्त्वा॒ मन॑सा॒ दीद्ध्या॑ना॒ꣳ॒ स्वायां॑ त॒नूꣳ ऋ॒त्विये॒ नाथ॑मानाम् ।
उप॒ मामु॒च्चा यु॑व॒तिर्बुभू॑याः॒ प्रजा॑यस्व प्र॒जया॑ पुत्रकामे ।
हरदत्तः
वरो वधूमीक्षते - अपश्यं त्वेति ॥ अपश्यं त्वा त्वां अहं मनसा पश्यामि दीध्यानां ध्यायन्ती वा स्वायां तनूं स्वस्यां तन्वाम् । सप्तम्याः पूर्वसवर्णदीर्घः । तत्र ईदूतौ च सप्तम्यर्थे इति प्रगृह्यसम्यायां सत्यामपि छान्दस ऊकारस्सानुनासिकः । बह्वृचास्तु शुद्धमेवाधीयते । इहापि केचिदूकारात्परमनुस्वारमधीयेते । ऊकारान्तस्तु शुद्धः । ऋत्विये ऋतुकाले भवो गर्भः ऋत्वियः द्वितीयैकवचनस्य शेआदेशः । नाथमानां प्रार्थयमानां स्वे शरीरे मत्तो गर्भं प्रार्थयमानामित्यर्थः । उपेत्ययमनुशब्दस्यार्थे द्रष्टव्यः । मां उच्चा उच्चं सम्भोगकाले उपरि सन्तं युवतिः यौवनावस्थां प्राप्ता त्वं उपबभूयाः अनुभायाः, अनुभूय च प्रजया प्रजायस्व हे पुत्रकामे ॥
०३ समञ्जन्तु विश्वे ...{Loading}...
४७ समञ्जन्तु विश्वे ...{Loading}...
सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः
समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता
समु॒ देष्ट्री॑+++(=दात्री [फलानाम्])+++ दधातु नौ ॥
सम॑ञ्जन्तु॒ विश्वे॑ दे॒वास्
समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता
समु॒ देष्ट्री॑+++(=सरस्वती)+++ दिदेष्टु नौ ।+++(र५)+++
०३ समञ्जन्तु विश्वे ...{Loading}...
मूलम्
सम॑ञ्जन्तु॒ विश्वे॑ दे॒वास्समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दिदेष्टु नौ ।
हरदत्तः
उत्तरयाऽऽज्यशेषेण हृदयदेशौ समनक्ति - समञ्जन्त्विति ॥ नौ आवयोः हदयानि व्यापारबहुत्वात् बहुवचनम् । विश्वे देवाः समञ्जन्तु सस्नेहानि कुर्वन्तु । आपश्च समञ्जन्तु । मातरिश्वा वायुः सोऽपि समनक्तु । धाता समनक्तु समित्यस्य देष्ट्रीत्यनेन सम्बन्धः उकारोनर्थकः संदेष्ट्री अन्तर्भावितण्यर्थोऽयम् । सन्देशस्य कारयित्री । संदेशः परस्परसंभाषणम् । का पुनः संदेष्ट्री? सरस्वती, संभाषणस्य तदायत्तत्वात् । गर्भाधाने च तस्या व्यापारदर्शनात् गर्भंधेहि सरस्वति इति । सा संदेष्ट्री संदिदेष्टु । अयमप्यन्तर्भाषितण्यर्थः । सन्देशं कारयतु नौ आवयोः सम्भोगकालानुरूपं सम्भाषणं सरस्वती कारयत्वित्यर्थः ॥
०४ प्रजापते तन्वम् ...{Loading}...
प्रजा॑पते त॒न्वं॑ मे जुषस्व॒
त्वष्ट॑र् दे॒वेभि॑स् स॒हसा॒म+++(न= सममान)+++ इ॑न्द्र ।
विश्वै॑र् दे॒वै रा॒तिभि॑स् सꣳ ररा॒णः
पु॒ꣳ॒सां ब॑हू॒नां मा॒तर॑स् स्याम ।+++(र४)+++
०४ प्रजापते तन्वम् ...{Loading}...
मूलम्
प्रजा॑पते त॒न्वं॑ मे जुषस्व॒ त्वष्ट॑र्दे॒वेभि॑स्स॒हसा॒म इ॑न्द्र ।
विश्वै॑र्दे॒वैरा॒तिभि॑स्सꣳ ररा॒णः पु॒ꣳ॒सां ब॑हू॒नां मा॒तर॑स्स्याम ।
हरदत्तः
अथ जपः - हे प्रजापते । त्वं मे तन्वं तनूं शरीरं जुषस्व सेवस्व प्रविश । येनाहं रेतस्सेके समर्थस्स्यां आसिञ्चतु प्रजापतिः इति दर्शनात् । हे त्वष्टः त्वमपि मे तन्वं जुषस्व । देवेभिः देवैः देवाः विष्ण्वादयः विष्णुर्योनिं कल्पयतु २ इत्यादिमन्त्रे निर्दिष्टाः तैस्सह । कीदृशस्त्वम्? सहसामः सहेरसानच्, सहसानः तस्यैव छान्दसो नकारस्य मकारः । रूपनिर्माणे समर्थ इत्यर्थः त्वष्टा रूपाणि पिंशतु इति दर्शनात् । हे इन्द्र । त्वमपि मे तन्दं जुषस्व विश्वैः देवैः तव रातिभिः मित्रभूतैः सह संरराणः सम्यगस्मभ्यं अभिमतं ददत् पुंसां बहूनां मातरः पिता मात्रा इति पितुरेकशेषे प्राप्ते मातुरेकशेषः छान्दसः द्वयोश्च बहुवचनम् । मातरौ मातापितरौ स्याम स्वायं? युष्मत्प्रसादादावां बहुपुत्रौ स्यावेत्यर्थः ॥
०५ आ नः ...{Loading}...
४३ आ नः ...{Loading}...
+++(गृहप्रवेशे - )+++
आ नः॑ प्र॒जाञ् ज॑नयतु प्र॒जाप॑तिर्
आजर॒साय॒ +++(स्नेहाय)+++ सम॑नक्त्व् अर्य॒मा ।
अ-दु॑र्-मङ्गलीः पतिलो॒कम् आ वि॑श॒
शन् नो॑ भव द्वि॒पदे॒ शञ् चतु॑ष्पदे ।
०५ आ नः ...{Loading}...
मूलम्
आ नः॑ प्र॒जाञ्ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा ।
अदु॑र्मङ्गलीः पतिलो॒कमा वि॑श॒ शन्नो॑ भव द्वि॒पदे॒ शञ्चतु॑ष्पदे ।
हरदत्तः
आन इति ॥ न इति द्वयोर्बहुवचनम् । प्रजापतिः आवयोः प्रजां आजनयतु । आजरसाय आजरसं आवां समनक्तु सस्नेहौ करोतु अर्यमा आदित्यः । त्वं च अदुर्मङ्गलीः दुष्टानि मङ्गलानि लक्षणानि यस्यास्सा दुर्मङ्गलीः ततोन्या अदुर्मङ्गलीः, छान्दसः सुलोपाभावः । सुमङ्गली भूत्वा पतिलोकं पत्युर्मम लोकं गृहं आविश आवस । शं नः इत्यादि गतम् ॥
०६ ताम् पूषञ्छिवतमा ...{Loading}...
३७ तां पूषञ्छिवतमामेरयस्व ...{Loading}...
तां पू॑षञ् छि॒वत॑मा॒म् एर॑यस्व॒
यस्यां॒ बीजं॑ मनु॒ष्या॑ वप॑न्ति ।
या न॑ ऊ॒रू उ॑श॒ती+++(=कामयमाना)+++ वि॒स्र+++(श्र)+++या॑तै॒+++(=विश्लिष्टौ कुर्यात्)+++
यस्या॑म् उ॒शन्तः॒+++(=कामयमानाः)+++ प्रह॑रेम॒ शेफ॑म् ॥+++(५)+++ (11)
०६ ताम् पूषञ्छिवतमा ...{Loading}...
मूलम्
तां पू॑षञ्छि॒वत॑मा॒ मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॑ वप॑न्ति ।
या न॑ ऊ॒रू उ॑श॒ती वि॒स्रया॑तै॒ यस्या॑मु॒शन्तः॒ प्रह॑रेम॒ शेफ॑म् ॥ (११)
हरदत्तः
तामिति ॥ हे पूरन् । यस्यां मनुष्याः बीजं वपन्ति शुक्ल- मृत्सृजन्ति तां मे शिवतमां अनुकूलतमां कृत्वा एरयस्व प्रेरयस्व भार्यां मे प्रोत्साहयेत्यर्थः । भार्यायां हि बीजं वपन्ति अन्यत्र निषेधात् । सा विशिष्यते - या नः अस्मदो द्वयोश्च इत्येकस्मिन् बहुवचनम् । मह्यं ऊरू या अशती कामयमाना विश्रयातै शकारस्य सकारः छान्दसः पञ्चमी लकारः विश्रयेत विश्लिष्टौ कुर्यात् तदा हि योनिः विवृता भवति यस्यां च एवंभूतायां उशन्तः कामयमाना भूत्वा शेफं शिश्नं प्रहरेम प्रक्षिपेम । पूर्ववद्बहुवचनम् ॥ इति श्रीहरदत्तविरचितैकाग्निकाण्डमन्त्रव्याख्याने एकादशः खण्डः ॥