०१ इह गावः …{Loading}…
इह᳓ गा᳓वः प्र᳓जायध्वम्
इहा᳓श्वा इह᳓ पू᳓रुषाः ।
इहो᳓+++(ह+उ)+++ सह᳓स्र-दक्षिणो
राय᳓स्-पो᳓षो नि᳓षीदतु ।+++(र५)+++
मूलम्
इ॒ह गावः॒ प्रजा॑यद्ध्वमि॒हाश्वा॑ इ॒ह पूरु॑षाः ।
इ॒हो स॒हस्र॑दक्षिणो रा॒यस्पोषो॒ निषी॑दतु ।
हरदत्तः
उत्तरया चर्मण्युपविशतः - इह गाव इति ॥ इह गृहे हे गावः । प्रजायध्वं प्रजाता भवत । इहाश्वाः । इह पूरुषाः प्रजायध्वमित्येव । सर्वत्र आमन्त्रितनिघातः छान्दसत्वान्नभवति । इहो इहैव सहस्रदक्षिणः बहुदानयोग्यः रायस्पोषः धनस्य पोषः निषीदतु ॥
०२ सोमेनादित्या बलिनस्सोमेन …{Loading}…
सो᳓मेनादित्या᳓ बलि᳓नस्
सो᳓मेन पृथिवी᳓ दृढा᳓ ।
अ᳓थो न᳓क्षत्राणाम् एषा᳓म्
उप᳓स्थे सो᳓म आ᳓धि+++(हि)+++तः।
मूलम्
सोमे॑नादि॒त्या ब॒लिन॒स्सोमे॑न पृथि॒वी दृ॒ढा ।
अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आधि॑तः ।
हरदत्तः
अथ या पुमांसमेव सूतवती जीवपुत्रा च, तस्याः पुत्रं वध्वा अङ्के उपवेशयति - सोमेनेति ॥ आदित्याः देवाः सोमेन बलिनः चं? ओषधीनां वृद्धिः ओषधिवृद्धौ याग इति । पृथिवी च सोमेन दृढा ओषधिवनस्पत्यादिभिः । अथो यथा एषां नक्षत्राणां उपस्थे सोम आधितः आहितः एवमयं बालः तवोपस्थे उपविशतु ॥
०३ प्र स्वस्स्थः …{Loading}…
+++(हे फलानि!)+++ प्र᳓ स्व᳓स्+++(=सूताः)+++ स्थः,
प्रे᳓यं᳓ प्रज᳓या भु᳓वने शोचेष्ट+++(=सोषीष्ट, √ सू)+++ ।
मूलम्
प्र स्वस्स्थः॒ प्रेयं प्र॒जया॒ भुव॑ने शोचेष्ट ।
हरदत्तः
तस्मै फलानि प्रयच्छति - प्रस्वः स्थ इति ॥ प्रसूयन्त इति प्रस्वः हे फलानि । यूयं प्रस्वः स्थः प्रसवशीलाः स्थ । छान्दसो विसर्जनीयः, भवथ । इयमपि वधूः भुवने प्रजया अपत्येन प्रशोचेष्ट प्रसोषीष्ट यथा यूयं प्रसवशीलाः स्थ तथेयमपि युष्मत्प्रसादेन प्रसवशीला भवत्वित्यर्थः ॥
०४ इह प्रियम् …{Loading}…
इह᳓ प्रिय᳓म् प्रज᳓या ते स᳓म् ऋध्यताम्
अस्मि᳓न् गृहे᳓ गा᳓र्हपत्याय +++(भावाय)+++ जागृहि +++(अतिथीनामग्नीनां च सेवया)+++।
एना᳓ प᳓त्या तनु᳓वं सं᳓ सृजस्व
अ᳓था जि᳓व्री +++(=जीर्णा)+++ विद᳓थम्+++(=यज्ञं)+++ आ᳓ वदासि +++(पौत्रादिभ्यः)+++।
मूलम्
इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑द्ध्यताम॒स्मिन् गृ॒हे गार्ह॑पत्याय जागृहि ।
ए॒ना पत्या॑ त॒न्वँ॑ सँ सृ॑ज॒स्वाथा॒ जीव्री॑ वि॒दथ॒मा व॑दासि ।
हरदत्तः
उत्तरे जपति - इह प्रियमिति ॥ इह गृहे प्रजया प्रियं ते समृध्यतां प्रीतिस्ते वर्धताम् । अनेन प्रजासम्पत्तिरुक्ता । धर्मसम्पत्ति माह - आस्मिन् गृहे गार्हपत्याय गृहपतिभावाय जागृहि अतिथीनामग्नीनां च परिचरणे अवहिता भव । कामसंपत्तिमाह - एना अनेन पत्या मया तन्वं तनुं शरीरं संसृजस्व संभोगकाले । एवं चिरकालमनुभूय अथ अनन्तरं जीव्री जीर्णाभिधानमिदमिति निरुक्तकार आह आत्वारम्भं “न जीव्रयः” इत्यत्र । जीर्णा सती विदथं यज्ञं तद्विषयं वक्तव्यं पुत्रपौत्रादीनां आवदासि आभिमुख्येन वद इत्यमिदं कर्तव्यमिति ॥
०५ सुमङ्गलीरियं वधूरिमाम् …{Loading}…
सुमङ्गली᳓र् इयं᳓ वधू᳓र्
इमाँ᳓ समेत प᳓श्यत ।
सौ᳓भाग्यम् अस्यै᳓ दत्वा᳓य+++(=दत्वा)+++-
अ᳓था᳓ऽऽस्तं +++(स्वस्वगृहाणि)+++ वि᳓ प᳓रेतन+++(=गच्छत)+++ ।+++(र४)+++
मूलम्
सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒माँ स॑मेत॒ पश्य॑त ।
सौभा॑ग्यम॒स्यै द॒त्वायाथास्तं॒ वि परे॑तन ।
हरदत्तः
सुमङ्गलीरिति ॥ सुमङ्गलीः छान्दसस्सुलोपाभावः । सुमङ्गलीरियं वधूरिति स्वभावकथनम् । एवम्भूतां इमां समेत समागच्छत समेत्य च पश्यत ईक्षध्वं ईक्षकान्प्रति वचनम् । तथा चाश्वलायनः “सुमङ्गलीरियं वधूरिक्षकानीक्षेत” इति । दृष्ट्वा च अस्यै सौभाग्यं दत्वाय दत्वा अथ अनन्तरं अस्तं स्वस्वगृहस्थानं विपरेतन यथेष्टं गच्छत ॥
०६ ध्रुवक्षितिर्द्ध्रुवयोनिर्द्ध्रुवमसि द्ध्रुवतस्स्थितम् …{Loading}…
ध्रुव᳓-क्षितिर् ध्रुव᳓-योनिर्
ध्रुव᳓म् असि ध्रुव᳓तस् स्थित᳓म् ।
त्व᳓न् न᳓क्षत्राणां मेथ्य्+++(=खलेवाली, खले धान्य-पेषण-स्थाने वाल्यन्ते वृषा इति)+++ अ᳓सि
+++(अन्यत्र ध्रुवसम्बन्धे मेढीकृत इति शब्दः प्रयुज्यते पुराणेषु।)+++
स᳓ मा पाहि पृतन्यतः᳓+++(=योद्धुकामात्)+++ ।
मूलम्
ध्रु॒वक्षि॑तिर्द्ध्रु॒वयो॑निर्द्ध्रु॒वम॑सि द्ध्रु॒वत॑स्स्थि॒तम् ।
त्वन्नक्ष॑त्राणां मे॒थ्यसि॒ स मा॑ पाहि पृतन्य॒तः ।
हरदत्तः
ध्रुवं दर्शयति - ध्रुवेति ॥ ध्रुवक्षितिः ध्रुवनिवासः ध्रुवयोनिः ध्रुवोत्पत्तिः अन्येषां नक्षत्राणां ध्रुवतः ध्रुवत्वहेतौ स्थितं स्वयं च ध्रुवं नक्षत्रं त्वमसि । कुत एतत्? त्वं नक्षत्राणां भ्रमतां मेथ्यसि मेथी खलेवाली असि । सा यथा बलीवर्दानां? अनपगमने हेतुः स्थाणुः तथा त्वं नक्षत्राणाम् । य एवम्भूतः स त्वं मा मां पृतन्यतः योद्धुकामात् पाहि ॥
०७ सप्तऋषयः प्रथमाम् …{Loading}…
सप्त-ऋष᳓यः प्रथमां᳓ कृ᳓त्तिकानाम्
अरुन्धती᳓म् य᳓द् ध्रुव᳓ताँ ह᳓ निन्युः᳓।
ष᳓ट् कृ᳓त्तिका-मुख्ययोगं᳓ व᳓हन्ति +++(तस्याम्)+++
+++(वधूर्)+++ इय᳓म् अस्मा᳓कम् एधत्व् अष्टमी᳓ ।+++(र५)+++
मूलम्
स॒प्त॒ऋ॒षयः॑ प्रथ॒मां कृत्ति॑कानामरुन्ध॒तीम् ।
यद्ध्रु॒वताँ॒ ह नि॒न्युष्षट्कृत्ति॑कामुख्ययो॒गं वह॑न्ती॒यम॒स्माक॑मेधत्वष्ट॒मी ।
हरदत्तः
अरुन्धतीं दर्शयति - सप्तेति ॥ सप्तर्षयः काश्यपदायः तेषां कृत्तिका नाम भार्याः सप्त । तासामरुन्धती नाम सप्तमी पतिव्रता प्रधानभूता निश्चला च । इतरा व्यभिचारशङ्कया त्यक्ता इत्यैतिहासिकाः स्मरन्ति । तदिदमुच्यते सप्तर्षयः काश्यपादयः कृत्तिकानां प्रथमां अग्रगण्यां अरुन्धतीं यत् यदा ध्रुवतां निश्चलतां होति प्रसिद्धिं दर्शयति निन्युः नयन्ति स्म । यदिति वचनात् ददेति अध्याहार्यम् । तदा इतराः षट्कृत्तिकाः अरुन्धत्यां मुख्ययोगं प्रधानभावं वहन्ति आवहन् अभ्युपगतवत्यः । तस्याः अरुन्धत्याः दर्शनेन इयं वधूः अस्माकं अस्मदो द्वयोश्च इत्येकस्मिन् बहुवचनम् मम अष्टमी भूत्वा एधतु वर्धताम् अहं सप्तर्षीणामष्टमस्थानीयो भूयासम् इयमपि कृत्तिकादीनामष्ठमस्थानीया भूयादित्यर्थः ॥
०८ सदसस्पतिमद्भुतम् प्रियमिन्द्रस्य …{Loading}…
स᳓दसस्प᳓तिम् अ᳓द्भुतं
प्रिय᳓म् इ᳓न्द्रस्य का᳓म्यम् ।
सनिं᳓ +++(=दानरूपम्)+++ मेधा᳓म् अयासिषम् ६
मूलम्
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् ।
सनिं॑ मे॒धाम॑यासिषम् ।
हरदत्तः
उपाकरण समापनयोः काण्डर्षीणां स्विष्टकृत्-स्थानीयः होमः सदसस्पतिम् इति ॥ सदः यज्ञगृहं तस्य पतिः सदसस्पतिः । कोसौ? अग्निः, स हि सर्व-यज्ञानाम् अधिपतिः देवतान्तरं वा । तं सदसस्पतिं अद्भुतं महन्नामैतत् महान्तं अद्भुतकर्माणं वा, प्रियं इन्द्रस्य सोमपानार्थिन इन्द्रस्याग्निः प्रियो भवति तदायत्तत्वाद्यज्ञानाम्, काम्यं प्रार्थ्यं स्तोतृणां? एवम्भूतं सदसस्पतिं सनिं दानं मेधां प्रज्ञां त अयासिषं याच्नाकर्मायं वर्तमाने लुङ्, याचामि ॥
०९ उद्दीप्यस्व जातवेदोऽपघ्नन्निर्ऋतिम् …{Loading}…
उ᳓द्दीप्यस्व जातवेदो
अपघ्न᳓न् नि᳓रृतिं म᳓म ।
पशूँ᳓श् च म᳓ह्यम् आ᳓ वह
जी᳓वनञ् च दि᳓शो दिश ।+++(र५)+++
मूलम्
उद्दी॑प्यस्व जातवेदोऽप॒घ्नन्निर्ऋ॑तिं॒ मम॑ ।
प॒शूँश्च॒ मह्य॒मा व॑ह॒ जीव॑नञ्च॒ दिशो॑ दश(/दिश) ।
हरदत्तः
स्वयं प्रज्वलितेग्नौ समिदाधानम् - उद्दीप्यस्वेति ॥ हे जातवेदः । मम निर्ऋतिं हिंसकवर्गं अपघ्नन् तस्य अपहतिं कुर्वन् उद्दीप्यस्व । किञ्च - पशूंश्च मह्यं आवह आनय । जीवनं च आवह । दिशश्च दश आवह वशीकुर्वित्यर्थः । दिशेति पाठे, दिश अतिसर्जने, दिशः सर्वाः जीवनं दिस जीवनत्वेन देहीति, जीवनरूपेण मे दिशो देहीत्यर्थः ।
१० मा नो …{Loading}…
मा᳓ नो हिँसीज् जातवेदो
गा᳓म् अ᳓श्वं पु᳓रुषञ् ज᳓गत् ।
+++(परहवींष्य्)+++ अ᳓बिभ्रद्+++(न्)+++ अ᳓ग्न आ᳓गहि+++(=आगच्छ)+++,
श्रिया᳓ मा प᳓रिपातय ॥ (9)
मूलम्
मा नो॑ हिँसीज्जातवेदो॒ गामश्वं॒ पुरु॑ष॒ञ्जग॑त् ।
अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय ॥ (९)
हरदत्तः
मा न इति ॥ हे जातवेदाः । नः आस्माकं सम्बन्धिनं मा हिंसीत् । पुरुषव्यत्ययः । मा हिंसीः । किम्? गामश्वं पुरुषं जगत् यच्चान्यज्जङ्गमम् । किञ्च - हे अग्ने । अबिभ्रत् अन्येषां हविर्वहनमकुर्वन् अस्मान्प्रति आगहि आगच्छ । आगत्य च श्रिया मा मां परिपातय परिगमय सर्वतश्श्रियया समृद्धं कुरु ॥
इति श्रीहरदत्तविरचिते एकाग्निकण्डमन्वव्याख्याने नवमः खण्डः