०१ शर्म वर्मेदमाहरास्यै ...{Loading}...
शर्म॒ वर्मे॒दम् आह॑रा॒+
ऽस्यै नार्या॑ उप॒स्तिरे॑+++(=उपस्तरणे)+++ ।
सिनी॑वालि॒+++(=शुक्लप्रथमाकला)+++ प्रजा॑यताम्
इ॒यं भग॑स्य सुम॒ताव् अ॑सत् ।
०१ शर्म वर्मेदमाहरास्यै ...{Loading}...
मूलम्
शर्म॒ वर्मे॒दमाह॑रा॒स्यै नार्या॑ उप॒स्तिरे॑ ।
सिनी॑वालि॒ प्रजा॑यतामि॒यं भग॑स्य सुम॒ताव॑सत् ।
हरदत्तः
चर्मास्तरणम् - शर्म सुखं वर्म तनुत्राणं एवम्भूतं इदं चर्मआहर । किमर्थम्? अस्यै अस्या नार्याः उपस्तिरे उपस्तरणार्थम् । कृत्येऽर्थे केन्प्रत्ययः । दृष्टेन्दुरमावास्या सिनीवाली । हे सिनीवालि इयं वधूः प्रजायतां प्रजावती भूयात् । भगस्य च देवस्य सुमतौ अनुग्रहात्मिकायां बुद्धौ अन्नत्? स्यात् भवतु सोऽपि त्वत्प्रसादात् इमामनु गृह्णात्वित्यर्थः ॥
०२ गृहान्भद्रान्त्सुमनसः प्रपद्येऽवीरघ्नी ...{Loading}...
गृ॒हान् भ॒द्रान्त् सु॒मन॑सः॒ प्रप॒द्ये
ऽवी॑रघ्नी वी॒रव॑तस् सु॒वीरान्॑ ।
इरां॒+++(=अन्नं)+++ वह॑तो घृ॒तम् +++(प्र+)+++उ॒क्षमा॑णा॒स्
तेष्व् अ॒हꣳ सु॒मना॒स् सं वि॑शामि ।+++(र५)+++
०२ गृहान्भद्रान्त्सुमनसः प्रपद्येऽवीरघ्नी ...{Loading}...
मूलम्
गृ॒हान्भ॒द्रान्त्सु॒मन॑सः॒ प्रप॒द्येऽवी॑रघ्नी वी॒रव॑तस्सु॒वीरान्॑ ।
इरां॒ वह॑तो घृ॒तमु॒क्षमा॑णा॒स्तेष्व॒हꣳ सु॒मना॒स्सं वि॑शामि ।
हरदत्तः
गृहान् प्रपादयन् वधूं वाचयति - गृहान् अहं प्रपद्ये । कीदृशान्? भद्रान् मनोज्ञान् समुनसः गृहेषु अवस्थिताः श्वश्र्वादयः वधूं दृष्ट्वा सुमनसो भवन्तीति गृहास्सुमनस इत्याह । अवीरघ्नी वीराः पुत्राः अतद्धननस्वभावा अहं वीरवतो देवरादिपुत्रैस्तद्वतः सुवीरान् शोभनरक्षकपुरुषयुक्तान् इरां अन्नं वहतो घृतमुक्षमाणाः ब्राह्मणेषु भुञ्जानेषु यत्र घृतमुक्ष्यते तत इतस्सिच्यते ते गृहा उच्यन्ते घृतमुक्षमाणा इति । द्वितीयार्थे प्रथमा । प्रपद्य च तेषु एवम्भूतेषु गृहेषु अहं सुमनाः भूत्वा संविशामा ।
०३ आगन्गोष्ठम् महिषी ...{Loading}...
आग॑न् गो॒ष्ठं महि॑षी॒ गोभि॒र् अश्वै॒र्
आयु॑ष्मत्पत्नी, प्र॒जया॑ स्व॒र्वित् +++(यतो “नापुत्रस्य लोकोस्ति”)+++।
ब॒ह्वीं प्र॒जाञ् ज॒नय॑न्ती सुरत्ने॒-
-मम् अ॒ग्निꣳ श॒त-हि॑मास् +++(शतवर्षाणि)+++ सपर्यात्+++(=परिचरतु)+++ ।
०३ आगन्गोष्ठम् महिषी ...{Loading}...
मूलम्
आग॑न्गो॒ष्ठं महि॑षी॒ गोभि॒रश्वै॒रायु॑ष्मत्पत्नी प्र॒जया॑ स्व॒र्वित् ।
ब॒ह्वीं प्र॒जाञ्ज॒नय॑न्ती सुरत्ने॒मम॒ग्निꣳ श॒तहि॑मास्सपर्यात् ।
हरदत्तः
अथोत्तरे त्रयोदश होममन्त्राः- आगन्निति ॥ आगन् आगतवती गोष्ठं गृहं महिषी मम वल्लभा भार्या गोभिः अश्वैश्च पितृकुल लब्धैस्सह आयुष्मान्पतिर्यस्याः सा आयुष्मत्पत्नी अनेनात्मन आयुराशास्ते । प्रजया अपत्येन स्वर्वित् स्वर्गस्य लब्ध्री नापुत्रस्य लोकोस्ति इति प्रजयेत्युक्तम् । तत्र विशेषविधिः बह्वीं प्रजां जनयन्ती सुरत्ना । शोभनधना भूत्वा इममग्निं औपासनाग्निं शतहिमाः शतं संवत्सरान् सपर्यात् परिचरतु अत्रेयं योग्या भवत्वित्यर्थः ॥
०४ अयमग्निर्गृहपतिस्सुसंसत्पुष्टिवर्द्धनः ...{Loading}...
अ॒यम् अ॒ग्निर् गृ॒ह-प॑तिस्+++(!)+++
सुस॒ꣳ॒सत्+++(=शोभनसदनः)+++ पु॑ष्टि॒वर्द्ध॑नः ।
यथा॒ भग॑स्या॒+++(=भगाय)+++ऽऽभ्यां दद॑द्
र॒यिं पुष्टि॒म् अथो॑ प्र॒जाम् ।
०४ अयमग्निर्गृहपतिस्सुसंसत्पुष्टिवर्द्धनः ...{Loading}...
मूलम्
अ॒यम॒ग्निर्गृ॒हप॑तिस्सुस॒ꣳ॒सत्पु॑ष्टि॒वर्द्ध॑नः ।
यथा॒ भग॑स्या॒भ्यां दद॑द्र॒यिं पुष्टि॒मथो॑ प्र॒जाम् ।
हरदत्तः
अयमग्निः औपासनोऽग्निः गृहपतिः मदीयस्य गृहस्य पालयिता सुसंशत् शोभनसदनः पुष्टिवर्धनः मम पुष्टिवर्धनः मम पुष्टेर्वर्धयिता श्रियमिच्छेद्धुताशनात् इति वचनात् । एवम्भूतोग्निः आभ्यां आवाभ्यां दम्पतिभ्यां रयिं धनं पुष्टिं अधो? प्रजां च ददत् दद्यात् । घोर्लोपो लेटि वा । यथा भगस्य भगाय देवाय दत्तवान् । भगग्रहणमुपलक्षणं यथा देवेभ्य इत्यर्थः । देवानामपि हि कर्मजाः सिद्धयः ॥
०५ प्रजाया आभ्याम् ...{Loading}...
प्र॒जाया॑ आभ्यां प्रजापत॒
इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ।
यथैन॑यो॒र् न प्र॑मी॒याता॑+++(य्)+++
उ॒भयो॒र् जीव॑तोः प्र॒जा ।
०५ प्रजाया आभ्याम् ...{Loading}...
मूलम्
प्र॒जाया॑ आभ्यां प्रजापत॒ इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ।
यथैन॑यो॒र्न प्र॑मी॒याता॑ उ॒भयो॒र्जीव॑तोः प्र॒जा ।
हरदत्तः
प्रजायै आभ्यां अनयोर्दम्पत्योः या प्रजा तस्यै हे प्रजा तस्यै हे प्रजापते । शर्म यच्छ इति विपरिणामेन सम्बन्धः । हे इन्द्राग्नी । युवां च शर्म यच्छतं यथा एनयोः उभयोः जीवतोः सतोः प्रजा न प्रमीयातै न प्रमीयेत तथा शर्म यच्छतम् ।
०६ तेन भूतेन ...{Loading}...
मन्त्रः
०१ तेन भूतेन ...{Loading}...
तेन॑ भू॒तेन॑ ह॒विषा॒यमा प्या॑यतां॒ पुनः॑।
जा॒यां याम॑स्मा॒ आवा॑क्षु॒स्तां रसे॑ना॒भि व॑र्धताम् ॥
०६ तेन भूतेन ...{Loading}...
मूलम्
तेन॑ भू॒तेन॑ ह॒विषा॒ऽयमा प्या॑यतां॒ पुनः॑ ।
जा॒यां याम॑स्मा॒ आवा॑क्षु॒स्ताꣳ रसे॑ना॒भि व॑र्द्धताम् ।
हरदत्तः
तेनेति ॥ यदिदं मया हूयते तेन भूतेन प्राप्तेन वा हविषा अयं जनः आप्यायतां पुनः वीप्सालोपोत्र द्रष्टव्यः पुनः पुनः । किञ्चअस्मै मह्यं यां जायां आवाक्षुः आवहन् दत्तवन्तः तां रसेन आज्यादिना अभिवर्धतां अभिवर्धयत्वयं जनः ॥
०७ अभिवर्द्धताम् पयसाऽभि ...{Loading}...
अ॒भिव॑र्द्धतां॒ पय॑सा॒
ऽभि रा॒ष्ट्रेण॑ वर्द्धताम् ।
र॒य्या स॒हस्र॑पोषसे॒-
मौ स्ता॒म् अन॑पेक्षितौ ।+++(र४)+++
०७ अभिवर्द्धताम् पयसाऽभि ...{Loading}...
मूलम्
अ॒भिव॑र्द्धतां॒ पय॑सा॒ऽभि रा॒ष्ट्रेण॑ वर्द्धताम् ।
र॒य्या स॒हस्र॑पोषसे॒मौ स्ता॒मन॑पेक्षितौ ।
हरदत्तः
अभीति ॥ तथा इयं अभिवर्धतां पयसा, राष्ट्रेण गृहक्षेत्रादिना च अभिवर्धताम् । तथा सहस्रपोषसा बहूनां पोषयित्र्या रय्या धनेन इमौ दम्पती अनपेक्षितौ स्तां यथा अनयोरन्यत्रापेक्षा न भवति तथा धनवृद्धिरस्तु ।
०८ इहैव स्तम् ...{Loading}...
इ॒हैव स्तं॒ मा वियो॑ष्टं॒
विश्व॒म् आयु॒र् व्य॑श्नुतम् ।
म॒ह्या+++(य्)+++ इ॑न्द्रस् स्व॒स्तये॑ +++(ऽस्तु)+++ ।+++(र४)+++
०८ इहैव स्तम् ...{Loading}...
मूलम्
इ॒हैव स्तं॒ मा वियो॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् ।
म॒ह्या इ॑न्द्रस्स्व॒स्तये॑ ।
हरदत्तः
इहैषेति ॥ आत्मन एवेदमन्तरात्मानं प्रति वचनम् । हे आवयोरन्तरात्मानौ । इहैव गृहे स्तं भवतं मावियोष्टं कदाचिदपि वियुक्तौ मा भूतम्, विश्वमायुः स ह षोडशं वर्षशतमजीवत् इति श्रुत्युक्तं व्यश्नुतं प्राप्नुतम् । इन्द्रश्च युवयोः मह्यै महत्यै स्वस्तये भवतु ॥
०९ ध्रुवैधि पोष्या ...{Loading}...
ध्रु॒वैधि पो॑ष्या॒ मयि॒
मह्य॑न् त्वा ऽदा॒द् बृह॒स्पतिः॑ ।
मया॒ पत्या॑ प्र॒जाव॑ती॒
सं जी॑व श॒रद॑श्श॒तम् ।+++(र४)+++
०९ ध्रुवैधि पोष्या ...{Loading}...
मूलम्
ध्रु॒वैधि पो॑ष्या॒ मयि॒ मह्य॑न्त्वाऽदा॒द्बृह॒स्पतिः॑ ।
मया॒ पत्या॑ प्र॒जाव॑ती॒ सं जी॑व श॒रद॑श्श॒तम् ।
हरदत्तः
ध्रुवैवीति ॥ हे वधु । मम पोष्या त्वं मयि ध्रुव निश्चला एधि भव । मह्यं त्वा त्वां अदात् बृहस्पतिः । सा त्वं मया पत्या सह प्रजावती भूत्वा सञ्जीव शरदश्शतं बहून् वत्सरान् ॥
१० त्वष्टा जायामजनयत् ...{Loading}...
त्वष्टा॑ जा॒याम् अ॑जनय॒त्
+++(“त्वष्टा रुपाणि पिंशतु” इति गर्भाधाने)+++
त्वष्टा॑ ऽस्यै॒+++(स्याः)+++ त्वां पति॑म् ।
त्वष्टा॑ स॒हस्र॒म् आयूꣳ॑षि
दी॒र्घम् आयुः॑ कृणोतु वाम् ।
१० त्वष्टा जायामजनयत् ...{Loading}...
मूलम्
त्वष्टा॑ जा॒याम॑जनय॒त् त्वष्टा॑ऽस्यै॒ त्वां पति॑म् ।
त्वष्टा॑ स॒हस्र॒मायूꣳ॑षि दी॒र्घमायुः॑ कृणोतु वाम् ।
हरदत्तः
त्वष्टेति । यावच्छो वै रेतसः स्सिक्तस्य त्वष्टा रूपाणि विकरोति त्वष्टा रुपाणि पिंशतु इति च रूपनिर्माणे कर्तृत्वेन श्रुतो यः त्वष्टा स त्वष्टा इमां जायां अजनयत् । तथा अस्यै अस्याः त्वां पतिं च त्वष्टा एवाजनयत् हे मदीयान्तरात्मन् । स एव त्वष्टा वां युवयोः अन्तरात्मनोः सहस्रमायूंषि बहूनि अन्ननि दीर्घमायुश्च कृणोतु करोतु ॥
१९ इमं मे ...{Loading}...
इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥
019 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
इम꣡म् मे वरुण श्रुधी
ह꣡वम् अद्या꣡ च मॄळय+
तुवा꣡म् अवस्यु꣡र् आ꣡ चके
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
imám ← ayám (pronoun)
{case:ACC, gender:M, number:SG}
me ← ahám (pronoun)
{case:DAT, number:SG}
śrudhi ← √śru- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}
adyá ← adyá (invariable)
{}
ca ← ca (invariable)
{}
hávam ← háva- (nominal stem)
{case:NOM, gender:M, number:SG}
mr̥ḷaya ← √mr̥ḍ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
avasyúḥ ← avasyú- (nominal stem)
{case:NOM, gender:M, number:SG}
cake ← √kā- (root)
{number:SG, person:1, mood:IND, tense:PRF, voice:MED}
tvā́m ← tvám (pronoun)
{case:ACC, number:SG}
पद-पाठः
इ॒मम् । मे॒ । व॒रु॒ण॒ । श्रु॒धि॒ । हव॑म् । अ॒द्य । च॒ । मृ॒ळ॒य॒ ।
त्वाम् । अ॒व॒स्युः । आ । च॒क्रे॒ ॥
Hellwig Grammar
- imam ← idam
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- me ← mad
- [noun], genitive, singular
- “I; mine.”
- varuṇa
- [noun], vocative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- śrudhī ← śru
- [verb], singular, Aorist imperative
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- havam ← hava
- [noun], accusative, singular, masculine
- “invocation.”
- adyā ← adya
- [adverb]
- “now; today; then; nowadays; adya [word].”
- ca
- [adverb]
- “and; besides; then; now; even.”
- mṛḍaya ← mṛḍay ← √mṛḍ
- [verb], singular, Present imperative
- “pardon.”
- tvām ← tvad
- [noun], accusative, singular
- “you.”
- avasyur ← avasyuḥ ← avasyu
- [noun], nominative, singular, masculine
- “seeking protection; helpless.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- cake ← kan
- [verb], singular, Perfect indicative
- “like; delight; desire.”
सायण-भाष्यम्
हे वरुण मे मदीयम् इमं हवम् आह्वानं श्रुधि ऋणु । किं च अद्य अस्मिन् दिने मृळय अस्मान् सुखय । अवस्युः रक्षणेच्छुः अहं त्वां वरुणम् आभिमुख्येन चके शब्दयामि स्तौमीत्यर्थः ॥ श्रुधि । ‘श्रु श्रवणे ‘। लोटो हिः । ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि ’ इति हेर्धिरादेशः । ‘बहुलं छन्दसि ’ इति विकरणस्य लुक् । अन्येषामपि दृश्यते ’ इति संहितायां दीर्घः । अवस्युः । अवस् शब्दात् ‘सुप आत्मनः क्यच् । ‘क्याच्छन्दसि’ इति उप्रत्ययः । आ चके । ‘कै गै शब्दे ’ । अस्मात् लिटि ‘आदेचः’ (पा. सू. ६. १. ४५ ) इति आत्वम् । द्विर्भावचुत्वे । ‘आतो लोप इटि च । ( पा. सू. ६. ४. ६४ ) इति आकारलोपः। ‘तिङ्ङतिङः’ इति निघातः ॥
हरदत्तः
इमं मे वरुण इति ॥ हे वरुण । इमं मे हवं आह्वानं श्रुधि शृणु । श्रुत्वा च अद्या च अद्यैव मृडय सुखय यस्मात् त्वां अहं अवस्युः पालनकाम आचके आगायामि स्तुवे ॥
Wilson
English translation:
“Hear, Varuṇa, this my invocation; make us this day happy; I have appealed to you, hoping for protection.”
Jamison Brereton
Now hear my call, Varuṇa, and today have mercy.
It is you whom I desire, seeking help.
Griffith
Varuna, hear this call of mine: be gracious unto us this day
Longing for help I cried to thee.
Geldner
Erhör, o Varuna, diesen Ruf von mir und sei heut barmherzig! Nach dir verlange ich hilfesuchend.
Grassmann
O höre heute meinen Ruf und sei mir gnädig, Varuna; Schutzsuchend sehn’ ich mich nach dir.
Elizarenkova
Услышь, о Варуна, этот зов мой
И будь милостив сегодня!
К тебе я стремлюсь в поисках помощи.
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वरुण) सब से उत्तम विपश्चित् ! (अद्य) आज (अवस्युः) अपनी रक्षा वा विज्ञान को चाहता हुआ मैं (त्वाम्) आपकी (आ चके) अच्छी प्रकार प्रशंसा करता हूँ, आप (मे) मेरी की हुई (हवम्) ग्रहण करने योग्य स्तुति को (श्रुधि) श्रवण कीजिये तथा मुझको (मृळय) विद्यादान से सुख दीजिये॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे परमात्मा जो उपासकों द्वारा निश्चय करके सत्य भाव और प्रेम के साथ की हुई स्तुतियों को अपने सर्वज्ञपन से यथावत् सुन कर उनके अनुकूल स्तुति करनेवालों को सुख देता है, वैसे विद्वान् लोग भी धार्मिक मनुष्यों की योग्य प्रशंसा को सुन सुखयुक्त किया करें॥१९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वरुण विद्वन् ! अद्यावस्युरहं त्वामाचके प्रशंसामि त्वं मे मम हवं श्रुधि शृणु, मां च मृळय॥१९॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इमम्) प्रत्यक्षमनुष्ठितम् (मे) मम (वरुण) सर्वोत्कृष्टजगदीश्वर विद्वन् वा (श्रुधी) शृणु। अत्र बहुलं छन्दसि श्नोर्लुक् श्रुशृणुपॄकृवृभ्यश्छन्दसि (अष्टा०६.४.१०२) इति हेर्द्ध्यादेशो अन्येषामपि इति दीर्घश्च। (हवम्) आदातुमर्हं स्तुतिसमूहम् (अद्य) अस्मिन् दिने (च) समुच्चये (मृळय) सुखय (त्वाम्) विद्वांसम् (अवस्युः) आत्मनो रक्षणं विज्ञानं चेच्छुः (आ) समन्तात् (चके) प्रशंसामि॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथेश्वरः खलूपासकैः सत्यप्रेम्णा यां प्रयुक्तां स्तुतिं सर्वज्ञतया यथावच्छ्रुत्वा तदनुकूलतया स्तावकेभ्यः सुखं प्रयच्छति, तथैव विद्वद्भिरपि भवितव्यम्॥१९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसा परमात्मा उपासकांद्वारे निश्चयाने, सत्य प्रेमाने केलेली स्तुती आपल्या सर्वज्ञतेने योग्य रीतीने ऐकून अनुकूल स्तुती करणाऱ्यांना सुख देतो तसे विद्वान लोकांनीही धार्मिक माणसांची योग्य प्रशंसा ऐकून त्यांना सुखी करावे. ॥ १९ ॥