०१-०३ सोमाय जनिविदे ...{Loading}...
मन्त्रः
सोमा॑य जनि॒+++(=जाया)+++विदे॒ स्वाहा॑ ।
ग॒न्ध॒र्वाय॑ जनि॒विदे॒ स्वाहा॑ ।
अ॒ग्नये॑ जनि॒विदे॒ स्वाहा॑ ।
०१-०३ सोमाय जनिविदे ...{Loading}...
मूलम्
सोमा॑य जनि॒विदे॒ स्वाहा॑ ।
ग॒न्ध॒र्वाय॑ जनि॒विदे॒ स्वाहा॑ ।
अ॒ग्नये॑ जनि॒विदे॒ स्वाहा॑ ।
हरदत्तः
उत्तरे षोडश प्रधानाहुतिमन्त्राः-सोमाय जनिविदे वधूं लब्धवते । गन्धर्वाय जनिविदे । अग्नये ॥
०४ कन्यला पितृभ्यो ...{Loading}...
क॒न्य॒ला+++(=कन्यैव, लशब्द उपजनः)+++ पि॒तृभ्यो॑ य॒ती+++(=गच्छन्ती)+++ प॑तिलो॒कम्
अव॑+++(उपसर्गः)+++ +++(कन्या)+++दी॒क्षाम् अ॑दास्थ॒+++(=अवक्षपितवती त्यक्तवती)+++ स्वाहा॑ ।
+++(दीङ् क्षये। तकारस्य थकारः छान्दसः)+++
०४ कन्यला पितृभ्यो ...{Loading}...
मूलम्
क॒न्य॒ला पि॒तृभ्यो॑ य॒तीप॑ति लो॒कमव॑ दी॒क्षाम॑दास्थ॒ स्वाहा॑ ।
हरदत्तः
कन्यालेति ॥ कन्यैव कन्यला लशब्दः उपजनः । पितृभ्यः पितृकुलात् पतिलोकं पतिकुलं यती गच्छन्ती दीक्षां कन्यकाव्रतं अवादास्थ दीङ् क्षये इस्यस्यान्तर्भावितव्यर्थस्य लुङि प्रथमपुरुषैकवचने रूपं, तकारस्य थकारः छान्दसः, अवक्षपितवती त्यक्तवतीत्यर्थः ॥
०५ प्रेतो मुञ्चाति ...{Loading}...
प्रेतो मु॒ञ्चाति॒, नाऽमुत॑स्+++(=पतिलोकात्)+++
सुब॒द्धाम् अ॒मुत॑स् करत्+++(=कुरु)+++ ।
यथे॒यम् इ॑न्द्र मीढ्वस्+++(=वर्षक इन्द्र)+++
सुपु॒त्रा सु॒भगा ऽस॑ति+++(=स्यात्)+++ ।+++(र५)+++
०५ प्रेतो मुञ्चाति ...{Loading}...
मूलम्
प्रेतो मु॒ञ्चाति॒ नामुत॑स्सुब॒द्धाम॒मुत॑स्करत् ।
यथे॒यमि॑न्द्र मीढ्वस्सुपु॒त्रा सु॒भगाऽस॑ति ।
हरदत्तः
प्रेत इति । इन्द्रः प्रार्थ्यते “इन्द्र मीढ्वः” इत्यामन्त्रितयोगात् । पुरुषव्यत्ययः । हे इन्द्र । मीढ्वः । वर्षेण शेक्तः । इमां वधूं इतः पितृकुलात् प्रमुञ्चाति प्रमुञ्च नामुतः न पतिकुलात्, किन्तु सुबद्धाममुतस्करत् अमुष्मिन् पतिकुले सुबद्धां सुष्ठु बद्धां करत् कुरु । यथेयं सुबद्धा सती सुपुत्रा सुभगा च असति स्यात् ॥
०६ इमान्त्वमिन्द्र मीढ्वस्सुपुत्राम् ...{Loading}...
इ॒मान् त्वम् इ॑न्द्र मीढ्वस्+++(=वर्षक इन्द्र)+++
सुपु॒त्राꣳ सु॒भगां॑ कुरु ।
दशा॑ऽस्यां पु॒त्रान् आ धे॑हि॒
पति॑म् एकाद॒शं कृ॑धि ।+++(५)+++
०६ इमान्त्वमिन्द्र मीढ्वस्सुपुत्राम् ...{Loading}...
मूलम्
इ॒मान्त्वमि॑न्द्र मीढ्वस्सुपु॒त्राꣳ सु॒भगां॑ कुरु । दशा॑स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ।
हरदत्तः
इमामिति ॥ त्वमिन्द्र । मीढ्वः । इमां वधूं सुपुत्रां सुभगां च कृणु कुरु । अस्यां दश पुत्रानाधेहि स्थापय पति मां एकादशं कृधि कुरु ॥
०७ अग्निरैतु प्रथमो ...{Loading}...
अ॒ग्निर् ऐ॑तु प्रथ॒मो दे॒वता॑ना॒ꣳ॒
सो॑ऽस्यै प्र॒जां मु॑ञ्चतु मृत्युपा॒शात् ।
तद॒यꣳ राजा॒ वरु॒णो ऽनु॑मन्यतां॒
यथे॒य२ꣳ स्त्री पौत्र॑म् अ॒घन्+++(=पापजं व्यसनम्)+++ न रोदा॑त् ।+++(र५)+++
०७ अग्निरैतु प्रथमो ...{Loading}...
मूलम्
अ॒ग्निरै॑तु प्रथ॒मो दे॒वता॑ना॒ꣳ॒ सो॑ऽस्यै प्र॒जां मु॑ञ्चतु मृत्युपा॒शात् ।
तद॒यꣳ राजा॒ वरु॒णोनु॑मन्यतां॒ यथे॒य२ꣳ स्त्री पौत्र॑म॒घन्न रोदा॑त् ।
हरदत्तः
अग्निरिति ॥ अग्निरैतु अग्निरागच्छतु । कीदृशः? देवतानां प्रथमः । आगत्य च सः अस्यै अस्याः प्रजां मृत्युपाशान्मुञ्चतु । अयं च वरुणो राजा तत् अग्निना क्रियमाणं अनुमन्यताम् । यथा मोचने सति इयं स्री पौत्रं पुत्रनिमित्तं अघं व्यसनमुद्दिश्य न रोदात् न रुध्यात् ॥
०८ इमामग्निस्त्रायताङ् गार्हपत्यः ...{Loading}...
इ॒माम् अ॒ग्निस् त्रा॑यतां॒ गार्ह॑पत्यः
प्र॒जाम् अ॑स्यै नयतु दी॒र्घम् आयुः॑ ।
अशू॑न्योपस्था॒+++(!)+++, जीव॑ताम् अस्तु मा॒ता
पौत्र॑मान॒न्दम् अ॒भि प्रबु॑द्ध्यताम् इ॒यम् ।+++(५)+++
०८ इमामग्निस्त्रायताङ् गार्हपत्यः ...{Loading}...
मूलम्
इ॒माम॒ग्निस्त्रा॑यतां॒ गार्ह॑पत्यः प्र॒जाम॑स्यै नयतु दी॒र्घमायुः॑ ।
अशू॑न्योपस्था॒ जीव॑तामस्तु मा॒ता पौत्र॑मान॒न्दम॒भि प्रबु॑द्ध्यतामि॒यम् ।
हरदत्तः
इमामिति । इमां वधूं अग्निस्रायतां रक्षतु गार्हपत्यः गृहपतिसंयुक्तौ वैवाहिकोग्निः । न केवलमिमामेव त्रायतां, अस्यै अस्याः प्रजां च दीर्घमायुर्नयतु । किं बहुना? अशून्योपस्था पुत्रमण्डितोत्सङ्ग जीवतां च पुत्राणां मातास्तु पौत्रं पुत्रनिमितं च आनन्दं अभिप्रबुध्यतां स्वापात्प्रबुध्यमाना पौत्रमानन्दं प्रति बुध्यतां इयं वधूः ॥
०९ मा ते ...{Loading}...
मा ते॑ गृ॒हे नि॒शि +++(रोदन)+++घोष॒ उत्था॑द्
अ॒न्यत्र॒ त्वद्+++(=त्वत्तः)+++ रु॑द॒त्य॑स् सव्ँ वि॑शन्तु ।
मा त्वं वि॑के॒श्य् उर॒ आवधि॑ष्ठा+++(=आताडयेः)+++ जी॒वप॑त्नी
पतिलो॒के विरा॑ज॒ पश्य॑न्ती प्र॒जाꣳ सु॑मन॒स्यमा॑नाम् ।+++(५)+++
०९ मा ते ...{Loading}...
मूलम्
मा ते॑ गृ॒हे नि॒शि घोष॒ उत्था॑द॒न्यत्र॒ त्वद्रु॑द॒त्य॑स्सव्ँ वि॑शन्तु ।
मा त्वं वि॑के॒श्युर॒ आवधि॑ष्ठा जी॒वप॑त्नी पतिलो॒के विरा॑ज॒ पश्य॑न्ती प्र॒जाꣳ सु॑मन॒स्यमा॑नाम् ।
हरदत्तः
मा ते गृहे इति ॥ हे वधु । त्वदीथे गृहे निशि घोषः आर्त प्रलापः मोत्थात् मा प्रादुर्भूत् । रुदत्यः सर्वाः त्वत्तः अन्यत्र संविशन्तु । त्वं च विकेशी विशीर्णकेशा भूत्वा उरो मा वधिष्ठाः उरस्ताडनं मा कार्शषिः तन्निमित्तं ते मा भूत् । तदाह - जीवपत्नी जीवः पतिर्यस्यास्सा जीवपत्नी पतिलोके पतिगृहे विराज दीप्यस्व प्रजां च सुमनस्यमानां पश्यन्ती । पतिवियोगः पुत्रवियोगो वा रोदननिमित्तं, तदुभयं ते मा भूदित्यर्थः ॥
१० द्यौस्ते पृष्ठम् ...{Loading}...
द्यौस्ते॑ पृ॒ष्ठꣳ र॑क्षतु
वा॒युर् ऊ॒रू
अ॒श्विनौ॑ च॒ स्तन॒न्
+++(स्तनं)+++ धय॑न्तꣳ+++(=चूसन्तम्)+++ सवि॒ताऽभि र॑क्षतु ।+++(५)+++
आ वास॑सः परि॒धाना॒द् +++(परि॑ त्वा गिर्-वणो॒ इत्यादिना)+++ बृह॒स्पति॒र्,
विश्वे॑ दे॒वा अ॒भिर॑क्षन्तु प॒श्चात् ।
१० द्यौस्ते पृष्ठम् ...{Loading}...
मूलम्
द्यौस्ते॑ पृ॒ष्ठꣳ र॑क्षतु वा॒युरू॒रू अ॒श्विनौ॑ च॒ स्तन॒न्धय॑न्तꣳ सवि॒ताऽभि र॑क्षतु ।
आ वास॑सः परि॒धाना॒द्बृह॒स्पति॒र्विश्वे॑ दे॒वा अ॒भिर॑क्षन्तु प॒श्चात् ।
हरदत्तः
द्यौस्ते पृष्ठं इति ॥ तव पृष्ठं पृष्ठभागं द्यौः रक्षतु । वायुरूरू रक्षतु । अश्विनौ च स्तनं स्तनौ रक्षताम् । धयन्तं पुत्रं सविताभिरक्षतु । त्वां च आ वाससः परिधानात् यत्तद्वाससः परिधानं “परित्वा गिर्वणो गिरः” इति आ तस्मात् बृहस्पती रक्षतु । पश्चात्तु विश्वे देवा अभिरक्षन्तु ॥
११ अप्रजस्ताम् पौत्र ...{Loading}...
अ॒प्र॒ज॒स्तां पौ॑त्र मृ॒त्युं
पा॒प्मान॑म् उ॒त वा॒ ऽघम् ।
शी॒र्ष्णस् स्रज॑म् इवो॒न्मुच्य॑
द्वि॒षद्भ्यः॒ प्रति॑मुञ्चामि॒ पाश॑म् । +++(५)+++
११ अप्रजस्ताम् पौत्र ...{Loading}...
मूलम्
अ॒प्र॒ज॒स्तां पौ॑त्र मृ॒त्युं पा॒प्मान॑मु॒त वा॒ऽघम् ।
शी॒र्ष्णस्स्रज॑मिवो॒न्मुच्य॑ द्वि॒षद्भ्यः॒ प्रति॑मुञ्चामि॒ पाश॑म् ।
हरदत्तः
अप्रजस्तां इति ॥ न विद्यते प्रजा यस्यास्सा अप्रजाः तस्या भावः अप्रजस्ता तां पौत्रमृत्युं पुत्रसम्बन्धि मरणं पाप्मानं पापं उत वा आय वा अघं पपानिमित्तं व्यसनं एतत्सर्वं च त्वत्तः स उन्मुच्य ते द्विषद्भयः पाशं प्रतिमुञ्चामि यथा शीर्ष्णस्स्रजं उन्मुच्य वृक्षादिषु प्रतिमुञ्चन्ति तद्वत् ॥
१९ इमं मे ...{Loading}...
इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥
019 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
इम꣡म् मे वरुण श्रुधी
ह꣡वम् अद्या꣡ च मॄळय+
तुवा꣡म् अवस्यु꣡र् आ꣡ चके
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
imám ← ayám (pronoun)
{case:ACC, gender:M, number:SG}
me ← ahám (pronoun)
{case:DAT, number:SG}
śrudhi ← √śru- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}
adyá ← adyá (invariable)
{}
ca ← ca (invariable)
{}
hávam ← háva- (nominal stem)
{case:NOM, gender:M, number:SG}
mr̥ḷaya ← √mr̥ḍ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
avasyúḥ ← avasyú- (nominal stem)
{case:NOM, gender:M, number:SG}
cake ← √kā- (root)
{number:SG, person:1, mood:IND, tense:PRF, voice:MED}
tvā́m ← tvám (pronoun)
{case:ACC, number:SG}
पद-पाठः
इ॒मम् । मे॒ । व॒रु॒ण॒ । श्रु॒धि॒ । हव॑म् । अ॒द्य । च॒ । मृ॒ळ॒य॒ ।
त्वाम् । अ॒व॒स्युः । आ । च॒क्रे॒ ॥
Hellwig Grammar
- imam ← idam
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- me ← mad
- [noun], genitive, singular
- “I; mine.”
- varuṇa
- [noun], vocative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- śrudhī ← śru
- [verb], singular, Aorist imperative
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- havam ← hava
- [noun], accusative, singular, masculine
- “invocation.”
- adyā ← adya
- [adverb]
- “now; today; then; nowadays; adya [word].”
- ca
- [adverb]
- “and; besides; then; now; even.”
- mṛḍaya ← mṛḍay ← √mṛḍ
- [verb], singular, Present imperative
- “pardon.”
- tvām ← tvad
- [noun], accusative, singular
- “you.”
- avasyur ← avasyuḥ ← avasyu
- [noun], nominative, singular, masculine
- “seeking protection; helpless.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- cake ← kan
- [verb], singular, Perfect indicative
- “like; delight; desire.”
सायण-भाष्यम्
हे वरुण मे मदीयम् इमं हवम् आह्वानं श्रुधि ऋणु । किं च अद्य अस्मिन् दिने मृळय अस्मान् सुखय । अवस्युः रक्षणेच्छुः अहं त्वां वरुणम् आभिमुख्येन चके शब्दयामि स्तौमीत्यर्थः ॥ श्रुधि । ‘श्रु श्रवणे ‘। लोटो हिः । ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि ’ इति हेर्धिरादेशः । ‘बहुलं छन्दसि ’ इति विकरणस्य लुक् । अन्येषामपि दृश्यते ’ इति संहितायां दीर्घः । अवस्युः । अवस् शब्दात् ‘सुप आत्मनः क्यच् । ‘क्याच्छन्दसि’ इति उप्रत्ययः । आ चके । ‘कै गै शब्दे ’ । अस्मात् लिटि ‘आदेचः’ (पा. सू. ६. १. ४५ ) इति आत्वम् । द्विर्भावचुत्वे । ‘आतो लोप इटि च । ( पा. सू. ६. ४. ६४ ) इति आकारलोपः। ‘तिङ्ङतिङः’ इति निघातः ॥
हरदत्तः
इमं मे वरुण इति ॥ हे वरुण । इमं मे हवं आह्वानं श्रुधि शृणु । श्रुत्वा च अद्या च अद्यैव मृडय सुखय यस्मात् त्वां अहं अवस्युः पालनकाम आचके आगायामि स्तुवे ॥
Wilson
English translation:
“Hear, Varuṇa, this my invocation; make us this day happy; I have appealed to you, hoping for protection.”
Jamison Brereton
Now hear my call, Varuṇa, and today have mercy.
It is you whom I desire, seeking help.
Griffith
Varuna, hear this call of mine: be gracious unto us this day
Longing for help I cried to thee.
Geldner
Erhör, o Varuna, diesen Ruf von mir und sei heut barmherzig! Nach dir verlange ich hilfesuchend.
Grassmann
O höre heute meinen Ruf und sei mir gnädig, Varuna; Schutzsuchend sehn’ ich mich nach dir.
Elizarenkova
Услышь, о Варуна, этот зов мой
И будь милостив сегодня!
К тебе я стремлюсь в поисках помощи.
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वरुण) सब से उत्तम विपश्चित् ! (अद्य) आज (अवस्युः) अपनी रक्षा वा विज्ञान को चाहता हुआ मैं (त्वाम्) आपकी (आ चके) अच्छी प्रकार प्रशंसा करता हूँ, आप (मे) मेरी की हुई (हवम्) ग्रहण करने योग्य स्तुति को (श्रुधि) श्रवण कीजिये तथा मुझको (मृळय) विद्यादान से सुख दीजिये॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे परमात्मा जो उपासकों द्वारा निश्चय करके सत्य भाव और प्रेम के साथ की हुई स्तुतियों को अपने सर्वज्ञपन से यथावत् सुन कर उनके अनुकूल स्तुति करनेवालों को सुख देता है, वैसे विद्वान् लोग भी धार्मिक मनुष्यों की योग्य प्रशंसा को सुन सुखयुक्त किया करें॥१९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वरुण विद्वन् ! अद्यावस्युरहं त्वामाचके प्रशंसामि त्वं मे मम हवं श्रुधि शृणु, मां च मृळय॥१९॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इमम्) प्रत्यक्षमनुष्ठितम् (मे) मम (वरुण) सर्वोत्कृष्टजगदीश्वर विद्वन् वा (श्रुधी) शृणु। अत्र बहुलं छन्दसि श्नोर्लुक् श्रुशृणुपॄकृवृभ्यश्छन्दसि (अष्टा०६.४.१०२) इति हेर्द्ध्यादेशो अन्येषामपि इति दीर्घश्च। (हवम्) आदातुमर्हं स्तुतिसमूहम् (अद्य) अस्मिन् दिने (च) समुच्चये (मृळय) सुखय (त्वाम्) विद्वांसम् (अवस्युः) आत्मनो रक्षणं विज्ञानं चेच्छुः (आ) समन्तात् (चके) प्रशंसामि॥१९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथेश्वरः खलूपासकैः सत्यप्रेम्णा यां प्रयुक्तां स्तुतिं सर्वज्ञतया यथावच्छ्रुत्वा तदनुकूलतया स्तावकेभ्यः सुखं प्रयच्छति, तथैव विद्वद्भिरपि भवितव्यम्॥१९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसा परमात्मा उपासकांद्वारे निश्चयाने, सत्य प्रेमाने केलेली स्तुती आपल्या सर्वज्ञतेने योग्य रीतीने ऐकून अनुकूल स्तुती करणाऱ्यांना सुख देतो तसे विद्वान लोकांनीही धार्मिक माणसांची योग्य प्रशंसा ऐकून त्यांना सुखी करावे. ॥ १९ ॥
११ तत्त्वा यामि ...{Loading}...
तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः ॥
011 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
त꣡त् त्वा यामि ब्र꣡ह्मणा व꣡न्दमानस्
त꣡द् आ꣡ शास्ते य꣡जमानो हवि꣡र्भिः
अ꣡हेळमानो वरुणेह꣡ बोधि
उ꣡रुशंस मा꣡ न आ꣡युः प्र꣡ मोषीः
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
bráhmaṇā ← bráhman- (nominal stem)
{case:INS, gender:N, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
vándamānaḥ ← √vandⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
yāmi ← √yā- 2 (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
havírbhiḥ ← havís- (nominal stem)
{case:INS, gender:N, number:PL}
śāste ← √śās- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
yájamānaḥ ← √yaj- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
áheḷamānaḥ ← áheḷamāna- (nominal stem)
{case:NOM, gender:M, number:SG}
bodhi ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
ihá ← ihá (invariable)
{}
varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}
ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}
mā́ ← mā́ (invariable)
{}
moṣīḥ ← √muṣⁱ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
prá ← prá (invariable)
{}
úruśaṁsa ← uruśáṁsa- (nominal stem)
{case:VOC, gender:M, number:SG}
पद-पाठः
तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ ।
अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस । मा । नः॒ । आयुः॑ । प्र । मो॒षीः॒ ॥
Hellwig Grammar
- tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- yāmi ← yā
- [verb], singular, Present indikative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- brahmaṇā ← brahman
- [noun], instrumental, singular, neuter
- “brahman; mantra; prayer; spell; Veda; Brahmin; sacred text; final emancipation; hymn; brahman [word]; Brāhmaṇa; study.”
- vandamānas ← vandamānaḥ ← vand
- [verb noun], nominative, singular
- “worship; laud.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- śāste ← śās
- [verb], singular, Present indikative
- “teach; govern; command; order; control; tell; recommend; chastize; instruct.”
- yajamāno ← yajamānaḥ ← yajamāna
- [noun], nominative, singular, masculine
- “Yajamāna.”
- havirbhiḥ ← havis
- [noun], instrumental, plural, neuter
- “Havya; offering; ghee; havis [word].”
- aheḍamāno ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- aheḍamāno ← heḍamānaḥ ← hīḍ
- [verb noun], nominative, singular
- “anger; stew.”
- varuṇeha ← varuṇa
- [noun], vocative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- varuṇeha ← iha
- [adverb]
- “here; now; in this world; now; below; there; here; just.”
- bodhy ← bodhi ← bhū
- [verb], singular, Aorist imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- uruśaṃsa ← uru
- [noun]
- “wide; broad; great; uru [word]; much(a); excellent.”
- uruśaṃsa ← śaṃsa
- [noun], vocative, singular, masculine
- “praise; śaṃs; recitation.”
- mā
- [adverb]
- “not.”
- na ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- āyuḥ ← āyus
- [noun], accusative, singular, neuter
- “life; longevity; āyus; life; āyus [word]; Āyus.”
- pra
- [adverb]
- “towards; ahead.”
- moṣīḥ ← muṣ
- [verb], singular, Aorist inj. (proh.)
- “rob; remove; steal.”
सायण-भाष्यम्
हे वरुण मुमूर्षुरहं त्वां प्रति तत् आयुः यामि याचे । कीदृशः । ब्रह्मणा प्रौढेन स्तोत्रेण वन्दमानः स्तुवन् । सर्वत्र यजमानः अपि हविर्भिः तत् आयुः आ शास्ते प्रार्थयते। त्वं च इह कर्मणि अहेळमानः अनादरमकुर्वन् बोधि अस्मदपेक्षितं बुध्यस्व । हे उरुशंस बहुभिः स्तुत्य नः अस्मदीयम् आयुः मा प्र मोषीः प्रमुषितं मा कुरु । सप्तदशसंख्याकेषु याञ्चाकर्मसु ’ ईमहे यामि ’ ( नि. ३.१९. १) इति पठितम् । चाशब्दलोपश्छान्दसः ॥ अहेळमानः । ’ हेडृ अनादरे ’ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे सति धातुस्वरः शिष्यते । ततो नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधि । ’ बुध अवगमने ’ । लोटः सेर्हिः । ’ बहुलं छन्दसि ’ इति विकरणस्य लुक् । ’ वा छन्दसि ’ ( पा सू ३.४. ८८) इति अपित्त्वाभावेन ङित्त्वाभावात् लघू- पधगुणः । ’ हुझल्म्यो हेर्धिः ’ इति हेर्धिरादेशः । धातोरन्त्यलोपश्छान्दसः । मोषीः । ’ मुष स्तेये ’ । लोडर्थे छान्दसो लुङ् । ’ वदव्रज’ ’ ( पा. सू ७.२. ३) इति प्राप्ताया वृद्धेः ’ नेटि ’ ( पा. सू ७ २. ४) इति प्रतिषेधे सति लघूपधगुणः । ’ बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः ॥
Wilson
English translation:
“Praising you with (devout) prayer, I implore you for that (life) which the instrumental tutor of the sacrifice solicits with oblations; Varuṇa, undisdainful, bestow a thought upon us; much-lauded, take not away our existence.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The term, tadāyus is supplied in the context of māna āyuḥ pramoṣiḥ = do not take away our life
Jamison Brereton
Extolling you with my formulation, I implore this of you; with his offerings the sacrificer hopes for this:
Become no longer angry now, Varuṇa! O you of wide fame, do not steal away our lifetime!
Griffith
I ask this of thee with my prayer adoring; thy worshipper craves this with his oblation.
Varuna, stay thou here and be not angry; steal not our life from us, O thou Wide-Ruler.
Geldner
Das erbitte ich, mit beschwörendem Worte freundlich zuredend, das wünscht sich der Opfernde mit seinen Opferspenden: Sei hier ohne Groll, Varuna! Du, dessen Worte weithin gelten, raub uns nicht das Leben!
Grassmann
Dies bitt’ ich dich, verehrend mit Gebeten, und darum wirbt mit Opfertrank der Opfrer: O Varuna, sei bei uns ohne Zürnen, weitherrschender, verkürz nicht unser Leben.
Elizarenkova
Вот зачем я иду к тебе, почитая (тебя) молитвой,
Вот чего хочет для себя жертвователь с жертвенными возлияниями:
Будь здесь, Варуна, не гневающимся!
О ты с широкой славой, не отними у нас срок жизни!
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह वरुण कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (उरुशंस) सर्वथा प्रशंसनीय (वरुण) जगदीश्वर ! जिस (त्वा) आपका आश्रय लेके (यजमानः) उक्त तीन प्रकार यज्ञ करनेवाला विद्वान् (हविर्भिः) होम आदि साधनों से (तत्) अत्यन्त सुख की (आशास्ते) आशा करता है, उन आप को (ब्रह्मणा) वेद से स्मरण और अभिवादन तथा (अहेळमानः) आपका अनादर अर्थात् अपमान नहीं करता हुआ मैं (यामि) आपको प्राप्त होता हूँ, आप कृपा करके मुझे (इह) इस संसार में (बोधि) बोधयुक्त कीजिये और (नः) हमारी (आयुः) उमर (मा) (प्रमोषीः) मत व्यर्थ खोइये अर्थात् अति शीघ्र मेरे आत्मा को प्रकाशित कीजिये॥१॥११॥(तत्) सुख की इच्छा करता हुआ (यजमानः) तीन प्रकार के यज्ञ का अनुष्ठान करनेवाला जिस (उरुशंस) अत्यन्त प्रशंसनीय (वरुण) सूर्य को (आशास्ते) चाहता है (त्वा) उस सूर्य्य को (ब्रह्मणा) वेदोक्त क्रियाकुशलता से (वन्दमानः) स्मरण करता हुआ (अहेळमानः) किन्तु उसके गुणों को न भूलता और (इह) इस संसार में (तत्) उक्त सुख की इच्छा करता हुआ मैं (यामि) प्राप्त होता हूँ कि जिससे यह (उरुशंस) अत्यन्त प्रशंसनीय सूर्य्य हमको (बोधि) विदित होकर (नः) हम लोगों की (आयुः) उमर (मा) (प्रमोषीः) न नष्ट करे अर्थात् अच्छे प्रकार बढ़ावे॥२॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को वेदोक्त रीति से परमेश्वर और सूर्य को जानकर सुखों को प्राप्त होना चाहिये और किसी मनुष्य को परमेश्वर वा सूर्य विद्या का अनादर न करना चाहिये, सर्वदा ईश्वर की आज्ञा का पालन और उसके रचे हुए जो कि सूर्यादिक पदार्थ हैं, उनके गुणों को जानकर उनसे उपकार लेके अपनी उमर निरन्तर बढ़ानी चाहिये॥११॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे उरुशंस वरुण ! यं त्वामाश्रित्य यजमानो हविर्भिस्तदाशास्ते, तं त्वा ब्रह्मणा वन्दमानोऽहेळमानोऽहं यामि कृपया त्वं मह्यमिह बोधि विदितो भव, नोऽस्माकमायुर्मा प्रमोषीरित्येकः॥१॥११॥तत्सुखमिच्छन् यजमानो यमुरुशंसं वरुणमाशास्ते, यं ब्रह्मणा वन्दमानोऽहेडमान- स्तत्सुखमिच्छन्नहं यामि प्राप्नोमि, स उरुशंसो वरुणोऽस्माभिर्बोधि विदितो भवतु, यतोऽयं नोऽस्माकमायुर्मा प्रमोषीर्मा विनाशयेदिति द्वितीयः॥११॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स वरुणः कीदृश इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तत्) सुखम् (त्वा) त्वां वरुणं प्राप्तुं तं सूर्यं वा (यामि) प्राप्नोमि (ब्रह्मणा) वेदेन (वन्दमानः) स्तुवन्नभिगायन् (तत्) सुखम् (आ) अभितः (शास्ते) इच्छति (यजमानः) त्रिविधस्य यज्ञस्यानुष्ठाता (हविर्भिः) हवनादिभिः साधनैः (अहेळमानः) अनादरमकुर्वाणः (वरुण) जगदीश्वर ! वायुर्वा। (इह) अस्मिन् संसारे (बोधि) विदितो भव विदितगुणो वा भवति। अत्र लोडर्थे लडर्थे च लुङडभावश्च। (उरुशंस) बहुभिः शस्यते यस्तत्सम्बुद्धौ पक्षे सूर्यो वा (मा) निषेधार्थे (नः) अस्माकम् (आयुः) वयः (प्र) प्रकृष्टार्थे (मोषीः) नाशय विनाशयेद्वा। अत्र लोडर्थे लिङर्थे च लुङडभावोऽन्तर्गतो ण्यर्थश्च॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैर्वेदोक्तरीत्या परमेश्वरं सूर्यं च विज्ञाय सुखं प्राप्तव्यम्। नैव केनचित् परमेश्वरोऽनादरणीयः सूर्यविद्या च सर्वदेश्वराज्ञापालनं तत्सृष्टपदार्थानां गुणान् विदित्वोपस्कृत्य चायुषो वृद्धिर्नित्यं कर्तव्येति॥२॥११॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी वेदोक्त रीतीने परमेश्वर व सूर्याला जाणून सुख प्राप्त करून घ्यावे. कोणत्याही माणसाने परमेश्वर व सूर्यविद्येचा अनादर करू नये. सदैव ईश्वराच्या आज्ञेचे पालन करून त्याने निर्माण केलेल्या सूर्य इत्यादी पदार्थांना त्यांच्या गुणांसह जाणून त्यांचा उपयोग करून घ्यावा व आपले आयुष्य निरंतर वाढवावे. ॥ ११ ॥
१४ त्वन्नो अग्ने ...{Loading}...
०४ त्वं नो ...{Loading}...
त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो+++(=क्रोधो )+++ ऽव॑ यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
यजि॑ष्ठो॒ +++(हविर्)+++वह्नि॑तम॒श् शोशु॑चानो॒+++(=देदीप्यमानः)+++
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।
१४ त्वन्नो अग्ने ...{Loading}...
मूलम्
त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ।
हरदत्तः
त्वं नो अग्ने इति ॥ हे अग्ने । विद्वान् सर्वस्य वेदिता त्वं नः अस्माकमुपरि देवस्य वरुणस्य यत् हेडः क्रोधः तत् अवयासिसीष्ठाः यातेर्यसेर्पजतेर्वा आशिषि लिङि रुपमेतच्छान्दसम् । अर्थस्तावदयं अवयक्षीष्ठाः अवाचीनं यथा भवति तथा यक्षीष्ठाः इति । यजिष्ठः अतिशयेन यष्टा बह्वितमः अतिशयेन वोढा हविषां शोशुचानः देदीप्यमानः विश्वा विश्वानि अस्माद्विषयाणि शत्रूणां द्वेषांसि द्वेषविषयाणि फलानि वधबन्धनादीनि प्रमुमुग्धि प्रमुञ्च अस्मत् अस्मतः ॥
१५ स त्वन्नो ...{Loading}...
०५ स त्वं ...{Loading}...
स त्वन् नो॑ अग्ने ऽव॒मो+++(=मूलभूतो)+++ भ॑व॒+ऊ॒ती+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
नेदि॑ष्ठो+++(=अन्तिकतमो)+++ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ+++(=व्युष्टायाम्)+++ ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि+++(=खाद)+++ मृ॑डी॒कँ+++(=सुखयितारं [हविः])+++ सु॒हवो॑ न एधि ।
+++(अग्नीवरुणाभ्याम् इदं न मम)+++
१५ स त्वन्नो ...{Loading}...
मूलम्
स त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
अव॑ यक्ष्व नो॒ वरु॑णम् ररा॑णो वी॒हि मृ॑डी॒कँ सु॒हवो॑ न एधि ।
हरदत्तः
सत्वं इति ॥ हे अग्ने । यः एवमुक्तगुणः सत्वं अवमो मूलभूतो देवानां “अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम् । नः अस्माकं ऊती ऊत्या पालनेन अवमा भव नेदिष्ठः अन्तिकतमो भव । कदा? अस्या उषसो व्युष्टौ । व्युच्छतेः क्तिन् । अस्यामुषसि व्युष्टायाम् । उपलक्षणं चैतत् सर्वदेत्यर्थः । अवयक्ष्व अवाचीनो यथा भवति तथा यक्ष्व । कं? वरुणं अस्मासु पाशान् मुमुक्षुं, नः अस्मभ्यं रराणः इष्टानि ददत् वीहि खाद मृडीकं सुखयितारं पुरोडाशादिकं अस्माभिर्दत्तम् । नः अस्माकं सुहवः सुष्ठु हवः आह्वानं यस्य सः सुहवः एधि भव । नः अस्मान् एधि वर्धय ॥
१६ त्वमग्ने अयाऽस्यया ...{Loading}...
त्वम् अ॑ग्ने अ॒या+++(=एतव्यः/ प्रत्येता)+++ ऽस्य्
अ॒या सन् मन॑सा हि॒तः ।
अ॒या सन् ह॒व्यम् ऊ॑हिषे॒
ऽया नो॑ धेहि भेष॒जम् ॥ (4)
१६ त्वमग्ने अयाऽस्यया ...{Loading}...
मूलम्
त्वम॑ग्ने अ॒याऽस्य॒या सन्मन॑सा हि॒तः ।
अ॒या सन् ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जम् ॥ (४)
हरदत्तः
त्वमग्ने इति ॥ हे अग्ने । त्वमयासिऽ अया असि । छान्दसस्सवर्णदीर्घः इणोऽसुन्प्रत्ययः । भक्तानामेतव्यः भक्तान्वा प्रत्येता अया सन् अयास्सन् । छान्दसस्सकारलोपः । एवंभूतस्त्वमस्माभिः मनसा हितः प्रणिहितः असीत्यनुषङ्गः, त्वां वयं मनसि प्रणिदध्महे इत्यर्थः । अया सन् अयास्सन् । पूर्ववत्सलोपः । हव्यं अस्माभिर्दत्तं ऊहिषे देवेभ्यो वहस्व स त्वं अयाः नः अस्माकं भेषजं देहि ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने चतुर्थः खण्डः।