०१ सोमः प्रथमो ...{Loading}...
४० सोमः प्रथमो ...{Loading}...
सोमः॑ प्रथ॒मो वि॑विदे +++(लेभे)+++
गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।
तृ॒तीयो॑ अ॒ग्निष् टे॒ पति॑स्
तु॒रीय॑स्ते मनुष्य॒जाः ।+++(र५)+++
०१ सोमः प्रथमो ...{Loading}...
मूलम्
सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।
तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ।
हरदत्तः
आज्यभागान्ते उत्तराभ्यामभिमन्त्रणम् - सोमः प्रथम इति ॥ सोमः प्रथमः त्वां विविदे लब्धवान् । तत उत्तरो गन्धर्वः विश्वावसुः विविदे । तृतीयस्त्वग्निस्ते तव पतिः । मनुष्यजाः मनुष्यजातस्त्वहं ते तुरीयः चतुर्थः पतिः ॥
०२ सोमोऽददद्गन्धर्वाय गन्धर्वोऽदददग्नये ...{Loading}...
४१ सोमो ददद्गन्धर्वाय ...{Loading}...
सोमो॑ऽददद् गन्ध॒र्वाय॑
गन्ध॒र्वो ऽद॑दद् अ॒ग्नये॑ ।
र॒यिञ् च॑ पु॒त्राꣳश् चा॑दाद्
अ॒ग्निर् मह्य॒म् अथो॑ इ॒माम् ।
०२ सोमोऽददद्गन्धर्वाय गन्धर्वोऽदददग्नये ...{Loading}...
मूलम्
सोमो॑ऽददद्गन्ध॒र्वाय॑ गन्ध॒र्वोऽद॑दद॒ग्नये॑ ।
र॒यिञ्च॑ पु॒त्राꣳश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ।
हरदत्तः
एष एवार्थः किञ्चिद्विशेषेणोच्यते - सोमोस् दददिति ॥ सोमो ददत् अदात् दद्याद्वा (रयिं धनम्) ॥ गन्धर्वाय । गन्धर्वः अग्नये । अग्निः रयिं धनं पुत्रांश्व इमां त्वां च मह्यमदात् ॥
०३ गृभ्णामि ते ...{Loading}...
३६ गृभ्णामि ते ...{Loading}...
गृ॒भ्णा+++(ह्णा)+++मि॑ ते सुप्रजा॒स्त्वाय॒ हस्तं॒
मया॒ पत्या॑ ज॒रद॑ष्टि॒र् यथा ऽसः॑ ।
भगो॑ अर्य॒मा स॑वि॒ता पुर॑न्धि॒र् +++(=बहुप्रज्ञा बहुकर्मा वा)+++
मह्य॑न् त्वा ऽदु॒र् गार्ह॑पत्याय+++(=गार्हस्थ्याय)+++ देवाः ।+++(र५)+++
०३ गृभ्णामि ते ...{Loading}...
मूलम्
गृ॒भ्णामि॑ ते सुप्रजा॒स्त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथाऽसः॑ ।
भगो॑ अर्य॒मा स॑वि॒ता पुर॑न्धि॒र्मह्य॑न्त्वाऽदु॒र्गार्ह॑पत्याय देवाः ।
हरदत्तः
यद्योगाद्विवाहे पाणिग्रहणशब्दः तत्र मन्त्राश्चत्वारः - गृभ्णामि त इति ॥ ते तव हस्तं अहं गृभ्णामि गृह्णामि । किमर्थं? सुप्रजास्त्वाय शोभनाः प्रजाः यस्यास्सा सुप्रजाः तस्या भावः सुप्रजासत्वं, छान्दसो दीर्धः, तस्मै । किञ्च - मया पत्या सह यथा त्वं जरदष्टिः अ सः स्याः तथा गृह्णामि । जरावस्थायाः प्राप्तिः (तस्याः प्रकाशनं वा) यस्यास्सा जरदष्टिः । पुरन्धिः पुरुधीः बहुप्रज्ञा वहुकर्मा वा, भगादीनां चैतत्प्रत्येकं विशेषणम् । अन्ये तु - इन्द्रस्याभिधानं मन्यन्ते । भगादयो देवाः मह्यं त्वा अदुः दत्तवन्तः किमर्थं? मम गार्हपत्याय गार्हस्थ्याय ॥
०४ ते ह ...{Loading}...
ते +++(भगादयः)+++ ह॒ पूर्वे॒ जना॑सो॒
यत्र॑ +++(गार्हस्थ्ये)+++ पूर्व॒-वहो॑+++(=पूर्वविवाहकृतः)+++ हि॒ताः ।
मू॒र्द्ध॒न्वान्+++(=प्राधान्यवान् [अग्निः])+++ यत्र॑ सौभ्र॒वः +++(=सुभ्रुवा अदितेः पुत्रः)+++
पूर्वो॑ दे॒वेभ्य॒ आऽत॑पत् ।
०४ ते ह ...{Loading}...
मूलम्
ते ह॒ पूर्वे॒ जना॑सो॒ यत्र॑ पूर्व॒वहो॑ हि॒ताः ।
मू॒र्द्ध॒न्वान् यत्र॑ सौभ्र॒वः पूर्वो॑ दे॒वेभ्य॒ आऽत॑पत् ।
हरदत्तः
ते हेति ॥ हशब्दो निरर्थकः । ते भगादयः पूर्वे जनासः पूर्वे जनाः पूर्ववहः आदिकाले विवाहस्य कर्तारः यत्र गार्हस्थ्ये हिताः स्थिताः ।यत्र च सौभ्रवो मूर्धन्वान् स्थितः पूर्वे देवेभ्यः देवानां प्रथमः आस्तपत् आ समन्तात् अतपत् । सुभ्रूः अदितिः शोभने भ्रुवौ यस्यास्सा सुभ्रूः तस्याः अपत्यं सौभ्रवः आदित्यः । मूर्धा शिरः तेन प्राधान्यं लक्ष्यते मूर्धन्वान् प्राधान्यवान् । अग्निर्वा सौभ्रवः स च मूर्धन्वान् अग्निर्मूर्धा इत्यस्यामृचि स्तुतः । तथा चाश्वलायनः - अग्निर्मूर्धन्वान्विराजौ संयाज्ये इति । पूर्वो देवेभ्य इति च सुसङ्गतम् । अग्निर्मुखं प्रथमो देवतानाम् इति मन्त्रान्तरे दर्शनात् । ते भगादयः यत्र स्थिताः तस्मै गार्हपत्याय मह्यं त्वामदुः तस्मात्ते इस्तं गृह्णामीति योज्यम् ॥
०५ सरस्वति प्रेदमव ...{Loading}...
सर॑स्वति॒ प्रेदम् अ॑व॒
सुभ॑गे॒ वाजि॑नी+++(=अन्नक्रिया/स्तुति)+++वति ।
तां त्वा॒ विश्व॑स्य
भू॒तस्य॑ प्र॒-गाया॑मस्य् +++(“इदन्तो मसि”)+++ अग्र॒तः ।
०५ सरस्वति प्रेदमव ...{Loading}...
मूलम्
सर॑स्वति॒ प्रेदम॑व॒ सुभ॑गे॒ वाजि॑नीवति ।
तां त्वा॒ विश्व॑स्य भू॒तस्य॑ प्र॒गाया॑मस्यग्र॒तः ।
हरदत्तः
सरस्वतीति ॥ हे सरस्वति । त्वं च इदं पाणिग्रहणं प्रेध प्रकर्षेण रक्ष । हे सुभगे । वाजिनीवति ।? वाजोस्न्नं तद्वत्क्रियावति । (स्तुतिर्वा वाजिनी तद्वति हविर्भिस्स्तुतिभिश्च तद्वति) । तां त्वा वयं विश्वस्य भूतस्य सर्वेषामेव अग्रतः प्रगायामसि प्रगायामः प्रकर्षेण स्तुमः “इदन्तो मसि” ॥
०६ य एति ...{Loading}...
य एति॑ प्र॒दिश॒स् सर्वा॒
दिशोऽनु॒ पव॑मानः ।
हिर॑ण्यहस्त ऐर॒म्मस्+++(=अग्निः)+++
+++(इरा अन्नं तां मिमीते करोतीतीरंमः अग्निः)+++
स त्वा॒ मन्म॑नसं+++(!)+++ कृणोतु ।
०६ य एति ...{Loading}...
मूलम्
य एति॑ प्र॒दिश॒स्सर्वा॒ दिशोऽनु॒ पव॑मानः ।
हिर॑ण्यहस्त ऐर॒म्मस्स त्वा॒ मन्म॑नसं कृणोतु ।
हरदत्तः
यएतीति ॥ एष एवमानः सर्वा दिशः प्रदिशश्चान्वेति अनुक्रमेणैति हिरण्यहस्तः भक्तेभ्यो देयं हिरण्यं हस्ते यस्य सः हिरण्यहस्तः ऐरंमः इराअन्नं तां मिमीते करोतीतीरंमः अग्निः तस्यायं सखा । ऐरंमः वायुसखा इति ह्यग्निमुपचरन्ति, य एवंभूतो वायुः सः त्वा त्वां मन्मनसं मयि मनो यस्यास्सा मन्मनाः तादृशीं कुणोतु करोतु ॥
०७-१३ एकमिषे विष्णुस्त्वाऽन्वेतु ...{Loading}...
एक॑म् - इ॒षे+++(=अन्नाय)+++ विष्णु॒स्त्वाऽन्वे॑तु ।+++(५)+++
द्वे - ऊ॒र्जे+++(=बलाय)+++ विष्णु॒स्त्वाऽन्वे॑तु ।
त्रीणि॑ - व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
च॒त्वारि॒ - मायो॑+++(=सुख)+++भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
पञ्च॑ - प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
षड् - रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु ।
स॒प्त - +++(यज्ञेषु)+++ स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
+++(होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाच्छावाक आग्नीध्र इत्येतास्सप्त होत्राः)+++
सखा॑यस् स॒प्तप॑दा अभूम ।
स॒ख्यन्ते॑ गमेयम् ।
०७-१३ एकमिषे विष्णुस्त्वाऽन्वेतु ...{Loading}...
मूलम्
एक॑मि॒षे विष्णु॒स्त्वाऽन्वे॑तु ।
द्वे ऊ॒र्जे विष्णु॒स्त्वाऽन्वे॑तु ।
त्रीणि॑ व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
च॒त्वारि॒ मायो॑भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
पञ्च॑ प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
षड्रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु ।
स॒प्त स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
सखा॑यस्स॒प्तप॑दा अभूम ।
स॒ख्यन्ते॑ गमेयम् ।
हरदत्तः
अथैनां सप्तपदान्यभिप्रक्रमयति - एकमिष इति? ॥ इटू अन्नं, एकं पदं विष्णुः त्वास्न्वेतु इषे तवान्नं यथा स्यादिति ॥ ऊर्क् बलम् व्रतं कर्म? मयः सुखं तद्भवाय भवतीति मयोभूः तस्या भावो मायोभवं तस्मै, “मायो भव्याय” । इत्याश्वलायनः पच्च पशुभ्यः । षडृतुभ्यः । सप्त सप्तभ्यः । सर्वत्र विष्णुस्त्वान्वेत्वित्यनुषङ्गः । होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाच्छावाक आग्नीध्र इत्येतास्सप्त होत्राः । तथा च ब्राह्मणं तस्मात्सौम्यस्याध्वरस्या यज्ञक्रतोः । सप्तहोत्राः “प्राचीवषट्कुर्वन्ति” इति । ताभ्यः ताः यज्ञकर्मणि तव यथास्युरित्येमर्थं विष्णुस्त्वास्न्वेतु ॥
१४ सखा सप्तपदा ...{Loading}...
सखा॑ +++(हे)+++ स॒प्तप॑दा भव॒।
सखा॑यौ स॒प्तप॑दा बभूव+++(=बभूविव)+++।
स॒ख्यन्ते॑ गमेयꣳ।
स॒ख्यात् ते॒ मा यो॑षꣳ+++(=पृथकृतो मा भूवं)+++।
स॒ख्यान् मे॒ मा यो॑ष्ठा॒स्,
सम॑याव॒, सङ्क॑ल्पावहै॒, सं प्रि॑यौ रोचि॒ष्णू+++(=दीप्यमानौ)+++ सु॑मन॒स्यमा॑नौ+++(=सुमनायमानौ)+++ ।
इष॒म् ऊर्ज॑म् अ॒भि सं॒वसा॑नौ॒
सन्नौ॒ मनाꣳ॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् ।
सा +++(ऋक्)+++ त्वम् अ॒स्य् अमू॒+++(=साम)+++ ऽहम्, अमू॒हम् अ॑स्मि॒। +++(५)+++
+++(सैव नाम ऋगासीदमो नाम साम इति बह्वृचब्राह्मणदर्शनात् । बह्वृचानां तु अमोहम् इति एव पाठः ।)+++
सा त्वं द्यौर् अ॒हं पृ॑थि॒वी।
त्वꣳ रेतो॒ ऽहꣳ रे॑तो॒भृत्।
त्वं मनो॒ ऽहम॑स्मि॒ वाक्।
त्वꣳ सामा॒हम॒स्म्यृ॑क्।
त्व॒ꣳ॒ सा माम् अनु॑व्रता भव।
पु॒ꣳ॒से पु॒त्राय॒ वेत्त॑वै+++(=लाभाय)+++,
श्रि॒यै पु॒त्राय॒ वेत्त॑वा॒,
एहि॑ सूनृते+++(=प्रियवाग्वति)+++ ।। (3)
१४ सखा सप्तपदा ...{Loading}...
मूलम्
सखा॑ स॒प्तप॑दा भव॒ सखा॑यौ स॒प्तप॑दा बभूव स॒ख्यन्ते॑ गमेयꣳ स॒ख्यात्ते॒ मा यो॑षꣳ स॒ख्यान्मे॒ मा यो॑ष्ठा॒स्सम॑याव॒ सङ्क॑ल्पावहै॒ सं प्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ ।
इष॒मूर्ज॑म॒भि सं॒वसा॑नौ॒ सन्नौ॒ मनाꣳ॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् । सा त्वम॒स्यमू॒हममू॒हम॑स्मि॒ सा त्वं द्यौर॒हं पृ॑थि॒वी त्वꣳ रेतो॒ऽहꣳ रे॑तो॒भृत्त्वं मनो॒ऽहम॑स्मि॒ वाक्त्वꣳ सामा॒हम॒स्म्यृ॑क्त्व॒ꣳ॒ सा मामनु॑व्रता भव पु॒ꣳ॒से पु॒त्राय॒ वेत्त॑वै श्रि॒यै पु॒त्राय॒ वेत्त॑वा॒ एहि॑ सूनृते ॥ (३)
हरदत्तः
सप्त पदानि यया क्रान्तानि सा सप्तपदा एवंभूता त्वं सखा भव । सप्तपदा सप्तपदौ । द्विवचनस्याकारः । सप्तपदौ त्वं च अहं च सखायौ बभूव बभूविव । छान्दसो विशब्दस्यलोपः । आदरार्थं पुनर्वचनम् । सख्यं ते गमेयं गम्यासं सख्याते मा योषं वियुक्तः पृथकृतो मा भूवं, त्वं च सख्यान्मे मा योष्ठाः । समयाव । संपूर्वस्य इणो लोटि रूपम् । सङ्गतौ स्याव । सङ्कल्पावहै इदमिदं च कर्तव्यमिति । सम्प्रियौ परस्परं सम्प्रीयमाणौ रोचिष्णू सदृशसम्बन्धत्वात् परस्पराश्रयेण दीप्यमानौ सुमनस्यमानौ सुमनायमानौ । भृशादिरयं छान्दसस्सलोपाभावः । इषमूर्जमभिसंवसानौ सहानुभवन्तौ समयावेति सम्बन्धः । नौ आवयोः मनांसि व्यापारबहुत्वान्मनोबहुत्वं समाकरं सङ्गतानि करोमि । तथा व्रता व्रतानि कर्माणि समाकरं (यस्त्वया धर्मचरितव्यः सोनया सहेति) । तथा समुचितानि उ इत्यनर्थकः, मनस उक्तत्वाद्बाह्येन्द्रियाण्यत्र चित्तानि तान्यपिप्त समाकरणम् ॥ सा त्वं सेति ऋचोभिधानम्, अम इति साम्नः । सैव नाम ऋगासीदमो नाम साम इति बह्णृचब्राह्मणदर्शनात् । त्वं सासि ऋगसि अमोस्हम् । संहिताकराले ओकारस्य ऊकारः । बह्वृचानां तु अमोहम् इति एव पाठः । एतदेवादरार्थं पुनरुच्यते । अमूहमस्मि अमः अहमस्मि सा त्वं ऋक्त्वं यथा ऋक्सामे परस्परं सम्बन्धे एवमावामपीत्यर्थः । द्यौरहं पृथिवी त्वं औत्तराधर्यमात्रं विवक्षितम् । रेतोऽहं कार्यकारणयोरभेदोपचारः । रेतोभृत्त्वं मया निषिक्तस्य रेतसो भर्त्री त्वम् । मनो हमस्मि वाक्त्वं यथा मनसा चिन्तितं वाग्ब्रूते एवमावयोरानुकूल्यमित्यर्थः । सामाहमस्म्यृक्त्वं एवंभूता सा त्वं मां प्रति अनुव्रता अनुकूला भव । किमर्थं? पुंसे पुत्राय वेत्तवै पुमांसं पुत्रं लब्धुं श्रियै पुत्राय वेत्तवे श्रियश्च पुत्रस्य च लाभार्थम् । पुत्रस्य पुनर्वचनमादरार्थम् । एहि आगच्छ प्रिया वाक् सूनृतं तद्योगात् सूनृते । इत्यामन्त्रणम् ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्यास्याने तृतीयः खण्डः।