०१ हिरण्यवर्णाश्शुचयः पावकाः ...{Loading}...
०१ हिरण्यवर्णाः शुचयः ...{Loading}...
हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒काः
प्रच॑क्रमुर् हि॒त्वा ऽव॒द्यम् आपः॑ ।
श॒तं प॒वित्रा॒ वित॑ता॒ ह्य् आ॑सु॒ +++(अप्सु)+++
ताभि॑ष् ट्वा दे॒वस् स॑वि॒ता पु॑नातु ।+++(र५)+++
०१ हिरण्यवर्णाश्शुचयः पावकाः ...{Loading}...
मूलम्
हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒काः प्रच॑क्रमुर्हि॒त्वाऽव॒द्यमापः॑ ।
श॒तं प॒वित्रा॒ वित॑ता॒ ह्या॑सु॒ ताभि॑ष्ट्वा दे॒वस्स॑वि॒ता पु॑नातु ।
०१ हिरण्यवर्णाः शुचयः ...{Loading}...
Whitney
Translation
- Of golden color, clean (śúci), purifying, in whom [was] born
Savitar, in whom Agni; who, of beauteous color, assumed Agni as
embryo—let those waters be weal, pleasant to us.
Notes
⌊in c, for dadhiré, better, ‘conceived’?⌋ TS. and MS. read in b
jātáḥ kaśyápo yā́sv índraḥ; and Ppp. agrees with them; MP. has agníḥ
instead of índraḥ. In c TS. MS. give vírūpās for suvarṇās; and
TS. omits yā́s, and hence has dadhire (unaccented); MS. puts yā́s
after agním. MP. offers te for nas in d. ⌊As to savitṛ =
kaśyapa, cf. Bloomfield, AJP. xvii. 403.⌋
Griffith
May they, the golden-hued, the bright, the splendid, they wherein Savitar was born and Agni, They who took Agni as a germ, fair-coloured, the Waters, bring felicity and bless us!
पदपाठः
हिर॑ण्यऽवर्णाः। शुच॑यः। पा॒व॒काः। यासु॑। जा॒तः। स॒वि॒ता। यासु॑। अ॒ग्निः। याः। अ॒ग्निम्। गर्भ॑म्। द॒धि॒रे। सु॒ऽवर्णाः॑। ताः। नः॒। आपः॑। शम्। स्यो॒नाः। भ॒व॒न्तु॒।
अधिमन्त्रम् (VC)
- चन्द्रमाः, आपः
- शन्तातिः
- त्रिष्टुप्
- आपः सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सूक्ष्म तन्मात्राओं का विचार।
हरदत्तः
हिरण्यवर्णाः हिरण्यस्येव वर्णो यासां ताः शुद्धवर्णाः शुचयः शुद्धाः पावकाः शोधयित्र्यः प्रचक्रमुः प्रवर्तन्ते हित्वावद्यं पापं त्यक्त्वा आपः । आसु? हि शतं पवित्राः बहूनि पवित्राणि तीर्थानि वितताः विस्तृतानि । ताभिः अद्भिः त्वा देवः सविता पुनातु ॥
हरदत्तोक्त-विनियोगः
उत्तरे पञ्च स्नानमन्त्राः - “हिरण्यवर्णा” इति ॥
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [जो] (हिरण्यवर्णाः) व्यापनशील वा कमनीय रूपवाली (शुचयः) निर्मल स्वभाववाली और (पावकाः) शुद्धि की जतानेवाली हैं, (यासु) जिनमें (सविता) चलाने वा उत्पन्न करनेहारा सूर्य और (यासु) जिनमें (अग्निः) [पार्थिव] अग्नि (जातः) उत्पन्न हुई। (याः) जिन (सुवर्णाः) सुन्दर रूपवाली (आपः) तन्मात्राओं ने (अग्निम्) [बिजुलीरूप] अग्नि को (गर्भम्) गर्भ के समान (दधिरे) धारण किया था, (ताः) वे [तन्मात्राएँ] (नः) हमारे लिये (शम्) शुभ करनेहारी और (स्योनाः) सुख देनेवाली (भवन्तु) होवें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे परमात्मा ने कामना के और खोजने के योग्य तन्मात्राओं के संयोग-वियोग से अग्नि, सूर्य और बिजुली, इन तीन तेजधारी पदार्थ आदि सब संसार को उत्पन्न किया है, उसी प्रकार मनुष्यों को शुभ गुणों के ग्रहण और दुर्गुणों के त्याग से आपस में उपकारी होना चाहिये ॥१॥ १−(आपः)=व्यापक तन्मात्राएँ−श्रीमद्दयानन्दभाष्य, यजुर्वेद २७।२५ ॥ २−(आपः) के विषय में सूक्त ४, ५ और ६ सूक्त ४ में मनु महाराज का श्लोक भी देखें ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−हिरण्य-वर्णाः। हर्यतेः कन्यन् हिर च। उ० ४।४४। इति हर्य गति-कान्त्योः−कन्यन्, हिर आदेशश्च, नित्वाद् आद्युदात्तः। कॄवृजॄसिद्रुगुपन्यनिस्वपिभ्यो नित्। उ० ३।१०। इति वृञ् वरणे−न, स च नित्। बहुव्रीहौ प्रकृत्या पूर्वपदम्। पा० ६।२।१। इति पूर्वपदप्रकृतिस्वरत्वेन आद्युदात्तः। कमनीयरूप-युक्ताः, गतिशीलरूपयुक्ताः। प्रकाशस्वरूपाः। शुचयः। इगुपधात् कित्। उ० ४।१२०। इति शुचिर् शौचे=शुद्धौ−इन्, स च कित्। शुद्धस्वभावाः। पावकाः। पूञ् शोधे−घञ्। आतोऽनुपसर्गे कः। पा० ३।२।३। इति कै शब्दे−कः। उपपदमतिङ्। पा० २।२।१९। इति समासः। टाप्। यद्वा। पूञ् ण्वुल्। टाप्। पावकादीनां छन्दःसीति। वा० पा० ७।३।४५। इत्वं निषिद्धम्। पावस्य शुद्धव्यवहारस्य शब्दयित्र्यः, ज्ञापयित्र्यः। पावयित्र्यः, शोधयित्र्यः। यासु। अप्सु। जातः। जनी प्रादुर्भावे−क्त। प्रादुर्भूतः, उत्पन्नः। सविता। १।१८।२। सूर्यः। अग्निः। १।६।२। पार्थिवाग्निः। अग्निम्। वैद्युताग्निम्। गर्भम्। १।११।२। पदार्थेषु गर्भवत् स्थितम्। दधिरे। डुधाञ् धारणपोषणयोः−लिट्। दधुः, स्थायामासुः। सु-वर्णाः। वृञ्−न। शोभनरूपाः। नः। अस्मभ्यम्। आपः। १।५।१। व्यापिकास्तन्मात्राः−इति श्रीमद्दयानन्दभाष्ये, यजु० २७।२५ ॥ शम्। १।३।१। शुभकारिण्यः। स्योनाः। सिवेष्टेर्यू च। उ० ३।९। इति षिवु तन्तुसन्ताने−न प्रत्ययः, टिभागस्य यू इत्यादेशः। स्योनं सुखनाम, निघ० ३।६। अर्शआदिभ्योऽच्, पा० ५।२।१२७। इति मत्वर्थे अच्। सुखवत्यः ॥
०२ हिरण्यवर्णाश्शुचयः पावका ...{Loading}...
हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒का
यासु॑ जा॒तः क॒श्यपो॒ यास्व् अ॒ग्निः ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना +++(=सुखा)+++ भ॑वन्तु ।+++(५)+++
०२ हिरण्यवर्णाश्शुचयः पावका ...{Loading}...
मूलम्
हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्व॒ग्निः ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु ।
हरदत्तः
द्वितीयमन्त्रे कश्यप इत्यादित्यस्याभिधानं - पश्यति सर्वमिति पश्यः पश्य एव पश्यकः तत्राद्यन्तविपर्यासेन कश्यपो भवति । दृश्यते चारण्यके – “कश्यपः पश्यको भवति । यत्सर्वं परिपश्यति” इति । स चाद्भ्यः प्रातरुद्यन् तासु जात इत्युच्यते । अग्नेश्च वैद्युतस्य अप्सु जन्म, धारणं च तस्यैव । सुवर्णाः शोभनवर्णाः ताः आपः ते शं स्योना सुखकराः भवन्तु । स्योनमित्यपि सुखनाम, ऐहिकपारलौकिकसुखस्य भेदादपौनरुक्त्यम् ॥
०३ यासां राजा ...{Loading}...
०२ यासां राजा ...{Loading}...
यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना भ॑वन्तु ।+++(५)+++
०३ यासां राजा ...{Loading}...
मूलम्
यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु ।
०२ यासां राजा ...{Loading}...
Whitney
Translation
- In the midst of whom goes king Varuṇa, looking down at the
truth-and-falsehood of men; who, of beauteous color, etc. etc.
Notes
The first half-verse is found also in RV. (vii. 49. 3 a, b), without
difference of reading; MP. agrees through the whole verse ⌊except in
d, te for nas⌋; TS. MS. have a wholly different c. The comment
to Prāt. ii. 11 gives avapaśyañ janānām as example of the general
requirement that final n be assimilated to a following initial
palatal, and half or more of our mss. so read; but SPP., as elsewhere,
gives -an j- ⌊cf. note to i. 19.4⌋.
Griffith
They in the midst whereof King Varuna moveth, viewing men’s righteous and unrighteous dealing. They who took Agni as a germ, fair-coloured,–those Waters bring felicity and bless us!
पदपाठः
यासा॑म्। राजा॑। वरु॑णः। याति॑। मध्ये॑। स॒त्या॒नृ॒ते इति॑ स॒त्य॒ऽअ॒नृ॒ते। अ॒व॒ऽपश्य॑न्। जना॑नाम्। याः। अ॒ग्निम्। गर्भ॑म्। द॒धि॒रे। सु॒ऽवर्णाः॑। ताः। नः॒। आपः॑। शम्। स्यो॒नाः। भ॒व॒न्तु॒।
अधिमन्त्रम् (VC)
- चन्द्रमाः, आपः
- शन्तातिः
- त्रिष्टुप्
- आपः सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सूक्ष्म तन्मात्राओं का विचार।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यासाम्) जिन तन्मात्राओं के (मध्ये) बीच में (वरुणः) सर्वश्रेष्ठ (राजा) राजा परमेश्वर (जनानाम्) सब जन्मवाले जीवों के (सत्यानृते) सत्य और असत्य को (अवपश्यन्) देखता हुआ (याति) चलता है। (याः) जिन (सुवर्णाः) सुन्दर रूपवाली (आपः) तन्मात्राओं ने (अग्निम्) बिजुलीरूप अग्नि को (गर्भम्) गर्भ के समान (दधिरे) धारण किया था, (ताः) वे [तन्मात्राएँ] (नः) हमारे लिये (शम्) शुभ करनेहारी और (स्योनाः) सुख देनेवाली (भवन्तु) होवें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - इन तन्मात्राओं का नियन्ता अर्थात् संयोजक और वियोजक (वरुण राजा) परमेश्वर है, वही सब जीवों के पुण्य-पाप को देखकर यथावत् फल देता है। इनके गुणों से उपकार लेकर मनुष्यों को सुख भोगना चाहिये ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−यासाम्। अपाम् तन्मात्राणाम्। राजा। १।१०।१। ईश्वरः। नियन्ता। वरुणः। १।३।३। वृणोति सर्वं, व्रियते अन्यैरिति वरुणः। सर्व−वरणीयः परमेश्वरः। याति। गच्छति। व्याप्नोति। मध्ये। अघ्न्यादयश्च। उ० ४।११२। इति मन ज्ञाने-यक्, नस्य धः। अन्तर्वर्त्तिनि भागे। सत्य-अनृते। सद्भ्यो हितम्। सत्-यत्। सत्यं, यथार्थं, तथ्यम्। न ऋतम्। अनृतम् असत्यम्, मिथ्याकरणम्, सत्यं च असत्यं च उभे कर्मणी। अव-पश्यन्। दृशिर्-शतृ। अवलोकयन् विजानन्। जनानाम्। १।८।१। जन्मवतां लोकानाम्। अन्यद् गतम् म० १ ॥
हरदत्तः
तृतीयः- यासां राजेति ॥ । स्षष्टोऽर्थः ।
०४ यासान् देवा ...{Loading}...
०३ यासां देवा ...{Loading}...
यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भ॑वन्ति।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥
०४ यासान् देवा ...{Loading}...
मूलम्
यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा निवि॑ष्टाः ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु ।
०३ यासां देवा ...{Loading}...
Whitney
Translation
- They of whom the gods in heaven make [their] draught (bhakṣá);
they that come to be abundantly in the atmosphere; who, of beauteous
color, etc. etc.
Notes
Again TS. MS. have a different c (yā́ḥ pṛthivī́m páyaso ’ndáanti
śukrā́ḥ). Our O. has at end of c vírupāḥ (as TS. MS. in 1 c).
MP. substitutes níviṣṭās for bhavantī in b. The comm. renders
bhakṣám by upabhogyam.
Griffith
Whom the Gods make their beverage in heaven, they who wax manifold in air’s mid-region, They who took Agni as a germ, fair-coloured,–those Waters bring felicity and bless us!
पदपाठः
यासा॑म्। दे॒वाः। दि॒वि। कृ॒ण्वन्ति॑। भ॒क्षम्। याः। अ॒न्तरि॑क्षे। ब॒हु॒ऽधा। भव॑न्ति। याः। अ॒ग्निम्। गर्भ॑म्। द॒धि॒रे। सु॒ऽवर्णाः॑। ताः। नः॒। आपः॑। शम्। स्यो॒नाः। भ॒व॒न्तु॒।
अधिमन्त्रम् (VC)
- चन्द्रमाः, आपः
- शन्तातिः
- त्रिष्टुप्
- आपः सूक्त
हरदत्तः
चतुर्थः - यासां देवा इति ॥ यासां अपां भक्षं भोजनं दिवि द्युस्थाने देवाः कृण्वन्ति कुर्वन्ति । या अन्तरिक्षे बहुधा निविष्टाः मेघेषु । या अग्निं गर्भे दधिरे बडबानलरूपं धृतवत्यः । ता इत्यादि । गतम् ॥
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सूक्ष्म तन्मात्राओं का विचार।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवाः) सब प्रकाशमय पदार्थ (दिवि) व्यवहार के योग्य आकाश में (यासाम्) जिनका (भक्षम्) भोजन (कृण्वन्ति) करते हैं और (याः) जो [तन्मात्राएँ] (अन्तरिक्षे) सबके मध्यवर्ती आकर्षण में (बहुधा) अनेक रूपों से (भवन्ति) वर्त्तमान हैं और (याः) जिन (सुवर्णाः) सुन्दर रूपवाली (आपः) तन्मात्राओं ने (अग्निम्) [बिजुली] रूप अग्नि को (गर्भम्) गर्भ के समान (दधिरे) धारण किया था, (ताः) वो [तन्मात्राएँ] (नः) हमारे लिये (शम्) शुभ करनेहारी और (स्योनाः) सुख देनेवाली (भवन्तु) होवें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - अपरिमित तन्मात्राएँ ईश्वरकृत परस्पर आकर्षण से संसार के (देवाः) सूर्य, अग्नि, वायु आदि सब पदार्थों के धारण और पोषण का कारण हैं। (देवाः) विद्वान् लोग इनके सूक्ष्म विचार से संसार में अनेक उपकार करके सुख पाते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−यासाम्। अपाम्। देवाः। १।७।१। व्यावहारिकपदार्थाः। प्रकाशमयाः किरणाः। दिवि। १।३०।३। व्यवहारयोग्ये आकाशे। जगति। कृण्वन्ति। कृवि हिंसाकरणयोः। कुर्वन्ति। भक्षम्। भक्ष अदने−कर्मणि घञ्। भक्ष्यम्, अन्नम्, पोषणम्। याः। आपः। अन्तरिक्षे। १।३०।३। मध्ये दृश्यमाने आकर्षणसामर्थ्ये। बहु-धा। विभाषा बहोर्धाऽविप्रकृष्टकाले। पा० ५।४।२०। इति बहु+धा। बहुप्रकारेण, अविप्रकृष्टकाले। भवन्ति। वर्तन्ते। अन्यद् व्याख्यातम् म० १ ॥
०५ शिवेन त्वा ...{Loading}...
शि॒वेन॑ +++(यजमान!)+++ त्वा॒ चक्षु॑षा पश्यन्त्व् +++(हे)+++ आपश्!
शि॒वया॑ त॒न्वा+उ॒प॒स्पृ॒श॒न्तु॒ त्वच॑न् ते ।
घृ॒त॒श्-चुत॒श्+++(=दुहन्त्यः)+++ शुच॑यो॒ याः पा॑व॒कास्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना भ॑वन्तु ।+++(५)+++
विश्वास-टिप्पनी
अथर्ववेदे - “शि॒वेन॑। मा॒। चक्षु॑षा। प॒श्य॒त॒। आ॒पः॒। शि॒वया॑। त॒न्वा। उप॑। स्पृ॒श॒त॒। त्वच॑म्। मे॒। " त्वत्कारप्रयोगम् अत्र घटयितुं तर्हि कठिनम् एव।
My guess is that some ancient ritualist copied over the AtharvaNa mantra and modified it without fixing the svara appropriately, leaving later commentators to either ignore the svara-error or multi-sambodhana error.
०५ शिवेन त्वा ...{Loading}...
मूलम्
शि॒वेन॑ त्वा॒ चक्षु॑षा पश्यन्त्वापश्शि॒वया॑ त॒न्वोप॑स्पृशन्तु॒ त्वच॑न्ते ।
घृ॒त॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु ।
हरदत्तः
शिवेन त्वेति ॥ हे वधु ।आपः त्वां शिवेन चक्षुषा पश्न्तु शिवया च तन्वा ते त्वचं उपस्पृशन्तु घृतश्चुतः घृतस्सं दुहानाः । शुचयः इत्यादि । गतम् ॥