०१ प्रसुग्मन्ता धियसानस्य ...{Loading}...
प्र॒सु॒ग्मन्ता॑+++(=प्रकर्षेण सुष्ठु गन्तारः)+++ धि॒यसा॒नस्य॑+++(=ध्यायमानस्य)+++ स॒क्षणि॑+++(=समाने क्षणे)+++
व॒रेभि॑र्+++(=श्रेष्ठैः [पथिभिः])+++ व॒राꣳ+++(=वरयितव्यान् [कन्यायाः पित्रादीन्])+++ अ॒भि षु॒ प्रसी॑दत+++(=प्रगच्छत)+++ ।
अ॒स्माक॒म्+++(=कन्याया मम च, अस्मदो द्वयोश्च इति बहुवचनम्)+++ इन्द्र॑ उ॒भयं॑ जुजोषति॒
यत् +++(यज्ञेषु)+++ सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति ।
०१ प्रसुग्मन्ता धियसानस्य ...{Loading}...
मूलम्
प्र॒सु॒ग्मन्ता॑ धि॒यसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राꣳ अ॒भि षु॒ प्रसी॑दत ।
अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति ।
हरदत्तोक्त-विनियोगः
अथ विवाहमन्त्राः - प्रसुग्मन्ता वरान् प्रहिताननुमन्त्रयते - प्रसुग्मन्ता इति ॥
हरदत्तः
प्रसुग्मन्ता - प्रकर्षेण सुष्ठु गन्तारः, धियसानस्य ध्यायमानस्य, सक्षणि समाने क्षणे, ध्यानानन्तरमेव, वरेभिः वरैः श्रेष्ठैः पथिभिः, वरान् वरयितव्यान् कन्यायाः पित्रादीन्, अभि प्रति, सु प्रसीदत सुष्ठु प्रकर्षेण गच्छत, हे सुहृदः । इन्द्रोऽप्यत्र सहाय इत्याह- अस्माकमुभयम् । अस्मदो द्वयोश्च इति द्वयोर्बहुवचनम् । मम च कन्यायाश्च आवयोर्योगं युगळं इन्द्रो जुजोषति सेवते । तस्याप्येतदनुमतमित्यर्थः । कस्मात्? यत् यस्मात्कारणात्, सौम्यस्यान्धसः अन्नस्य । द्वितीयार्थे षष्ठी । सोमरसात्मकमन्नं आवाभ्यां दास्यमानं बुबोधति, एतौ सङ्गतौ मां यक्ष्येते इति बुध्यते ॥
०२ अनृक्षरा ऋजवस्सन्तु ...{Loading}...
२३ अनृक्षरा ऋजवः ...{Loading}...
अ॒नृ॒क्ष॒रा+++(=कंटकशर्करादिरहिताः)+++ ऋ॒जव॑स् सन्तु॒ पन्था॒
येभि॒स् सखा॑यो॒ यन्ति॑ नो वरे॒यम्+++(=वरणीयं [कन्यायाः पित्रादिकं प्रति])+++ ।
सम् अ॑र्य॒मा सं भगो॑ नो+++(=आवाम्, अस्मदो द्वयोश्च इति बहुवचनम्)+++ निनीया॒त्
सञ् जा॑स्प॒त्यꣳ+++(=जायापतिभावः)+++ सु॒यम॑म् अस्तु देवाः ।+++(र५)+++
०२ अनृक्षरा ऋजवस्सन्तु ...{Loading}...
मूलम्
अ॒नृ॒क्ष॒रा ऋ॒जव॑स्सन्तु॒ पन्था॒ येभि॒स्सखा॑यो॒ यन्ति॑ नो वरे॒यम् ।
सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सञ्जा॑स्प॒त्यꣳ सु॒यम॑मस्तु देवाः ।
023 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - नृणां विवाहमन्त्रा आशीःप्रायाः
- ऋषिः - सावित्री सूर्या ऋषिका
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अनृक्षरा꣡ ऋज꣡वः सन्तु प꣡न्था
ये꣡भिः स꣡खायो य꣡न्ति नो वरेय꣡म्
स꣡म् अर्यमा꣡ स꣡म् भ꣡गो नो निनीयात्
सं꣡ जास्पत्यं꣡ सुय꣡मम् अस्तु देवाः
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
anr̥kṣarā́ḥ ← anr̥kṣará- (nominal stem)
{case:NOM, gender:M, number:PL}
pánthāḥ ← pánthā- ~ path- (nominal stem)
{case:NOM, gender:M, number:PL}
r̥jávaḥ ← r̥jú- (nominal stem)
{case:NOM, gender:M, number:PL}
santu ← √as- 1 (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sákhāyaḥ ← sákhi- (nominal stem)
{case:NOM, gender:M, number:PL}
vareyám ← √varey- (root)
{case:ACC, number:SG}
yánti ← √i- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
yébhiḥ ← yá- (pronoun)
{case:INS, gender:M, number:PL}
aryamā́ ← áryaman- (nominal stem)
{case:NOM, gender:M, number:SG}
bhágaḥ ← bhága- (nominal stem)
{case:NOM, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
ninīyāt ← √nī- (root)
{number:SG, person:3, mood:OPT, tense:PRF, voice:ACT}
sám ← sám (invariable)
{}
sám ← sám (invariable)
{}
astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
devāḥ ← devá- (nominal stem)
{case:VOC, gender:M, number:PL}
jāspatyám ← jāspatyá- (nominal stem)
{case:NOM, gender:N, number:SG}
sám ← sám (invariable)
{}
suyámam ← suyáma- (nominal stem)
{case:NOM, gender:N, number:SG}
पद-पाठः
अ॒नृ॒क्ष॒राः । ऋ॒जवः॑ । स॒न्तु॒ । पन्थाः॑ । येभिः॑ । सखा॑यः । यन्ति॑ । नः॒ । व॒रे॒ऽयम् ।
सम् । अ॒र्य॒मा । सम् । भगः॑ । नः॒ । नि॒नी॒या॒त् । सम् । जाः॒ऽप॒त्यम् । सु॒ऽयम॑म् । अ॒स्तु॒ । दे॒वाः॒ ॥
Hellwig Grammar
- anṛkṣarā ← anṛkṣarāḥ ← anṛkṣara
- [noun], nominative, plural, masculine
- “thornless.”
- ṛjavaḥ ← ṛju
- [noun], nominative, plural, masculine
- “honest; straight; straight; ṛju [word]; sincere; erect; upright.”
- santu ← as
- [verb], plural, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- panthā ← panthāḥ ← pathin
- [noun], nominative, plural
- “way; road; path [word]; journey; method.”
- yebhiḥ ← yad
- [noun], instrumental, plural, masculine
- “who; which; yat [pronoun].”
- sakhāyo ← sakhāyaḥ ← sakhi
- [noun], nominative, plural
- “friend; companion; sakhi [word].”
- yanti ← i
- [verb], plural, Present indikative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- no ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- vareyam ← varey
- [verb noun]
- sam
- [adverb]
- “sam; together; together; saṃ.”
- aryamā ← aryaman
- [noun], nominative, singular, masculine
- “Aryaman; aryaman [word]; sun.”
- sam
- [adverb]
- “sam; together; together; saṃ.”
- bhago ← bhagaḥ ← bhaga
- [noun], nominative, singular, masculine
- “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- ninīyāt ← nī
- [verb], singular, Perfect optative
- “bring; lead; spend; decant; enter (a state); remove; take out; take away; enforce; marry; carry; fill into; bring; learn; go out; add.”
- saṃ ← sam
- [adverb]
- “sam; together; together; saṃ.”
- jāspatyaṃ ← jāspatyam ← jāspatya
- [noun], nominative, singular, neuter
- suyamam ← suyama
- [noun], nominative, singular, neuter
- astu ← as
- [verb], singular, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- devāḥ ← deva
- [noun], vocative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
सायण-भाष्यम्
हे देवाः पन्थाः पन्थानो मार्गाः अनृक्षराः । ऋक्षरः कण्टक उच्यते । कण्टकरहिताः ऋजवः अकुटिलाश्च सन्तु येभिः यैः पथिभिः नः अस्माकं सखायः वरप्रेषिताः वरेयं वरैर्याचितव्यं पितरं प्रति यन्ति गच्छन्ति ते पन्था इति । किंच अर्यमा देवः नः अस्मान् सं निनीयात् सम्यक् प्रापयेत् । तथा भगः देवः सं निनीयात् । हे देवाः आसंगतमस्तु पतिकुलमिति शेषः । तथेदं जास्पत्यं जायापत्योर्युगलं सुयममस्तु सुमिथुनमस्तु ॥
हरदत्तः
अनृक्षरा ऋजव अनृक्षरा इति ॥ कन्यागृहं गच्छताम्, एतेषां पन्थाः पन्थानः, अनृक्षराः कंटकशर्करादिरहिताः, ऋजवश्च सन्तु, येभिः यैः पथिभिः, नः अस्माकं, सखायः सुहृदः, इमे यन्ति गच्छन्ति, वरेयं वरणीयं कन्यायाः पित्रादिकं प्रति । नः आवां च, अर्यमा भगश्च, सम् निनीयात् सन्नयतु सङ्गमयतु । आवयोश्च जास्पत्यं जायापतिभावः सम्यक् सुयममस्तु सुसम्बद्धमस्तु, हे देवाः ॥
Wilson
English translation:
“Smooth and straight be the paths by which our friends repair to the bride’s father; may Aryaman, may Bhaga conduct us, and may the union of the wife and husband be easily accomplished, O gods.”
Jamison Brereton
Let the paths be straight and harmless to men, by which the comrades go to the wooing.
Aryaman and Bhaga should lead us all together. Let the united
household be easy to hold fast, o gods.
Griffith
Straight in direction be the path:s, and thornless, whereon our fellows travel to the wooing.
Let Aryaman and Bhaga lead us: perfect, O Gods, the union of the wife and husband.
Geldner
Dornenlos, richtig sollen die Wege sein, auf denen unsere Freunde auf die Werbung ausziehen. Aryaman und Bhaga sollen uns zusammenführen. Gemeinsam soll uns ein leicht zu führendes Hausregiment sein, o Götter!
Grassmann
Dornenlos und gerade seien die Pfade, auf denen unsere Freunde zur Vermählung gehen; Arjaman und Bhaga möge uns insgesammt leiten, leicht zu verwalten sei der Hausstand.
Elizarenkova
Да будут прямыми (и) без шипов пути,
По которым друзья едут на нашу помолвку!
Пусть Арьяман, пусть Бхага сведут нас вместе!
Пусть будет легко править совместно домом и домочадцами, о боги!
अधिमन्त्रम् (VC)
- नृर्णा विवाहमन्त्रा आशीः प्रायाः
- सूर्या सावित्री
- त्रिष्टुप्
- धैवतः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (देवाः) हे विद्वानों ! (पन्थाः) तुम्हारे बताए मार्ग (अनृक्षराः)कण्टकरहित-बाधारहित (ऋजवः) सरल (सन्तु)हों (येभिः) जिन मार्गों से (नः) हमारे (वरेयं सखायः) यह मेरा वर और उसके सहायक मित्रसम्बन्धी जन (यन्ति) जाते हैं और (नः) हमारा (अर्यमा) आशीर्वाद देनेवाला वृद्धजन (सं निनीयात्) सम्यक् ले जाये (भगः) भाग्यविधाता पुरोहित (सम्)सम्यक् लेजाये (जास्पत्यम्) जायापतिकर्म-सन्तानोत्पादन (संसुयमम्) सम्यक् सुनियन्त्रित (अस्तु) होवे ॥२३॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - विद्वान् जन वर वधू को गृहस्थ का ऐसा मार्ग सुझावें, जो बाधा से रहित हो तथा जिससे वर और उसके पारिवारिक जन ठीक चलें। वृद्धजन पुरोहित आशीर्वाद देवें कि सन्तानोत्पत्ति अच्छी हो ॥२३॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (देवाः) हे विद्वांसः ! (पन्थाः) पन्थानो मार्गाः (अनृक्षराः-ऋजवः सन्तु) कण्टकरहिता बाधारहिताः “अनृक्षरा ऋक्षरः कण्टकः” [निरु० ९।३०] सरलाः सन्तु (येभिः-नः-वरेयं सखायः-यन्ति) यैर्मार्गैरस्माकमयं वरस्तत्सहायकाः सखायः सम्बन्धिनो गच्छन्ति (नः-अर्यमा सन्निनीयात्-भगः सम्) अस्माकं वृद्धजनो य आशीर्वादं ददाति “अर्यमेति तमाहुर्यो ददाति” [तै० १।१।२।४] सम्यग्नयेत्-भगो भाग्यविधाता पुरोहितो यः सम्यग्नयेत् (जास्पत्यं संसुयमम्-अस्तु) जायापतिकर्म सन्तानोत्पादनं सम्यक् सुनियन्त्रितं भवतु ॥२३॥
०३ अभ्रातृघ्नीं वरुणापतिघ्नीम् ...{Loading}...
अभ्रा॑तृघ्नीं॒ वरु॒णा-
ऽप॑तिघ्नीं बृहस्पते ।
इन्द्राऽपु॑त्रघ्नीं ल॒क्ष्म्य॑न्,
ताम् अ॒स्यै स॑वितस् सुव ।+++(र५)+++
०३ अभ्रातृघ्नीं वरुणापतिघ्नीम् ...{Loading}...
मूलम्
अभ्रा॑तृघ्नीं॒ वरु॒णाप॑तिघ्नीं बृहस्पते । इन्द्रापु॑त्रघ्नीं ल॒क्ष्म्य॑न्ताम॒स्यै स॑वितस्सुव ।
हरदत्तः
स्वयं दृष्ट्वा तृतीयां जपेत् - अभ्रातृघ्नीमिति । हे वरुण । त्वं अस्यै वध्वै, या अभ्रातृघ्नी लक्ष्मीः, तां लक्ष्म्यम् । वा छन्दसि इति पूर्वसवर्णाभावे यणादेशः । लक्ष्मीं सुव देहि । हे बृहस्पते । त्वं च या अपतिघ्नी लक्ष्मीः, तां लक्ष्म्यं सुव देहि । हे इन्द्र । त्वं या अपुत्रघ्नी लक्ष्मीः तां सुव देहि । हे सवितः । त्वं च सर्वात्मिकां लक्ष्म्यं सुव देहि । यथेयं भ्रात्रादिमरणं न प्राप्नोति तथा कुरुतेत्यर्थः ॥
०४ अघोरचक्षुरपतिघ्न्येधि शिवा ...{Loading}...
अघो॑र-चक्षु॒र् अप॑तिघ्न्य् एधि
शि॒वा प॒तिभ्य॑स् सु॒मना॑स् सु॒वर्चाः॑ ।
जी॒व॒सूर् दे॒वका॑मा स्यो॒ना+++(=प्रशस्ता)+++
शन्नो॑ भव द्वि॒पदे॒ शञ्चतु॑ष्पदे ।+++(र५)+++
०४ अघोरचक्षुरपतिघ्न्येधि शिवा ...{Loading}...
मूलम्
अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒तिभ्य॑स्सु॒मना॑स्सु॒वर्चाः॑ ।
जी॒व॒सूर्दे॒वका॑मा स्यो॒ना शन्नो॑ भव द्वि॒पदे॒ शञ्चतु॑ष्पदे ।
हरदत्तः
चतुर्थ्या समीक्षेत- अघोरेति ॥ अवयवशो निरूपणं समीक्षणम् । हे वधु । त्वं अघोरचक्षुः अपतिघ्नी च एधि भव । शिवा पतिभ्यः, देवराद्यपेक्षं बहुवचनम् । मह्यं पत्ये देवरादिभ्यश्च शिवा भव । सुमनाः सुवर्चाश्च भव । या जीवत एव सूते सा जीवसूः । देवान् यष्टव्यत्वेन या कामयते सा देवकामा । स्योना प्रशस्ता । सर्वत्र भवेति संबध्यते । नः अस्माकं सम्बन्धिने द्विपदे शं भव । चतुष्पदे च शं सुखकरी भव ॥
०५ इदमहय्ँ या ...{Loading}...
इ॒दम् अ॒हय्ँ या त्वयि॑ पति॒घ्न्य् अ॑ल॒क्ष्मिस्, तां निर्दि॑शामि ।+++(र५)+++
०५ इदमहय्ँ या ...{Loading}...
मूलम्
इ॒दम॒हय्ँ या त्वयि॑ पति॒घ्न्य॑ल॒क्ष्मिस्तां निर्दि॑शामि ।
हरदत्तः
वध्वाः भ्रुवोरन्तरं संमृज्य प्रतीचीनं निरस्येत् - इदमहमिति ॥ हे वधु । या त्वयि पतिघ्नी पतिहन्त्री अलक्ष्मिः अलक्ष्मीः । छान्दसो ह्रस्वः । तां अहं निर्दिशामि संमृज्य निरस्यामीति । यत् दर्भेण सम्मार्जनम् तदिदमलक्ष्म्या एव निरसनमिति इदं शब्दस्यार्थः, अलक्ष्मीः निरस्यते तथा इदं क्रियते इति ॥
०६ जीवां रुदन्ति ...{Loading}...
+++(हर्षस्थाने)+++ जी॒वाꣳ रु॑दन्ति॒ वि+++(नि)+++म॑यन्ते अद्ध्व॒रे
दी॒र्घाम् अनु॒ +++(भाव)+++प्रसि॑तिं+++(=बन्धं)+++ दीधियु॒र्+++(=ध्यायन्तु)+++ नरः॑+++(बहुवचनम्)+++ ।
वा॒मं पि॒तृभ्यो॒ य इ॒दꣳ स॑मेरि॒रे+++(=प्रवर्तयन्ति)+++
मयः॒+++(=सुखदं)+++ पति॑भ्यो॒, जन॑यः+++(=जन्याः [वध्वाः])+++ परि॒ष्वजे॑ ।
०६ जीवां रुदन्ति ...{Loading}...
मूलम्
जी॒वाꣳ रु॑दन्ति॒ विम॑यन्ते अद्ध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ ।
वा॒मं पि॒तृभ्यो॒ य इ॒दꣳ स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ ।
हरदत्तः
कन्यावियोगकाले बन्धुजनस्य रोदने जपः - जीवां रुदन्तीति ॥ कन्याया एव रोदन इत्याश्वलायनः । यथाह - जीवां रुदन्तीति रुदत्याम् इति । जीवन्तीमेवैतां कन्यामुद्दिश्य रुदन्ति अध्वरे, ध्वरतिर्हिंसाकर्म । हिंसारहिते काले तदिदं विमयन्ते व्यत्ययं कुर्वते हर्षस्थाने शोचन्ति । त इमे दीर्घां दीर्घकालानुवर्तिनीं प्रसितिं प्रक्रुष्टं भावबन्धं आवयोः अनुदीधियुः अनुध्यायन्तु, नरः कन्याबन्धुमनुष्याः । ये इदं विवाहकर्म समेरिरे प्रेरिरे प्रवर्तयन्ति स्म । कीदृशं? पितृभ्यो वामं पितृणां वननीयं, मयः पतिभ्यः पत्युर्मम सुखरूपं जनयः । षष्ठ्येकवचनस्थाने प्रथमाबहुवचनम् । जन्याः अस्याः वध्वाः परिष्वजे परिष्वङ्गाय पर्याप्तं, एवम्भूतं विवाहकर्म प्रवर्तितवन्तः ते कव्याबन्धुमनुष्याः, आवयोः भाविनं दीर्घं भावबन्धमालोच्य मा रुदन्त्वित्यर्थः ॥
०७ व्युक्षत् क्रूरमुदचन्त्वाप ...{Loading}...
व्यु॑क्षत्+++(=अपगच्छेत्)+++ +++(यदपां)+++ क्रू॒रम्,
उद॑च॒न्त्व्+++(=उद्गच्छन्तु)+++ आप॒,
आऽस्यै ब्रा॑ह्म॒णास् स्नप॑नꣳ हरन्तु ।
अ-वी॑र-घ्नी॒र्+++(!)+++ उद् अ॑च॒न्त्व् आपः॑ ।
०७ व्युक्षत् क्रूरमुदचन्त्वाप ...{Loading}...
मूलम्
व्यु॑क्षत् क्रू॒रमुद॑च॒न्त्वाप॒ आऽस्यै ब्रा॑ह्म॒णास्स्नप॑नꣳ हरन्तु ।
अवी॑रघ्नी॒रुद॑च॒न्त्वापः॑ ।
हरदत्तः
मन्त्रवतोऽद्ध्यः प्रहिणुयात् - व्युक्षदिति । व्युक्षदिति, उक्षतिः सेचनकर्मान्यत्र, इह तु अपगमे द्रष्टव्यः पञ्चमश्च लकारः । यदपां क्रूरं तदपगच्छतात् । आपः उदचन्तु उद्गच्छन्तु । किमर्थमेवं प्रार्थ्यते? अस्यै अस्याः वध्वाः, स्नपनं उदकं आहरन्तु ब्राह्मणाः । अवीरघ्नीः जसि वा छन्दसि इति पूर्वसवर्णः । वीराः पुरुषाः तद्धननस्वभावाः वीरघ्न्यः ततोऽन्याः अवीरघ्न्यः उदचन्त्वापः । अवीरघ्नीरिति विशेषण विवक्षया पुनरिदमुक्तम् ॥
०८ अर्यम्णो अग्निम् ...{Loading}...
अ॒र्य॒म्णो +++(प्रसादात्)+++ अ॒ग्निं परि॑यन्तु क्षि॒प्रं
प्रती॑क्षन्ता॒ꣳ॒ श्वश्र्वो॑ दे॒वरा॑श् च ।
०८ अर्यम्णो अग्निम् ...{Loading}...
मूलम्
अ॒र्य॒म्णो अ॒ग्निं परि॑यन्तु क्षि॒प्रं प्रती॑क्षन्ता॒ꣳ॒ श्वश्र्वो॑ दे॒वरा॑श्च ।
हरदत्तः
वध्वाः शिरसि दर्भेण्वनिधानम् - अर्यम्ण इति ॥ अर्यमा आदित्यः, तस्य प्रसादात् अग्निं इमं विवाहाग्निं परियन्तु क्षिप्रं परिवेष्ट्य मण्डलीभूताः तिष्ठन्तु, यथेदमिण्वं मण्डलीभूतम्, परीत्य च प्रतीक्षन्तां पश्यन्तु । के? श्वश्र्वः वध्वा मम च मातरः, देवराश्च वध्वा मम च भ्रातरः ॥
०९ खेऽनसः खे ...{Loading}...
खे+++(=छिन्द्रावकाशे)+++ ऽनसः॒+++(=शकटस्य)+++ खे रथः॒+++(थस्य)+++ खे युग॑स्य +++(अपो निस्सार्य प्रसन्न)+++ शचीपते ।
अ॒पा॒लाम् इ॑न्द्र॒ त्रिः पू॒त्व्य्॑ अकर॒त् सूर्य॑वर्चसम् ।+++(र५)+++
(अत्रेतिहासमाचक्षते - अपाला नाम काचित् कन्या श्वित्रिणी +++(=श्वेतकुष्टवती)+++ । तां न कश्चिदुपयेमे । तस्याश्च मनसि कामः सदा बभूव, कथमहं इन्द्रं यजे इति । सा कदाचित् स्नानार्थं नद्याम् अवतीर्णा स्रोतसा ह्रियमाणा, तम् एव कामं मनसि दधाना, स्रोतसा ऽपनीतं सोमम् अपश्यत् । तं दन्तैः पिष्ट्वा तद्रसं इन्द्राय उपाहरत् । तम् इन्द्रः पीत्वा रथस्यानसो+++(=शकटस्य)+++ युगस्येति त्रयाणां छिद्रेषु अपो निस्सार्य, ताभिः तां त्रिः पूर्त्वा सूर्यवर्चसम् अकरोत् । तदेतत् “कन्या वारवायती” (ऋग्वेदे) इत्यस्मिन् वर्गे द्रष्टव्यम् । रथ इति षष्ठ्यर्थे प्रथमा । रथादीनां खेषु छिद्रेषु, अपो निस्सार्य त्रिः पूर्त्वी । छान्दसो रेफोपजनः । पूत्वा शोधयित्वा हे शचीपते हे इन्द्र । त्वं अपालां नाम कन्यां सूर्यवर्चसं अकरत् अकरोः । पुरुषव्यत्ययश्छान्दसः । तथैव एनामपि कुर्वित्यर्थः ॥ )
०९ खेऽनसः खे ...{Loading}...
मूलम्
खेऽनसः॒ खे रथः॒ खे युग॑स्य शचीपते ।
अ॒पा॒लामि॑न्द्र॒ त्रिः पू॒र्त्व्य॑कर॒त्सूर्य॑वर्चसम् ।
हरदत्तः
तस्मिन्निण्वे दक्षिणं युगच्छिद्रं प्रतिष्ठापयति - खेऽनस इति ॥ अत्रेतिहासमाचक्षते - अपाला नाम काचित् कन्या श्वित्रिणी । तां न कश्चिदुपयेमे । तस्याश्च मनसि कामः सदा बभूव, कथमहं इन्द्रं यजे इति । सा कदाचित् स्नानार्थं नद्यामवतीर्णा स्रोतसा ह्रियमाणा, तमेव कामं मनसि दधाना, स्रोतसाऽपनीतं सोममपश्यत् । तं दन्तैः पिष्ट्वा तद्रसं इन्द्राय उपाहरत् । तमिन्द्रः पीत्वा रथस्यानसो युगस्येति त्रयाणां छिद्रेषु अपो निस्सार्य, ताभिः तां त्रिः पूर्त्वा सूर्यवर्चसमकरोत् । तदेतत् “कन्या वारवायती” (ऋग्वेदे) इत्यस्मिन् वर्गे द्रष्टव्यम् । रथ इति षष्ठ्यर्थे प्रथमा । रथादीनां खेषु छिद्रेषु, अपो निस्सार्य त्रिः पूर्त्वी । छान्दसो रेफोपजनः । पूत्वा शोधयित्वा हे शचीपते हे इन्द्र । त्वं अपालां नाम कन्यां सूर्यवर्चसं अकरत् अकरोः । पुरुषव्यत्ययश्छान्दसः । तथैव एनामपि कुर्वित्यर्थः ॥