1 01a

०१ अदितेऽनु मन्यस्व ...{Loading}...

अदि॒तेऽनु॑ मन्यस्व। +++(इति दक्षिणतः, प्राचीनम्)+++

०१ अदितेऽनु मन्यस्व ...{Loading}...

मूलम्

अदि॒तेऽनु॑ मन्यस्व।

हरदत्तः

अदितिर्नाम देवमाता । हे अदिते अनुमन्यस्व । मया क्रियमाणं कर्म अनुजानीहि ।

०२ अनुमतेऽनु मन्यस्व ...{Loading}...

अनु॑म॒ते+++(=ऊनचन्द्रे पूर्णमासि)+++ ऽनु॑ मन्यस्व। +++(इति पश्चिमाद् उदीचीनम्)+++

ँश

०२ अनुमतेऽनु मन्यस्व ...{Loading}...

मूलम्

अनु॑म॒तेऽनु॑ मन्यस्व।

हरदत्तः

अनुमतिः अनुमन्त्री ऊनचन्द्रा पूर्णमासी । हे अनुमते अनुमन्यस्व ।

०३ सरस्-वतेऽनु मन्यस्व ...{Loading}...

सर॑स्-वते+++(छान्दसो गुणः)+++ ऽनु॑ मन्यस्व। +++(इति उत्तरतः प्राचीनम्)+++

ँश

०३ सरस्-वतेऽनु मन्यस्व ...{Loading}...

मूलम्

सर॑स्-वतेऽनु॑ मन्यस्व।

हरदत्तः

सरस्वती वाग्देवता, तस्यास्सम्बुद्धिः । हे सरस्वते अनुमन्यस्व । सरस्वते इति छान्दसो गुणः ।

०४ देव सवितः ...{Loading}...

देव॑ सवितः॒ प्रसु॑व। +++(इति प्रागारम्भं प्रदक्षिणं)+++

ँश

०४ देव सवितः ...{Loading}...

मूलम्

देव॑ सवितः॒ प्रसु॑व।

हरदत्तः

हे देव सवितः । सर्वस्यानुज्ञाता । अस्मानपि प्रसुव अनुजानीहि ॥

०५ ओम् अग्नये ...{Loading}...

  • ओम्+++(इत्यनुज्ञाक्षरं)+++ अ॒ग्नये॒ स्वाहा॑+++(हविःप्रदानार्थः)+++।
ँश

०५ ओम् अग्नये ...{Loading}...

मूलम्

ओम् अ॒ग्नये॒ स्वाहा॑।

हरदत्तोक्त-विनियोगः

अथ वैश्वदेवमन्त्राः । तेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्या । इत्यादि । उपयोगः नियमपूर्वकं विद्याग्रहणम् । कर्तुरेव व्रतम् । पत्न्या अपि केचिदिच्छन्ति ।

हरदत्तः

ओम् अग्नये स्वाहा । यथा ओम्- इत्यनुज्ञाक्षरं, तथा स्वाहाकारो हविःप्रदानार्थः ।

०६ सोमाय स्वाहा ...{Loading}...

  • सोमा॑य॒ स्वाहा॑।+++(कैश्चिन्नोच्यते मन्त्रः।)+++
ँश

०६ सोमाय स्वाहा ...{Loading}...

मूलम्

सोमा॑य॒ स्वाहा॑।

हरदत्तः

सोमाय स्वाहेति । इमं मन्त्रं केचिन्नाधीयते ।

०७ विश्वेभ्यो देवेभ्यस् ...{Loading}...

  • विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑।
ँश

०७ विश्वेभ्यो देवेभ्यस् ...{Loading}...

मूलम्

विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑।

हरदत्तः

विश्वेभ्यो देवेभ्यः । सर्वेभ्यो देवेभ्यः ।

०८ ध्रुवाय भूमाय ...{Loading}...

  • +++(खे)+++ ध्रु॒वाय॑ भू॒माय॑+++(=भूम्ने)+++ स्वाहा॑।
ँश

०८ ध्रुवाय भूमाय ...{Loading}...

मूलम्

ध्रु॒वाय॑ भू॒माय॑ स्वाहा॑।

हरदत्तः

ध्रुवाय एकरूपाय वृद्धिक्षयरहिताय । भूमाय भूम्ने ब्रह्मणे । भूमा त्वेव विजिज्ञासितव्यः इति छान्दोग्यम् ।

०९ ध्रुवक्षितये स्वाहा ...{Loading}...

ध्रु॒व॒-क्षित॑ये॒+++(←स्वरः??)+++ +++(खे)+++ स्वाहा॑।
+++(विवाहे ध्रुव-दर्शन-मन्त्रेऽप्य् अयम् प्रयोगः)+++

ँश

०९ ध्रुवक्षितये स्वाहा ...{Loading}...

मूलम्

ध्रु॒व॒क्षित॑ये॒ स्वाहा॑।

हरदत्तः

ध्रुवा निश्चला क्षितिः गतिः व्याप्तिर्यस्य कार्यवर्गं प्रति, तस्मै ध्रुवक्षितये ब्रह्मणे ।

१० अच्युतक्षितये स्वाहा ...{Loading}...

अ॒च्यु॒त॒-क्षित॑ये॒+++(←स्वरः??)+++ स्वाहा॑।

ँश

१० अच्युतक्षितये स्वाहा ...{Loading}...

मूलम्

अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा॑।

हरदत्तः

एवं अच्युतक्षितये ।

११ अग्नये स्विष्टकृते ...{Loading}...

  • अ॒ग्नये॑ स्विष्ट॒कृते॑ स्वाहा॑।+++(=रुद्रोऽग्निस्स्विष्टकृत्)+++
ँश

११ अग्नये स्विष्टकृते ...{Loading}...

मूलम्

अ॒ग्नये॑ स्विष्ट॒कृते॑ स्वाहा॑।

हरदत्तः

एवमग्नये स्विष्टकृते । रुद्रोऽग्निस्स्विष्टकृत् । स्विष्टं सुहुतं करोतीति स्विष्टकृत् तस्मै ॥

१२ अदितेऽन्वमँस्थाः अनुमतेऽन्वमँस्थाः ...{Loading}...

अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++

अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++

सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++

देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++

ँश

१२ अदितेऽन्वमँस्थाः अनुमतेऽन्वमँस्थाः ...{Loading}...

मूलम्

अदि॒तेऽन्व॑मँस्थाः। अनु॑म॒तेऽन्व॑मँस्थाः। सर॑स्-व॒तेऽन्व॑मँस्थाः। देव॑ सवितः॒ प्रासा॑वीः।

हरदत्तः

पूर्ववत्परिषेचनम् । अन्वमंस्थाः । अनुज्ञातवती । प्रासावीः अनुज्ञातवान् ॥

१३ धर्माय स्वाहा ...{Loading}...

  • धर्मा॑य स्वाहा॑ । अध॑र्माय स्वाहा॑। +++(अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०)+++
  • अ॒द्भ्यस् स्वाहा॑ । +++(उदधानसंनिधौ नवमेन २१)+++
ँश

१३ धर्माय स्वाहा ...{Loading}...

मूलम्

धर्मा॑य स्वाहा॑ । अध॑र्माय स्वाहा॑।
अ॒द्भ्यस् स्वाहा॑ ।

हरदत्तोक्त-विनियोगः

अथ बलिहरणमन्त्राः ।

हरदत्तः

धर्माधर्मौ प्रसिद्धौ, आपश्च । एवमोषधिवनस्पतयञ्च । अत्र तत्तदधिष्ठात्र्यो देवता गृह्यन्ते ।

१४ ओषधिवनस्पतिभ्यस् स्वाहा ...{Loading}...

  • ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स् स्वाहा॑। र॒क्षो॒दे॒व॒ज॒नेभ्य॒स् स्वाहा॑ । +++(मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२)+++
ँश

१४ ओषधिवनस्पतिभ्यस् स्वाहा ...{Loading}...

मूलम्

ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स् स्वाहा॑। +++( अस्य प्रतीकस्य न व्याख्यातं भाष्ये-सम्पादकस्य लेखः)+++
र॒क्षो॒दे॒व॒ज॒नेभ्य॒स् स्वाहा॑ ।

हरदत्तः

रक्षोदेवजनेभ्यः । रक्षसां देवानां च ये जनाः परिचारकाः तेभ्यः ।

१५ गृह्यभ्यस् स्वाहा ...{Loading}...

  • +++(वास्तुविद्याप्रसिद्धेभ्यः)+++ गृह्या॑भ्य॒स् स्वाहा॑। अ॒व॒साने॑भ्यस्+++(=सीमाभ्यः)+++ स्वाहा॑ । अ॒व॒सान॑पतिभ्य॒स् स्वाहा॑ । स॒र्व॒भू॒तेभ्य॒स् स्वाहा॑ । +++(उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३)+++
ँश

१५ गृह्यभ्यस् स्वाहा ...{Loading}...

मूलम्

गृह्य॑भ्य॒स् स्वाहा॑। अ॒व॒साने॑भ्यस् स्वाहा॑ । अ॒व॒सान॑पतिभ्य॒स् स्वाहा॑ । स॒र्व॒भू॒तेभ्य॒स् स्वाहा॑ ।

हरदत्तः

गृह्याभ्यः गृहे भवाः गृहाः देवताः, वास्तुविद्याप्रसिद्धाः, ताभ्यः । अवसानेभ्यः अवसानं गृहम्, अवयवापेक्षं बहुवचनम् । तत्तदधिष्ठानेभ्यो देवताभ्यः । अवसानपतिभ्यः अवसानरक्षितृभ्यः । सर्वभूतेभ्यस्स्वाहा । सर्वाणि च तानि भूतानि च तेभ्यः ।

१६ कामय स्वाहा ...{Loading}...

  • काम॑य॒ स्वाहा॑ । +++(शय्यादेशे कामलिङ्गेन)+++
  • अ॒न्तरि॑क्षाय॒ स्वाहा॑ । +++(देहल्यामन्तरिक्षलिङ्गेन २)+++
ँश

१६ कामय स्वाहा ...{Loading}...

मूलम्

काम॑य॒ स्वाहा॑ ।
अ॒न्तरि॑क्षाय॒ स्वाहा॑ ।

हरदत्तः

कामाय । कामः प्रसिद्धः । एवमन्तरिक्षमपि ।

१७ यदेजति जगति ...{Loading}...

  • यद् एज॑ति+++(=कम्पते)+++ जग॑ति यच् च॒ चेष्ट॑ति, नाम्नो॑ भा॒गो ऽयं, नाम्ने॒ स्वाहा॑। +++(उत्तरेणापिधान्याम् (अर्गले)३)+++
ँश

१७ यदेजति जगति ...{Loading}...

मूलम्

यदेज॑ति जग॑ति यच्च॒ चेष्ट॑ति नाम्नो॑ भा॒गोऽयं नाम्ने॒ स्वाहा॑।

हरदत्तः

यदेजति येनापिधीयते द्वारं तदुच्यते । यद्वा यत् अपिधानकाले कम्पते जगति लोके यच्च चेष्टति चेष्टते, तस्य नाम्नो नमनशीलस्य भागोऽयं तस्मै नाम्ने स्वाहा ।

१८ पृथिव्यै स्वाहा ...{Loading}...

+++(उत्तरैर्ब्रह्मसदने)+++

  • पृ॒थि॒व्यै स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। दि॒वे स्वाहा॑ ।
  • सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स् स्वाहा॑ ।
  • इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑।
ँश

१८ पृथिव्यै स्वाहा ...{Loading}...

मूलम्

पृ॒थि॒व्यै स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। दि॒वे स्वाहा॑ । सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स् स्वाहा॑ । इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑।

हरदत्तः

पृथिव्यादयः प्रसिद्धाः ।

१९ स्वधा पितृभ्यस् ...{Loading}...

  • स्व॒धा पि॒तृभ्य॒स् स्वाहा॑। +++( दक्षिणतः पितृलिङ्गेन प्राचीनावीत्य् अवाचीन-पाणिः कुर्यात् ५)+++
ँश

१९ स्वधा पितृभ्यस् ...{Loading}...

मूलम्

स्व॒धा पि॒तृभ्य॒स् स्वाहा॑।

हरदत्तः

यथा देवेभ्यस्स्वाहाकारः, एवं पितृभ्यः स्वधाकारः ।

२० नमो रुद्राय ...{Loading}...

  • नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑। +++(रौद्र उत्तरो यथा देवताभ्यः ६ तयोर् नाना परिषेचनं धर्म-भेदात् ७)+++
ँश

२० नमो रुद्राय ...{Loading}...

मूलम्

नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑।

हरदत्तः

नमो रुद्राय पशुपतये । पशवो द्विपादश्चतुष्पादश्च, तेषां पत्ये ।

२१ ये भूताः ...{Loading}...

  • ये भू॒ताः प्र॒चर॑न्ति दिवा॒ /नक्तं॒
    बलि॑म् इ॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑ ।
    तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒
    मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा॑॥ +++(नक्तमेवोत्तमेन वैहायसम् ८)+++
ँश

२१ ये भूताः ...{Loading}...

मूलम्

ये भू॒ताः प्र॒चर॑न्ति दिवा॒ नक्तं॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑ । तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा॑॥

हरदत्तः

ये भूताः प्रचरन्ति । यानि भूतानि प्रचरन्ति इतस्ततः चरन्ति, दिवा नक्तं बलिमिच्छन्तः, वितुदस्य कुबेरपुत्रस्य । वितुदये कौबेराय इति मन्त्रान्तरे दर्शनात् । तस्य कुबेरपुत्रस्य, ये प्रेष्याः, तेभ्यः बलिं पुष्टिकामः हरामि । स पुष्टिपतिः वितुदः मयि पुष्टिं दधातु । अनेन नक्तमेव बलेः नक्तमेवोत्तमेन वैहायसम् इति दर्शनात्, नक्तं बलिमिच्छन्तः इति लिङ्गाच्च ।
अन्ये तु- नक्तमुत्तमेनैवेति भिन्नक्रम- मेवकारस्याचक्षते, तेषां बल्यन्तराणां रात्रौ निवृत्तिः । केचिद्दिवा बलिमिच्छन्तः, इत्यूहेन दिवा बलिं हरन्ति । दिवाचारिभ्य इति दिवा, नक्तञ्चारिभ्य इति नक्तम् - इत्याश्वलायने दर्शनात् ॥