एकाग्निकाण्डे प्रथमः प्रश्नः १
१ प्र॒सु॒ग्मन्ता॑ धि॒यसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भिषु॒प्रसी॑दत
। अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति ।
अ॒नृ॒क्ष॒रा ऋ॒जव॑स्सन्तु॒ पन्था॒ येभि॒स्सखा॑यो॒ यन्ति॑ नो वरे॒यम्
। सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यँ सु॒यम॑मस्तु देवाः ।
अभ्रा॑तृघ्नीं॒ वरु॒णाप॑तिघ्नीं बृहस्पते । इन्द्रापु॑त्रघ्नीं ल॒क्ष्म्यं॑ ताम॒स्यै
स॑वितस्सुव । अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒तिभ्य॑स्सु॒मना॑स्सु॒वर्चाः॑ ।
जी॒व॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे । इ॒दम॒हं या
त्वयि॑ पति॒घ्न्य॑ल॒क्ष्मिस्तां निर्दि॑शामि । जी॒वाँरु॑दन्ति॒ विम॑यन्ते अध्व॒रे
दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ । वा॒मं पि॒तृभ्यो॒ य इ॒दँ स॑मेरि॒
रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ । व्यु॑क्षत्क्रू॒रमुद॑च॒न्त्वाप॒ आऽस्यै
ब्रा॑ह्म॒णास्स्नप॑नँ हरन्तु । अवी॑रघ्नी॒रुद॑च॒न्त्वापः॑ । अ॒र्य॒म्णो अ॒ग्निं
परि॑ यन्तु क्षि॒प्रं प्रती॑क्षन्ताँ॒ श्वश्र्वो॑ दे॒वरा॑श्च । खेऽनसः॒ खे
रथः॒ खे युग॑स्य शचीपते । अ॒पा॒लामि॑न्द्र॒ त्रिः पू॒र्त्व्य॑कर॒त्सूर्य॑वर्चसम् ।
शं ते॒ हिर॑ण्यँ॒शमु॑ स॒न्त्वापः॒ शं ते॑ मे॒धी भ॑वतु॒ शं यु॒गस्य॒
तृद्म॑ । शं त॒ आपः॑ श॒तप॑वित्रा भव॒न्त्वथा॒ पत्या॑ त॒न्वँ॑ सँ
सृ॑जस्व ॥ ०। ०। १। १॥ दी॒धि॒यु॒र्नरो॒ऽष्टौ च॑ ॥ १॥
२ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒काः प्रच॑क्रमुर् हि॒त्वाऽव॒द्यमापः॑ । श॒तं
प॒वित्रा॒ वित॑ता॒ ह्या॑सु॒ ताभि॑ष्ट्वा दे॒वः स॑वि॒ता पु॑नातु । हिर॑ण्यवर्णाः॒
शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्व॒ग्निः । या अ॒ग्निं गर्भं॑ दधि॒रे
सु॒वर्णा॒स्तास्त॒ आपः॒ शँ स्यो॒ना भ॑वन्तु । यासाँ॒ राजा॒ वरु॑णो॒
याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । या अ॒ग्निं गर्भं॑ दधि॒रे
सु॒वर्णा॒स्तास्त॒ आपः॒ शँ स्यो॒ना भ॑वन्तु । यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑
भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा निवि॑ष्टाः । या अ॒ग्निं गर्भं॑ दधि॒रे
सु॒वर्णा॒स्तास्त॒ आपः॒ शँ स्यो॒ना भ॑वन्तु । शि॒वेन॑ त्वा॒ चक्षु॑षा
पश्यन्त्वापः शि॒वया॑ त॒न्वोप॑स्पृशन्तु॒ त्वचं॑ ते । घृ॒त॒श्चुतः॒
शुच॑यो॒ याः पा॑व॒कास्तास्त॒ आपः॒ शँ स्यो॒ना भ॑वन्तु । परि॑ त्वा गिर्वणो॒
गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ । वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒
जुष्ट॑यः । आ॒शासा॒नेत्ये॒षा । पू॒षा त्वे॒तो न॑यतु॒ हस्त॒गृह्या॒श्विनौ॑ त्वा॒
प्रव॑हताँ॒ रथे॑न । गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथाऽसो॑ व॒शिनी॒
त्वं वि॒दथ॒माव॑दासि ॥ ०। ०। १। २॥ भ॒व॒न्तु॒ पञ्च॑ च ॥ २॥
३ सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः । तृ॒तीयो॑ अ॒ग्निष्टे॒
पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः । सोमो॑ऽददद्गन्ध॒र्वाय॑ गन्ध॒र्वोऽद॑दद॒ग्नये॑
। र॒यिं च॑ पु॒त्राग्श्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् । गृ॒भ्णामि॑
ते सुप्रजा॒स्त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथाऽसः॑ । भगो॑
अर्य॒मा स॑वि॒ता पुर॑न्धि॒र्मह्यं॑ त्वाऽदु॒र्गार्ह॑पत्याय दे॒वाः । ते ह॒
पूर्वे॒ जना॑सो॒ यत्र॑ पूर्व॒वहो॑ हि॒ताः । मू॒र्ध॒न्वान्, यत्र॑ सौभ्र॒वः
पूर्वो॑ दे॒वेभ्य॒ आत॑पत् । सर॑स्वति॒ प्रेदम॑व॒ सुभ॑गे॒ वाजि॑नीवति ।
तां त्वा॒ विश्व॑स्य भू॒तस्य॑ प्र॒गाया॑मस्यग्र॒तः । य एति॑ प्र॒दिशः॒ सर्वा॒
दिशोऽनु॒ पव॑मानः । हिर॑ण्यहस्त ऐर॒म्मस्स त्वा॒ मन्म॑नसं कृणोतु । एक॑मि॒षे
विष्णु॒स्त्वाऽन्वे॑तु॒ द्वे ऊ॒र्जे त्रीणि॑ व्र॒ताय॑ च॒त्वारि॒ मायो॑भवाय॒ पञ्च॑
प॒शुभ्य॒ष्षडृ॒तुभ्य॑स्स॒प्त स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
सखा॑ स॒प्तप॑दा भव॒ सखा॑यौ स॒प्तप॑दा बभूव स॒ख्यं ते॑ गमेयँ
स॒ख्यात्ते॒ मा यो॑षँ स॒ख्यान्मे॒ मा यो॑ष्ठाः॒ सम॑याव॒ सङ्क॑ल्पावहै॒
सम्प्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ । इष॒मूर्ज॑म॒भि सं॒वसा॑नौ॒ सं नौ॒
मनाँ॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् । सा त्वम॒स्यमू॒हम॑मू॒हम॑स्मि॒
सा त्वं द्यौर॒हं पृ॑थि॒वी त्वँ रेतो॒ऽहँ रे॑तो॒भृत्त्वं मनो॒ऽहम॑स्मि॒
वाक्त्वँ सामा॒हम॒स्म्यृ॑क्त्वँ॒ सा मामनु॑व्रता भव पुँ॒से पु॒त्राय॒
वेत्त॑वै श्रि॒यै पु॒त्राय॒ वेत्त॑व॒ एहि॑ सूनृते ॥ ०। ०। १। ३॥ अ॒ग्र॒तष्षट्च॑
॥ ३॥
४ सोमा॑य जनि॒विदे॒ स्वाहा॑ गन्ध॒र्वाय॑ जनि॒विदे॒ स्वाहा॒ऽग्नये॑ जनि॒विदे॒
स्वाहा॑ । क॒न्य॒ला पि॒तृभ्यो॑ य॒ती प॑तिलो॒कमव॑ दी॒क्षाम॑दास्थ॒ स्वाहा॑
। प्रेतो मु॒ञ्चाति॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करत् । यथे॒यमि॑न्द्र मीढ्वः
सुपु॒त्रा सु॒भगाऽस॑ति । इ॒मां त्वमि॑न्द्र मीढ्वः सपु॒त्राँ सु॒भगां॑ कृणु
। दशा॑स्यां पु॒त्रानाधे॑हि॒ पति॑मेकाद॒शं कृ॑धि । अ॒ग्निरै॑तु प्रथ॒मो
दे॒वता॑नाँ॒ सो॑ऽस्यै प्र॒जां मु॑ञ्चतु मृत्युपा॒शात् । तद॒यँ
राजा॒ वरु॒णोऽनु॑मन्यतां॒ यथे॒यँ स्त्री पौत्र॑म॒घं न रोदा॑त् ।
इ॒माम॒ग्निस्त्रा॑यतां॒ गार्ह॑पत्यः प्र॒जाम॑स्यै नयतु दी॒र्घमायुः॑ । अशू॑न्योपस्था॒
जीव॑तामस्तु मा॒ता पौत्र॑मान॒न्दम॒भि प्रबु॑ध्यतामि॒यम् । मा ते॑ गृ॒हे नि॒शि
घोष॒ उत्था॑द॒न्यत्र॒ त्वद्रु॑द॒त्यः॑ संवि॑शन्तु । मा त्वं वि॑के॒श्युर॒
आवधि॑ष्ठा जी॒वप॑त्नी पतिलो॒के विरा॑ज॒ पश्य॑न्ती प्र॒जाँ सु॑मन॒स्यमा॑नाम् ।
द्यौस्ते॑ पृ॒ष्ठँ र॑क्षतु वा॒युरू॒रू अ॒श्विनौ॑ च॒ स्तनं॒ धय॑न्तँ
सवि॒ताऽभि र॑क्षतु । आवास॑सः परि॒धाना॒द्बृह॒स्पति॒र्विश्वे॑ दे॒वा अ॒भि
र॑क्षन्तु प॒श्चात् । अ॒प्र॒ज॒स्तां पौ॑त्रमृ॒त्युं पा॒प्मान॑मु॒त वा॒ऽघम् ।
शी॒र्ष्णः स्रज॑मिवो॒न्मुच्य॑ द्वि॒षद्भ्यः॒ प्रति॑ मुञ्चामि॒ पाश॑म् । इ॒मं
मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽस्य॒या
सन्मन॑सा हि॒तः । अ॒या सन् ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जम् ॥ ०। ०। १। ४॥
इ॒यम॒ष्टौ च॑ ॥ ४॥
५ आ ति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्वँ स्थि॒रा भ॑व । अ॒भि ति॑ष्ठ
पृतन्य॒तः सह॑स्व पृतनाय॒तः । इ॒यं ना॒र्युप॑ ब्रूते॒ कुल्पा॑न्यावपन्ति॒का
। दी॒र्घा॒युर॑स्तु मे॒ पति॒र्जीवा॑तु श॒रदः॑ श॒तम् । तुभ्य॒मग्रे॒
पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह । पुनः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑
स॒ह । पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा । दी॒र्घा॒युर॑स्या॒
यः पति॒स्स ए॑तु श॒रदः॑ श॒तम् । विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑
इव । अति॑गाहेमहि॒ द्विषः॑ । आ ति॑ष्ठे॒ममश्मा॑नम् । अ॒र्य॒मणं॒ नु दे॒वं
क॒न्या॑ अ॒ग्निम॑यक्षत । स इ॒मां दे॒वो अ॑ध्व॒रः प्रेतो मु॒ञ्चाति॒ नामुतः॑
सुब॒द्धाम॒मुत॑स्करत् । तुभ्य॒मग्रे॒ पर्य॑वह॒न्पुनः॒ पत्नी॑म॒ग्निर॑दा॒द्विश्वा॑
उ॒त त्वया॑ व॒य मा ति॑ष्ठे॒ममश्मा॑नम् । त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒
नाम॑ स्व॒धाव॒त्स्व॑र्यं बि॒भर्षि॑ । अ॒ञ्जन्ति॑ वृ॒क्षँ सुधि॑तं॒
न गोभि॒र्यद्दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ । तुभ्य॒मग्रे॒ पर्य॑वह॒न्पुनः॒
पत्नी॑म॒ग्निर॑दा॒द्विश्वा॑ उ॒त त्वया॑ व॒यम् । प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒
पाशा॒द्येन॒ त्वाऽब॑ध्नात्सवि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के
स्यो॒नं ते॑ स॒ह पत्या॑ करोमि । इ॒मं विष्या॑मि॒ वरु॑णस्य॒ पाशं॒ यमब॑ध्नीत
सवि॒ता सु॒शेवः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह
पत्या॑ कृणोमि । अ॒याश्चा॒ग्नेऽस्य॑नभिश॒स्तीश्च॑ स॒त्यमि॑त्त्वम॒या अ॑सि ।
अय॑सा॒ मन॑सा धृ॒तोऽयसा॑ ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जम् ॥ ०। ०।
१। ५॥ द्विषः॑ सु॒शेव॒स्त्रीणि॑ च ॥ ५॥
६ स॒त्येनोत्त॑भिता॒ भूमि॒स्सूर्ये॒णोत्त॑भिता॒ द्यौः । ऋ॒तेना॑दि॒त्यास्तिष्ठ॑न्ति
दि॒वि सोमो॒ अधि॑ श्रि॒तः । यु॒ञ्जन्ति॑ ब्र॒ध्नं योगे॑योगे ।
सु॒किँ॒शु॒कँ श॑ल्म॒लिं वि॒श्वरू॑पँ॒ हिर॑ण्यवर्णँ
सु॒वृतँ॑ सुच॒क्रम् । आरो॑ह वध्व॒मृत॑स्य लो॒कँ स्यो॒नं
पत्ये॑ वह॒तुं कृ॑णुष्व । उदु॑त्त॒रमा॒रोह॑न्ती व्य॒स्यन्ती॑ पृतन्य॒तः ।
मू॒र्धानं॒ पत्यु॒रारो॑ह प्र॒जया॑ च वि॒राड्भ॑व । सं॒राज्ञी॒ श्वशु॑रे
भव सं॒राज्ञी॑ श्वश्रु॒वां भ॑व । नना॑न्दरि सं॒राज्ञी॑ भव सं॒राज्ञी॒
अधि॑ दे॒वृषु॑ । स्नु॒षाणाँ॒ श्वशु॑राणां प्र॒जाया॑श्च॒ धन॑स्य
च । पती॑नां च देवॄ॒णां च॑ सजा॒तानां॑ वि॒राड्भ॑व । नी॒ल॒लो॒हि॒ते
भ॑वतः कृ॒त्या स॒क्तिर्व्य॑ज्यते । एध॑न्तेऽस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑
बध्यते । ये व॒ध्वश्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जनाँ॒ अनु॑ ।
पुन॒स्तान्, य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः । मा वि॑दन्परिप॒न्थिनो॒
य आ॒सीद॑न्ति॒ दम्प॑ती । सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑द्रा॒न्त्वरा॑तयः ।
सु॒गं पन्था॑न॒मारु॑क्ष॒मरि॑ष्टँ स्वस्ति॒वाह॑नम् । यस्मि॑न्वी॒रो न
रिष्य॑त्य॒न्येषां॑ वि॒न्दते॒ वसु॑ ॥ ०। ०। १। ६॥ धन॑स्य च॒ नव॑ च ॥ ६॥
७ ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आध॒त्तँ र॒यिं द॒शवी॑रं वच॒स्यवे॑
। कृ॒तं ती॒र्थँ सु॑प्रपा॒णँ शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑
दुर्म॒तिँ ह॑तम् । अ॒यं नो॑ म॒ह्याः पा॒रँ स्व॒स्ति ने॑ष॒द्वन॒स्पतिः॑
। सीरा॑ नस्सु॒तरा॑ भव दीर्घायु॒त्वाय॒ वर्च॑से । अ॒स्य॒ पा॒रे नि॑रृ॒तस्य॑
जी॒वा ज्योति॑रशीमहि । म॒ह्या इ॑न्द्रस्स्व॒स्तये॑ । यदृ॒ते चि॑दभि॒श्रिषः॑ पु॒रा
ज॒र्तृभ्य॑ आ॒तृदः॑ । सन्धा॑ता स॒न्धिं म॒घवा॑ पुरो॒वसु॒र्निष्क॑र्ता॒
विहृ॑तं॒ पुनः॑ । इडा॑मग्न इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑
अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑ । ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च
दे॒वीरे॒षु वृ॒क्षेषु॑ वानस्प॒त्येष्वास॑ते । शि॒वास्ते अ॒स्यै व॒ध्वै॑
भवन्तु॒ मा हिँ॑सिषुर्वह॒तुमू॒ह्यमा॑नाम् । या ओष॑धयो॒ या न॒द्यो॑ यानि॒
धन्वा॑नि॒ ये वना॑ । ते त्वा॑ वधु प्र॒जाव॑तीं॒ प्र त्वे मु॑ञ्च॒न्त्वँह॑सः
। सङ्का॑शयामि वह॒तुं ब्रह्म॑णा गृ॒हैरघो॑रेण॒ चक्षु॑षा॒ मैत्रे॑ण ।
प॒र्याण॑द्धं वि॒श्वरू॑पं॒ यद॒स्याग् स्यो॒नं पति॑भ्यस्सवि॒ता कृ॑णोतु॒
तत् । आ वा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामाँ॑ अयँसत ।
अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्याँ॑ अशीमहि । अ॒यं
नो॑ दे॒वस्स॑वि॒ता बृह॒स्पति॑रिन्द्रा॒ग्नी मि॒त्रावरु॑णा स्व॒स्तये॑ । त्वष्टा॒
विष्णुः॑ प्र॒जया॑ सँररा॒णः काम॒ आया॑तं॒ कामा॑य त्वा॒ विमु॑ञ्चतु ॥ ०।
०। १। ७॥ आस॑ते॒ नव॑ च ॥ ७॥
८ शर्म॒ वर्मे॒दमाह॑रा॒स्यै नार्या॑ उप॒स्तिरे॑ । सिनी॑वालि॒ प्रजा॑यतामि॒यं
भग॑स्य सुम॒ता अ॑सत् । गृ॒हान्भ॒द्रान्त्सु॒मन॑सः॒ प्रप॒द्येऽवी॑रघ्नी
वी॒रव॑तस्सु॒वीरा॑न् । इरां॒ वह॑तो घृ॒तमु॒क्षमा॑णा॒स्तेष्व॒हँ
सु॒मना॒स्सं वि॑शामि । आग॑न्गो॒ष्ठं महि॑षी॒ गोभि॒रश्वै॒रायु॑ष्मत्पत्नी
प्र॒जया॑ स्व॒र्वित् । ब॒ह्वीं प्र॒जां ज॒नय॑न्ती सुरत्ने॒मम॒ग्निँ
श॒तहि॑मास्सपर्यात् । अ॒यम॒ग्निर्गृ॒हप॑तिः सुसँ॒सत्पु॑ष्टि॒वर्ध॑नः ।
यथा॒ भग॑स्या॒भ्यां दद॑द्र॒यिं पुष्टि॒मथो॑ प्र॒जाम् । प्र॒जाया॑ आभ्यां प्रजापत॒
इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् । यथैन॑यो॒र्न प्र॑मी॒याता॑ उ॒भयो॒र्जीव॑तोः
प्र॒जाः । तेन॑ भू॒तेन॑ ह॒विषा॒ऽयमाप्या॑यतां॒ पुनः॑ । जा॒यां याम॑स्मा॒
आवा॑क्षु॒स्ताँ रसे॑ना॒भिव॑र्धताम् । अ॒भिव॑र्धतां॒ पय॑सा॒ऽभि रा॒ष्ट्रेण॑
वर्धताम् । र॒य्या स॒हस्र॑पोषसे॒मौ स्ता॒मन॑पेक्षितौ । इ॒हैव स्तं॒ मा
वियो॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् । म॒ह्या इ॑न्द्रस्स्व॒स्तये॑ । ध्रु॒वैधि
पो॑ष्या॒ मयि॒ मह्यं॑ त्वाऽदा॒द्बृह॒स्पतिः॑ । मया॒ पत्या॑ प्र॒जाव॑ती॒ सं
जी॑व श॒रदः॑ श॒तम् । त्वष्टा॑ जा॒याम॑जनय॒त्त्वष्टा॑ऽस्यै॒ त्वां पति॑म्
। त्वष्टा॑ स॒हस्र॒मायुँ॑षि दी॒र्घमायुः॑ कृणोतु वाम् । इ॒मं मे॑ वरुण॒
तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑ ॥ ०। ०। १। ८॥
जीव॑तोः प्र॒जा वा॒मेकं॑ च ॥ ८॥
९ इ॒ह गावः॒ प्रजा॑यध्वमि॒हाश्वा॑ इ॒ह पूरु॑षाः । इ॒हो स॒हस्र॑दक्षिणो
रा॒यस्पोषो॒ निषी॑दतु । सोमे॑नादि॒त्या ब॒लिन॒स्सोमे॑न पृथि॒वी दृ॒ढा । अथो॒
नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आधि॑तः । प्रस्वस्स्थः॒ प्रेयं प्र॒जया॒ भुव॑ने
शोचेष्ट । इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन् गृ॒हे गार्ह॑पत्याय
जागृहि । ए॒ना पत्या॑ त॒न्वँ॑ सँ सृ॑ज॒स्वाथा॒ जीव्री॑ वि॒दथ॒माव॑दासि
। सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒माँ स॑मेत॒ पश्य॑त । सौभा॑ग्यम॒स्यै
द॒त्वायाथास्तं॒ विपरे॑तन । ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वम॑सि
ध्रु॒वत॑स्स्थि॒तम् । त्वं नक्ष॑त्राणां मे॒थ्यसि॒ स मा॑ पाहि पृतन्य॒तः ।
स॒प्त॒ ऋ॒षयः॑ प्रथ॒मां कृत्ति॑कानामरुन्ध॒तीं यद्ध्रु॒वताँ॒
ह नि॒न्युः । षट्कृत्ति॑का मुख्ययो॒गं वह॑न्ती॒यम॒स्माक॑मेधत्वष्ट॒मी ।
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । सनिं॑ मे॒धाम॑यासिषम् ।
उद्दी॑प्यस्व जातवेदोऽप॒घ्नन्निरृ॑तिं॒ मम॑ । प॒शूग्श्च॒ मह्य॒माव॑ह॒
जीव॑नं च॒ दिशो॑ दिश । मानो॑ हिँसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् ।
अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑ पातय ॥ ०। ०। १। ९॥ ध्रु॒वतः॑ स्थि॒तं
नव॑ च ॥ ९॥
१० उ॒दी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेडामहे त्वा । अ॒न्यामि॑च्छ प्रफ॒र्व्यँ॑
सं जा॒यां पत्या॑ सृज । उ॒दी॒र्ष्वातः॒ पति॑वति॒ ह्ये॑षा वि॒श्वाव॑सुं॒
नम॑सा गी॒र्भिरी॑ट्टे । अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्ताँ॒ स ते॑ भा॒गो
ज॒नुषा॒ तस्य॑ विद्धि । अग्ने॑ प्रायश्चित्ते॒ त्वं दे॒वानां॒ प्राय॑श्चित्तिरसि
ब्राह्म॒णस्त्वा॑ ना॒थका॑मः॒ प्रप॑द्ये॒ याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी
प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒तां कृ॑णोमि॒ स्वाहा॑ । वायो॑
प्रायश्चित्त॒ आदि॑त्य प्रायश्चित्ते॒ प्रजा॑पते प्रायश्चित्ते॒ त्वं दे॒वानां॒
प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑मः॒ प्रप॑द्ये॒ याऽस्यां प॑ति॒घ्नी
त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒ तां कृ॑णोमि॒
स्वाहा॑ । प्र॒स॒वश्चो॑पया॒मश्च॒ काट॑श्चार्ण॒वश्च॑ धर्ण॒सिश्च॒
द्रवि॑णं च॒ भग॑श्चा॒न्तरि॑क्षं च॒ सिन्धु॑श्च समु॒द्रश्च॒
सर॑स्वाग्श्च वि॒श्वव्य॑चाश्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒
जम्भे॑ दध्मः॒ स्वाहा॑ । मधु॑श्च॒ माध॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒
नभ॑श्च नभ॒स्य॑श्चे॒षश्चो॒र्जश्च॒ सह॑श्च सह॒स्य॑श्च॒ तप॑श्च
तप॒स्य॑श्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः॒
स्वाहा॑ । चि॒त्तं च॒ चित्ति॒श्चाकू॑तं॒ चाकू॑ति॒श्चाधी॑तं॒ चाधी॑तिश्च॒
विज्ञा॑तं च वि॒ज्ञानं॑ च॒ नाम॑ च॒ क्रतु॑श्च॒ दर्श॑श्च पू॒र्णमा॑सश्च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः॒ स्वाहा॑ । भूस्स्वाहा॒
भुव॒स्स्वाहा॒ सुव॒स्स्वाहोग्स्वाहा॑ ॥ ०। ०। १। १०॥ उ॒दी॒र्ष्वातो॒ दश॑ ॥ १०॥
११ अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
इ॒ह प्र॒जामि॒ह र॒यिँ ररा॑णः॒ प्रजा॑यस्व प्र॒जया॑ पुत्रकाम । अप॑श्यं
त्वा॒ मन॑सा॒ दीध्या॑नाँ॒ स्वायां॑ त॒नूँ ऋ॒त्विये॒ नाथ॑मानाम् । उप॒
मामु॒च्चा यु॑व॒तिर्बभू॑याः॒ प्रजा॑यस्व प्र॒जया॑ पुत्रकामे । सम॑ञ्जन्तु॒
विश्वे॑ दे॒वास्समापो॒ हृद॑यानि नौ । सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑
दिदेष्टु नौ । प्रजा॑पते त॒न्वं॑ मे जुषस्व॒ त्वष्ट॑र्दे॒वेभि॑स्स॒हसा॒म इ॑न्द्र
। विश्वै॑र्दे॒वै रा॒तिभिः॑ सँररा॒णः पुँ॒सां ब॑हू॒नां मा॒तरः॑
स्याम । आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा ।
अदु॑र्मङ्गलीः पतिलो॒कमावि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे । तां
पू॑षञ्-छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॑ वप॑न्ति । या न॑
ऊ॒रू उ॑श॒ती वि॒स्रया॑तै॒ यस्या॑मु॒शन्तः॑ प्र॒हरे॑म॒ शेफ॑म् ॥ ०। ०। १।
११॥ शं चतु॑ष्पदे॒ द्वे च॑ ॥ ११॥
१२ आरो॑हो॒रुमुप॑बर्हस्व बा॒हुं परि॑ष्वजस्व जा॒याँ सु॑मन॒स्यमा॑नः ।
तस्यां॑ पुष्यतं मिथु॒नौ सयो॑नी ब॒ह्वीं प्र॒जां ज॒नय॑न्तौ॒ सरे॑तसा ।
आ॒र्द्रयाऽर॑ण्या॒ यत्राम॑न्थ॒त्पुरु॑षं॒ पुरु॑षेण श॒क्रः । तदे॒तौ मि॑थु॒नौ
सयो॑नी प्र॒जया॒ऽमृते॑ने॒ह ग॑च्छतम् । अ॒हं गर्भ॒मद॑धा॒मोष॑धीष्व॒हं
विश्वे॑षु॒ भुव॑नेष्व॒न्तः । अ॒हं प्र॒जा अ॑जनयं पितृ॒णाम॒हं जनि॑भ्यो
अप॒रीषु॑ पु॒त्रान् । पु॒त्रिणे॒मा कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतम् । उ॒भा
हिर॑ण्यपेशसा वी॒तिहो॑त्रा कृ॒तद्व॑सू । द॒श॒स्यन्त्वा॒ऽमृता॑य॒ कँ
शमूधो॑ रोम॒शँ ह॑थो दे॒वेषु॑ कृ॒णुतो॒ दुवः॑ ॥ ०। ०। १। १२॥ आरो॑ह॒
नव॑ ॥ १२॥
१३ विष्णु॒ऱ्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिँशतु । आसि॑ञ्चतु
प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते । गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि
सरस्वति । गर्भं॑ ते अ॒श्विनौ॑ दे॒वावाध॑त्तां॒ पुष्क॑रस्रजा । हि॒र॒ण्ययी॑
अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना॑ । तं ते॒ गर्भँ॑ हवामहे दश॒मे
मा॒सि सूत॑वे । यथे॒यं पृ॑थि॒वी म॒ही तिष्ठ॑न्ती॒ गर्भ॑माद॒धे । ए॒वं
त्वं गर्भ॒माध॑त्स्व दश॒मे मा॒सि सूत॑वे । यथा॑ पृथि॒व्य॑ग्निग॑र्भा॒
द्यौर्यथेन्द्रे॑ण ग॒र्भिणी॑ । वा॒युर्यथा॑ दि॒शां गर्भ॑ ए॒वं गर्भं॑ दधामि ते ।
विष्णो॒ श्रेष्ठे॑न रू॒पेणा॒स्यां नार्यां॑ गवी॒न्या॑म् । पुमाँ॑सं॒ गर्भ॒माधे॑हि
दश॒मे मा॒सि सूत॑वे । नेज॑मेष॒ परा॑पत॒ सपु॑त्रः॒ पुन॒राप॑त । अ॒स्यै मे
पु॒त्रका॑मायै॒ गर्भ॒माधे॑हि॒ यः पुमा॑न् । व्यस्य॒ योनिं॒ प्रति॒ रेतो॑ गृहाण॒
पुमा॑न्पु॒त्रो धी॑यतां॒ गर्भो॑ अ॒न्तः । तं मा॒ता द॑श॒मासो॑ बिभर्तु॒ स जा॑यतां
वी॒रत॑म॒स्स्वाना॑म् । आ ते॒ गर्भो॒ योनि॑मेतु॒ पुमा॒न्बाण॑ इवेषु॒धिम् । आ वी॒रो
जा॑यतां पु॒त्रस्ते॑ दश॒मास्यः॑ ॥ ०। ०। १। १३॥ गर्भं॑ दधामि ते॒ऽष्टौ च॑
॥ १३॥
१४ क॒रोमि॑ ते प्राजाप॒त्यमा गर्भो॒ योनि॑मेतु ते । अनू॑नः पू॒र्णो
जा॑यता॒मश्लो॒णोऽपि॑शाचधीतः । पुमाग्॑स्ते पु॒त्रो ना॑रि॒ तं पुमा॒ननु॑जायताम् ।
तानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॑नयन्तु नौ । यानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा
ज॑नय॒न्ति नः॑ । तैस्त्वं पु॒त्रान्, वि॑न्दस्व॒ सा प्र॒सूर्धे॑नु॒का भ॑व ।
काम॒प्रमृ॑ध्यतां॒ मह्य॒मप॑राजितमे॒व मे॑ । यं कामं॑ का॒मये॑ देव॒
तं मे॑ वायो॒ सम॑र्धय । अ॒नु॒ह॒वं प॑रिह॒वं प॑रीवा॒दं प॑रिक्ष॒पम् ।
दुस्स्व॑प्नं॒ दुरु॑दितं॒ तद्द्वि॒षद्भ्यो॑ दिशाम्य॒हम् । अनु॑हूतं॒ परि॑हूतँ
श॒कुने॒र्यदशा॑कु॒नम् । मृ॒गस्य॑ सृ॒तम॑क्ष्णया॒ तद्द्वि॒षद्भ्यो॑
दिशाम्य॒हम् । आ॒रात्ते॑ अ॒ग्निर॑स्त्वा॒रात्प॑र॒शुर॑स्तु ते । नि॒वा॒ते त्वा॒ऽभि
व॑र्षतु स्व॒स्ति ते॑ऽस्तु वनस्पते स्व॒स्ति मे॑ऽस्तु वनस्पते । नमः॑ शकृ॒त्सदे॑
रु॒द्राय॒ नमो॑ रु॒द्राय॑ शकृ॒त्सदे॑ । गो॒ष्ठम॑सि॒ नम॑स्ते अस्तु॒ मा मा॑
हिँसीः॒ सिग॑सि॒ नसि॒ वज्रो॒ नम॑स्ते अस्तु॒ मा मा॑ हिँसीः । उ॒द्गा॒तेव॑
श॒कुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शँससि । स्व॒स्ति नः॑
श॒कुने॑ अस्तु॒ प्रति॑ नस्सु॒मना॑ भव ॥ ०। ०। १। १४॥ अ॒हम॒ष्टौ च॑ ॥ १४॥
१५ प्रा॒तर॒ग्निं प्रा॒तरिन्द्रँ॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रँ हु॑वेम
। प्रा॒त॒र्जितं॒ भग॑मु॒ग्रँ हु॑वेम व॒यं पु॒त्रमदि॑ते॒ऱ्यो वि॑ध॒र्ता ।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ।
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑व॒ दद॑न्नः । भग॒
प्रणो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्रनृभि॑र्नृ॒वन्तः॑ स्याम । उ॒तेदानीं॒
भग॑वन्तः स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना॑म् । उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य
व॒यं दे॒वानाँ॑ सुम॒तौ स्या॑म । भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑
व॒यं भग॑वन्तस्स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुर ए॒ता
भ॑वे॒ह । सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु ।
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः । घृ॒तं
दुहा॑ना वि॒श्वतः॒ प्रपी॑ना यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ ०। ०। १। १५॥
भ॒वे॒ह च॒त्वारि॑ च ॥ १५॥
१६ इ॒मां खना॒म्योष॑धीं वी॒रुधं॒ बल॑वत्तमाम् । यया॑ स॒पत्नीं॒ बाध॑ते॒
यया॑ संवि॒न्दते॒ पति॑म् । उ॒त्ता॒नप॑र्णे॒ सुभ॑गे॒ सह॑माने॒ सह॑स्वति ।
स॒पत्नीं॑ मे॒ परा॑धम॒ पतिं॑ मे॒ केव॑लं कृधि । उत्त॑रा॒ऽहमुत्त॑र॒
उत्त॒रेदुत्त॑राभ्यः । अथा॑ स॒पत्नी॒ या ममाध॑रा॒ साऽध॑राभ्यः । न ह्य॑स्यै॒
नाम॑ गृभ्णामि॒ नो अ॒स्मिन्र॑मते॒ जने॑ । परा॑मे॒व प॑रा॒वतँ॑ स॒पत्नीं॑
नाशयामसि । अ॒हम॑स्मि॒ सह॑मा॒नाऽथ॒ त्वम॑सि सास॒हिः । उ॒भे सह॑स्वती
भू॒त्वा स॒पत्नीं॑ मे सहावहै । उप॑ तेऽधाँ॒ सह॑मानाम॒भि त्वा॑ऽधाँ॒
सही॑यसा । मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥
०। ०। १। १६॥ स॒हा॒व॒है॒ द्वे च॑ ॥ १६॥
१७ उद॒सौ सूऱ्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ । अ॒हं तद्विद्व॒ला
प॑तिम॒भ्य॑साक्षि विषास॒हिः । अ॒हं के॒तुर॒हं मू॒र्धाऽहमु॒ग्रा वि॒वाच॑नी ।
ममे॒दनु॒ क्रतुं॒ पति॑स्सेहा॒नाया॑ उ॒वाच॑रेत् । मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑
मे दुहि॒ता वि॒राट् । उ॒ताहम॑स्मि॒ सञ्ज॑या॒ पत्यु॑र्मे॒ श्लोक॑ उत्त॒मः । येनेन्द्रो॑
ह॒विषा॑ कृ॒त्य॑भवद्दि॒व्यु॑त्त॒मः । अ॒हं तद॑क्रि देवा असप॒त्ना किला॑भवम्
। अ॒स॒प॒त्ना स॑पत्नि॒घ्नी जय॑न्त्यभि॒भूव॑रीः । आवि॑त्सि॒ सर्वा॑साँ॒
राधो॒ वर्चो॒ अस्थे॑यसामिव । सम॑जैषमि॒मा अ॒हँ स॒पत्नी॑रभि॒भूव॑रीः ।
यथा॒ऽहम॑स्य वी॒रस्य॑ वि॒राजा॑मि॒ धन॑स्य च ॥ ०। ०। १। १७॥ अस्थे॑यसामिव॒
द्वे च॑ ॥ १७॥
१८ अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ चुबु॑का॒दधि॑ । यक्ष्मँ॑
शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ विवृ॑हामि ते । ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒
कीक॑साभ्योऽनू॒क्या॑त् । यक्ष्मं॑ दोष॒ण्य॑मँसा॑भ्यां बा॒हुभ्यां॒
विवृ॑हामि ते । आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर् हृद॑या॒दधि॑ । यक्ष्मं॒
मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ विवृ॑हामि ते । ऊ॒रुभ्यां॑ तेऽष्ठी॒वद्भ्यां॒
जङ्घा॑भ्यां॒ प्रप॑दाभ्याम् । यक्ष्मँ॒ श्रोणी॑भ्यां भा॒सदा॑द्ध्वँ॒ससो॒
विवृ॑हामि ते । मेह॑नाद्वल॒ङ्कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ । यक्ष्मँ॒
सर्व॑स्मादा॒त्मन॒स्तमि॒मं विवृ॑हामि ते । अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं
पर्व॑णिपर्वणि । यक्ष्मँ॒ सर्व॑स्मादा॒त्मन॒स्तमि॒मं विवृ॑हामि ते ।
परा॑देहि शाब॒ल्यं॑ ब्र॒ह्मभ्यो॒ विभ॑जा॒ वसु॑ । कृ॒त्यैषा प॒द्वती॑
भू॒त्वा जा॒याऽऽवि॑शते॒ पति॑म् । अ॒श्ली॒ला त॒नूर्भ॑वति॒ रुश॑ती
पा॒पया॑ऽमु॒या । पति॒र्यद्व॒ध्वै॑ वास॑सा॒ स्वमङ्ग॑मभि॒ धित्स॑ति ।
क्रू॒रमे॒तत् कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैत॒दत्त॑वे । सू॒र्यां यः
प्र॒त्यक्षं॑ वि॒द्यात्स ए॒तत्प्रति॑गृह्णीयात् । आ॒शस॑नं वि॒शस॑न॒मथो॑
अधि वि॒चर्त॑नम् । सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मोत शँ॑सति ॥ ०।
०। १। १८॥ इ॒मं विवृ॑हामि ते शँसति ॥ १८॥ अ॒क्षी(भ्यां॑) ग्री॒वा(भ्य॑)
आ॒न्त्रे(भ्य॑) ऊ॒रु(भ्यां॒) मेह॑ना॒दङ्गा॑दङ्गा॒त्परा॑देहि स॒प्त ॥
प्र॒सु॒ग्मन्ता॒ऽष्टाद॑श॒ हिर॑ण्यवर्णाः॒ पञ्च॑दश॒ सोमः॑ प्रथ॒मः
षोड॑श॒ सोमा॑य जनि॒विदे॒ऽष्टाद॒शाति॑ष्ठे॒मं त्रयो॑विँशतिः
स॒त्येन॒ ता म॑न्दसा॒नैका॒न्न विँ॑शति॒रेका॒न्न विँ॑शतिः॒ शर्म॒
वर्मैक॑विँशतिरि॒ह गाव॒ एका॒न्न विँ॑शतिरुदी॒र्ष्वातो॒ दशाप॑श्यं
त्वा॒ द्वाद॒शारो॑हो॒रुं नव॒ विष्णु॒ऱ्योनिं॑ क॒रोमि॑ ते॒ऽष्टाद॑शाष्टादश
प्रा॒तर॒ग्निं चतु॑र्दशे॒मां खना॒म्युद॒सौ सूऱ्यो॒ द्वाद॑श द्वादशा॒क्षीभ्यां॑
ते विँश॒तिर॒ष्टाद॑श ॥ १८॥ प्र॒सु॒ग्मन्ताऽप॑श्यं त्वा॒ऽष्टाद॑श ॥ १८॥
प्र॒सु॒ग्मन्ता॒ तानि॑ ब्र॒ह्मोत शँ॑सति ॥
१ उ॒ष्णेन॑ वायवुद॒केनेह्यदि॑तिः॒ केशा॑न् वपतु । आप॑ उन्दन्तु जी॒वसे॑
दीर्घायु॒त्वाय॒ वर्च॑से । ज्योक्च॒ सूर्यं॑ दृ॒शे । येनाव॑पत्सवि॒ता
क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् । तेन॑ ब्रह्माणो
वपते॒दम॒स्यायु॑ष्मा॒ञ्जर॑दष्टि॒र्यथाऽस॑द॒यम॒सौ । येन॑ पू॒षा
बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत् । तेना॒स्यायु॑षे वप॒ सौश्लो॑क्याय
स्व॒स्तये॑ । येन॒ भूय॒श्चरा॑त्य॒यं ज्योक्च॒ पश्या॑ति॒ सूर्य॑म् । तेना॒स्यायु॑षे
वप॒ सौश्लो॑क्याय स्व॒स्तये॑ । येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒
चायु॒षेऽव॑पत् । तेन॑ ते वपाम्यसा॒वायु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक्सु॒मना॒
असाः॑ । यत्क्षु॒रेण॑ म॒र्चय॑ता सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशा॑न् । शु॒न्धि॒
शिरो॒ माऽस्यायुः॒ प्रमो॑षीः । उ॒प्त्वाय॒ केशा॒न् वरु॑णस्य॒ राज्ञो॒ बृह॒स्पतिः॑
सवि॒ता सोमो॑ अ॒ग्निः । तेभ्यो॑ नि॒धानं॑ बहु॒धाऽन्व॑विन्दन्नन्त॒रा द्यावा॑पृथि॒वी
अ॒पस्सुवः॑ ॥ ०। ०। २। १॥ आयु॒षेऽव॑प॒त्पञ्च॑ च ॥ १॥
२ आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने
। घृ॒तं पिब॑न्न॒मृतं॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रं ज॒रसे॑
नये॒मम् । आति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्वँ स्थि॒रो भ॑व
। अ॒भिति॑ष्ठ पृतन्य॒तस्सह॑स्व पृतनाय॒तः । रे॒वती॑स्त्वा॒
व्य॑क्ष्ण॒न्कृत्ति॑का॒श्चाकृ॑न्तँस्त्वा । धियो॑ऽवय॒न्नव॒ग्ना
अ॑वृञ्जन्त्स॒हस्र॒मन्ताँ॑ अ॒भितो॑ अयच्छन् । दे॒वीर्दे॒वाय॑
परि॒धी स॑वि॒त्रे म॒हत्तदा॑सामभवन्महित्व॒नम् । या अकृ॑न्त॒न्नव॑य॒न्
या अत॑न्वत॒ याश्च॑ दे॒वीरन्ता॑न॒भितो॑ऽददन्त । तास्त्वा॑ दे॒वीर्ज॒रसे॒
संव्य॑य॒न्त्वायु॑ष्मानि॒दं परि॑धत्स्व॒ वासः॑ । परि॑धत्त धत्त॒ वास॑सैनँ
श॒तायु॑षं कृणुत दी॒र्घमायुः॑ । बृह॒स्पतिः॒ प्राय॑च्छ॒द्वास॑
ए॒तत्सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ । ज॒रां ग॑च्छासि॒ परि॑धत्स्व॒
वासो॒ भवा॑ कृष्टी॒नाम॑भिशस्ति॒पावा॑ । श॒तं च॑ जीव श॒रदः॑
सु॒वर्चा॑ रा॒यश्च॒ पोष॒मुप॒ संव्य॑यस्व । परी॒दं वासो॒ अधि॑धाः
स्व॒स्तयेऽभू॑रापी॒नाम॑भिशस्ति॒पावा॑ । श॒तं च॑ जीव श॒रदः॑
पुरू॒चीर्वसू॑नि चा॒ऱ्यो वि॑भजासि॒ जीव॑न् । इ॒यं दुरु॑क्तात्परि॒बाध॑माना॒
शर्म॒ वरू॑थं पुन॒ती न॒ आगा॑त् । प्रा॒णा॒पा॒नाभ्यां॒ बल॑मा॒भर॑न्ती प्रि॒या
दे॒वानाँ॑ सु॒भगा॒ मेख॑ले॒यम् । ऋ॒तस्य॑ गो॒प्त्री तप॑सः पर॒स्पी
घ्न॒ती रक्षः॒ सह॑माना॒ अरा॑तीः । सा न॑स्सम॒न्तमनु॒ परी॑हि भ॒द्रया॑
भ॒र्तार॑स्ते॒ मेख॑ले॒ मा रि॑षाम । मि॒त्रस्य॒ चक्षु॒र्धरु॑णं॒ बली॑य॒स्तेजो॑
यश॒स्वि स्थवि॑रँ॒ समि॑द्धम् । अ॒ना॒ह॒न॒स्यं वस॑नं जरि॒ष्णु परी॒दं
वा॒ज्यजिनं॑ दधे॒ऽहम् ॥ ०। ०। २। २॥ दी॒र्घमायुः॒ समि॑द्ध॒मेकं॑ च ॥ २॥
३ आ॒ग॒न्त्रा सम॑गन्महि॒ प्रसु॑ मृ॒त्युं यु॑योतन । अरि॑ष्टाः॒ सञ्च॑रेमहि
स्व॒स्ति च॑रतादि॒ह स्व॒स्त्या गृ॒हेभ्यः॑ । स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒
उदा॑रदुपाँ॒शुना॒ सम॑मृत॒त्वम॑श्याम् । इ॒मे नु ते
र॒श्मयः॒ सूर्य॑स्य॒ येभिः॑ सपि॒त्वं पि॒तरो॑ न॒ आय॑न् । अ॒ग्निष्टे॒
हस्त॑मग्रभी॒त्सोम॑स्ते॒ हस्त॑मग्रभीत्सवि॒ता ते॒ हस्त॑मग्रभी॒त्सर॑स्वती ते॒
हस्त॑मग्रभीत्पू॒षा ते॒ हस्त॑मग्रभीदर्य॒मा ते॒ हस्त॑मग्रभी॒दँशु॑स्ते॒
हस्त॑मग्रभी॒द्भग॑स्ते॒ हस्त॑मग्रभीन्मि॒त्रस्ते॒ हस्त॑मग्रभीन्मि॒त्रस्त्वम॑सि॒
धर्म॑णा॒ऽग्निरा॑चा॒र्य॑स्तव॑ । अ॒ग्नये॑ त्वा॒ परि॑ ददाम्यसौ॒ सोमा॑य
त्वा॒ परि॑ ददाम्यसौ सवि॒त्रे त्वा॒ परि॑ ददाम्यसौ॒ सर॑स्वत्यै त्वा॒ परि॑
ददाम्यसौ मृ॒त्यवे॑ त्वा॒ परि॑ ददाम्यसौ य॒माय॑ त्वा॒ परि॑ ददाम्यसौ
ग॒दाय॑ त्वा॒ परि॑ ददाम्यसा॒वन्त॑काय त्वा॒ परि॑ ददाम्यसाव॒द्भ्यस्त्वा॒ परि॑
ददाम्यसा॒वोष॑धीभ्यस्त्वा॒ परि॑ ददाम्यसौ पृथि॒व्यै त्वा॒ सवै॑श्वान॒रायै॒
परि॑ ददाम्यसौ । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व उप॑नये॒ऽसौ । सु॒प्र॒जाः
प्र॒जया॑ भूयाः सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषैः॑ ।
ब्र॒ह्म॒चर्य॒मागा॒मुप॒ मा न॑यस्व दे॒वेन॑ सवि॒त्रा प्रसू॑तः । कोनामा॑स्य॒सौ
नामा॑ऽस्मि॒ कस्य॑ ब्रह्मचा॒र्य॑स्यसौ प्रा॒णस्य॑ ब्रह्मचा॒र्य॑स्म्य॒सा वे॒ष ते॑
देव सूर्य ब्रह्मचा॒री तं गो॑पाय स॒ मा मृ॑तै॒ष ते॑ सूर्य पु॒त्रः सदी॑र्घा॒युः
स॒ मा मृ॑त । याग् स्व॒स्तिम॒ग्निर्वा॒युः सूर्य॑श्च॒न्द्रमा॒ आपोऽनु॒ सं च॑रन्ति॒
ताग् स्व॒स्तिमनु॒ सं च॑रासा॒वध्व॑नामध्वपते॒ श्रेष्ठ॒स्याध्व॑नः पा॒रम॑शीय
॥ ०। ०। २। ३॥ आ॒ग॒न्त्रा दश॑ ॥ ३॥
४ योगे॑योगे त॒वस्त॑रमि॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीति॒ द्वे । श॒तमिन्नु
श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म् । पु॒त्रासो॒ यत्र॑
पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तोः॑ । अ॒ग्निष्ट॒ आयुः॑
प्रत॒रां द॑धात्व॒ग्निष्टे॒ पुष्टिं॑ प्रत॒रां कृ॑णोतु । इन्द्रो॑ म॒रुद्भि॑र्
ऋतु॒धा कृ॑णोत्वादि॒त्यैस्ते॒ वसु॑भि॒रा द॑धातु । मे॒धां मह्य॒मङ्गि॑रसो
मे॒धाँ स॑प्त॒र्षयो॑ ददुः । मे॒धां मह्यं॑ प्र॒जाप॑तिर्मे॒धाम॒ग्निर्द॑दातु
मे । अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑ । दैवी॒ या मा॑नु॒षी
मे॒धा सा मामावि॑शतादि॒ह । इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं
नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑ । रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दी मा त्वद्यो॑षम् ।
तत्स॑वि॒तुर्वरे॑ण्य॒मित्ये॒षा । अवृ॑धम॒सौ सौ॑म्य प्रा॒ण स्वं मे॑ गोपाय ।
ब्रह्म॑ण आ॒णी स्थः॑ ॥ ०। ०। २। ४॥ त्वम॑ग्ने अ॒यासि॑ च॒त्वारि॑ च ॥ ४॥
५ सु॒श्रवः॑ सु॒श्रव॑सं मा कुरु॒ यथा॒ त्वँ सु॒श्रवः॑ सु॒श्रवा॑
अस्ये॒वम॒हँ सु॒श्रवः॑ सु॒श्रवा॑ भूयासं॒ यथा॒ त्वँ सु॒श्रवः॑
सु॒श्रवो॑ दे॒वानां॑ निधिगो॒पो॑ऽस्ये॒वम॒हं ब्रा॑ह्म॒णानां॒ ब्रह्म॑णो
निधिगो॒पो भू॑यासम् । स्मृ॒तं च॒ मेऽस्मृ॑तं च मे॒ तन्म॑ उ॒भयं॑
व्र॒तं नि॒न्दा च॒ मेऽनि॑न्दा च मे॒ तन्म॑ उ॒भयं॑ व्र॒तँ श्र॒द्धा
च॒ मेऽश्र॑द्धा च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं वि॒द्या च॒ मेऽवि॑द्या
च मे॒ तन्म॑ उ॒भयं॑ व्र॒तँ श्रु॒तं च॒ मेऽश्रु॑तं च मे॒ तन्म॑
उ॒भयं॑ व्र॒तँ स॒त्यं च॒ मेऽनृ॑तं च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं
तप॑श्च॒ मेऽत॑पश्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं व्र॒तं च॒ मेऽव्र॑तं
च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं यद्ब्रा॑ह्म॒णानां॒ ब्रह्म॑णि व्र॒तं यद॒ग्नेः
सेन्द्र॑स्य॒ सप्र॑जापतिकस्य॒ सदे॑वस्य॒ सदे॑वराजस्य॒ सम॑नुष्यस्य॒
सम॑नुष्यराजस्य॒ सपि॑तृकस्य॒ सपि॑तृराजस्य॒ सग॑न्धर्वाप्सर॒स्कस्य॑
। यन्म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तं तेना॒हँ सर्व॑व्रतो भूयासम् । उदायु॑षा
स्वा॒युषोदोष॑धीनाँ॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृताँ॒
अनु॑ । तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छु॒क्रमु॒च्चर॑त् । पश्ये॑म श॒रदः॑
श॒तं जीवे॑म श॒रदः॑ श॒तं नन्दा॑म श॒रदः॑ श॒तं मोदा॑म श॒रदः॑
श॒तं भवा॑म श॒रदः॑ श॒तँ शृ॒णवा॑म श॒रदः॑ श॒तं प्रब्र॑वाम
श॒रदः॑ श॒तमजी॑ताः स्याम श॒रदः॑ श॒तं ज्योक्च॒ सूर्यं॑ दृ॒शे ।
यस्मि॑न्भू॒तं च॒ भव्यं॑ च॒ सर्वे॑ लो॒काः स॒माहि॑ताः । तेन॑ गृह्णामि
त्वाम॒हं मह्यं॑ गृह्णामि त्वाम॒हं प्र॒जाप॑तिना त्वा॒ मह्यं॑ गृह्णाम्यसौ ॥ ०।
०। २। ५॥ सु॒श्रवः॑ सु॒श्रव॑सम॒ष्टौ ॥ ५॥
स्मृ॒तं निं॒दा श्र॒द्धा वि॒द्या श्रु॒तँ सत्यं तपो॑ व्र॒तं यद्ब्रा॑ह्म॒णानां॒
नव॑ ॥
६ परि॑ त्वाऽग्ने॒ परि॑ मृजा॒म्यायु॑षा च॒ धने॑न च । सु॒प्र॒जाः
प्र॒जया॑ भूयासँ सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒
पोषैः॑ सु॒गृहो॑ गृ॒हैः सु॒पतिः॒ पत्या॑ सुमे॒धा मे॒धया॑ सु॒ब्रह्मा
ब्र॑ह्मचा॒रिभिः॑ । अ॒ग्नये॑ समि॒धमाहा॑र्षं बृह॒ते जा॒तवे॑दसे॒
यथा॒ त्वम॑ग्ने स॒मिधा॑ समि॒ध्यस॑ ए॒वं मा॒मायु॑षा॒ वर्च॑सा स॒न्या
मे॒धया॑ प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒ समे॑धय॒ स्वाहा॑ ।
एधो॑ऽस्येधिषी॒महि॒ स्वाहा॑ । स॒मिद॑सि समे॒धिषी॒महि॒ स्वाहा॑ । तेजो॑ऽसि॒
तेजो॒ मयि॑ धेहि॒ स्वाहा॑ । अपो॑ अ॒द्यान्व॑चारिषँ॒ रसे॑न॒ सम॑सृक्ष्महि
। पय॑स्वाँ अग्न॒ आग॑मं॒ तं मा॒ सँसृ॑ज॒ वर्च॑सा॒ स्वाहा॑ । सं
मा॑ऽग्ने॒ वर्च॑सा सृज प्र॒जया॑ च॒ धने॑न च॒ स्वाहा॑ । वि॒द्युन्मे॑
अस्य दे॒वा इन्द्रो॑ वि॒द्यात्स॒हर्षि॑भि॒स्स्वाहा॑ । अ॒ग्नये॑ बृह॒ते नाका॑य॒
स्वाहा॑ । द्यावा॑पृथि॒वीभ्याँ॒ स्वाहा॑ । ए॒षा ते॑ अग्ने स॒मित्त॑या॒ वर्ध॑स्व॒
चाप्या॑यस्व च॒ तया॒ऽहं वर्ध॑मानो भूयासमा॒प्याय॑मानश्च॒ स्वाहा॑ । यो मा॑ऽग्ने
भा॒गिनँ॑ स॒न्तमथा॑भा॒गं चिकी॑र्षत्यभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने
भा॒गिनं॑ कुरु॒ स्वाहा॑ । स॒मिध॑मा॒धाया॑ग्ने॒ सर्व॑व्रतो भूयासँ॒ स्वाहा॑ ।
ब्र॒ह्म॒चा॒र्य॑स्यपो॑ऽशान॒ कर्म॑ कुरु॒ मा सुषु॑प्थाः । भि॒क्षा॒च॒र्यं॑
चराचार्याधी॒नो भ॑व । यस्य॑ ते प्रथमवा॒स्यँ॑ हरा॑म॒स्तं त्वा॒
विश्वे॑ अवन्तु दे॒वाः । तं त्वा॒ भ्रात॑रस्सु॒वृधो॒ वर्ध॑मान॒मनु॑ जायन्तां
ब॒हव॒स्सुजा॑तम् ॥ ०। ०। २। ६॥ स॒ह ऋषि॑भिः॒ स्वाहा॒ नव॑ च ॥ ६॥
७ इ॒मँ स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सम्म॑हेमा मनी॒षया॑ ।
भ॒द्रा हि नः॒ प्रम॑तिरस्य सँ॒सद्यग्ने॑ स॒ख्ये॑ मा रि॑षामा व॒यं तव॑
। त्र्या॒यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् । यद्दे॒वानां॑ त्र्यायु॒षं
तन्मे॑ अस्तु त्र्यायु॒षम् । शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑
हिँसीः । उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः । इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्य॑
पा॒प्मान॒मुप॑गूहा॒म्युत्त॑रो॒ऽसौ द्वि॒षद्भ्यः॑ । आपो॒ हिष्ठा म॑यो॒भुव॒
इति॑ ति॒स्रो हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का इति॑ ति॒स्रः । अ॒न्नाद्या॑य॒
व्यू॑हध्वं दीर्घा॒युर॒हम॑न्ना॒दो भू॑यासम् । सोमो॒ राजा॒ यमाग॑म॒त्स मे॒
मुखं॒ प्रवे॑क्ष्यति॒ भगे॑न स॒ह वर्च॑सा । सोम॑स्य त॒नूर॑सि त॒नुवं॑
मे पाहि॒ स्वा मा॑ त॒नूरावि॑श । नमो॑ ग्र॒हाय॑ चाभिग्र॒हाय॑ च॒ नमः॑
शाकजञ्ज॒भाभ्यां॒ नम॒स्ताभ्यो॑ दे॒वता॑भ्यो॒ या अ॑भिग्रा॒हिणीः॑ । अ॒प्स॒रस्सु॒
यो ग॒न्धो ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑ । दैवो॒ यो मा॑नु॒षो ग॒न्धस्स मा॑
ग॒न्धस्सु॑र॒भिर्जु॑षताम् । इ॒यमोष॑धे॒ त्राय॑माणा॒ सह॑माना॒ सह॑स्वती
। सा मा॒ हिर॑ण्यवर्चसं ब्रह्मवर्च॒सिनं॑ मा करोतु । अपा॑शो॒ऽस्युरो॑ मे॒
मा सँ शा॑रीः शि॒वो मोप॑ तिष्ठस्व दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।
श॒तँ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से जी॒वात्वै पुण्या॑य । रे॒वती॑स्त्वा॒
व्य॑क्ष्ण॒न्नित्ये॒ताः ॥ ०। ०। २। ७॥ स॒ह वर्च॑सा॒ नव॑ च ॥ ७॥
८ आ॒यु॒ष्यं॑ वर्च॒स्यँ॑ सु॒वीर्यँ॑ रा॒यस्पोष॒मौद्भि॑द्यम् । इ॒दँ
हिर॑ण्यं॒ जैत्र्या॒यावि॑शतां॒ माम् । उ॒च्चै॒र्वा॒दि पृ॑तना॒जि स॑त्रासा॒हं
ध॑नञ्ज॒यम् । सर्वाः॒ समृ॑द्धी॒र् ऋद्ध॑यो॒ हिर॑ण्ये॒ऽस्मिन्त्स॒माहि॑ताः ।
शु॒नम॒हँ हिर॑ण्यस्य पि॒तुरि॑व॒ नामा॑ग्रभैषम् । तं मा॒ हिर॑ण्यवर्चसं
पू॒रुषु॑ प्रि॒यं कु॑रु । प्रि॒यं मा॑ दे॒वेषु॑ कुरु प्रि॒यं मा॒ ब्रह्म॑णे कुरु
। प्रि॒यं वि॒श्ये॑षु शू॒द्रेषु॑ प्रि॒यँ राज॑सु मा कुरु । या ति॒रश्ची॑
नि॒पद्य॑से॒ऽहं वि॒धर॑णी॒ इति॑ । तां त्वा॑ घृ॒तस्य॒ धार॑या॒ यजे॑
सँ॒राध॑नीम॒हम् । सँ॒राध॑न्यै दे॒व्यै स्वाहा॑ प्र॒साध॑न्यै
दे॒व्यै स्वाहा॑ । स॒म्राजं॑ च वि॒राजं॑ चाभि॒श्रीर्या च॑ नो गृ॒हे । ल॒क्ष्मी
रा॒ष्ट्रस्य॒ या मुखे॒ तया॑ मा॒ सँ सृ॑जामसि । शुभि॑के॒ शिर॒ आ रो॑ह
शो॒भय॑न्ती॒ मुखं॒ मम॑ । मुखँ॑ हि॒ मम॑ शोभय॒ भूयाँ॑सं
च॒ भगं॑ कुरु । यामाह॑रज्ज॒मद॑ग्निः श्र॒द्धायै॑ कामाया॒न्यै । इ॒मां
तामपि॑ नह्ये॒ऽहं भगे॑न स॒ह वर्च॑सा । यदाञ्ज॑नं त्रैककु॒दं जा॒तँ
हि॒मव॑त उ॒परि॑ । तेन॑ वामाञ्जे॒ तेज॑से॒ वर्च॑से॒ भगा॑य च ॥ ०। ०। २।
८॥ सँ॒राध॑नीम॒हं नव॑ च ॥ ८॥
९ मयि॑ पर्वतपूरु॒षं मयि॑ पर्वतवर्च॒सं मयि॑ पर्वतभेष॒जं मयि॑
पर्वतायु॒षम् । यन्मे॒ वर्चः॑ प॒राग॑तमा॒त्मान॑मुप॒तिष्ठ॑तु
। इ॒दं तत्पुन॒राद॑दे दीर्घायु॒त्वाय॒ वर्च॑से । प्र॒ति॒ष्ठे
स्थो॑ दे॒वता॑नां॒ मा मा॒ सन्ता॑प्तम् । प्र॒जाप॑तेः॒ शर॑णमसि॒
ब्रह्म॑णश्छ॒दिर्वि॑श्वज॒नस्य॑ छा॒याऽसि॑ स॒र्वतो॑ मा पाहि । दे॒वस्य॑ त्वा
सवि॒तुः प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒माद॑दे द्विष॒तो
व॒धायेन्द्र॑स्य॒ वज्रो॑सि॒ वार्त्र॑घ्नः॒ शर्म॑ मे भव॒ यत्पा॒पं तन्निवा॑रय
। देवी॑ष्षडुर्वी॒रित्ये॒षा । रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दी मा त्वद्यो॑षँ
राष्ट्र॒भृद॑सि सम्राडास॒न्दी मा त्वद्यो॑षँ राष्ट्र॒भृद॑स्यधिपत्न्यास॒न्दी
मा त्वद्यो॑षम् । आपः॑ पादाव॒नेज॑नीर्द्वि॒षन्तं॑ नाशयन्तु मे । अ॒स्मिन्कुले॑
ब्रह्मवर्च॒स्य॑सानि । मयि॒ महो॒ मयि॒ यशो॒ मयी॑न्द्रि॒यं वी॒र्य॑म् । आमा॑ग॒न्
यश॑सा॒ वर्च॑सा॒ सँसृ॑ज॒ पय॑सा॒ तेज॑सा च । तं मा॑ प्रि॒यं
प्र॒जानां॑ कु॒र्वधि॑पतिं पशू॒नाम् । वि॒राजो॒ दोहो॑ऽसि वि॒राजो॒ दोह॑मशीय॒
मम॒ पद्या॑य॒ विरा॑ज । स॒मु॒द्रं वः॒ प्र हि॑णोमि॒ स्वां योनि॒मपि॑गच्छत ।
अच्छि॑द्रः प्र॒जया॑ भूयासं॒ मा परा॑सेचि॒ मत्पयः॑ ॥ ०। ०। २। ९॥ अ॒सा॒नि॒
षट् च॑ ॥ ९॥
१० त्र॒य्यै वि॒द्यायै॒ यशो॑ऽसि॒ यश॑सो॒ यशो॑ऽसि॒ ब्रह्म॑णो॒ दीप्ति॑रसि
। तं मा॑ प्रि॒यं प्र॒जानां॑ कु॒र्वधि॑पतिं पशू॒नाम् । आ मा॑ ग॒न्नित्ये॒षा
। अ॒मृ॒तो॒प॒स्तर॑णमस्यमृतापिधा॒नम॑सि । यन्मधु॑नो मध॒व्यं॑
पर॒मम॒न्नाद्यं॑ वी॒र्य॑म् । तेना॒हं मधु॑नो मध॒व्ये॑न पर॒मेणा॒न्नाद्ये॑न
वी॒र्ये॑ण पर॒मो॑ऽन्ना॒दो म॑ध॒व्यो॑ऽसानि । गौर॒स्यप॑हतपा॒प्माऽप॑
पा॒प्मानं॑ जहि॒ मम॑ चा॒मुष्य॑ च । अ॒ग्निः प्राश्ना॑तु प्रथ॒मस्स हि वेद॒ यथा॑
ह॒विः । अन॑ष्टम॒स्माकं॑ कृ॒ण्वन्ब्रा॑ह्म॒णो ब्रा॑ह्म॒णेभ्यः॑ । य॒ज्ञो व॑र्धतां
य॒ज्ञस्य॒ वृद्धि॒मनु॑ व॒र्धाऽप॑ चितिर॒स्यप॑चितिं मा कु॒र्वप॑चितो॒ऽहं
म॑नु॒ष्ये॑षु भूयासम् । गौर्धे॑नुभ॒व्या मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑नाँ॒
स्वसा॑ऽऽदि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ । प्रणु॒ वोचं॑ चिकि॒तुषे॒ जना॑य॒
मा गामना॑गा॒मदि॑तिं वधिष्ट । पिब॑तूद॒कं तृणा॑न्यत्तु । ओमुत्सृ॒जत । भू॒तम्
। सा वि॒राट् । तन्मा क्षा॑यि॒ तस्य॒ तेऽशी॑य॒ तन्म॒ ऊर्जं॑ धाः । ओं कल्प॒यत ॥
०। ०। २। १०॥ भू॒या॒स॒म॒ष्टौ च॑ ॥ १०॥
११ धा॒ता द॑दातु नो र॒यिमिति॒ चत॑स्रो॒ यस्त्वा॑ हृ॒दा की॒रिणेति॒ चत॑स्रः
। भूर्भुव॒स्सुवो॑ रा॒काम॒हं यास्ते॑ राके । यौग॑न्धरिरे॒व नो॒ राजेति॒
साल्वी॑रवादिषुः । विवृ॑त्तचक्रा॒ आसी॑ना॒स्तीरे॑ण यमुने॒ तव॑ । सोम॑ ए॒व
नो॒ राजेत्या॑हुर्ब्राह्म॒णीः प्र॒जाः । विवृ॑त्तचक्रा॒ आसी॑ना॒स्तीरे॑णासौ॒ तव॑ ।
पुँ॒सु॒वन॑मसि । आ॒भिष्ट्वा॒ऽहं द॒शभि॑र॒भिमृ॑शामि॒ दश॒मास्या॑य॒
सूत॑वे । यथै॒व सोमः॒ पव॑ते॒ यथा॑ समु॒द्र एज॑ति । ए॒वं ते॒ गर्भ॒
एज॑तु स॒ह ज॒रायु॑णा नि॒ष्क्रम्य॒ प्रति॑तिष्ठ॒त्वायु॑षि ब्रह्मवर्च॒सि
य॒शसि॑ वी॒र्ये॑ऽन्नाद्ये॑ । दश॒मासां॒च श॑यानो धा॒त्रा हि तथा॑ कृ॒तम् ।
ऐतु॒ गर्भो॒ अक्ष॑तो जी॒वो जीव॑न्त्याः । आ॒यम॑नीर्यमयत॒ गर्भ॒मापो॑ देवीः॒
सर॑स्वतीः । ऐतु॒ गर्भो॒ अक्ष॑तो जी॒वो जीव॑न्त्याः । तिल॒देऽव॑ पद्यस्व॒
न माँ॒सम॑सि॒ नोदल॑म् । स्थवि॒त्र्यव॑पद्यस्व॒ न माँ॒सेषु॒ न
स्नाव॑सु॒ न ब॒द्धम॑सि म॒ज्जसु॑ । निरै॑तु॒ पृश्नि॒ शेव॑लँ शु॒ने
ज॒राय्व॒त्तवे॑ । दि॒वस्परीत्ये॒षो॑ऽनुवा॒कः । अ॒स्मिन्न॒हँ स॒हस्रं॑
पुष्या॒म्येध॑मान॒स्स्वे वशे॑ । अङ्गा॑दङ्गा॒त्सं भ॑वसि॒ हृद॑या॒दधि॑
जायसे । आ॒त्मा वै पु॑त्र॒नामा॑ऽसि॒ स जी॑व श॒रदः॑ श॒तम् ॥ ०। ०। २। ११॥
अ॒न्नाद्ये॑ जायस॒ एकं॑ च ॥ ११॥
१२ अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव । प॒शू॒नां त्वा॑
हिङ्का॒रेणा॒भिजि॑घ्राम्यसौ । मे॒धां ते॑ दे॒वः स॑वि॒ता मे॒धां दे॒वी सर॑स्वती
। मे॒धां ते॑ अ॒श्विनौ॑ दे॒वावाध॑त्तां॒ पुष्क॑रस्रजा । त्वयि॑ मे॒धां त्वयि॑
प्र॒जां त्वय्य॒ग्निस्तेजो॑ दधातु॒ त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वयीन्द्र॑ इन्द्रि॒यं
द॑धातु॒ त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वयि॒ सूऱ्यो॒ भ्राजो॑ दधातु । क्षे॒त्रि॒यै
त्वा॒ निरृ॑त्यै त्वा द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् । अ॒ना॒गसं॒ ब्रह्म॑णे
त्वा करोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । शं ते॑ अ॒ग्निस्स॒हाद्भिर॑स्तु॒
शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः । शम॒न्तरि॑क्षँ स॒ह वाते॑न ते॒ शं
ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु । या दैवी॒श्चत॑स्रः प्र॒दिशो॒ वात॑पत्नीर॒भि
सूऱ्यो॑ विच॒ष्टे । तासां॑ त्वाऽऽज॒रस॒ आ द॑धामि॒ प्र यक्ष्म॑ एतु॒ निरृ॑तिं
परा॒चैः । अमो॑चि॒ यक्ष्मा॑द्दुरि॒तादव॑र्त्यै द्रु॒हः पाशा॒न्निरृ॑त्यै॒
चोद॑मोचि । अहा॒ अव॑र्ति॒मवि॑दत्स्यो॒नमप्य॑भूद्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के
। सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ यद्दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न्व्ये॑नसः ।
ए॒वम॒हमि॒मं क्षे॑त्रि॒याज्जा॑मिशँ॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒
पाशा॑त् । भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहोग् स्वाहा॑ ॥ ०। ०। २। १२॥ वि॒च॒ष्टे
षट्च॑ ॥ १२॥
१३ मा ते॑ कुमा॒रँ रक्षो॑ वधी॒न्मा धे॒नुर॑त्यासा॒रिणी॑ । प्रि॒या
धन॑स्य भूया॒ एध॑माना॒ स्वे गृ॒हे । अ॒यं कु॑मा॒रो ज॒रां ध॑यतु
दी॒र्घमायुः॑ । यस्मै॒ त्वँ स्तन॒ प्राप्या॒यायु॒र्वर्चो॒ यशो॒ बल॑म् ।
यद्भूमे॒र्हृद॑यं दि॒वि च॒न्द्रम॑सि श्रि॒तम् । तदु॑र्वि पश्यं॒ माऽहं
पौत्र॒मघँ॑ रुदम् । यत्ते॑ सुसी॒मे हृद॑यं॒ वेदा॒हं तत्प्र॒जाप॑तौ
। वेदा॑म॒ तस्य॑ ते व॒यं माऽहं पौत्र॒मघँ॑ रुदम् । नाम॑यति॒ न
रु॑दति॒ यत्र॑ व॒यं व॑दामसि॒ यत्र॑ चा॒भिमृ॑शामसि । आपः॑ सु॒प्तेषु॑
जाग्रत॒ रक्षाँ॑सि॒ निरि॒तो नु॑दध्वम् । अ॒यं क॒लिं प॒तय॑न्तँ
श्वा॒नमि॒वोद्वृ॑द्धम् । अ॒जां वाशि॑तामिव मरुतः॒ पर्या॑ध्वँ॒ स्वाहा॑
। शण्डे॒रथः॒ शण्डि॑केर उलूख॒लः । च्यव॑नो॒ नश्य॑तादि॒तस्स्वाहा॑ ।
अयः॒ शण्डो॒ मर्क॑ उप॒वीर॑ उलूख॒लः । च्यव॑नो॒ नश्य॑तादि॒तस्स्वाहा॑ ।
के॒शिनी॒श्श्वलो॒मिनीः॒ खजा॑पो॒ऽजोप॑काशिनीः । अपे॑त॒ नश्य॑तादि॒तस्स्वाहा॑
। मि॒श्रवा॑ससः कौबेर॒का र॑क्षोरा॒जेन॒ प्रेषि॑ताः । ग्रामँ॒ सजा॑नयो
ग॒च्छन्ती॒च्छन्तो॑ऽपरि॒दाकृ॒तान्त्स्वाहा॑ । ए॒तान् घ्न॑तै॒तान्गृ॑ह्णी॒तेत्य॒यं
ब्रह्म॑णस्पु॒त्रः । तान॒ग्निः पर्य॑सर॒त्तानिन्द्र॒स्तान्बृह॒स्पतिः॑ । तान॒हं
वे॑द ब्राह्म॒णः प्र॑मृश॒तः कू॑टद॒न्तान्, वि॑के॒शान् ल॑म्बनस्त॒नान्त्स्वाहा॑
॥ ०। ०। २। १३॥ निरि॒तो नु॑दध्वँ॒ स्वाहा॒ त्रीणि॑ च ॥ १३॥
१४ न॒क्तं॒चा॒रिण॑ उरस्पे॒शाञ्छू॑लह॒स्तान्क॑पाल॒पान् । पूर्व॑ एषां
पि॒तेत्यु॒च्चैः श्रा॑व्यक॒र्णकः॑ । मा॒ता ज॑घ॒न्या॑ सर्प॑ति॒ ग्रामे॑
विधु॒रमि॒च्छन्ती॒ स्वाहा॑ । नि॒शी॒थ॒चा॒रिणी॒ स्वसा॑ स॒न्धिना॒
प्रेक्ष॑ते॒ कुल॑म् । या स्वप॑न्तं बो॒धय॑ति॒ यस्यै॒ विजा॑तायां॒ मनः॑ ।
तासां॒ त्वं कृ॑ष्ण॒वर्त्म॑ने क्लो॒मानँ॒ हृद॑यं॒ यकृ॑त् । अग्ने॒
अक्षी॑णि नि॒र्दह॒ स्वाहा॑ । अङ्गा॑दङ्गा॒त्सम्भ॑वसि॒ हृद॑या॒दधि॑ जायसे ।
वे॒दो वै पु॑त्र॒नामा॑ऽसि॒ स जी॑व श॒रदः॑ श॒तम् । अश्मा॑ भ॒वेत्ये॒षा
। अ॒ग्निरायु॑ष्मा॒निति॒ पञ्च॑ । सर्व॑स्मादा॒त्मनः॒ सम्भू॑ताऽसि॒ सा जी॑व
श॒रदः॑ श॒तम् । भूर॒पां त्वौष॑धीनाँ॒ रसं॒ प्राश॑यामि शि॒वास्त॒
आप॒ ओष॑धयः सन्त्वनमी॒वास्त॒ आप॒ ओष॑धयस्सन्त्वसौ॒ भुवो॒ऽपाँ
सुव॑र॒पां भूर्भुव॒स्सुव॑र॒पां त्वौष॑धीनाँ॒ रसं॒ प्राश॑यामि
शि॒वास्त॒ आप॒ ओष॑धयः सन्त्वनमी॒वास्त॒ आप॒ ओष॑धयः सन्त्वसौ । उ॒ष्णेन॑
वायवुद॒केनेत्ये॒षः ॥ ०। ०। २। १४॥ ए॒षा च॒त्वारि॑ च ॥ १४॥
१५ यद्भूमेः॑ क्रू॒रं तदि॒तो ह॑रामि॒ परा॑चीं॒ निरृ॑तिं॒ निर्वा॑हयामि । इ॒दँ
श्रेयो॑ऽव॒सान॒माग॑न्म देवा॒ गोम॒दश्वा॑वदि॒दम॑स्तु॒ प्र भूम॑ । स्यो॒ना
पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी । यच्छा॑ नः॒ शर्म॑ स॒प्रथाः॑ ।
इ॒हैव तिष्ठ॒ निमि॑ता॒ तिल्व॑ला स्या॒दिरा॑वती । मध्ये॒ ताल्प्य॑स्य तिष्ठा॒न्मा
त्वा॒ प्राप॑न्नघा॒यवः॑ । आ त्वा॑ कुमा॒रस्तरु॑ण॒ आ व॒त्सो जग॑ता स॒ह । आ
त्वा॑ परि॒स्रुतः॑ कु॒म्भा आ द॒ध्नः कल॑शीरयन् । ऋ॒तेन॒ स्थूणा॒व॑धिरोह
वँ॒शोग्रो॑ वि॒राज॒न्नप॑सेध॒ शत्रू॑न् । ब्रह्म॑ च ते क्ष॒त्रं
च॒ पूर्वे॒ स्थूणे॑ अ॒भि र॑क्षतु । य॒ज्ञश्च॒ दक्षि॑णाश्च॒ दक्षि॑णे
इ॒षश्चो॒र्जश्चाप॑रे मि॒त्रश्च॒ वरु॑ण॒श्चोत्त॑रे । ध॒र्मस्ते॒ स्थूणा॑
राज॒श्श्रीस्ते॒ स्तूपः॑ । उ॒द्ध्रि॒यमा॑ण॒ उद्ध॑र पा॒प्मनो॑ मा॒ यदवि॑द्वा॒न्
यच्च॑ वि॒द्वाग्श्च॒कार॑ । अह्ना॒ यदेनः॑ कृ॒तम॑स्ति पा॒पँ रात्र्या॒
यदेनः॑ कृ॒तम॑स्ति पा॒पँ सर्व॑स्मा॒न्मोद्धृ॒तो मु॑ञ्च॒ तस्मा॑त् ।
इन्द्र॑स्य गृ॒हा वसु॑मन्तो वरू॒थिन॒स्तान॒हँ सु॒मन॑सः॒ प्रप॑द्ये ।
अ॒मृ॒ता॒हु॒तिम॒मृता॑यां जुहोम्य॒ग्निं पृ॑थि॒व्याम॒मृत॑स्य॒ जित्यै॒
तया॑ऽन॒न्तं काम॑म॒हं ज॑यानि प्र॒जाप॑ति॒र्यं प्र॑थ॒मो जि॒गाया॒ग्निम॑ग्नौ॒
स्वाहा॑ । अन्न॑पत॒ इत्ये॒षा । अरि॑ष्टा अ॒स्माकं॑ वी॒रास्स॑न्तु॒ मा परा॑सेचि
मे॒ धन॑म् । भूमि॒र्भूमि॑मगान्मा॒ता मा॒तर॒मप्य॑गात् । भू॒यास्म॑ पु॒त्रैः
प॒शुभि॒ऱ्यो नो॒ द्वेष्टि॒ स भि॑द्यताम् । वास्तो॑ष्पत॒ इति॒ द्वे । वास्तो॑ष्पते
प्र॒तर॑णो न एधि॒ गोभि॒रश्वे॑भिरिन्दो । अ॒जरा॑सस्ते स॒ख्ये स्या॑म पि॒तेव॑
पु॒त्रान् प्रति॑ नो जुषस्व । अ॒मी॒व॒हा वास्तो॑ष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन् ।
सखा॑सु॒ शेव॑ एधि नः । शि॒वँ॒ शि॒वम् ॥ ०। ०। २। १५॥ अ॒भिर॑क्षतु
भिद्यताँ॒ षट् च॑ ॥ १५॥
१६ कू॒र्कु॒रः सुकू॑र्कुरः कूर्कु॒रो वा॑लब॒न्धनः॑ । उ॒परि॑ष्टा॒द्यदेजा॑य
तृ॒तीय॑स्या इ॒तो दि॒वः । औल॑ब॒ इत्तमुपा॑ह्वयथा॒र्जीञ्छ्या॒मः श॒बलः॑
। अ॒धोरा॑म उलुम्ब॒लः सा॑र॒मेयो॑ह॒ धाव॑ति समु॒द्रम॑व॒चाक॑शत् ।
बि॒भ्रन्निष्कं॑ च रु॒क्मं च॒ शुना॒मग्रँ॑ सुबीरि॒णः । सुबी॑रिण॒
सृज॒सृज॒ शुन॑क॒ सृजैक॑व्रात्य॒ सृज॒च्छत् । तत्स॒त्यं
यत्त्वेन्द्रो॑ऽब्रवी॒द्गाः स्पा॑शय॒स्वेति॒ तास्त्वँ स्पा॑शयि॒त्वाऽऽग॑च्छ॒स्तं
त्वा॑ऽब्रवी॒दवि॑द॒ हा ३ इत्यवि॑दँ॒हीति॒ वरं॑ वृणी॒ष्वेति॑ कुमा॒रमे॒वाहं
वरं॑ वृण॒ इत्य॑ब्रवीर्वि॒गृह्य॑ बा॒हू प्ल॒वसे॒ द्याम॑व॒चाक॑शत्
। बि॒भ्रन्निष्कं॑ च रु॒क्मं च॒ शुना॒मग्रँ॑ सुबीरि॒णः । सुबी॑रिण॒
सृज॒सृज॒ शुन॑क॒ सृजैक॑व्रात्य॒ सृज॒च्छत् । तत्स॒त्यं यत्ते॑ सर॒मा
मा॒ता लोहि॑तः पि॒ता । अ॒मी एके॑ सरस्य॒का अ॑व॒धाव॑ति तृ॒तीय॑स्या इ॒तो दि॒वः
। तेक॑श्च ससरमत॒ण्डश्च॒ तूल॑श्च॒ वितू॑ल॒श्चार्जु॑नश्च॒ लोहि॑तश्च
। दुला॑ ह॒ नाम॑ वो मा॒ता मन्था॑क॒को ह॑ वः पि॒ता । सं॒ तक्षा॑ हन्ति च॒क्री
वो॒ न सीस॑रीदत । छ॒द॒पेहि॑ सीसरम सारमेय॒ नम॑स्ते अस्तु सीसर । सम॑श्वा॒
वृष॑णः प॒दो न सीस॑रीदत । छ॒द॒पेहि॑ सीसरम सारमेय॒ नम॑स्ते अस्तु सीसर
। श्वान॒मिच्छ्वाऽद॒न्न पु॑रुष॒ञ्छत् । ए॒ते ते॒ प्रति॑दृश्येते समा॒नव॑सने
उ॒भे । ते अ॒हँ सा॒रये॑ण॒ मुस॑ले॒नाव॑हन्म्यु॒लूख॑ले । ह॒तः श॒ङ्खो
ह॒तः श॑ङ्खपि॒ता ह॒तः श॑ङ्खकुतुर्व॒कः । अप्ये॑षाग् स्थ॒पति॑र्ह॒तः ।
ऋषि॑र्बो॒धः प्रबो॑ध॒स्स्वप्नो॑ मात॒रिश्वा॑ । ते ते॑ प्रा॒णान्त्स्प॑रि॒ष्यन्ति॒
मा भै॑षी॒र्न म॑रि॒ष्यसि॑ । ज॒ग्धो मश॑को ज॒ग्धा वितृ॑ष्टिर्ज॒ग्धो
व्य॑ध्व॒रस्स्वाहा॑ ज॒ग्धो व्य॑ध्व॒रो ज॒ग्धो मश॑को ज॒ग्धा वितृ॑ष्टि॒स्स्वाहा॑
ज॒ग्धा वितृ॑ष्टिर्ज॒ग्धो व्य॑ध्व॒रो ज॒ग्धो मश॑क॒स्स्वाहा॑ ॥ ०। ०। २। १६॥
पि॒ताऽव॑हन्म्यु॒लूख॑ले॒ पञ्च॑ च ॥ १६॥
१७ इन्द्र॑ जहि दन्द॒शूकं॑ प॒क्षिणं॒ यस्सरी॑सृ॒पः । दं॒क्ष्णन्तं॑
च द॒शन्तं॑ च॒ सर्वाँ॒स्तानि॑न्द्र जम्भय॒ स्वाहा॑ । अ॒प्सु जा॑त॒ सरे॑
वृद्ध दे॒वाना॒मपि॑ हस्त्य । त्वम॑ग्न इन्द्र॒ प्रेषि॑त॒स्स नो॒ मा हिँ॑सीः॒
स्वाहा॑ । त्राण॑मसि परि॒त्राण॑मसि परि॒धिर॑सि । अन्ने॑न मनु॒ष्याग् स्त्राय॑से॒
तृणैः॑ प॒शून्ग॒र्तेन॑ स॒र्पान्, य॒ज्ञेन॑ दे॒वान्त्स्व॒धया॑ पि॒तॄन्त्स्वाहा॑
। तत्स॒त्यं यत्ते॑ऽमावा॒स्या॑यां च पौर्णमा॒स्यां च॑ विषब॒लिँ
हर॑न्ति॒ सर्व॑ उदरस॒र्पिणः॑ । तत्ते॒ प्रेर॑ते॒ त्वयि॒ संवि॑शन्ति॒ त्वयि॑
नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि । नमो॑ अस्तु स॒र्पेभ्य॒
इति॑ ति॒स्रः । नमो॑ अस्तु स॒र्पेभ्यो॒ ये पार्थि॑वा॒ य आ॑न्तरि॒क्ष्या॑ ये दि॒व्या ये
दि॒श्याः॑ । तेभ्य॑ इ॒मं ब॒लिँ ह॑रिष्यामि॒ तेभ्य॑ इ॒मं ब॒लिमहा॑र्षम् ।
तक्ष॑क॒ वैशा॑लेय धृ॒तरा॑ष्ट्रैरावत॒स्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑
स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि । धृ॒तरा॑ष्ट्रैरावत॒ तक्ष॑क॒
वैशा॑लेय॒स्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
अ॒हिँ॒सा॒ऽति॒ब॒लस्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑
नः॒ परि॑देहि । अ॒ति॒ब॒ला॒ऽहिँ॒सस्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑
स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि । ये द॑न्द॒शूकाः॒ पार्थि॑वा॒स्ताग्स्त्वमि॒तः
प॒रो गव्यू॑ति॒ निवे॑शय । सन्ति॒ वै नः॑ श॒फिनः॒ सन्ति॑ द॒ण्डिन॒स्ते
वो॒ नेद्धि॒नसा॒न्न्येद्यू॒यम॒स्मान् हि॒नसा॑त । स॒मीची॒ नामा॑सि॒ प्राची॒
दिग्घे॒तयो॒ नाम॒ स्थेति॒ द्वाद॑श पर्या॒याः । अप॑श्वेत प॒दा ज॑हि॒ पूर्वे॑ण॒
चाऽप॑रेण च । स॒प्त च॒ मानु॑षीरि॒मास्ति॒स्रश्च॑ रा॒जब॑न्धवीः । न वै
श्वे॒तस्या॑ध्याचा॒रेऽहि॑र्ज॒घान॒ कञ्च॒न । श्वे॒ताय॑ वैद॒र्वाय॒ नमो॒ नमः॑
श्वे॒ताय॑ वैद॒र्वाय॑ ॥ ०। ०। २। १७॥ दि॒श्या॑ रा॒जब॑न्धवी॒र्द्वे च॑ ॥ १७॥
१८ प॒र॒मे॒ष्ठ्यसि॑ पर॒मां माँ॒ श्रियं॑ गमय प्र॒त्यव॑रूढो नो हेम॒न्तः ।
प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे प्रत्यश्वे॑षु॒ प्रति॑ तिष्ठामि॒ गोषु॑ ।
प्रति॑ प्र॒जायां॒ प्रति॑ तिष्ठामि॒ भव्ये॑ । इ॒ह धृति॑रि॒ह विधृ॑तिरि॒ह
रन्ति॑रि॒ह रम॑तिः । स्यो॒ना पृ॑थिवि॒ बडि॒त्था पर्व॑ताना॒मिति॒ द्वे । आ
त्वा॑ वहन्तु॒ हर॑यः॒ सचे॑तसः श्वे॒तैरश्वैः॑ स॒ह के॑तु॒मद्भिः॑ ।
वाता॑जिरै॒राया॑हि॒ मम॑ ह॒व्याय॑ श॒र्वोप॑ स्पृशतु मी॒ढ्वान्मी॒ढुषे॒
स्वाहोप॑स्पृशतु मी॒ढुषी॑ मी॒ढुष्यै॒ स्वाहा॑ जय॒न्तोप॑स्पृश जय॒न्ताय॒
स्वाहा॑ भ॒वाय॑ दे॒वाय॒ स्वाहा॑ श॒र्वाय॑ दे॒वाय॒ स्वाहेशा॑नाय दे॒वाय॒
स्वाहा॑ पशु॒पत॑ये दे॒वाय॒ स्वाहा॑ रु॒द्राय॑ दे॒वाय॒ स्वाहो॒ग्राय॑ दे॒वाय॒
स्वाहा॑ भी॒माय॑ दे॒वाय॒ स्वाहा॑ मह॒ते दे॒वाय॒ स्वाहा॑ भ॒वस्य॑ दे॒वस्य॒
पत्न्यै॒ स्वाहा॑ श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहेशा॑नस्य दे॒वस्य॒ पत्न्यै॒
स्वाहा॑ पशु॒पते॑र्दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒
स्वाहो॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑
मह॒तो दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ जय॒न्ताय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒
सुहु॑तहु॒दाहु॑तीनां॒ कामा॑नाँ समर्धयि॒त्रे स्वाहा॑ । स्व॒स्ति नः॑ पूर्ण॒मुखः॒
परि॑क्रामतु गृह॒पोप॑स्पृश गृह॒पाय॒ स्वाहा॑ गृह॒प्युप॑स्पृश गृह॒प्यै
स्वाहा॑ घो॒षिण॒ उप॑स्पृशत घो॒षिभ्यः॒ स्वाहा॑ श्वा॒सिन॒ उप॑स्पृशत
श्वा॒सिभ्यः॒ स्वाहा॑ विचि॒न्वन्त॒ उप॑स्पृशत विचि॒न्वद्भ्यः॒ स्वाहा॑ प्रपु॒न्वन्त॒
उप॑स्पृशत प्रपु॒न्वद्भ्यः॒ स्वाहा॑ सम॒श्नन्त॒ उप॑स्पृशत सम॒श्नद्भ्यः॒
स्वाहा॑ देवसे॒ना उप॑स्पृशत देवसे॒नाभ्य॒स्स्वाहा॒ या आख्या॑ता॒ याश्चानाख्या॑ता
देवसे॒ना उप॑स्पृशत देवसे॒नाभ्यः॒ स्वाहा॑ द्वार॒पोप॑स्पृश द्वार॒पाय॒ स्वाहा॑
द्वार॒प्युप॑ स्पृश द्वार॒प्यै स्वाहा॑ऽन्वासा॒रिण॒ उप॑स्पृशतान्वासा॒रिभ्यः॒
स्वाहा॑ निष॒ङ्गिन्नुप॑स्पृश निष॒ङ्गिणे॒ स्वाहा॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒
क्षेत्र॑स्य॒ पति॑ना व॒यमिति॒ द्वे ॥ ०। ०। २। १८॥ प॒र॒मे॒ष्ठ्यसि॑ पर॒माम॒ष्टौ
॥ १८॥
१९ यन्मे॑ मा॒ता प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता । तन्मे॒ रेतः॑ पि॒ता
वृ॑ङ्क्तां मा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा॑ । यास्तिष्ठ॑न्ति॒
या धाव॑न्ति॒ या आ॑र्द्रो॒घ्नीः परि॑त॒स्थुषीः॑ । अ॒द्भिर्विश्व॑स्य
भ॒र्त्रीभि॑र॒न्तर॒न्यं पि॒तुर्द॑धे॒ऽमुष्मै॒ स्वाहा॑ । यन्मे॑ पिताम॒ही
प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता । तन्मे॒ रेतः॑ पिताम॒हो वृ॑ङ्क्तां
मा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा॑ । अ॒न्तर्द॑धे॒ पर्व॑तैर॒न्तर्मह्या॑
पृथि॒व्या । आ॒भिर्दि॒ग्भिर॑न॒न्ताभि॑र॒न्तर॒न्यं पि॑ताम॒हाद्द॑धे॒ऽमुष्मै॒
स्वाहा॑ । यन्मे॑ प्रपिताम॒ही प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता । तन्मे॒ रेतः॑
प्रपिताम॒हो वृ॑ङ्क्तां मा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा॑ । अ॒न्तर्द॑ध
ऋ॒तुभि॑रहोरा॒त्रैस्स॑ स॒न्धिभिः॑ । अ॒र्ध॒मा॒सैश्च॒ मासै॑श्चा॒न्तर॒न्यं
प्र॑पिताम॒हाद्द॑धे॒ऽमुष्मै॒ स्वाहा॑ । ये चे॒ह पि॒तरो॒ ये च॒ नेह॒ याग्श्च॑
वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म । अग्ने॒ तान्, वे॑त्थ॒ यदि॒ ते जा॑तवेद॒स्तया॑
प्र॒त्तँ स्व॒धया॑मदन्तु॒ स्वाहा॑ । स्वाहा॑ पि॒त्रे । पि॒त्रे स्वाहा॑ । स्वाहा॑
पि॒त्रे । पि॒त्रे स्वाहा॑ । स्व॒धा स्वाहा॑ । अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑ ।
ए॒ष ते॑ तत॒ मधु॑माँ ऊ॒र्मिः सर॑स्वा॒न् यावा॑न॒ग्निश्च॑ पृथि॒वी च॒
ताव॑त्यस्य मा॒त्रा ताव॑तीं त ए॒तां मात्रां॑ ददामि॒ यथा॒ऽग्निर॑क्षि॒तोऽनु॑पदस्त
ए॒वं मह्यं॑ पि॒त्रेऽक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्वँ स्व॒धां
तैस्स॒होप॑जीव॒र्चस्ते॑ महिमै॒ष ते॑ पितामह॒ मधु॑माँ ऊ॒र्मिस्सर॑स्वा॒न्
यावा॑न् वा॒युश्चा॒न्तरि॑क्षं च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीं त ए॒तां मात्रां॑ ददामि॒
यथा॑ वा॒युर॑क्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ पिताम॒हाया॑क्षि॒तोऽनु॑पदस्तः
स्व॒धा भ॑व॒ तां त्वँ स्व॒धां तैस्स॒होप॑जीव॒ सामा॑नि ते महिमै॒ष ते॑
प्रपितामह॒ मधु॑माँ ऊ॒र्मिस्सर॑स्वा॒न् यावा॑नादि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य
मा॒त्रा ताव॑तीं त ए॒तां मात्रां॑ ददामि॒ यथा॑ऽऽदि॒त्योऽक्षि॒तोऽनु॑पदस्त ए॒वं
मह्यं॑ प्रपिताम॒हाया॑क्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्वँ स्व॒धां
तैस्स॒होप॑जीव॒ यजूँ॑षि ते महि॒मा ॥ ०। ०। २। १९॥ अ॒मुष्मै॒ स्वाहा॑ स्व॒धा
स्वाहैकं॑ च ॥ १९॥
२० पृ॒थि॒वी ते॒ पात्रं॒ द्यौर॑पि॒धानं॒ ब्रह्म॑णस्त्वा॒ मुखे॑ जुहोमि
ब्राह्म॒णानां॑ त्वा प्राणापा॒नयो॑र्जुहो॒म्यक्षि॑तमसि॒ मैषां॑ क्षेष्ठा
अ॒मुत्रा॒ऽमुष्मि॑न्लो॒के । मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑ मा॒र्जय॑न्तां॒ मम॑
पिताम॒हा मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हा मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑
मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः । ए॒तत्ते॑
ततासौ॒ ये च॒ त्वामन्वे॒तत्ते॑ पितामहासौ॒ ये च॒ त्वामन्वे॒तत्ते॑ प्रपितामहासौ॒
ये च॒ त्वामन्वे॒तत्ते॑ मातरसौ॒ याश्च॒ त्वामन्वे॒तत्ते॑ पितामह्यसौ॒ याश्च॒
त्वामन्वे॒ तत्ते॑ प्रपितामह्यसौ॒ याश्च॒ त्वामनु॑ । मा॒र्जय॑न्तां॒ मम॑
पि॒तर॒ इत्ये॒ते । ये च॒ वोऽत्र॒ ये चा॒स्मास्वाशँ॑ सन्ते॒ याश्च॒
वोऽत्र॒ याश्चा॒स्मास्वाशँ॑ सन्ते॒ ते च॑ वहन्तां॒ ताश्च॑ वहन्तां॒
तृप्य॑न्तु भवन्त॒ स्तृप्य॑न्तु भवत्य॒ स्तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।
पु॒त्रान्पौत्रा॑न॒भि त॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः । स्व॒धां पि॒तृभ्यो॑
अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीरु॒भयाग्॑स्तर्पयन्तु । तृप्य॑त॒ तृप्य॑त॒
तृप्य॑त । प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि॒ ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑
। यां जनाः॑ प्रति॒नन्द॑न्ति॒ रात्रिं॑ धे॒नुमि॑वाय॒तीम् । सं॒व॒त्स॒रस्य॒
या पत्नी॒ सा नो॑ अस्तु सुमङ्ग॒ली स्वाहा॑ । वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒
यत्रैना॒न् वेत्थ॒ निहि॑तान्परा॒के । मेद॑सः॒ कूल्या॒ उप॒ तान्क्ष॑रन्तु
स॒त्या ए॒ता आ॒शिष॑स्सन्तु॒ कामै॒स्स्वाहा॑ । यां जनाः॑ प्रति॒नन्द॒न्तीत्ये॒षा ।
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॒दिति॑ ति॒स्रः । ए॒का॒ष्ट॒कां प॑श्यत॒
दोह॑माना॒मन्नं॑ माँ॒सव॑द् घृ॒तव॑त्स्व॒धाव॑त् । तद्ब्रा॑ह्म॒णैर॑ति
पू॒तम॑न॒न्तम॑क्ष॒य्यम॒मुष्मि॑न् लो॒के स्फीतिं॑ गच्छतु मे पि॒तृभ्यः॒ स्वाहा॑
। औ॒लू॒ख॒ला ग्रावा॑णो॒ घोष॑मक्र॒त ह॒विः कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्
। ए॒का॒ष्ट॒के सु॑प्र॒जा वी॒रव॑न्तो व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।
ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना संवत्स॒रस्य॒ पत्नी॑ दुदुहे॒ प्रपी॑ना । तं
दोह॒मुप॑ जीवाथ पि॒तरः॑ स॒हस्र॑धारम॒मुष्मि॑न् लो॒के स्वाहा॑ ॥ ०। ०। २। २०॥
आ॒य॒तीं प्रपी॒नैकं॑ च ॥ २०॥
२१ उ॒क्थ्य॑श्चाऽस्य॑तिरा॒त्रश्च॒ साद्य॑स्क्री॒श्छन्द॑सा स॒ह ।
अ॒पू॒प॒घृ॒ता॒हु॒ते नम॑स्ते अस्तु माँ सपि॒प्पले॒ स्वाहा॑ । भूः
पृ॑थि॒व्य॑ग्निन॒र्चाऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ । भुवो॑
वा॒युना॒ऽन्तरि॑क्षेण॒ साम्ना॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
स्व॑र्दिवा॑ऽऽदि॒त्येन॒ यजु॑षा॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
ज॒नद॑द्भि॒रथ॑र्वाङ्गि॒रोभि॑र॒मुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
रो॒च॒नाया॑जि॒राया॒ग्नये॑ दे॒वजा॑तवे॒ स्वाहा॑ । के॒तवे॒ मन॑वे॒ ब्रह्म॑णे
दे॒वजा॑तवे॒ स्वाहा॑ । स्व॒धा स्वाहा॒ऽग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑
। अन्न॑मिव ते दृ॒शे भू॑यासं॒ वस्त्र॑मिव ते दृ॒शे भू॑यासं॒ वित्त॑मिव
ते दृ॒शे भू॑यास मा॒शेव॑ ते दृ॒शे भू॑यासँ श्र॒द्धेव॑ ते दृ॒शे
भू॑यासँ॒ सँ स्रव॑न्तु॒ दिशो॑ म॒हीः समाधा॑वन्तु सू॒नृताः॑ । सर्वे॒
कामा॑ अ॒भिय॑न्तु मा प्रि॒या अ॒भिर॑क्षन्तु मा प्रि॒याः । यशो॑ऽसि॒ यशो॒ऽहं
त्वयि॑ भूयासमसौ । अ॒ङ्कौ न्य॒ङ्काव॒भित॒ इत्ये॒षा । अध्व॑नामध्वपते स्व॒स्ति मा॒
सम्पा॑रय । अ॒यं वा॑म॒श्विना॒ रथो॒ मा दुः॒खे मा सु॒खे रि॑षत् । अरि॑ष्टस्स्व॒स्ति
ग॑च्छतु विवि॒घ्नन्पृत॑नाय॒तः । अश्वो॑सि॒ हयो॒ऽस्यत्यो॑सि॒ नरो॒स्यर्वा॑ऽसि॒
सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑ऽसि नृ॒मणा॑ असि॒ ययु॒र्नामा॑स्याऽदि॒त्यानां॒
पत्वाऽन्वि॑हि । ह॒स्ति॒य॒श॒सम॑सि हस्तियश॒सी भू॑यासं॒ वह॑ काल॒वह॒
श्रियं॑ मा॒ऽभिव॑ह । इन्द्र॑स्य त्वा॒ वज्रे॑णा॒भि निद॑धाम्यसौ । अव॑ जिह्वक
निजिह्व॒काव॑ त्वा ह॒विषा॑ यजे । तत्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒ मद॒सौ
व॑दा॒त्स्वाहा॑ । आ ते॒ वाच॑मा॒स्यां॑ दद॒ आ म॑न॒स्याँ हृद॑या॒दधि॑ ।
यत्र॑यत्र ते॒ वाङ्निहि॑ता॒ तां त॒ आद॑दे । तत्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒
मत्प॑द्यस्वासौ ॥ ०। ०। २। २१॥ सू॒नृता॑ ह॒विषा॑ यजे च॒त्वारि॑ च ॥ २१॥
२२ या त॑ ए॒षा र॑रा॒ट्या॑ त॒नूर्म॒न्योर्मृ॒ध्रस्य॒ नाशि॑नी । तां दे॒वा
ब्र॑ह्मचा॒रिणो॒ विन॑यन्तु सुमे॒धसः॑ । यत्त॑ ए॒तन्मुखे॑ऽम॒तँ
र॒राट॒मुदि॑व॒ विध्य॑ति । वि ते॒ क्रोधं॑ नयामसि॒ गर्भ॑मश्वत॒र्या इ॑व । अव॒
ज्यामि॑व॒ धन्व॑नो हृ॒दो म॒न्युं त॑नोमि ते । इन्द्रापा॑स्य पलि॒गम॒न्येभ्यः॒
पुरु॑षेभ्यो॒ऽन्यत्र॒ मत् । यद॒हं धने॑न॒ प्रप॒णँश्च॑रामि॒
धने॑न देवा॒ धन॑मि॒च्छमा॑नः । तस्मि॒न्त्सोमो॒ रुच॒माद॑धात्व॒ग्निरिन्द्रो॒
बृह॒स्पति॑श्च॒ स्वाहा॑ । परि॑ त्वा गिरेरमिहं॒ परि॒ भ्रातुः॒ परि॒ष्वसुः॑ ।
परि॒ सर्वे॑भ्यो॒ ज्ञाति॑भ्यः॒ परि॑षीतः॒ क्वे॑ष्यसि॑ । शश्व॒त्परि॑कुपितेन
सं॒क्रामे॒णाऽवि॑च्छिदा । उ॒लेन॒ परि॑षीतोसि॒ परि॑षीतोस्यु॒लेन॑ । आव॑र्तन
वर्त॒येत्ये॒षा । आव॑र्तने नि॒वर्त॑न आ॒वर्त॑न निवर्त॒नाय॒ स्वाहा॑ । अनु॑
पोऽह्वदनु॒ह्वयो॒ निव॑र्तो पो॒न्य॑वीवृतत् । ऐ॒न्द्रः परि॑क्रोशो वः॒ परि॑क्रोशतु
स॒र्वतः॑ । यदि॒मामति॒ मन्या॑ध्वा॒ अदे॑वा दे॒वव॑त्तरम् । इन्द्रः॒ पाशे॑न
सि॒क्त्वा वो॒ मह्य॒मिद्व॒शमान॑या॒त्स्वाहा॑ । यदि॑ वृ॒क्षाद्यद्य॒न्तरि॑क्षा॒त्
फल॑म॒भ्य॑पत॒त्तदु॑ वा॒युरे॒व । यत्रास्पृ॑क्षत्त॒नुवं॒ यत्र॒ वास॒ आपो॑
बाधन्तां॒ निरृ॑तिं परा॒चैः । ये प॒क्षिणः॑ प॒तय॑न्ति बि॒भ्यतो॒ निरृ॑तैः
स॒ह । ते मा॑ शि॒वेन॑ श॒ग्मेन॒ तेज॑सो॒न्दन्तु॒ वर्च॑सा । दि॒वो नु मा॑
बृह॒तो अ॒न्तरि॑क्षाद॒पाग् स्तो॒को अ॒भ्य॑पतच्छि॒वेन॑ । सम॒हमि॑न्द्रि॒येण॒
मन॑सा॒ऽहमागां॒ ब्रह्म॑णा सम्पृचा॒ नः सु॒कृता॑ कृ॒तेन॑ । इ॒मं मे॑
वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॒ प्रजा॑पते
। सं॒राजं॑ च॒ व्याहृ॑ती॒र्विहृ॑ताः । इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒
मैषां नु॑ गा॒दप॑रो॒ अर्ध॑मे॒तम् । श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीस्ति॒रो
मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥ ०। ०। २। २२॥ क्वे॑ष्यसि॑ परा॒चैर॒ष्टौ च॑
॥ २२॥
उ॒ष्णेन॒ पञ्च॑दशायु॒र्दा एक॑विँशतिराग॒न्त्रादश॒ योगे॑ योगे॒ त्रयो॑दश
सु॒श्रवः॑ सु॒श्रव॑सम॒ष्टौ परि॑त्वाग्न इ॒मँ स्तोम॑मायु॒ष्य॑मेका॒न्न
विँ॑शति॒रेका॒न्न विँ॑शति॒र्मयि॑ पर्वत पूरु॒षँ षोड॑श त्र॒य्यै
वि॒द्याया॑ अ॒ष्टाद॑श धा॒ता द॑दातु नो र॒यिमेक॑ विँशति॒रश्मा॑ भव॒
षोड॑श॒ मा ते॑ कुमा॒रं त्रयो॑विँशतिर्नक्तं चा॒रिण॒श्चतु॑र्दश॒
यद्भूमेः॒ षड्विँ॑शतिः कूर्कु॒रः पञ्च॑विँशति॒रिन्द्र॑ जहि॒
द्वाविँ॑शतिः परमे॒ष्ठ्यसि॑ पर॒माम॒ष्टौ यन्मे॑ मा॒ता पृथि॒वी
ते॒ पात्र॒मेक॑ विँशतिरु॒क्थ्य॑श्च॒ त्रयो॑विँशति॒र्या त॑
ए॒षाऽष्टाविँ॑शति॒र्द्वाविँ॑शतिः ॥ २२॥
उ॒ष्णेन॑ धा॒तोक्थ्य॑श्च॒ द्वाविँ॑शतिः ॥ २२॥
उ॒ष्णेन॒ पर्व॑तेन ॥
इति एकाग्नि-काण्डम् ॥
आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः ।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम ॥
ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् ॥
ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
॥ हरिः॑ ओ(३)म् ॥
॥ श्री कृष्णार्पणमस्तु ॥
Encoded and proofread by Muralidhara B A muraliba at gmail.com
Shri muralidhar has studied kRRiShNayajurveda
from his father Anathakrishna, Proffessor in Chamarajendra
Sanskrit College, Chamarajpet, Bangalore. Muralidhar received
MA from Karnataka Samskrit University.