गणेश्वर-पाठः

TODO: परिष्कार्यम्

Source: TW

ॐ नमः परमात्मने

एकाग्निकाण्डः

॥ प्रथमप्रश्नप्रारम्भः ॥

॥ ॐ श्रीगुरुभ्यो नमः हरिः ओ (४) म् ॥

प्र॒सु॒ग्मन्ता॑ प्रि॒यसा॒नस्य॑ स॒क्षणि॑ ब॒रेभि॑र्व॒राँ अ॒भि षु प्रसी॑दत । अ॒स्माक॒मिन्द्र॑ उ॒भय॑ञ्जु- जोषति॒ यथ्सौ॒म्यस्यान्ध॑सो॒ बुवो॑धति । अ॒न॒ख्य॒रा ऋ॒जव॑स्सन्तु॒ पन्था॒ येभि॒स्सखा॑यो॒ यन्ति॑नो बरे- यम् । सम॑र्य॒मा सम्भगा॑नो निनीया॒थ्सचा॑स्य॒त्यथो॑ सु॒यम॑मस्तु देवाः ।। अभ्रतृप्रा॒ वरु॒णाप॑तिघ्नीं बृहस्पते । इन्द्रायु॑त्र॒घ्नील॒क्ष्म्य॑न्ताम॒स्यै स॑वितस्सुव ।। अर्घौरचख्षुरप॑तिघ्न्येधि शि॒वा प॒तिभ्य॑- स्सु॒मना॑स्सु॒वर्च॑ । जव॒सूर्देवका॑मा स्यो॒ना शन्नो॑ भव द्वि॒पदे॒ शञ्चतु॑ष्पदे ।। इ॒दम॒हं या त्वयि॑ पति॒घ्न्य॑ल॒क्ष्मस्ता॑ निर्द॑शामि ॥ जी॒वा ँ रु॑दन्ति॒ विम॑यन्ते अद्ध्व॒रे दी॒र्घामनु॒प्रसि॑ति॑ दीर्घायुर्नरैः । वा॒मं पि॒तृभ्यो॒ य इ॒द ँ स॑मेरि॒रे मय॒ पति॑भ्यो॒ जन॑यः परि॒ष्वर्जे ॥ व्यु॑क्षत्क्रूरमुद॑च॒न्त्वाप॒ आऽस्यै ब्रा॑ह्म॒णास्त्रप॑न ँ हरन्तु । अवी॑र॒घ्नी॒रुद॑च॒न्त्वाप॑ः ।। अ॒र्य॑म्णो अ॒ग्निं परि॑यन्तु॒ क्षि॒प्रं प्रती॑क्षन्ता॒ श्वो॑ दे॒वरा॑श्च ॥ खेऽनस॒ः खेरथ॒ः खेयुग॑स्य शचीपते । अ॒पा॒लामि॑न्द्र॒ त्रिः पू॒र्व्यंकर॒थ्सूर्य॑वर्च॑सम् । शन्ते॒ हिर॑ण्य॒ शर्म॑ स॒न्त्वाप॒श्शन्ते॑ मे॒धी भ॑वतु॒ श॑यु॒गस्य॒ तृ॒ह्म॑ । शन्त॒ आप॑श्श॒तप॑वित्रा भव॒न्त्वथा॒ पत्या॑ त॒न्व॑ ससृ॑जस्व ।। धि॒युन॑रो॒ऽष्टौ च॑ ।। १ ।। इति प्रथमप्रश्ने प्रथमः खण्डः ।।

हिर॑ण्यवर्णाश्शुच॑यः पाव॒काः प्रच॑क्रमुर्हित्वाऽव॒द्यमाप॑ । श॒तं प॒वित्रा॒ वित॑ता॒ ह्य॑सु॒ ताभि॑- ष्ट्वा दे॒वस्त॑वि॒ता पु॑ना ।। हिर॑ण्यवर्णाश्शुच॑यः पाव॒का यासु॑ जा॒तः कश्यपो॒ यास्व॒ग्निः । या अनं गर्भं दधिरे सुवर्णास्तास्त आप॒श् ँ स्यो॒ना भ॑वन्तु । यासा॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृते अ॑व॒पश्य॒ञ्जना॑नाम् । या अ॒ग्निं गर्भं दधि॒रे सुवर्णास्तास्त॒ आप॒श् ँ स्यो॒ना भ॑वन्तु ॥ यासा॑न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहुधा निवि॑ष्टाः । या अ॒ग्नं गर्भं दधि॒रे सुवर्णास्तास्त॒ आप॒श्श ँ स्यो॒ना भ॑वन्तु ॥ शि॒वेन॑ त्वा॒ चक्षु॑षा पश्यन्त्वापश्शि॒वया॑ त॒न्वोप॑स्पृशन्तु॒ त्वच॑न्ते । घृ॒तश्चुतश्शु- च॑यो॒ याः पा॑व॒कास्तास्त॒ आप॒श् ँ स्यो॒ना भ॑वन्तु ॥ परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वत॑ः । वृ॒द्धायु॒मनु॒ वृद्धेयो॒ जुष्ट भवन्तु॒ जुष्ट॑यः ।। आ॒शासा॒नेत्ये॒षा । पू॒षा त्वे॒तो न॑यतु॒ हस्त॒गृह्याश्विनौँ त्वा॒ प्रव॑हतार्थेन । गृहान्ग॑च्छ गृ॒हप॑नो॒ यथाऽसो॑ व॒शिनौ॒ त्वं वि॒दथ॒माव॑दासि ।। भवन्तु॒ पञ्च॑ च ॥ २ ॥ इति प्रथमप्रश्ने द्वितीयः खण्डः ।।
1

1
। ‘सम॑र्य॒मा सं॒भर्गो’ इति पाठभेदः ।।
आ॒शासा॑ना सौमन॒सं प्र॒जा ँ सौभा॑ग्यन्त॒नूम् । अ॒ग्ने॒रनु॑व्रता भू॒त्वा सन॑ह्ये सु॒कृ॒ताय॒ कम् ।। (तै.सं.का. १. प्र.१. अनु. १०)

21
1
एकाग्निकाण्डे

सोम॑ः प्रथमो वि॑विदे गन्ध॒र्ध्वो वि॑विद॒ उत्त॑रः । तृ॒तीयो॑ अ॒ग्निष्टि॒ पति॑स्तु॒रीय॑स्ते मनु॒ष्य॒जाः ॥ सोमो॑ऽददद्गन्ध॒र्वाय॑ गन्ध॒र्वोऽद॑दद॒ग्नये॑ । र॒यिञ्च॑ पु॒त्राश्चा॑दाद॒ग्निर्म॑ह्म॒मथो॑ इ॒माम् ॥ गृ॒भ्णामि॑ ते सुप्रजा॒स्त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्य॑थाऽस॑ः । भर्गो अर्य॒मा स॑वि॒ता पु॒र॑न्ध॒र्मह्य॑न्त्वाऽदु- र्गार्हपत्याय देवाः ॥ ते ह॒ पूर्व॒ जना॑सो॒ यत्र॑ पू॒र्व॒वतो॑ हि॒ताः । मूर्द्धन्वान् यत्र॑ सौभ॒वः पूर्वो दे॒वेभ्य॒ आऽत॑पत् ॥ सर॑स्वति॒ पे॒दम॑व॒ सु॒भ॑रो॒ वाजि॑नीवति । ता॑ त्वा॒ विश्व॑स्य॒ भू॒तस्य॑ प्र॒गाया॑म॒स्यग्र॒तः ॥ य एति॑ प्र॒दिश॒स्सर्वा॒ दिशोऽनु॒ पव॑मानः । हिर॑ण्यहस्त ऐर॒म्मस्स त्वा॒ मन्म॑नसङ्गृणोतु ॥ एक॑मि॒षे विष्णु- स्त्वाऽन्वे॑तु॒ द्वे ऊ॒र्जे त्रीणि॑ व्र॒ताय॑ च॒त्वारि॒ मायो॑भवाय॒ पञ्च॑ प॒शुभ्य॒ष्षडृतुभ्य॑स्स॒प्त स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णुस्त्वाऽन्वे॑तु ।। सखा॑ स॒प्तप॑दा भव॒ सखा॑यौ स॒प्तप॑दा बभूव स॒ख्यन्ते॑ गमेय स॒ख्यात्ते॒ मायो॑ष॒ स॒ख्यान्मे॒ मा यो॑ष्टा॒स्सम॑याव॒ सम॑ल्याव॑ह॒ संप्रि॒यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ । इष॒मूर्ज॑म॒भिसं॒वसा॑ना॒ सन्नो॑ मनाश॑सि॒ संव्र॒ता समु॑ चि॒त्तान्याक॑रम् । ` सा त्वम॒स्यमूहममूहम॑स्मि॒ सा त्वं द्यौर॒हं पृ॑थि॒वी त्वं रेतोऽह‍ रैतोभृत्त्वं मनो॒ऽहम॑स्मि॒ वाक्त्व सामा॒हम॒स्म्वृ॑त्त्व सा मामनु॑व्रता भव पुसे पु॒त्राय॒ वेत॑वै प्रि॒यै पु॒त्राय॒ वेत्त॑वा॒ एहि॑ सू॒नृते ।। अ॒ग्र॒तष्षट्च॑ ।। ३ ।। इति प्रथमप्रश्ने तृतीयः खण्डः ॥

सोमा॑य॒ जनवि॑िदे॒ स्वाहा॑ गन्ध॒र्वाय॑ जनि॒विदे॒ स्वाहा॒ऽग्नये॑ जनिविदे स्वाहा॑ ॥ कन्य॒ला पितृ- भ्यो॑य॒ती प॑तिलो॒कमव॑ दी॒क्षाम॑दास्य॒ स्वाहा॑ ।। प्रेतो मुञ्चाति॒ नामुत॑स्सु॒व॒द्धाम॒मुत॑स्करत् । यथे॒यमि॑न्द्र मीद्वस्सुपुत्रा सु॒भगाऽस॑ति ॥ इ॒मान्त्वमि॑न्द्र मीढ्वस्सुपुत्रा सुभगाँ ‘कुरु । दशस्यां पुत्रानाधे॑हि॒ पति॑मेकादशं कृषि ।। अ॒ग्निरे॑तु प्रथ॒मो दे॒वता॑ना॒ ऽस्यै प्र॒जां मु॑ञ्चतु मृत्युपा॒शात् । तद॒य ँ राजा वरुणोऽनु॑मन्यत यथेय ँ स्त्री पौत्र॑म॒घन्नरोदा॑त् ।। इ॒माम॒ग्निस्ना॑यतां॒ गार्हपत्यः प्र॒जाम॑स्यै नयतु दी॒र्घमायु॑ः । अश॑न्योपस्था॒ जीव॑तामस्तु मा॒ता पौत्र॑मान॒न्दम॒भि प्रर्बुद्ध्यतामि॒यम् ॥ मा ते॑ गृहे निशि घोष॒ उत्था॑द॒न्यत्र॒ त्वदु॑द॒त्य॑स्स॑र्वि॒शन्तु । मा त्वं वि॑िकेश्युर आवर्धिष्ठा जवप॑त्नी पतिलोके बिरा॑ज॒ पश्य॑न्ती प्र॒जा सु॑मन॒स्यमा॑नाम् ॥ द्यौस्ते॑ पृ॒ष्ठ‍ र॑ख्षतु वा॒युरूरू अ॒श्विनो॑ च॒ स्तन॒न्धय॑न्त॒ सवि॒ताऽभिर॑ख्षतु । आवास॑सः परि॒धाना॒द्बृह॒स्पति॒र्वश्वे॑दे॒वा अ॒भिर॑ख्षन्तु प॒श्चात् ।। अप्रज॒स्तां पत्रमृ॒त्युं पा॒प्मान॑मु॒तवा॒ऽघम् । शी॒र्ष्णस्स्रज॑मिवो॒न्मुच्य॑ द्वि॒षद्भय॒ प्रति॑मु॒ञ्चामि॒ पाश॑म् ॥ ( १ ) इ॒मम् वरुण (२) तत्त्वा॑यामि (३) त्वन्नो अग्ने (४) सत्वन्नौ अग्ने (५) त्वम॑ग्ने॒ अयाऽस्ययासन्मन॑सा हि॒तः । अ॒यासन् ह॒व्यमृ॑हिषे॒ऽयानो॑ धेहि भेष॒जम् ॥ इ॒यम॒ष्टौ च॑ ॥ ४ ॥ इति प्रथमप्रश्ने चतुर्थः खण्डः ।।

3 . ‘सा त्वम॒स्यमु॒हम॑मू॒’ इति पाठभेदः ।।

4. ‘वेत्त॑व॒ एहि॑’ इति पाठभेदः ॥

5. ‘कृणु’ इति पाठभेदः ।

(१) इ॒मं मे॑ वरुण श्रुधा॒ हव॑म॒द्याच॑ मृड्य । त्वाम॑व॒स्युराच॑के । (२) तत्त्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भैः। अहे॑डमानो वरुणे॒ह वो॒द्ध्युरु॑शस॒ मा न आयुः प्रमो॑षीः ।। (तै. सं. का. २ प्र. १ अनु. ११) (३) त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः । यजि॑ष्ठ॑ वहि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषा ँसि॒ प्रमु॑मुग्ध्य॒स्मत् ।। (४) स त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑यक्ष्व नो॒ वरु॑ण॒ ररा॑णो वी॒हि मृ॑डकु सु॒हवो॑ न एधि ।। (तै.सं.का.२ प्र.५ अनु.१२)

2
प्रथमः प्रश्नः

आति॑ष्ठ॒ममश्मा॑न॒मश्मे॑व॒ त्व ँ स्थि॒रा भ॑व । अ॒भिति॑ष्ठ पृतन्य॒तस्सह॑स्व पृतनाय॒तः ।। इ॒य- ना॒र्युप॑ब्रूते॒ कुल्पा॑न्यावपन्ति॒का । दी॒र्घायुर॑स्तु मे॒ पति॒र्जीवा॑तु॒ श॒रद॑श॒तम् ।। तुभ्य॒मये॒ पर्य॑वहन्थ्सूर्यां व॑ह॒तुना॑ स॒ह । पुन॒ः पति॑भ्यो जा॒यां दा अ॑ग्ने॒ प्र॒जया॑ स॒ह । पुन॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह व॑र्चसा । दी॒र्घायुर॑स्या॒ यः पति॒स्स ए॑तु श॒रद॑श॒तम् ॥ विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव । अति॑गाहे॒महि॒ द्विष॑ः ।। आति॑ष्ठ॒ममश्मा॑नम् । अ॒र्य॒मण॒न्नु दे॒वं॑ क॒न्या॑ अ॒ग्निम॑यक्षत । स इ॒मा॑ दे॒वो अ॑ध्व॒रः प्रेतो मुश्चाति॒ नामुत॑स्सुव॒द्धाम॒मुत॑स्करत् ।। तुभ्य॒मये॒ पर्व॑त्र॒ह॒न्पुन॒ पत्नी॑म॒ग्निर॑दा॒द्विश्वा॑ उ॒त त्वया॑ व॒यमा- ति॑ष्ठ॒ममश्मा॑नम् ।। त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीना॒न्नाम॑ स्व॒धाव॒थ्स्व॑र्य॑ वि॒भर्‌षि॑ । अ॒ञ्जन्ति॑ वृ॒क्ष‍ सुधि॑त॒न्न गोभि॒र्य॑द्दम्प॑ती॒ सम॑न॒सा कृ॒णोषि॑ । तुभ्य॒मये॒ पर्य॑वह॒न्पुनः॒ पत्नी॑म॒ग्निर॑दा॒द्विश्वा॑ उ॒त त्वया॑ व॒यम् ॥ प्र त्वा॑ मु॒श्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाऽव॑द्ध्राथ्सवि॒ता सु॒केत॑ः । धा॒तुश्च॒ योनौ॑ सु॒कृ॒तस्य॑ लो॒के स्यो॒नन्ते॑ स॒ह पत्या॑ करोमि ॥ इ॒मं विष्या॑मि॒ वरु॑णस्य॒ पाशं॒ यमव॑द्ध्रीत सवि॒ता सु॒शेवः॑ । धा॒तुश्च॒ योनौ॑ सु॒कृतस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ कृणोमि ।। अ॒याश्चा॒ग्ने॒ऽस्य॑न॒भिश॒स्तीश्च॑ " स॒त्यमत्त्वम॒या अ॑सि । अय॑सा॒ मन॑सा धृतऽयसा॑ ह॒व्यमृ॑हिषेऽयानो॑ धेहि भेष॒जम् ॥ द्विष॑स्सु॒शेव॒- स्त्रीणि॑ च ।। ५ ।। इति प्रथमप्रश्ने पञ्चमः खण्डः ।

स॒त्येनोत्त॑भिता॒ भूमि॒स्सूर्येणोत्त॑भिता॒ द्यौः । ऋ॒तेना॑दि॒त्यास्तिष्ठ॑न्ति दि॒वि सोमो॒ अधि॑श्रुतः ॥ (१) यु॒ञ्जन्ति॑ ब्र॒ह्मं (२) योगॆयोगे ।। सुरि॒शुकः श॑ल्म॒लं वि॒श्वरू॑प॒ हिर॑ण्यवर्ण ँ सु॒वृत॑ सु॒च॒क्रम् । आरो॑ह वद्ध्व॒मृत॑स्य लो॒क ँ स्यो॒नं पत्ये॑ वह॒तुर्हृणुष्व ॥ उदु॑त्त॒रमा॒रोह॑न्ती व्य॒स्यन्ती॑ पृतन्य॒तः । मूर्द्धान॒म्पत्युरारो॑ह प्र॒जया॑ च वि॒राभ॑व ।। सम्राज्ञी श्वशुरे भव सम्राज्ञी ‘श्वभ्रुवां भ॑व । नना॑न्दरि स॒म्राज्ञॊ भव स॒म्राज्ञा॒ अधि॑दे॒वृषु॑ ।। सु॒षाणा॒ श्वशु॑राणा॑ प्र॒जाया॑श्च॒ धन॑स्य च । पतनाच देव॒णाश्च॑ सजा॒तानां॑ वि॒राड्भ॑व ।। नीललोहिते भ॑वतः कृ॒त्या स॒क्तिर्व्यज्यते । एव॑न्तेऽस्या ज्ञतय॒ः पति॑र्व॒न्धेषु॑ ब॒द्ध्यते । ये व॒द्ध्वश्च॒न्द्रं व॑ह॒तुं यख्ष्मा॒ यन्ति॒ जना॒ अनु॑ । पुन॒स्तान् य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः ।। मावि॑दन्परि॑िप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दम्प॑ती । सु॒गेभि॑र्द॒र्गमती॑ता॒मप॑दा॒न्त्व- रा॑तयः ।। सु॒गं पन्था॑न॒मारु॑श॒मरि॑ष्टा॒ ँ स्वस्ति॒वाह॑नम् । यस्मि॑न्वी॒रो नरिष्य॑त्य॒न्येषां॑ वि॒न्दते॒ वसु॑ ॥ धन॑स्य च॒ नव॑ च ।। ६ ।। इति प्रथमप्रश्ने षष्ठः खण्डः ।।
ये

ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आध॒त्त र॒यि॑ द॒शवी॑रं वच॒स्यवे॑ । कृ॒तन्ती॒र्त्य ँ सु॑प्रपा॒ण‍ शु॒भस्पती स्था॒णुं प॑ये॒ष्ठामप॑ दु॒र्म॒ति ँ ह॑तम् । अ॒यन्नो॑ म॒ह्याः पा॒ स्व॒स्तिने॑ष॒द्वन॒स्पति॑ः । सीरा॑ नस्सु॒तरा॑ भव दीर्घायु॒त्वाय॒ वर्च॑से ।। अ॒स्य॒ पा॒रे नि॑र॒थस्य॑ जी॒वा ज्योति॑रशीमहि । म॒ह्या इ॑न्द्र-
I

6
‘स॒त्यमि॑त्त्वम॒या’ इति पाठभेदः ।।

7
‘घृ॒तोऽयसा॑ ’इति पाठभेदः ।।
(१) यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षञ्चर॑न्तं॒ परि॑त॒स्थुष॑ः । रोच॑न्ते रोच॒ना दि॒वि । (तै. सं. का. ७ प्र.४ अनु.२०)
(२) योगॆयोगे त॒वस्त॑नं॒ वाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये॑ ।। (तै. सं. का. ४ प्र. १ अनु. २)

8 ‘श्वश्र्वा॒म्भ॑व’ इति पाठभेदः ॥
3
एकाग्निकाण्डे

स्स्व॒स्तये॑ ॥ यह॒ते चि॑दभि॒निष॑ पु॒रा ज॒र्तृभ्य॑ आ॒तृ॒द॑ः । सन्धा॑ता स॒न्पि॑ म॒घवा॑ पुरो॒वसु॒र्नष्क॑र्मा॒ `बहु॑तं॒ पुन॑ः ॥ (१) इडा॑मग्न(२) इ॒मं मे॑ वरुण॒ (३) तत्त्वा॑यामि॒(४) त्वन्नो॑ अग्ने॒(५) स त्वन्नो॑ अग्ने॒(६)त्वम॑ग्ने अ॒यासि॑ ॥ ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षु वृक्षेषु॑ वानस्प॒त्येष्वास॑ते । शि॒वास्ते अ॒स्यै व॒द्ध्यै॑ भवन्तु॒ माहि৺सिषुर्व॑ह॒तुमू॒ह्यमा॑नाम् ॥ या ओष॑धयो॒ या न॒द्य यानि॒ धन्वा॑नि॒ ये वना॑ । ते त्वा॑ वधु प्र॒जाव॑ती॒ प्र त्वे मु॑श्च॒न्त्वह॑सः ॥ संशयामि वह॒तुं ब्रह्म॑णा गृ॒हैरर्घोरेण चख्षु॑षा॒ मैत्रे॑ण । प॒र्याण॑द्धं वि॒श्वरू॑षं॒ यद॒स्या ँ स्यो॒नं पति॑भ्यस्सवि॒ता कृ॑णोतु॒ तत् ॥ आवा॑म- गन्थ्सुम॒तिर्वाजिनी ̈वसू॒ न्य॑श्विना हु॒थ्सु॒ काम अयत । अभू॑तं गो॒पा मि॑थु॒ना शुभस्पती प्रि॒या अ॑र्य॒म्णो दुर्या ँ अशीमहि ।। अ॒यन्नो॑ दे॒वस्त॑वि॒ता बृह॒स्पति॑रिन्द्रा॒ग्नी मि॒त्रावरु॑णा स्व॒स्तये॑ । त्वष्टा॒ विष्णु॑ः प्र॒जया॑ सभि॑रा॒णः काम॒ आया॑तं॒ कामा॑य त्वा॒ विमु॑ञ्चतु ।। आस॑ते॒ नव च ।। ७ ।। इति
1

१०.

प्रथमप्रश्ने सप्तमः खण्डः ।।

शर्म॒ वर्मेदमाह॑रा॒स्यै नार्या॑ उप॒स्तिरे॑ । सिनी॑वालि॒ प्र॒जा॑यतामि॒यं भग॑स्य सुम॒ताव॑सत् ॥ गृ॒हान्भ॒द्रान्थ्सु॒मन॑स॒ः प्रप॒द्येऽर्बीरघ्नी वी॒रव॑त॒स्सु॒वीरा॑ । इतं॒ वह॑तो घृ॒तमु॒क्षमा॑णा॒स्तेष्व॒ह सु॒मना- स्स्सं वि॑शामि ॥ आग॑न्गो॒ष्ठं महि॑षा॒ गोभि॒रश्वैरायु॑ष्मत्पत्नी प्र॒जया॑ स्व॒वि॑ित् । ब॒ह्वीं प्र॒जाञ्जनय॑न्ती सु॒रने॒मम॒ग्नि श॒तहि॑मास्सपर्यात् ॥ अ॒यम॒ग्निर्गृहप॑तिस्सु॒स॒सत्पु॑ष्टवर्द्धनः । यथा॒ भग॑स्या॒भ्यां॑ दद॑द॒ पुष्टि॒मथो॑ प्र॒जाम् ॥ प्र॒जाया॑ आ॒भ्यां॑ प्र॒जाप॑त॒ इन्द्रा॑ग्न शर्म॑ य॒च्छतम् । यथैन॑यो॒र्न प्र॑मया उ॒भयो॒र्जीव॑तोः प्र॒जा ।। तेन॑ भू॒तेन॑ ह॒विषा॒ऽयमाप्या॑यतां॒ पुन॑ः । जा॒यां याम॑स्मा॒ आवा॑नु॒स्ता रसें- ना॒भिव॑र्द्धताम् । अ॒भिव॑र्द्धता॒ पय॑सा॒ऽभि रा॒ष्ट्रेण॑ वर्द्धताम् । र॒य्या स॒हस्र॑पोष॑से॒मौ स्ता॒मन॑पेक्षितौ ॥ इ॒हैवस्त॒म्मा “वियो॑ष्ट॒ विश्व॒मायु॒र्व्याश्नुतम् । म॒ह्या इ॑न्द्रस्स्व॒स्तये॑ ॥ ध्रुवैधि पो॑ष्या॒ मयि॒ मह्य॑न्त्वा- ऽदा॒द्बृह॒स्पति॑ः । मया॒ पत्या॑ प्र॒जाव॑ती॒ सनी॑व श॒रद॑श्श॒तम् ॥ त्वष्टा॑ जा॒याम॑जनय॒त्त्वष्टा॑ऽस्यै॒ त्वां प- ति॑म् । त्वष्टा॑ स॒हस्रा॒मायु॑षि दीर्घमायु॑ः कृणोतु बाम् ॥ इ॒मम्मे॑ वरुण॒ तत्त्वा॑यामि॒ त्वन्नो॑ अग्ने स त्वन्नो॑ अग्ने॒ त्वम॑ग्ने॒ अ॒यासि॑ ।। जीव॑तो प्र॒जा वा॒मेक॑श्च ।। ८ ।। इति प्रथमप्रश्ने अष्टमः खण्डः ।।

1
इ॒ह गाव॒ः प्रजा॑यध्वमि॒हाश्वा॑ इ॒ह पूरु॑षाः । इ॒हो स॒हस्र॑दक्षिणो रा॒यस्पोषो॒ निषी॑दतु ॥ सोमै नादि॒त्या व॒लिन॒स्सोमे॑न पृथि॒वी ह॒ढा । अथो॒ नक्ष॑त्राणामे॒षामु॒पस्ये॒ सोम॒ अधि॑तः ।। प्रस्वस्स्थ॒ः प्रेयं प्र॒जया॒ भुव॑ने शोचेष्ट ।। इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑द्ध्यताम॒स्मिन्गृ॒हे गार्हपत्याय जागृहि । ए॒ना या॑ त॒न्व॑ ससृ॑ज॒स्वाथा॒जीव्रं वि॒दथ॒माव॑दास ।। सुम॒ङ्गुलीरि॒यं व॒धूरि॒मा स॑मे॒त॒ पश्य॑त । सौर्भाग्य- म॒स्यै द॒त्वायाथास्तं॒ विपरे॑तन । ध्रुवक्षि॑तिर्दे॒वयो॑निर्दे॒वम॑सि सु॒वत॑स्स्थि॑तम् । त्वन्नक्ष॑त्राणा॑ मे॒थ्यसि॒

9
‘विहू॑तं॒ पुन॑ः’ इति भाष्यसंमतः पाठः ॥
1

(१)इडा॑मग्ने पुरु॒द ँ स॒नं गोश्श॑श्वत्त॒मथो॑ ह॒व॑मानाय साध । स्यान॑स्तु॒नु॒स्तन॑यो वि॒जावाऽग्ने॒ सा ते॑ सुम॒तिर्भूत्व॒स्मे । (तै.सं.का.४ प्र.२ अनु.४) । (२,३,४,५) मन्त्राः (२) पुटे दर्शिताः । (६) मन्त्रः (२) पुटे मूलपाठे द्रष्टव्यः ॥
‘वसू॒न्यश्व॑ना’ इति पाठभेदः ।
10

" ‘वियष्ठं’ इति पाठभेदः ॥

4
प्रथमः प्रश्नः

स मा॑ पाहि पृतन्य॒तः ।। स॒प्त॒षय॑ प्रथ॒माद्वृत्ति॑कानामरुन्ध॒तीम् । यद्ध्रुवता ह नि॒न्युष्षट्कृति॑का मुख्ययो॒गं वह॑न्ती॒यम॒स्माक॑मे॒धत्वष्ट॒मी ॥ सद॑स॒स्पति॒मनु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । सनि॑म्मे॒धा- म॑यासिषम् ॥ उर्द्दप्यस्व जातवेदोऽप॒घ्नन्निर्‌त्र॑ति॒ मम॑ । प॒शूश्च॒ मह्य॒माव॑ह॒ जीव॑न॒श्च॒ दिशो॑ दिश " ॥ मा नौ हिप्सीज्जातवेदो॒ गामश्वं॒ पुरु॑ष॒ञ्जग॑त् । अवि॑भ॒दम॒ आग॑हि प्रि॒या मा॒ परि॑पातय ॥ ध्रु॒वत॑स्स्थ॒तन्नव॑ च ॥ ९ ॥ इति प्रथमप्रश्ने नवमः खण्डः ।।
१२

उदीर्ष्वतो॑ विश्वावसो॒ नम॑सेडामहे॒ त्वा । अ॒न्यामि॑च्छ प्रक॒र्व्य॑ सञ्जयां पत्या॑ सृज ॥ उ॒दी॒ष्या॑त॒ः “पति॑वती॒ ह्ये॑षा वि॒श्वाव॑सु॒न्नम॑सा गी॒र्भिर्रीट्टे । अ॒न्यामि॑च्छ पितृ॒षद॒व्य॑क्ता॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि । अग्ने॑ प्रायश्चित्ते॒ त्वं दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑म॒ प्रप॑द्ये याऽस्या॑ प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒ तां कृ॑णोमि॒ स्वाहा॑ ॥ वार्यो प्रायश्चित्त॒ आदि॑त्य॒ प्रायश्चित्ते॑ प्र॒जा॑ते॒ प्रायश्चित्ते॒ त्वं दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑म॒ प्रप॑द्ये याऽस्या॑ प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒ तां कृ॑णोमि॒ स्वाहा॑ ॥ प्र॒स॒वश्चा॑प- या॒मश्च॒ काट॑श्चार्ण॒वश्च॑ धर्ण॒सिश्च॒ द्रवि॑णश्च॒ भग॑श्चा॒न्तरि॑ख्षश्च॒ सिन्धु॑श्च समु॒द्रश्च॒ सर॑स्वाश्च वि॒श्वव्य॑चाश्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒ञ्ज॑मे॑ दद्ध्म॒स्स्वाहा॑ ॥ मधु॑श्च॒ मात्र॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒ नभ॑श्च नम॒स्य॑श्च॒षश्चा॒ज॑श्च॒ सह॑श्च सह॒स्य॑श्च॒ तप॑श्च तप॒स्य॑श्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒अम्मे॑ दध्म॒स्स्वाहा॑ ॥ चि॒त्तश्च॒ चित्ति॒श्चानू॑त॒श्चाकृ॑ति॒श्चाधी॑त॒ञ्चामी॑तिश्च॒ विज्ञ- तञ्च वि॒ज्ञान॑श्च॒ नाम॑ च॒ क्रतु॑श्च॒ दश॑श्च पू॒र्णमा॑सश्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒ञ्जम्मे॑ दद्ध्म॒स्स्वाहा॑ ॥ भूस्स्वाहा॒ भुव॒स्स्वाहा सुवस्स्वाहो स्वाहा॑ । उ॒दी॒ष्ठ॑तो॒ दश॑ ।। १० ।। इति प्रथमप्रश्ने

दशमः खण्डः ।।

१४
अप॑श्यन्त्वा॒ मन॑सा॒ चेहि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् । इ॒ह प्र॒जामि॒ह र॒यि ँ ररा॑ण॒ः प्र॒जा॑यस्व प्र॒जया॑ पु॒त्रकाम ॥ अप॑श्यन्त्वा॒ मन॑सा॒ दद्धया॑ना॒ स्वाहा॑ त॒नू ऋ॒त्विये॒ नाध॑मानाम् । । उप॒ मामु॒च्चा यु॑व॒तिर्बुभू॑या॒ः प्रजा॑यस्व प्र॒जया॑ पु॒त्रका | सम॑ञ्जन्तु॒ विश्वे॑ दे॒वास्समापो॒ हृद॑यानि नौ । सं मा॑त॒रिश्वा॒ सन्धा॒ता समु॒ देष्ट्र दिदेष्टु नौ ॥ प्र॒जा॑पते त॒न्व॑म्मे जुषस्व॒ त्वष्ट॑र्दे॒वेभि॑स्स॒हसा॒म इ॑न्द्र । विश्वे॑ दे॒वै रा॒तिभि॑स्सरा॒णः पुस ब॑हूनां मा॒तर॑स्स्याम || आ नः॑ प्र॒जाव॑नयतु प्र॒जाप॑तिराज- साय॒ सम॑नक्त्वर्य॒मा । अदु॑र्मङ्गलीः पतिलो॒कमावि॑श॒ १५ शन्नो॑ भव द्विपदे शञ्चतु॑ष्पदे ॥ तां पू॒षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्या॒ बीज॑म्मनु॒ष्या॑ वप॑न्ति । या न॑ ऊ॒रू उ॑श॒ती वि॒स्रया॑त॒ यस्या॑मु॒शन्त॒ः

‘प्रह॑रेम॒ शेत॑म् ।। शञ्चतु॑ष्पदे॒ द्वे च॑ ॥ ११ ॥ इति प्रथमप्रश्ने एकादशः खण्डः ।।
१६.

12 ‘दश’ इति पाठभेदः ॥

13
‘पति॑वति॒’ इति भाष्यसंमतः पाठः ।।

14
“ ‘त॒नू ँ ऋ॒त्विये॒’ ‘त॒नूमृ॒त्विये॒’ इति पाठभेदौ ।।

1s ‘शन्न॑ एधि द्वि॒पदे॒’ इति पाठभेदः ।।

16
‘प्र॒हरे॑म॒ शेत॑म्’ इति पाठभेदः ।।
5
एकाग्निकाण्डे

आरो॑हो॒हो॒रुमुप॑बऱ्हस्व बा॒हुं परि॑ष्वजस्व जा॒या ँ सु॑मन॒स्यमा॑नः । तस्यां॑ पु॒ष्यतं मिथुनौ सर्यो - नी ब॒ह्वीं प्र॒जां ज॒नय॑न्तो॒ सर्वे॑तसा ।। आ॒र्द्रयाऽर॑ण्या॒ यत्राम॑न्य॒त्पुरु॑षं॒ पुरु॑षेण श॒क्रः । तदे॒तौ मि॑थु॒नौ सयो॑नी प्र॒जया॒ऽमृते॑ने॒ह ग॑च्छतम् । अ॒हं गर्भ॒मद॑धा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः । अ॒हं प्र॒जा । अ॑ज॒नय॑ पितृ॒णाम॒हं जनि॑भ्यो ̈ अप॒रीषु॑ पु॒त्रान् ॥ पुत्रिणे॒मा कु॑मा॒रिणा॒ विश्व॒मायु॒र्य॑श्नुतम् । उ॒भा हिर॑ण्यपेशसा वी॒तिर्होत्रा कृ॒तव॑सू ॥ दश॒स्यन्त्वा॒ऽमृता॑य॒ कशमू॒र्धौ रोम॒शह॑यो दे॒वेषु॑ कृ॒णुतो॒ दुव॑ः ॥ आरो॑ह॒ नव॑ । १२ ।। इति प्रथमप्रश्ने द्वादशः खण्डः ।।

१८.
१७

विष्णुर्योनि॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पातु । आसि॑ञ्चतु प्र॒जाप॑तिर्वा॒ता गर्भं दधातु ते ॥ गर्भैन्धेहि सिनीवाल॒ गर्भं धेहि सरस्वति । गर्भन्ते अ॒श्विनो॑ दे॒वावाध॑त्ता॒ पुष्क॑रस्रजा ॥ हर॒ण्यय अ॒रणी॒ यन्नि॒र्मन्य॑तो अ॒श्विना॑ । तन्ते॒ गर्भ॑ ह॒वामहे॒ दश॒मे मा॒सि सूत॑वे । यथे॒यं पृ॑थि॒वी म॒ही तिष्ठ॑न्ती॒ गर्भ॑माद॒द्धे । “ए॒वं त्वं गर्भ॒माध॑थ्स्व दश॒मे मा॒सि सूत॑वे । यथा॑ पृथि॒व्य॑ग्नगर्भा द्यौर्यथेन्द्रे॑ण ग॒र्भिणी॑ । वा॒युर्यथा॑ दि॒शां " गर्भं एवं गर्भं दधामि ते ॥ विष्णो॒ श्रेष्ठ॑न रू॒पेणा॒स्यान्नार्या॑ गवी॒न्या॑म् । पुमाभि॑सं॒ गर्भ॒माधे॑हि दश॒मे मा॒सि सूत॑वे । नेज॑मे॒ष॒ परा॑पत॒ ° सुपु॒त्रः पु॒न॒राप॑त । अ॒स्यै मे पु॒त्रका॑मायै॒ गर्भ॒माधे॑हि॒ यः पुमानु॑॑ ।। व्यस्य॒ योनि॑ प्रति॒ रेतो॑ गृ॒हाण॒ पुमा॑न्पु॒त्रो धी॑यतां॒ गर्भो अ॒न्तः । तं मा॒ता दश॒मासो॑ विभर्तुं स जा॑यता॑ वी॒रत॑म॒स्स्वाना॑म् ॥ आ ते॒ गर्भो योनि॑मे॒तु॒ पु॒मा॒न्वाण॑ इ॒वेषु॑धिम् । आ वी॒रो जा॑यता॑ पु॒त्रस्ते॑ दश॒मास्य॑ ॥ गर्भं दधामि ते॒ऽष्टौ च॑ ॥ १३ || इति प्रथमप्रश्ने त्रयोदशः खण्डः ।।

२१

I
२०

२२
क॒रोहि॑ ते प्राजाप॒त्यमा गर्भो योनि॑मे॒तु ते । अनू॑नः पू॒र्णो जा॑यता॒मश्णोऽपि॑शाचधीतः ॥ पुमाभि॑स्ते पु॒त्रो ना॑रि॒ तं पु॒मा॒ननु॑जायताम् । तानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॑नयन्तु॒ नौ ॥ यानि भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॑नय॒न्ति न॑ः । तैस्त्वं पु॒त्रान् वि॑िन्दस्व॒ सा प्र॒सूर्धेनुका भ॑व । काम॒प्रमृ॑द्ध्यतां॒ महा॒मप॑राजितमे॒व मे॑ । यं कामं॑ का॒मये॑ देव॒ तं मे॑ वायो॒ सम॑र्द्धय ।। अनुह॒वं प॑रिह॒वं प॑रवा॒दं प॑रिक्ष- पम् । दुस्स्व॑प्ठं दुरु॑दितं॒ तद्द्द्वि॒षद्भ्यो॑ दिशाम्य॒हम् ॥ अनु॑हूतं॒ परि॑हूत े श॒कुने॒र्य॑दशा॑नम् । मृ॒गस्य॑ स॒तम॑क्ष्णया॒ तद्द्द्वि॒षद्भ्यो॑ दिशाम्य॒हम् ।। आ॒रात्ते॑ अ॒ग्निर॑स्त्वा॒रात्प॑र॒शुर॑स्तु ते । नि॒वा॒ते त्वा॒ऽभव॑ऱ्षतु स्व॒स्ति ते॑ऽस्तु वनस्पते स्व॒स्ति मे॑ऽस्तु वनस्पते ।। नम॑श्शकृ॒थ्सदे॑ रु॒द्राय॒ नमो॑ रु॒द्राय॑ शकृ॒थ्सदै । गो॒ष्ठम॑सि॒ नम॑स्ते अस्तु मा मा॑ हिस्सिम॑सि॒ नस॒जो॒ नम॑स्ते अस्तु मा मा॑ हिसीः । उद्गा- तेव॑ श॒कुने॒ साम॑ गायसि ब्रह्मपुत्र इ॑व॒ सव॑नेषु श ँससि । स्व॒स्ति न॑श्श॒कुने॑ अस्तु॒ प्रति॑नस्सु॒मना॑ भव ॥ अ॒हम॒ष्टौ च॑ ॥ १४ ॥ इति प्रथमप्रश्ने चतुर्दशः खण्डः ।।

17
‘अव॒रीर्षु’ इति पाठभेदः ।।

18
’ एवं तं’ इति पाठभेदः ||

19 ‘गर्भं ए॒व’ इति पाठभेदः ||

20
‘सपु॑त्र॒ः’ इति पाठभेदः ।।

21 ‘ना॑रि तं’ इति पाठभेदः ॥

22 ‘श॒कुनैर्यदर्शाकुनम्’ इति पाठभेदः ।।

6


प्रथमः प्रश्नः

प्रा॒तर॒ग्नि॑ प्रा॒तरिन्द्र हवामहे प्रा॒तमि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ । प्रा॒तर्भग॑ पू॒षण॒ ब्रह्म॑ण॒स्पति॑ प्रा॒तस्सोम॑मु॒त रु॒द्र ँ हु॑वेम ।। प्रा॒त॒र्जतं॒ भग॑मु॒ग्र ँ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒द्धश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भग॑ भ॒क्षीत्याह॑ ॥ भग॒ प्रवे॑त॒र्भग॒ सत्य॑राषो॒ भगे॒मां धिय॒मुद॑व॒ दद॑न्नः । भग॒ प्रणो॑ जनय॒ गोभि॒रश्वै॒र्भ॑ग॒ प्रनृभि॑र्नृवन्त॑स्स्याम ॥ उ॒तेदानां॒ भग॑वन्तस्स्यामो॒त प्रपि॒त्व उ॒त मद्ध्ये॒ अह्णम् । उ॒तोर्दता मघव॒न्थ्सूर्य॑स्य व॒यं दे॒वाना॑ सुम॒तौ स्या॑म ।। भग॑ ए॒व भग॑वा अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तस्याम । तन्त्वा॑ भग॒ सर्व॒ इज्जहवीमि॒ स नो॑ भग पुरता भ॑वे॒ह ।। सम॑ध्व॒रायो॒षसो॑ऽनमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अर्वाची॒नं व॑सु॒वद॒ भग॑न्नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु ।। अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒स्सद॑मु॒च्छन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वत॒ प्रपी॑ना यूयं पा॑त स्व॒स्तिभि॒स्सदा॑ नः । भवे॒ह च॒त्वारि॑ च ।। १५ ।। इति प्रथमप्रश्ने पञ्चदशः खण्डः ।।
1

1
इ॒मां खना॒म्योष॑धी॑ वी॒रुषं॒ बल॑वत्तमाम् । यया॑ स॒पत्न बाध॑ते॒ यथा॑ सं॒वि॒न्दते॒ पति॑म् ॥ उ॒त्ता॒नप॑र्ण॒ सुभ॑ग॒ सह॑माने॒ सह॑स्वति । स॒पत्नी॑ मे॒ परा॑धम॒ पति॑ मे॒ केव॑लं कृधि । उत्त॑रा॒ऽहमुत्त॑र॒ उत्त॒रे॒दुत्त॑राभ्यः । अथा॑ स॒पत्नी या ममाध॑रा॒ साध॑राभ्यः । न ह्य॑स्यै॒ नाम॑ गृ॒भ्णामि नो अ॒स्मिन्न॑मते॒ जने॑ । पररा॑मे॒व प॑रा॒वतः॑ स॒पत्नी॑ नाशयामसि ॥
२३

1
1

सह-
अ॒हम॑स्मि॒ सह॑मा॒नाऽथ॒ त्वम॑सि सास॒हः । उ॒भे सह॑स्वती भूत्वा स॒पत्नी॑ मे सहावहै ॥ उप॑ तेऽघा॒ सह॑मानाम॒भि त्वा॑s यसा । मामनु॒ प्र ते॒ मनो॑ व॒थ्सं गौरि॑िव धावतु प॒था वारि॑व धावतु ॥ स॒व ै द्वे च॑ ।। १६ ।। इति प्रथमप्रश्ने षोडशः खण्डः ।।

२४

२६
I

२७
उद॒सौ सूर्यो अगा॒दुद॒यं मा॑म॒को भग॑ः । अ॒हन्तद्वद॒लाप॑तिम॒भ्य॑साक्षि विषास॒हः ॥ अहं के॒तुरहं ४ मूर्द्धाऽहमु॒ग्रा वि॒वाच॑नी । “ममेदनु॒ क्रतुं पति॑स्सेनाया॑ उ॒वार्चरेत् ॥ मम॑ पु॒त्राश्श॑त्र॒ह- णोऽर्थो मे दुहि॒ता वि॒राट् । उ॒ताहम॑स्मि॒ सच॑या॒ पत्यु॑मे॒ श्लोक॑ उत्त॒मः ॥ येनेन्द्रो॑ ह॒विषा॑ कृ॒त्य॑भव- द्दिव्यु॑त्त॒मः । अ॒हन्तद॑क्र देवा अप॒ना किला॑भवम् । अ॒स॒पत्ना स॑पति॒घ्नी जय॑न्त्यभि॒भूव॑री ” । आवि॑थ्सि॒ सर्वा॑सा॒ राधो॒ वचो॑ अस्ये॑यसामिव ॥ सम॑जैषमि॒मा अ॒हँ स॒पत्नी॑रमि॒भूव॑रीः । यथा॒- ऽहम॑स्य वी॒रस्य॑ वि॒राजा॑मि॒ धन॑स्य च । अस्यै॑यसामिव॒ द्वे च॑ ।। १७ ।। इति प्रथमप्रश्ने सप्तदशः खण्डः ।।

अक्षीभ्या॑न्ते॒ नासि॑काभ्यां कर्णाभ्यां चुर्बुकका॒दधि॑ । यख्ष्मं॑ शीर्‌ष॒ण्य॑ म॒स्तिष्का॑जि॒ह्वाया॒ विवृ॑हामि ते ।। ग्री॒वाभ्य॑स्त र॒ष्णिहा॑भ्यः॒ कीक॑साभ्योऽनु॒क्या॑त् । यख्ष्मं दोष॒ण्य॑मसा॑भ्यां वा॒ - हुभ्यां॑ विबृ॑हामि ते ।। आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ । यख्ष्मं मत॑स्नाभ्यां॑ य॒क्नः प्लाशिभ्यो॒

23

24

25

26
‘उत्त॑र॒दुत्त॑राभ्यः’ इति पाठभेदः ।।
‘मूर्द्धाऽहमु॒ग्रो वि॒वाच॑नम्’ इति पाठभेदः ।।
‘ममेदनु’ इति पाठभेदः ।।
‘अ॒हन्तद॑क्रिरेवा सप॒त्ना’ इति पाठभेदः ॥

27
‘भूवरीः’ इति पाठभेदः ।
7
एकाग्निकाण्डे

२८.
विबृ॑हामि ते ।। ऊरुभ्या॑न्तेऽष्ठव॒द्भ्यो॑ ज॒ङ्गा॑भ्यां॑ प्र॒प॑दाभ्याम् । यख्ष्म ँ श्रोणा॑भ्यां “भा॒सदा॑द्ध्व- सो विब्र॑हामि ते ।। मेह॑ना॒द्वलङ्कर॑णा॒लोम॑भ्यस्ते न॒वेभ्य॑ः । यख्ष्म सर्व॑स्मादा॒त्मन॒स्तमि॒मं विवृ॑हामि ते ।। अङ्गदङ्ग्लोनलोम्नो जा॒तं पर्व॑णिपर्वणि । यख्ष्म॒ सर्व॑स्मादा॒त्मन॒स्तमि॒मं विवृ॑- हामि ते । पररा॑दहि शाब॒ल्यै॑ ब्र॒ह्मभ्यो॒ विभ॑जा॒ वसु॑ । कृत्यैषा प॒द्वती॑ भूत्वा जा॒याऽऽवि॑शते॒ पति॑म् ॥ अ॒श्लला “त॒नूर्भ॑व॒ रुश॑ती पा॒पया॑ऽमु॒या । पति॒र्य॑द॒द्ध्वै वास॑सा॒ स्वमङ्ग॑मभि॒धस॑ति ॥ क्रूरमे॒तत् कदु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे । सूर्या॑ यः प्र॒त्यक्षि॑ वि॒द्याथ्स ए॒तत्प्रति॑गृह्णीयात् ।। आ॒शस॑नं वि॒शस॑- न॒मथो॑ अधि वि॒चते॑नम् । सूर्याया॑ः पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मोत शंसति ॥ इ॒मं विवृ॑हामि ते शङ्खति ॥ १८ ॥ अ॒क्षीभ्यां॑ गी॒वाभ्य॑ आ॒न्त्रेभ्य॑ ऊ॒रुभ्यां॑ मेह॑ना॒दङ्गा॑दङ्गा॑त्परा॑देहि॑ स॒प्त ।। इति प्रथमप्रश्ने अष्टादशः खण्डः ।।
1
३०.

प्र॒सु॒ग्मन्ता॒ऽष्टाद॑श॒ हिर॑ण्यवर्णाः पञ्च॑दश॒ सोम॑ः प्रथ॒मष्योद॑श॒ सोमा॑य जनि॒वद॒ऽष्टाद॒शाति॑ष्ठ॒मन्त्रयो॑विश- तिस्स॒त्येन॒ ता म॑न्दसा॒नैका॒न्नविशति॒रेका॒न्नविशति॒श्शर्म॒ वर्मैक॑विशतिरि॒ह गाव॒ एका॒न्नविशतिरुदी॒र्वा॑तो॒ दशाप॑श्यन्त्वा॒ द्वाद॒शारो॑हो॒हो॒रुन्नव॒ विष्णुर्योनि॑ क॒रोहि॑ ते॒ऽष्टाद॑शाष्टादश प्रा॒तर॒ग्निं चतु॑र्दश॒मां खना॒म्युद॒सौ सूर्यो द्वाद॑श- द्वादशा॒क्षीभ्या॑न्ते विश॒तिर॒ष्टाद॑श ।। १८ ।। प्र॒सु॒ग्मन्ताऽप॑श्यन्त्वा॒ऽष्टाद॑श ।। १८ ।। प्र॒सु॒ग्मन्ता॒ तानि॑ ब्र॒ह्मोत श ंसति ॥

॥ हरिः ओ (३)म् ॥

॥ एकाग्निकाण्डे प्रथमः प्रश्नस्समाप्तः ॥

28

29
‘भा॒ससा॑ध्व॒ससो॒’ इति केचित् ।।

‘त॒नूभ॑वति॒ रुश॑ती’ इति भाष्यसंमतः पाठः ।।

30 ‘वास॑सा स्वमङ्गे’ इति केचित् ॥

8
co
द्वितीयः प्रश्नः

ॐ नमः परमात्मने

॥ एकाग्निकाण्डे द्वितीयप्रश्नप्रारम्भः ॥

॥ ॐ श्रीगुरुभ्यो नमः हरिः ओ(४)म् ॥

उ॒ष्णेन॑ वाय॒वुदकेनेह्यदि॑ति॒ः केशा॑ वपतु ।। आप॑ उन्दन्तु जी॒वमे॑ दीर्घायु॒त्वाय॒ वर्च॑से । ज्योक्च॒ सूर्यं ह॒शे ॥ येनाव॑पथ्सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो वरु॑णस्य वि॒िद्वान् । तेन॑ ब्रह्माणो वपतेदम- स्यायु॑ष्मा॒ञ्जर॑दष्टि॒र्यथाऽस॑द॒यम॒सौ ।। येन॑ पू॒षा बृह॒स्पति॑र॒ग्नेरन्द्र॑स्य॒ चायुषेऽव॑पत् । तेना॒स्यायु॑षे॒ वप॒ सौलक्याय स्व॒स्तये॑ ॥ येन॒ भूयश्वरा॑त्य॒यञ्ज्योक्च॒ पश्या॑ति॒ सूर्य॑म् । तेना॒स्यायु॑षे व सौश्लक्याय स्व॒स्तये॑ ।। येन॑ पू॒षणा॑ बृह॒स्पति॑र॒ग्नेरन्द्र॑स्य॒ चायु॒षेऽव॑पत् । तेन॑ ते॒ वपाम्यसा॒वायु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक्सु॒मना॒ असा॑ ।। यत्सु॒रेण॑ म॒र्चय॑ता सु॒पे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ । ”शु॒न्धि॒ शिरो॒ मास्यायु॒ः प्रमो॑षीः ।। उ॒त्वाय॒ केशा॒न॒ वरु॑ण॒स्य॒ राज्ञॊ बृह॒स्पति॑स्सवि॒ता सोमो॑ अ॒ग्निः । तेभ्यो॑ नि॒धान॑म्बहु॒धा- ऽन्व॑विन्दन्नन्त॒रा द्यावा॑पृथि॒वी अ॒पस्सुवः॑ ॥ आयु॑षेऽव॑प॒त्यञ्च॑ च ।। १ ।। इति द्वितीयप्रश्ने प्रथमः खण्डः ।। ..आयुर्दा दे॑व ज॒रसो॑ गृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने । घृ॒तं पिब॑न्न॒मृत॒श्चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रस॒रमे॑ नये॒मम् ॥ आति॑ष्ठ॒ममश्मा॑न॒मश्मे॑व॒ त्व ँ स्थि॒रो भ॑व । अ॒भिति॑ष्ठ पृतन्य॒तस्सह॑स्वं पृतना- य॒तः ।। रे॒वतो॑स्त्वा॒ व्य॑क्ष्ण॒न्कृत्ति॑या॒श्चाकृ॑न्त॒स्त्वा ” । धियो॑ऽवय॒न्नव॒ग्ना “अ॑वृ॒ञ्जन्थ्स॒हस॒मन्ता अ॒भितो॑ अयच्छन्न् ।। दे॒वीर्दे॒वाय॑ परि॒धी स॑वि॒त्रे । म॒हत्तदा॑सामभवन्महित्व॒नम् ॥ या अकृ॑न्त॒न्नव॑य॒न् या अत॑न्वत॒ याश्च॑ दे॒वीर॒न्ता॑न॒भितो॑ऽददन्त । तास्त्वा॑ दे॒वीर्जरसे॒ संव्य॑य॒न्त्वायु॑ष्मानि॒दं परि॑धथ्स्व॒ वास॑ः ।। परि॑धत्त धत्त॒ वास॑सैन श॒तायु॑षं कृणुत दीर्घमायु॑ः । बृह॒स्पति॒ प्राय॑च्छद्वास॑ ए॒तथ्सोमा॑य॒ राज्ञे परि॑धात॒वा उ॑ ॥ ज॒रां ग॑च्छासि॒ परि॑धथ्स्व॒ वासो॒ भवा॑कृ॒ष्टा॒नाम॑भिशस्ति॒पावा॑ । श॒तव॑ जीव श॒रद॑स्तु॒वचा॑ रा॒यश्च॒ पोष॒मुप॑ सं॒व्य॑यस्व ।। परी॑दं वासो॒ अधि॑धास्स्व॒स्तयेऽभ॑रापी॒नाम॑भिशस्ति॒- पावा॑ । श॒तश्च॑ जीव श॒रद॑ पु॒रू॒चीव॑सू॑नि “चा॒र्यो वि॑भजासि॒ जीव॑ ॥ इ॒यं दुरु॑क्तात्परि॒बाध॑माना॒ शर्म॒ वरू॑थं पुन॒ती न॒ आगा॑त् । प्रा॒णा॒पा॒नाभ्यां॒ बल॑मा॒भर॑न्ती प्रि॒या दे॒वाना॑ सु॒भगा॑ मेन॑ल॒यम् ॥ ऋ॒तस्य॑ गो॒प्त्री तप॑सः पर॒स्पी प्र॒ती रख्ष॒स्सह॑माना॒ अरा॑तीः । सा न॑स्सम॒न्तमनु॒परी॑हि भ॒द्रय
३४.
३२

३३.

31

32
‘शुन्धि शिरो’ इति पाठभेदः ॥
‘श्वाकृतस्त्वा’ इति पाठभेदः ।।

33 ‘ग्न आ॑वृ॒ञ्जन्’ इति पाठभेदः ।।

34
35
35

22
‘चाय्यो’ इति केचित् ।।

‘परस्वी’ इति केचित् ।।
9
एकाग्निकाण्डे
भ॒र्तार॑स्ते मेखल॒ मा रि॑षाम ॥ मि॒त्रस्य॒ चख्पुर्धरु॑ण॒ बला॑य॒स्तेजो॑ य॒श॒स्वि “स्थवि॑र॒ समि॑द्धम् । अ॒ना॒ह॒न॒स्य॑ वस॑न॒ञ्जरि॒ष्णु परी॑दं वा॒ज्यजिन॑न्द॒धे॒ऽहम् ॥ वासो॒ मारि॑षाम॒ द्वे च॑ ॥ २ ॥ इति द्वितीय प्रश्ने द्वितीयः खण्डः ॥
आ॒ग॒न्त्रा सम॑गन्महि॒ प्रसु॑ मृ॒त्युं यु॑योतन । अरि॑ष्टा॒स्सश्रमहि स्व॒स्ति च॑रतादि॒ह स्व॒स्त्या- गृ॒हेभ्य॑ः ।। स॒मु॒द्रादू॒र्मिर्मधु॑मा॒ उदा॑र॒दुपा॒श॒ना॒ सम॑मृ॒त॒त्वम॑श्य़ाम् । इ॒मे नु ते र॒श्मय॒स्सूर्य॑स्य॒ येभि॑- स्सपि॒त्वं पि॒तरो॑ न॒ आय॑ ॥ अ॒ग्नष्टे हस्त॑मग्र॒भी॒थ्सोम॑स्ते॒ हस्त॑मग्रभीथ्सवि॒ता ते हस्त॑मग्रभथ्सरे- स्वती ते॒ हस्त॑म॒ग्रभीत्पू॒षा ते॒ हस्त॑मग्रभीदर्य॒मा ते॒ हस्त॑मग्र॒भी॒ दशु॑स्ते॒ हस्त॑मग्र॒भी॒द्भग॑स्ते॒ ३८. ॥ अग्नये त्वा हस्त॑म॒ग्रभीन्मि॒त्रस्ते॒ हस्त॑म॒ग्रभीन्मि॒त्रस्त्वम॑सि॒ धर्म॑णा॒ऽग्निरा॑चा॒र्य॑स्तव॑
३७

परि॑ददाम्यसौ सोमा॑य॒ त्वा॒ परि॑ददाम्यसौ सवि॒त्रे त्वा॒ परि॑ददाम्यसौ सर॑स्वत्यै त्वा॒ परि॑ददाम्यसौ मृ॒त्यवे॑ त्वा॒ परि॑ददाम्यसौ य॒माय॑ त्वा॒ परि॑ददाम्यसौ ग॒दाय॑ त्वा॒ परि॑ददाम्यसा॒वन्त॑काय॑ त्वा॒ परि॑ददाम्यसाव॒द्भ्यस्त्वा॒ परि॑ददाम्यसा॒वोष॑धीभ्यस्त्वा॒ परि॑ददाम्यसौ पृथि॒व्यै त्वा॒ सवै॑श्वान॒रायै॒ परि॑ददाम्यसौ ।। दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒ उप॑नये॒ऽसौ ।। सुप्र॒जाः प्र॒जया॑ भूयास्सु॒वीरो॑ वी॒रे॑स्सुवर्चा व॑र्चसा सु॒पोष॒ पोषैः ॥ ब्र॒ह्म॒र्य॒माया॒मुप॒ मा न॑यस्व दे॒वेन॑ सवि॒त्रा प्रसू॑तः । को नामा॑स्य॒सौ नामा॑ऽस्मि॒ कस्य॑ ब्रह्मचा॒र्य॑स्य॒सौ प्रा॒णस्य॑ ब्रह्मचा॒र्य॑स्म्य॒सावेष ते॑ देव सूर्य ब्रह्मचारी “तं गौपाय समामृ॑ते॒ष ते॑ सूर्यपुत्रस्सर्दीर्घायुस्स॒मामृ॑त । यथा॑ स्व॒स्तिम॒ग्निर्वा॒यु॒स्सूर्य॑श्च॒न्द्रमा॒ आपोऽनु॑ स॒श्चर॑न्ति॒ ता ँ स्व॒स्तिमनु॒ सच॑रासौ ॥ अद्ध्व॑नामद्ध्वपते॒ श्रेष्ठ॒स्याद्ध्व॑नः पा॒रम॑शीय ।। स॒मामृ॑त॒ द्वे च ।। ३ ।। इति द्वितीयप्रश्ने तृतीयः खण्डः ।।

I
(१) योगॆयोगे त॒वस्त॑र(२) मि॒मम॑ग्ने॒ आयु॑षे॒ वर्च॑से कृ॒धीति॒ द्वे ॥ श॒तमिन्नु श॒रयो॒ अन्ति॑ दे॑वा॒ यत्रा॑न॒श्च॒क्रा ज॒रस॑न्त॒नूना॑म् । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒द्ध्या रा॑रिषि॒तायुर्गन्तौः ॥ अ॒ग्निष्ट॒ आयु॑ः प्रत॒रां द॑धात्व॒ग्निष्टे पुष्टि॑ प्रत॒रां कृ॑णोतु । इन्द्रो॑ म॒रुद्भि॑र् ऋतुधा कृ॑णोत्वादि॒त्यैस्ते॒ वसु॑भि॒राद॑धातु ॥ मेघां महा॒मङ्गि॑रसो मे॒धा स॑प्त॒र्षयो॑ द॒दुः । मेधां मह्यं प्र॒जाप॑तिर्मेधाम॒ग्निर्ददातु मे ।। " अफ्स॒रासु॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यद्यश॑ः । दैवी॒ या मा॑नु॒षी मे॒धा सा मामावि॑शतादि॒ह ।।

४१.
४०
1

“इ॒मं मे॑ वरुण॒ तत्त्वा॑यामि॒ त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने॒ त्वम॑ग्ने अ॒यासि॑ । रा॒ष्ट्रभृद॑स्याचार्या॑स॒न्दी मा

36 ‘स्थविर” इति पाठभेदः ॥

37
‘दश॑स्ते’ इति पाठभेदः ॥

38 ‘रा॑चार्यस्तवे’ इति पाठभेदः ॥

39 ‘तं गौपाय समा’ इति पाठभेदः

(१) मन्त्रः (३) पुटे दर्शितः ।। (२) इ॒मम॑ग्ने॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒य ँ रेता॑ वरुण सोम राजन् । मा॒तेमा॑स्मा अदि॑िते॒ शर्म॑ यच्छ॒ विश्वे॑देवा॒ जर॑दष्टि॒र्यथाऽस॑त् ॥ (तै.सं. का. २ प्र. ३ अनु. १०)

40
‘अ॒फ्स॒रासु॑ च॒ या मे॒धा’ इति केचित् ।।

" इमं म इत्यादयः पञ्चमन्त्राः (२) पुटे दर्शिताः ।।

10 द्वितीयः प्रश्नः

त्वयो॑षम् ॥ तथ्स॑वि॒तुर्वरे॑ण्य॒मित्ये॒षा । अवृ॑धम॒सौ सो॑म्य॒ प्रा॒ण स्वं में गोपाय ॥ ब्रह्म॑ण आ॑णी स्थ॑ः ।। त्वम॑ग्ने अ॒यासि॑ च॒त्वारिं च ॥ ४ ॥ इति द्वितीयप्रश्ने चतुर्थः खण्डः ।।

४३.


सुश्रव॑स्तु॒नव॑सं मो कुरु॒ यथा॒ त्वा॑ सु॒श्रव॑स्सु॒श्रवा॑ अस्ये॒वम॒ह सु॒श्रव॑स्तु॒श्रवा॑ भूयासं॒ यथा॒ त्व “सुश्रवो॑ दे॒वानां निधि॑िगो॒पो॑ऽस्ये॒वम॒हं ब्रा॑ह्म॒णानां॒ ब्रह्म॑णो निधिगो॒पो भ॑यासम् ॥ स्मृतश्च मे ऽस्मृ॑त्तञ्च मे॒ तन्म॑ उ॒भयो॑ व्र॒तं नि॒न्दा च॒ मेऽनि॑न्दा च मे तन्म॑ उ॒भयं॑ व्र॒त ँ श्र॒द्धां च मेऽश्र॒द्धा च मे तन्म॑ उ॒भयं॑ व्र॒तं वि॒द्या च मेऽवि॑द्या च मे तन्म॑ उ॒भयं॑ व्र॒त श्रुतश्च मेऽश्रुतश्च मे तन्म॑ उ॒भयं॑ व्र॒त स॒त्यश्च मेऽनृतश्च मे तन्म॑ उ॒भयं॑ व्रतं तर्पश्च मेऽर्तपश्च मे तन्मे उभयं व्रतं व्रतश्च मेऽब्रतश्च मे तन्मे उभयं व्रतं यद्ब्राह्मणानां ब्रह्म॑णि व्रतम् । यदनेस्सेन्द्र॑स्य॒ सप्रजापतिकस्य॒ सदैव॑स्य॒ सदैवराजस्य सम॑नु॒ष्या॑स्य॒ सम॑नु॒ष्या॑रा॒जस्य॒ सवि॑तृकस्य॒ सवि॑तृराजस्य॒ सग॑न्ध॒र्वाफ्स॒र॒स्कस्य॑ । यन्म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तन्तेना॒ह ँ सर्व॑व्रतो भूयासम् ॥ उदायु॑षा स्वयु॒षोदोष॑धीना॒ रस॑नोत्प॒र्जन्य॑स्य॒ शुष्मे॒- णोद॑स्थाम॒मृता॒ अनु॑ । तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छुक्रमुच्चर॑त् ।। पश्ये॑म श॒स्द॑श्श॒तं जीवे॑म श॒रद॑श्श॒तं नन्दा॑म श॒रद॑श॒तं मदा॑म श॒रद॑श॒तं भवा॑म श॒रद॑श॒त ँ शृ॒णवा॑म श॒रद॑श॒तं प्रब्रवाम श॒रद॑- श्श॒तमर्जीतास्स्याम’ श॒रद॑श॒तं ज्योक्च॒ सूर्य॑न्न॒शे ॥ यस्मि॑न्भूतश्च॒ भव्य॑श्च॒ सर्वे॑लो॒कास्स॒माहि॑ताः । तेन॑ गृह्णामि त्वाम॒हं मह्यं गृह्णामि त्वाम॒हं प्र॒जाप॑तिना त्वा॒ मह्यं गृह्णाम्यसौ । सु॒श्रवो॒ नव॑ ।। ५ ।। इति द्वितीयप्रश्ने पञ्चमः खण्डः ॥

.
परि॑ त्वाऽने॒ परि॑मृ॒जा॒म्यायु॑षा च॒ धने॑न च । सुप्र॒जाः प्र॒जया॑ भूयास ँ सु॒वीरो॑ वी॒रैस्सु॒वर्चा वर्चसा सुपोषः पोषैस्सुगृहों गृ॒हैस्सु॒पतिः॒ पत्या॑ सु॒मे॒धा मे॒धया॑ सु॒ब्रह्म ब्रह्मचा॒रिभि॑ः ॥ अ॒ग्नये॑ स॒मध॒माषं बृह॒ते जा॒तवे॑दसे । यथा॒ त्वम॑ग्ने॒ स॒मिधा॒ समि॑द्ध्यस॑ ए॒वं मामायु॑षा॒ वर्च॑सा स॒न्या मे॒धया॑ प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेना॒न्नाये॑न॒ समे॑धय॒ स्वाहा॑ ।। एधो॑ऽस्येधिषी॒महि॒ स्वाहा॑ । स॒मद॑सि समेधषी॒महि॒ स्वाहा॑ ॥ तेऽसि॒ तेजो मयि॑ धेहि॒ि स्वाहा॑ ।। अथो॑ अ॒द्यान्व॑चरिष रमे॑न॒ सम॑सृ- क्ष्महि । पय॑स्वा ँ अग्न॒ आग॑म॒न्तं मा ससृ॑ज॒ वर्च॑सा॒ स्वाहा॑ ॥ संमग्रे वर्च॑सा सृज प्र॒जया॑ च॒ धने॑न च॒ स्वाहा॑ ॥ वि॒द्युन्मे॑ अस्य दे॒वा इन्द्रो॑ वि॒द्याथ्स॒हर्‌षि॑भि॒स्स्वाहा॑ । अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॑ ।। द्यावा॑पृथि॒वीभ्यः॒ स्वाहा॑ ।। ए॒षा ते॑ अग्ने स॒मित्तया॒ वर्द्धस्व॒ चाप्या॑यस्व च॒ तया॒ऽहं वर्द्ध- मानो भूयासमा॒प्याय॑मान॒श्च॒ स्वाहा॑ । यो मा॑ भा॒गिनः॑ स॒न्तमथा॑ भा॒गं चिर्कीर्षति । अभा॒गम॑ग्ने॒ तरुं माम॑ग्ने॒ भा॒गिनं कुरु स्वाहा॑ ।। स॒मध॑मा॒धया॑ग्ने॒ सर्व॑व्रतो भूयास॒ स्वाहा॑ ॥ ब्र॒ह्म॒चा॒र्य॑स्यपो॑ऽ- शान कर्म कुरु मा सुषुप्या: । भि॒क्षूच॒र्य॑श्चराचार्याधी॒नो भ॑व ।। यस्य॑ ते॑ प्रथ॒मवा॒स्य ँ हरा॑म॒स्तं त्वा॒
..

42
तथ्स॑वि॒तुर्वरे॑ण्यं भर्गो दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ।। (तै.सं.का.१ प्र.५ अनु.६)

43
‘सु॒श्रव॑स्सु॒श्रवो॑ दे॒वानां॑’ इति केचित् ।।

44
‘सु॒ब्रह्मा ब्र॑ह्मचा॒रिभिः॑’ इति पाठभेदः ।।
11
एकाग्निकाण्डे

विश्वे॑ अवन्तु दे॒वाः । तं त्वा॒ भ्रात॑रस्सु॒वृधा॒ वर्ध॑मान॒मनु॑जायन्ता॑ ब॒हव॒स्सुजा॑तम् ॥ धने॑न ज्च॒ स्वाहा॑ दे॒वा एक॑ञ्च ।। ६ ।। इति द्वितीयप्रश्ने षष्ठः खण्डः ।।
इ॒म ँ स्तोम॒महि॑ते जा॒तवे॑दसे रय॑मिव॒ संम॑हेमा मनी॒षया॑ । भद्राहि नः प्रम॑तिरस्य ससद्यग्ने स॒ख्ये मारि॑षामा व॒यन्तव॑ । त्र्या॒यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य॒ त्र्यायु॒षम् । यद्दे॒वानां॑ त्र्यायु॒षन्तन्मे॑ अस्तु त्र्यायु॒षम् ॥ शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु मा मा॑ हिसीः । “उ॒ष्णेन॑ वाय- बुदकेनेत्ये॒षः ।। इ॒दम॒हम॒मुष्या॑मु॒ष्या॑य॒णस्य॑ पा॒प्मान॒ “मप॑गूहाम्युत्त॑रो॒ऽसौ द्वि॒षद्भय॑ः ॥ “आपो॒ हि ष्ठा म॑यो॒भुव॒ इति॑ ति॒स्रो “हिर॑ण्यवर्णाश्शुच॑यः पाव॒का इति॑ ति॒स्रः ।। अ॒न्नाद्या॑य॒ व्य॑ह॒द्ध्वं दीर्घा- यु॒र॒हम॑न्ना॒दो भू॑यासम् । सोमो॒ राजा॒ऽयमाग॑म॒थ्स मे मुखं प्रवे॑क्ष्यति॒ भर्गेन स॒ह वर्चसा ॥ सोम॑स्य त॒नूर॑सि त॒नुवं मे पाहि॒ स्वा मा॑ त॒नूरावि॑श ॥ नमो॑ गृ॒हाय॑ चाभिग्र॒हाय॑ च॒ नम॑श्शाकजअ॒भाभ्यां नम॒स्ताभ्यो॑ दे॒वता॑भ्यो॒ या अ॑भिग्रहिणी॑ः ॥ अ॒फ्स॒रस्तु॒ यो ग॒न्धो ग॑न्ध॒र्वेषु॑ च॒ यद्यश॑ः । दैवो यो मा॑नु॒षो गृ॒न्धस्स मा॑ ग॒न्धस्सु॑र॒भिर्जु॑ष॒ताम् ।। " “इ॒यम॒ोष॑धे॒ त्राय॑माणा॒ सह॑माना॒ सह॑स्वती । सामा हिर॑ण्यवर्चसं “ब्रह्मवर्चसिनं मा करोतु ॥ अपा॑शो॒ऽस्युरो॑ मे मासशरीश्शिवो मोप॑तिष्ठस्व दीर्घायु॒त्वाय॑ श॒तशा॑रदाय । श॒त श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से जी॒वात्वै पुण्या॑य ॥ ? रे॒वतो॑स्त्वा॒ व्य॑ख्ष्ण॒न्नित्ये॒ताः । स॒ह वर्च॑सा॒ नव॑ च ॥ ७ ॥ इति द्वितीयंप्रश्ने सप्तमः खण्डः ।।

५३.
५१

आ॒युष्यं वर्च॒स्य॑ सु॒वीर्यभि॑रा॒यस्पोष॒ममि॑यम् । इ॒द ँ हिर॑ण्य॒ जैत्र्या॒यावि॑शता॒न्माम् ॥ उच्चैर्बादि पृ॑तना॒जि स॑त्रासा॒हं ध॑नअ॒यम् । सर्वा॒स्समृ॑द्धर् ऋज॑यो॒ हिर॑ण्ये॒ऽस्मिन्थ्स॒माहि॑ताः ॥ शु॒नम॒ह ँ हिर॑ण्यस्य पि॒तुरि॑व॒ नामा॑ग्रभैषम् । तं मा॒ हिर॑ण्यवर्चसं पूरुषु॑ प्रि॒यं कुरु । प्रि॒यं मा॑ दे॒वेषु॑ कुरु प्रि॒यं मा॒ ब्रह्म॑णे कुरु । प्रि॒यं वि॒श्ये॑षु॒ शूद्रेषु॑ प्रि॒य ँ राज॑सु मा कुरु ॥ या ति॒रश्ची॑ नि॒पय॑से॒ऽहं

45. उष्णेन वायवित्यनुवाकः (९) पुटे द्रष्टव्यः ॥

46

47

48
मुप॑गूहा॒म्यु’ इति पाठभेदः ॥
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ।। यो व॑श्शि॒िवत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उश॒तीरि॑व मा॒तर॑ः ॥ तस्मा॒ अरं॑ ग॒माम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ।। (तै.सं. का. ४ प्र. १ अनु. ५)

हिर॑ण्यवर्णाश्शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्त्रन्द्र॑ः । अ॒ग्निं या गर्भं दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्श ँ स्यो॒ना भ॑वन्तु॒ ।। यासा॒ राजा॒ वरु॑णो॒ याति॒ मद्धर्चे सत्यानृते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धुश्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒श्श ँ स्यो॒ना भ॑वन्तु ।। यासो॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहुधा भव॑न्ति । याः पृ॑थि॒वी॑ पय॑सो॒- न्दन्ति॑ शु॒क्रास्ता न॒ आप॒श्श ँ स्यो॒ना भ॑वन्तु । तै.सं. का. ५ प्र. ६ अनु. १)

49
‘इ॒यमोष॑धि॒’ इति भाष्यसंमतः पाठः ।।

50
‘ब्रह्मवर्चसनिं’ इति केचित् ॥

51

52

53
रेवतीस्त्वेत्यादयष्षडृचः (९)पुटे द्रष्टव्याः ।।

‘जैत्र्या॒यावि॑शता॒म्माम्” इति केचित् ।

‘सर्वा॒स्समृ॑द्धर् ऋर्द्धयो॒’ इति पाठभेदः ।।

12
1
द्वितीयः प्रश्नः

1
वि॒धर॑णी॒ इति॑ । तां त्वा॑ घृ॒तस्य॒ धार॑या॒ यज॑ स॒राध॑नीम॒हम् ॥ स॒राध॑न्यै दे॒व्यै स्वाहा॑ प्र॒साध॑न्यै दे॒व्यै स्वाहा॑ ॥ स॒म्राज॑श्च वि॒राज॑ञ्श्चाभि॒श्रीर्या च॑ नो गृहे । ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुख॒ तया॑ मा॒ ससृ॑जा- मसि । शुंभि॑के॒ शिर॒ आरो॑ह शो॒भय॑न्ता॒ मुखं मम॑ । मुख ँ हि॒ मम॑ शोभय॒ भूयासञ्च॒ भर्गं कुरु ॥ यामाह॑रज्ज॒मद॑ग्नश्श्र॒द्धायै " कामाया॒न्यै । इ॒मान्तामपि॑िनह्येऽहं भवे॑न स॒ह वर्च॑सा ॥ यदानं त्रैककु॒दञ्जत हि॒मव॑त उ॒परि॑ । तेन॑ वामने॒ तेज॑से॒ वर्च॑से॒ भगा॑य च ॥ स॒व॒राध॑नीम॒हन्नव॑ च ॥ ८ ॥ इति द्वितीयप्रश्ने अष्टमः खण्डः ।।

५५

५४

मयि॑ पर्वतपूरु॒षं मयि॑ पर्वतवर्च॒ महि॑ पर्वतभेष॒जं मयि॑ पर्वतायु॒षम् ।। यन्मे॒ वर्च॑ प॒राग॑त- मा॒त्मान॑मु॒प॒तिष्ठ॑ति ““ । इ॒दन्तत्पुन॒राद॑दे दीर्घायुत्वाय॒ वर्च॑से ।। प्रति॒ष्ठे स्था॑ दे॒वता॑नां॒ मा म सन्ता॑प्त॒म् ।। प्र॒जाप॑ते॒श्शर॑ण॒मसि॒ ब्रह्म॑णश्छ॒दिवि॑श्वज॒नस्य॑ छा॒याऽसि॑ स॒र्वतो॑ मा पाहि ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒माद॑दे द्विषि॒तो व॒धायेन्द्र॑स्य॒ वज्रऽसि॒ वार्त्रघ्न॒श्शर्म॑ मे भव॒ यत्पा॒प॑ तन्निवा॑रय ।। “देवी॑ष्षडुर्वी॒रित्ये॒षा । रा॒ष्ट्रभृद॑स्याचार्या॑स॒न्दी मा त्वद्यॊष ँ राष्ट्रभृद॑सि सम्राडासन्दी मा त्वद्यष‍ राष्ट्रभृद॑स्यधिपन्यास॒न्दी मा त्वयो॑षम् ॥ आप॑ः पादाव॒नेज॑नीद्वि॒षन्त॑न्ना- शयन्तु मे । अस्मिन्कुलै ब्रह्मवर्च॒स्य॑सानि ॥ मयि॒ हो मयि यशो मर्यीन्द्रियं वी॒र्य॑म् । आमा॑ऽऽन् यश॑सा॒ वर्च॑सा॒ ससृ॑ज॒ पय॑सा॒ तेज॑सा च । तं मा॑ प्रि॒यं प्र॒जानां॑ कु॒र्वधि॑पति॑ पशूनाम् ॥ वि॒राजो॒ दोर्होऽसि वि॒राजो॒ दोह॑मशीय॒ मम॒ पद्या॑य॒ विरा॑ज ॥ समुद्रं वः प्रहि॑णोमि॒ स्वां योनि॒मपि॑गच्छत । अच्छि॑द्रः प्र॒जया॑ भूयासं॒ मा परा॑सेचि॒ मत्पय॑ः ।। अ॒सा॑नि॒ षट्च॑ ।। ९ ।। इति द्वितीयप्रश्ने नवमः खण्डः ।।

त्र॒य्यै वि॒द्यायै॒ यशॊऽसि॒ यश॑सो॒ यशॊऽसि॒ ब्रह्म॑णो॒ दीप्ति॑रसि । तं मा॑ प्रि॒यं प्रजानां कुर्वधिपतिं पशूनाम् । “आमा॑ग॒न्नित्ये॒षा । अ॒मृतोपस्तर॑ण॒मस्यमृतापधा॒नम॑सि ।। यन्मधु॑नो मध॒व्यं परम- म॒नाय॑ वी॒र्य॑म् । तेना॒हं मधु॑नो मध॒व्ये॑न पर॒मेणा॒न्नाद्ये॑न वी॒र्येण पर॒मो॑ऽन्ना॒दो म॑ध॒व्यो॑ऽसानि ॥ गौर॒स्यप॑हतपा॒प्माऽप॑ पा॒प्मान॑ञ्जहि॒ मम॑ चा॒मुष्य॑ च ॥ अ॒ग्निः प्राश्ना॑तु॒ प्रथ॒मस्स हि वेद॒ यथा॑ ह॒विः । “ अरि॑ष्टम॒स्माकं॑ कृ॒ण्वन्ब्रा॑ह्म॒णो ब्र॑ह्म॒णेभ्यः॑ ॥ य॒ज्ञो व॑र्द्धतां य॒ज्ञस्य॒ वृद्धिमनु॑व॒र्द्धाप॑ चितर॒- स्यप॑चितं मा कुर्वप॑चिता॒ऽहं म॑नु॒ष्ये॑षु भूयासम् ॥ गौर्द्धेनुभ॒व्या मा॒ता रु॒द्राणा॑ दुहि॒ता वसू॑ना॒ स्वसा॑ऽऽदि॒त्याना॑म॒मृत॑स्य॒ नाभि॑ः । प्रणु बोच॑श्चिकितुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑ति॑ वधिष्ट ॥

54 ‘कामयान्यै’ इति पाठभेदः ॥

ss ‘मुपतिष्ठेतु’ इति केचित् ॥

56
देवी॑ष्षडुर्वीरु॒रुणैः कृ॒णोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् । महा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सम राजन्॥ (तै.सं. का.४ प्र. ७ अनु. १४)

37 अयं मन्त्रः अस्मिन् पुटे (१४) पङ्कौ द्रष्टव्यः ।।

58. ‘अर्नष्ट’ इति पाठभेदः भाष्यसंमतः ।।

‘चितिरस्यर्पचितिं’ इति पाठभेदः ॥
13
एकाग्निकाण्डे

पिब॑ता॒व॒कं तृ॒णा॑न्यत्तु । ओमुथ्सृजत ॥ भूतम् ॥ सा विराट् तन्मा शा॑यि॒ तस्य॒ तेऽशी॑य॒ तन्म॒ ऊर्जन्धाः ।। ओं कल्प॒यत । भूयस स॒प्तच॑ ॥ १० ॥ इति द्वितीयप्रश्ने दशमः खण्डः ।।

६३.
“धाता द॑दातु नो रयिमति॒ चत॑स्रो “यस्त्वा॑ हृ॒दा करिणेति॒ चत॑स्रः ॥ भूर्भुवस्सुव “रा॒काम॒य्यास्ते॑ रा॒के ।। यौग॑न्धरि॑िरे॒व नो॒ राजेति॒ साल्वी॑रंवादिषुः । विवृ॑त्तचक्र आसी॑ना॒स्तीरे॑ण यमुने॒ तव॑ ॥ सोम॑ ए॒व नो॒ राजेत्या॑हु॒र्ब्राह्म॒णः प्र॒जाः । विवृ॑त्तचक्र आसी॑ना॒स्तीरे॑णासा॒ तव॑ ।। पु॒श्सु॒वन॑म॒सि ।। आ॒भिष्ट्वाहं द॒शभि॑र॒भिर्मृशामि॒ दश॒मस्या॑य॒ सूत॑वे । यथैव सोम॒ पव॑ते॒ यथा॑ समुद्र एज॑ति । ए॒वन्ते गर्भ एज॑तु॒ स॒ह ज॒रायु॑णा नि॒ष्क्रम्य॒ प्रति॑तिष्ठ॒त्वायु॑षि ब्रह्मवर्च॒सि॒ यश॑स वी॒र्येऽन्नायै॑ ॥ दश॒मासा॒ञ्छश॑यानो धा॒त्रा हि तथा॑ कृ॒तम् । ऐतु॒ गर्भो “अक्ष॑तो जी॒वो जीव॑न्त्याः ॥ आ॒यम॑नीर्यमयत॒ गर्भ॒मापो॑ देवस्सर॑स्वतीः । ऐतु॒ गर्भो “अक्षतो जीवो जीव॑न्त्याः ॥ तल- ऽव॑पद्यस्व॒ न मा॒सम॑सि॒ नो दल॑म् । स्थवि॒त्र्यव॑प॒द्यस्व॒ न मासेषु न स्नाव॑सु न बद्धम॑सि म॒ज्जसु॑ ॥ नरे॑तु॒ पृश्नि॒िशेव॑ल॒ ँ शु॒ने ज॒राय्व॒त्तवे॑ ।। अ॒न्नाद्ये॑ स॒प्तच॑ ॥ ११ ॥ इति द्वितीयप्रश्ने एकादशः खण्डः ।।
६४.

“दि॒वस्परीत्ये॒षो॑ऽनुवा॒कः ॥ अ॒स्मिन्न॒ह ँ स॒हस्र॑ पु॒ष्या॒म्येध॑मान॒स्स्वे वर्शे ।। अङ्गदङ्गथ्र्भ-

6॰ अत्र ‘सुभूतम्’ इंत्यधिकः पाठश्चिन्त्यः ॥
̈ धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पति॑ः । सन॑ः पू॒र्णेन॑ वावन॑त् ।। धा॒ता प्र॒जाय॑ उ॒त रा॒य ई॑शे धा॒तेदं विश्वं॑ भुव॑नं जजान । धा॒ता पु॒त्रं यज॑मानाय॒ दाता॒ तस्मा॑ उ ह॒व्यं घृ॒तव॑द्विधेम ॥ धा॒ता द॑दातु नो र॒यिं प्राची॑जी॒वातु॒मख्षि॑ताम् । व॒यं दे॒वस्य॑ धीमहि सुम॒ति ँ स॒त्यरा॑धसः ॥ धा॒ता द॑दातु दा॒शुषे वसू॑नि प्रजाका॑माय मीढुषे॑ दुरोणे । तस्मै देवा अ॒मृता॒स्संव्य॑यन्तो॒ विश्वे॑ दे॒वासो॒ अदि॑तिस्स॒जोषा॑ः ।, (तै.सं. का.३-प्र.३ अनु. ११)

62
य॒स्त्वा॑ ह॒दा रि॑णा॒ मन्य॑मा॒नोऽम॑र्त्यं मर्त्यो जोह॑वीमि । जात॑वे॒दा॒ यतो॑ अ॒स्मासु॑ धे॒हि॑ प्र॒जाभि॑रग्ने अ॒मृत॒त्व- म॑श्याम् ।। यस्मै॒ त्व ँ सु॒कृते॑ जातवेद॒ उ॑ लो॒कम॑ग्ने॒ कृ॒णव॑स्स्यो॒न॒म् । अ॒श्विनु सपुत्रिणि॑ वी॒रव॑न्त॒ गोम॑न्त॒रं॑ र॒यिन्न॑शते स्व॒स्ति ।। त्वे सु॒प॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः । न त्वा॑मि॒न्द्रति॑रिच्यते । उ॒क्थउ॑क्ये॒ सोम॒ इन्द्रो॑ म॒माद॑ नी॒थेनी॑थे म॒घवा॑न ँ सु॒तास॑ः । यदी॑ सं॒बाध॑ पि॒तरं॒ न पु॒त्रास्स॑मा॒न॒द॑ख्षा॒ अव॑से॒ हव॑न्ते ।। (तै.सं. का. १ प्र ४ अनु. ४६) 63 कामह सुहवा ँ सुष्टुती हुँवे शृणोतुं नस्सुभगा बोध॑तु॒ त्मना॑ । सव्य॒त्वप॑स्सूच्याऽच्छि॑द्यमानया दधा॑तु वर‍ श॒तदा॑य॒मु॒क्थ्य॑म् ।। यास्ते॑ राके सुम॒तय॑स्तु॒पेश॑सो॒ ग्राभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि । ताभि॑र्नो अ॒द्य सु॒मना॑ उपाग॑हि सहस्रपो॒षदं॑ सु॒भगे ररा॑ण्रा ।। (तै. सं. का. ३, प्र. ३. अनु. ११).

64

65

66
‘अक्षि॑तो जा॒वो’ इति पाठभेदः ।।

‘अक्षि॑तो जवो’ इति पाठभेदः ||

दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्वतीयं॒ परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒फ्सु नृ॒मणा॒ अज॑स॒मिन्धन एन जस्ते स्वाधीः ।। वि॒द्मा ते॑ अग्ने॒ त्रे॒धा त्र॒याणि॑ वि॒द्मा ते सन॒ विभृते॑ पुरुत्रा । विद्या ते॒ नाम॑ पर॒मं गुहा यद्विद्मा तमुथ्सं॒ यत॑ आज॒ग॒न्य॑ ।। स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व॑न्त॒र्नृचक्ष ईधे दि॒वो अ॑ग्र॒ ऊध॑ । तृ॒तीये॑ त्वा॒ रज॑सि॒ तस्य॒वास॑मृ॒तस्य॒ योनौ॑ महि॒षां अ॑हिन्वन् ।। अक्र॑न्द॒द॒ग्निस्स्त॒नय॑न्नव॒ द्यौः क्षामा॒ रेति॑हद्वी॒रुध॑स्सम॒ञ्जन्न् । स॒द्यो ज॑ज्ञनो विहीमि॑द्धो अ॑व्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ।। उ॒शिक्पा॑व॒को अ॑र॒तिस्सु॑मे॒धा मर्तेष्व॒ग्निर॒मृतो॒ निर्धायि । इय॑र्ति धूमम॑रु॒षं भरि॑भ्रद॒च्छुक्रेण॑ शो॒चिषा॒ द्यामिन॑क्षत् ।। विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृ॒णा॒ज्जाय॑मानः । वी॒हु॒ञ्चि॒दप्र॑मभिनत्प॑रा॒यञ्जना॒यद॒ग्निमय॑जन्त॒

14
द्वितीयः प्रश्नः

1
६७.
वसि॒ हृद॑या॒दधि॑ जायसे । आ॒त्मा वै पु॑त्र॒नामा॑ऽसि॒ स जीव श॒रद॑श्श॒तम् ॥ अश्मा॑ भव पर॒शुर्भुव॒ हिर॑ण्य॒मस्तृ॑तं भव । प॒शूनां त्वा॑ हिङ्करेणा॒भिजि॑घ्राम्यसौ । मे॒धान्ते॑ दे॒वस्स॑वि॒ता मे॒धा दे॒वी सर॑- स्वती । मे॒धान्ते॑ अ॒श्विनो॑ दे॒वावाध॑त्ता॒ पुष्क॑रस्रजा ॥ त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वय्य॒ग्निस्तेजो॑ दधातु त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ त्वयि॑ मे॒धः॑ त्वयि॑ प्र॒जां त्वयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ क्षेत्र॒यै त्वा॒ निर्ऋत्यै त्वा द्रुहो मु॑ञ्चामि॒ वरु॑ण॒स्य॒ पाशा॑त् । अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि शिवे ते द्यावा॑पृथि॒वी उ॒भे इ॒मे ॥ शन्ते॑ अ॒ग्निस्स॒हाद्भिर॑स्तु॒ शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः । शम॒न्तरि॑क्ष स॒ह वाते॑न ते॒ शन्ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु ।। या दे॑वी॒श्चत॑स्रः प्र॒दिशो॒ वात॑पत्नीर॒भि सूर्यो॑ विच॒ष्टे । तासा त्वा ज॒र॒स॒ आद॑धामि॒ प्रयख्ष्म॑ ए॒तु॒ निर्ऋति॑ परा॒चैः ॥ अमो॑चि॒ यख्ष्मा॑द्दुरि॒तादव॑यै॑ गृ॒हः पाशा॒न्नि- क्रेत्यै॒ चोद॑मोचि । अहा॒ अव॑ति॒मवि॑दथ्स्यो॒न॒मप्य॑भू॒द्रे सु॑कृ॒तस्य॑ लो॒के ।। सूर्य॑मृ॒तं तम॑सो॒ ग्राह्य यद्दे॒वा अमु॑ञ्चन्नसृ॑ज॒न्व्ये॑नसः । ए॒वम॒हमिमं क्षैत्रियाज्या॑मिश॒साहु॒हो मु॑ञ्वामि॒ व॑रुणस्य॒ पाशा॑त् ॥ भूस्स्वाहा॒ भुवस्स्वाहा॒ सुवस्स्वाहा॑हो॒ स्वाहा॑ । पाशा॒दो स्वाहा॑ ॥ १२ ॥ इति द्वितीय प्रश्ने द्वादशः खण्डः ।। .

1

६८
मा ते॑ कुमा॒र‍ रक्षौ वधी॒न्मा धे॒नुर॑त्यासा॒रिणी॑ प्रि॒या धन॑स्य भूया॒ एध॑माना॒ स्वे गृहे अ॒यं कु॑मा॒रो ज॒रां ध॑यतु॒ दी॒र्घमायु॑ः । यस्मै॒ त्व ँ स्तन॒ प्रप्या॒यायु॒र्वर्चो यशो॒ बल॑म् । यद्भूमे॒र्हृद॑यं दि॒वि च॒न्द्रम॑सि चि॒तम् । तदु॑र्व पश्यं माऽहं पौत्र॒मघरुदम् । यत्ते॑ सु॒सा॒मे॒ हृद॑यं॒ वेदा॒हं तत् प्र॒जा - प॑तौ । वेदा॑म॒ तस्य॑ ते व॒यं माऽहं पौत्र॒मघरुदम् ॥ नाम॑यति॒ न दति॒ यत्र॑ व॒यं व॑दामसि॒ यत्र॑ चा॒भिर्मृशामसि । आप॑स्स॒प्तेषु॑ जाग्रत॒ रक्षासि॒ निरि॒तो नु॑दद्ध्वम् । अ॒यं क॒लं प॒तय॑न्त वा॒ नमि॒वोतृ॑द्धम् । अ॒जा॑ वाशि॑तामिव मरुतः " पर्या॑ध्व॒ स्वाहा॑ ॥ शण्डेरथ॒श्शण्डिकेर उलूखलः । च्यव॑नो॒ नश्य॑तादि॒तस्स्वाहा॑ ।। अय॒श्शण्ड मकै उप॒वीर॑ उलूखलः । च्यव॑नो॒ नश्य॑तादि॒तस्स्वाहा॑ ।। केशिनीश्श्वलोमनः खजा॑पा॒ऽजोप॑काशिनः । अपि॑त॒ नश्य॑तादि॒तस्स्वाहा॑ ।। मि॒श्रर्वाससः कौबे- र॒का र॑क्षोरा॒जेन॒ प्रेषि॑ताः । ग्राम॒ ँ सजा॑न॒यो गच्छन्ती॒च्छन्तो॑ऽपरि॒दाकृ॒तान्थ्स्वाहा॑ ।। ए॒तान् प्र॑त॒ तान् गृ॑ह्णतेत्य॒यं ब्रह्म॑णस्पु॒त्रः । तान॒ग्निः पर्य॑सा॒र॒त्तानिन्द्र॒स्तान्बृह॒स्पतिः॑ । तान॒हं वे॑द ब्राह्म॒णः प्र॑मृ- श॒तः नू॑टद॒न्तान् वि॑के॒शालुँम्बनस्त॒नान्स्वाहा॑ ।। निरि॒तो नु॑दध्व॒ ँ स्वाहा॒ त्रीणि॑ च ॥ १३ ॥ इति द्वितीयप्रश्ने त्रयोदशः खण्डः ।।
1

पञ्च॑ ॥ श्रणामु॑दा॒रो ध॒रुर्णो रयी॒णां म॑नी॒षाणा॒ प्राप॑ण॒स्सोम॑गोपाः । वसो॑स्सू॒नु॒स्सह॑सो अ॒फ्सु॒ राजा॒ विभा॒त्यग्र॑ उ॒ष- सा॑मिधा॒नः ।। यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपूपं दे॑व॒ घृ॒तव॑न्त॒मग्ने । प्रतन्न॑य प्रत॒रां वस्यो॒ अच्छा॒भि द्यु॒म्ना॑ दे॒वभ॑क्तं यविष्ठ ।। आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थउ॑क्य॒ आभ॑ज श॒स्यमा॑ने । प्रि॒यस्सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्यु॒ज्जा॒तेन॑ भि॒नद॒दु॒ज्जनि॑त्वैः ।। त्वम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून् विश्वा॒वसू॑नि दधि॑रे॒ वार्या॑णि । त्वया॑ स॒ह॒ द्रवि॑णमि॒च्छमा॑ना व्र॒जङ्गोम॑न्त॒मु॒शिजो॒ विव॑व्रुः ।। ह॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दुर्मर्‌ष॒मायु॑श्श॒िये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्य॑दे॑नं॒ द्यौर॒ज॑नयथ्सु॒रे॒ता॑ः ।। (तै.सं. का.४ प्र.२ अनु.२)
67 ’ आत्मा वै पुत्र’ इति पाठभेदः ।।

68
‘पर्याद्ध’ इति केचित् ॥
15

७०
७१
एकाग्निकाण्डे

1
६९
न॒क्त॒श्चा॒रिण॑ उरस्पेशाछ॑ल॒ह॒स्तान्क॑पाल॒पान् । पूर्वं एषां पि॒तेत्यु॒ञ्चैश्चा॑व्यक॒र्णक॑ः । मा॒ता ज॑घ॒न्या॑ सर्प॑ति॒ ग्रामे॑ विधुरमि॒च्छन्ती॒ स्वाहा॑ ॥ नि॒शथचा॒रिणी॒ स्वसा॑ स॒न्धिना॒ प्रेक्ष॑ते॒ कुलम् । या स्वप॑न्तं बा॒धय॑ति॒ यस्यै॒ विजा॑ताया॒म्मन॑ः । तासां॒ त्वं कृ॒ष्ण॒वत्र्त्मने क्लो॒मान॒ हृद॑यं यकृ॑त् । अग्ने॑ अशी॑णि नि॒र्दह॒ स्वाहा॑ ॥ अङ्गा॑दङ्गा॑थ्संभ॑वसि॒ हृद॑या॒दधि॑ जायसे । वे॒दो वै " पु॑त्र॒नामा॑ऽसि॒ सनी॑व श॒रद॑श॒तम् ॥ • अश्मा॑ भ॒वेत्ये॒षा । ” अ॒ग्निरायु॑ष्मा॒निति॒ पञ्च॑ ॥ सर्व॑स्मादा॒त्मन॒स्संर्भूताऽसि॒ सा जी॑व श॒रद॑श्श॒तम् ॥ भू-र॒पां त्वौष॑धीना॒ रसं॒ प्रश॑यामि शि॒वास्त॒ आप॒ ओष॑धयस्सन्त्वन- मी॒वास्त॒ आप॒ ओष॑धयस्सन्त्वसौ ॥ भुवो॒ऽपाँ सुव॑र॒पां भूर्भुव॒स्सुव॑र॒पां त्वौष॑धीना॒ रसं॒ प्राश॑या- मि शि॒वास्त॒ आप॒ ओष॑धयस्सन्त्वनमी॒वास्त॒ आप॒ ओष॑धयस्सन्त्वसौ । ” उ॒ष्णेन॑ वायवुदकेने- त्ये॒षः ॥ ए॒षा पञ्च॑ च ॥ १४ ॥ इति द्वितीयप्रश्ने चतुर्दशः खण्डः ।।
।।

७२

यद्भूमैः क्रूरं तदि॒तो ह॑रामि॒ परा॑ची॒ निर्ऋति॒ निर्वाहयामि । इद ँ श्रेर्योऽवसान॒माग॑न्म देवा गोम॒दश्वा॑वदि॒दम॑स्तु॒ प्रभूम॑ ॥ स्यो॒ना पृ॑थि॒वि॒ भवा॑नृ॒व॒रा नि॒वेश॑नी । यच्छ॑न॒श्शर्म॑ स॒प्रथा॑ः ॥ इ॒हैव ति॑ष्ठ॒ निमि॑ता॒ तिल्व॑ला स्या॒दिरा॑वती । मद्ध्ये॒ ताप्य॑स्य॒ तिष्टा॒न्मा त्वा॒ प्राप॑न्नघा॒यव॑ः ॥ आ त्वा॑ कुमा॒रस्तरु॑ण॒ आव॒थ्सो जग॑ता स॒ह । आ त्वा॑ परि॒स्रुत॑ः कुम्भा आ नः कलेशीरयन् ॥ तेन स्थूणा॑व॒धिरो॑ह शोग्रो वि॒राज॒नप॑सेध॒ शत्रू॑ ॥ ब्रह्म॑ च ते क्ष॒त्रश्च॒ पूर्वे॑ स्थूणे॑ अ॒भिर॑क्षतु ॥ य॒ज्ञश्च॒ दक्षि॑णाश्च दक्षि॑णे ॥ इ॒षश्चर्जश्चापरे । मि॒त्रश्च॒ वरु॑ण॒श्चोत्त॑रे । धर्मस्ते॒ स्थूर्णा राज श्रीस्ते स्तूप॑ । उ॒द्रि॒यमा॑ण॒ उद्ध॑र पा॒प्मनो॑ मा॒ यदवि॑दा॒न् यच्च॑ वि॒द्वाश्च॒कार॑ । अह्न यदेन॑ः कृ॒तम॑स्ति पा॒पथो॑ रात्र्या॒ यदेनः॑ कृ॒तम॑स्ति पा॒प सर्व॑स्मा॒न्मोद्धृतो मु॑श्च॒ तस्मा॑त् ॥ इन्द्र॑स्य॒ गृ॒हा वसु॑मन्तो वरू॒थिन॒स्तान॒ह सु॒मन॑स॒ः प्रप॑द्ये ॥ अ॒मृता॒हु॒तिम॒मृता॑यां जु॒होम्य॒ग्निं पृ॑थि॒व्याम॒मृत॑स्य॒ जित्यै॑ । तया॑ऽन॒न्तं काम॑म॒हञ्ज॑यानि प्र॒जाप॑ति॒र्य॑ प्र॑थ॒मो जि॒गाया॒ग्निम॑ना॒ स्वाहा॑ ॥ ३ अन्न॑पत॒ इत्ये॒षा ।। अरि॑ष्टा अ॒स्माकं॑ वी॒रास्स॑न्तु॒ मा परा॑सेच मे॒ धन॑म् ॥ भूमि॒र्भूमि॑मगान्मा॒ता मा॒तर॒मय॑गात् ।
७३

69
‘पु॒त्र॒नामा॑ऽसि॒’ इति पाठभेदः ।

70 अयं मन्त्रः (१५) पुटे द्रष्टव्यः ॥

71
" अ॒ग्निरायु॑ष्मा॒न्थ्स वन॒स्पति॑भि॒रायु॑ष्मा॒न्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि । सोम॒ आयु॑ष्मा॒न्थ्स ओष॑धीभि॒रायु॑- ष्मा॒न्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि ॥ य॒ज्ञ आयु॑ष्मा॒न्थ्स दक्षि॑णाभि॒रायु॑ष्मा॒न्तेन॒ त्वाऽऽयुषाऽऽयुष्मन्तं करोमि ॥ ब्रह्मायु॑ष्म॒त्तद्ब्रा॑ह्म॒णैरायु॑ष्म॒त्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि । दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॒नायु॑ष्मन्त॒स्तेन॒ त्वाऽऽयु॒षा- ssयुष्मन्तं करोमि । (तै.सं. का. २. प्र. ३ अनु. १०)

72 एषोऽनुवाकः (९) पुटे द्रष्टव्यः ॥

73
अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिण॑ः । प्रप्र॑ दा॒तार॑न्तारि॑षि॒ ऊर्ज॑न्नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।। (तै.सं.का.४ प्र.२ अनु. ३)

16
द्वितीयः प्रश्नः

भूयास्मा॑ पु॒त्रैः प॒शुभि॒र्यो॑ नो॒ द्वेष्टि॒ स भि॑ियताम् ॥ " वास्तोष्पत इति द्वे ॥ वास्तोष्पते प्र॒तर॑णो न एधि॒ गोभि॒रश्वे॑भिरिन्दो । अ॒जरा॑स॒स्ते स॒ख्ये स्या॑मं पि॒तेव॑ पु॒त्रान् प्रति॑ नो जु॑षस्व ।। अ॒मवहा वास्तो॑ष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन्न् । सखा॑ सु॒शेव॑ एधि नः ।। शिव शि॒वम् ॥ अ॒भिर॑क्षत्वे॒षा॒ नव॑ च ।। १५ ।। इति द्वितीयप्रश्ने पञ्चदशः खण्डः ।।

*

७६.
कुर्कुरसुर्कुर्कुरः कुर्कुरो बलबन्ध॒नः । उ॒परि॑ष्टा॒यदेजा॑य तृ॒तीय॑स्या इ॒तो दि॒वः ।। औल॑व॒ इत्तमुपा॑ह्वयथा॒र्जीञ्छ्या॒मश्श॒बल॑ः । अ॒धोरा॑म उलुम्व॒लस्ता॑र॒मे॒यो ह॒ धाव॑ति समु॒द्रम॑व॒चाक॑शत् ॥ बिभ्रनिष्क॑श्च रुक्मश्च शुना॒मग्र सुवीरिणः । सुर्बीरिण॒ सृज सृज शुन॑कं॒ सृजैक॑व्रात्य॒ सृजच्छत् ।। तथ्स॒त्यं यत्त्वेन्द्रो॑ऽब्रवी॒द्गास्स्मा॑शय॒स्वेति॒ “ तास्त्व ँ स्पा॑शयि॒त्वाऽऽग॑च्छ॒स्तं त्वा॑ऽब्र॑वी॒दवि॑द॒- हा (३) इत्यवि॑द॒हीति॒ वरि॑ वृ॑णी॒ष्वेतं कुमारमे॒वाहं वरं वृण॒ इत्य॑ब्रवीः " ॥ वि॒गृ॒ह्य॑ बा॒हू ए॒वसे द्याम॑व॒ चाक॑शत् ।। ब॒भ्रन्निष्क॑ञ्च रुक्मश्च शुना॒मग्र सुबीरि॒णः । सुर्बीरिण॒ सृज सृज शुक सृजैक॑व्रात्य॒ सृज॒च्छत् ।। तथ्स॒त्यं यत्ते॑ सर॒मा मा॒ता लोहि॑तः पिता । अमी एकै सरस्यका अ॑व॒धावेत तृ॒तीय॑स्या इ॒तो दि॒वः ॥ तेक॑श्च ससरम त॒ण्डश्च॒ तूल॑श्च॒ वित॑ल॒श्चार्जुनश्च॒ लोहि॑तंश्च । दुलाह नाम वो माता मन्थोकको हवः पिता । सन्तक्ष हन्ति चक्रीवो न सीसंरीदत । छदपेहि सीसरम सारमेय॒ नम॑स्ते अस्तु सीसर । सम॑श्वा॒ वृष॑णः प॒दो न सीस॑रीदत । छद॒पेहि॑ सीसरम सारमेय नम॑स्ते अस्तु सीसर । श्वान॒मिच्छ्वाऽद॒न्नपु॑रुष॒ञ्छत् ।। ए॒ते ते॒ प्रति॑दृश्येते समा॒नव॑स उ॒भे । ते अह‍ सा॒रये॑ण॒ मुस॑ल॒नाव॑हन्म्युलूखले ।। ह॒तश्श॒ङ्खो ह॒तश्श॑ङ्गा॑पि॒ता ह॒तश्श॑ङ्खकुतु॒र्व॒कः । अप्ये॑षा स्य॒पति॑र्हृतः ॥ ऋषि॑र्बोधः प्रवो॑ध॒स्स्वप्नो॑ मात॒रिश्वा॑ । ते ते॑ प्रा॒णान्थ्स्य॑रि॒ष्यन्ति॒ मा भैषीर्न मंर- ष्यसि॑ । ज॒ग्धो मश॑को ज॒ग्धा वितृ॒ष्टिर्जग्धो व्य॑ध्व॒रस्स्वाहा॑ । ज॒ग्धो व्य॑द॒ध्व॒रो॑ ज॒ग्धो मश॑को ज॒ग्धा वितृ॑ष्टा॒स्स्वाहा॑ ।। ज॒ग्धा वितृष्टिर्जग्धो व्य॑द्ध्व॒रो ज॒ग्धो मश॑क॒स्स्वाहा॑ ।। सृच्छदुभे अष्ट च॑ ॥ १६ ॥ इति द्वितीयप्रश्ने षोडशः खण्डः ।।
७७

1
I

इन्द्र॑ जहि दन्द॒शूकं॑ प॒क्षिणं॒ यस्त॑रीसृपः । द॒क्ष्यन्त॑ञ्च द॒शन्त॑श्च॒ सर्वा॑स्तानि॑न्द्र जंभय स्वाहा॑ ॥ अ॒सुजा॑त॒ सर्वे॑वृद्ध दे॒वाना॒मपि॑स्त्य । त्वम॑ग्न इन्द्र प्रेषि॑त॒स्स नो मा हिसस्स्वाहा॑ ॥ त्राण॑मसि परि॒त्राण॑मसि परि॒धिर॑सि । अन्ने॑न मनु॒ष्याध॑स्त्रायसे॒ तृणैः “ प॒शून्ग॒र्तेन॑ स॒र्पान् य॒ज्ञेन॑
1 ।
७८

74
वास्तॊष्पते॒ प्रति॑जानीह्यस्मान्थ्स्ववि॒शो अ॑न॒मा॒वो भ॑वा नः । यत्त्वेम॑ह॒ प्रति॒ तन्नो॑ जुषस्व॒ शत्र॑ एधिं द्विपदे॒ शश्व - तु॑ष्पदे ।। वास्तो॑ष्पते श॒ग्मया॑ स॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गा॒तु॒मत्या॑ । आव॒ क्षेम॑ उ॒त योग॒ वन॑नो यूयं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।। (तै.सं. का. ३ प्र. ४ अनु. १०)
7” ‘तास्त्वः॑ ँ स्पा॑शयि॒त्वाऽऽग॑च्छ॒त्तन्त्वा॑ ’ इति केचित् ।।

76 ‘इ॒त्य॑ब्रवीत्’ इति पाठभेदः ॥
7 ‘सम॑श्वा॒ वृषा॑णः’ इति भाष्यसंमतः पाठः ।।

78
प॒शून्क॒र्तेन॑’ इति पाठभेदः ।।
17

८०
एकाग्निकाण्डे

७९

८१
दे॒वान्स्व॒धया॑ पि॒तॄन्थ्स्वाहा॑ ॥ तथ्स॒त्यं यत्ते॑ऽमावा॒स्या॑याश्च पौर्णमा॒स्याश्च॒ विष॑व॒लि हर॑न्ति सर्वं उदरस॒र्पण॑ः । तत्ते॒ प्रेर॑ते॒ त्वयि॒ सं॒वि॑शन्ति॒ त्वयि॑ न॑स्स॒तस्त्वयि॑ स॒द्भ्यो वर्॒षाभ्यो॑ नः परि॑देहि ॥ " नमो॑ अस्तु सर्पेभ्य॒ इति॑ ति॒स्रः ॥ नमो॑ अस्तु सर्पेभ्यो॒ ये पार्थि॑वा॒ य आ॑न्तरि॒क्ष्या॑ ये दि॒व्या॑ ये दि॒श्या॑ः । तेभ्य॑ इ॒मं ब॒लि ह॑रिष्यामि॒ तेभ्य॑ इ॒मं ब॒लिम॑हार्षम् ॥ तव॑क॒ वैशलय धृतराष्ट्रैरावत॒स्ते जी॑वा॒स्त्वषि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो ब॒र्॒षाभ्यो॑ नः॒ परि॑देहि ॥ घृ॒तरा॑ष्ट्रैरावत॒ तव॑क॒स्ते॒ वैशाल॒यो जी॑वा॒स्त्वषि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो॑ ब॒र्॒षभ्यो॑ नः॒ परि॑देहि ॥ अ॒हमतिबलस्ते जी॑वा॒स्त्वर्य न- स्स॒तस्त्वषि॑ स॒द्भ्यो व॒र्‌षाभ्यो॑ नः परिदेहि ॥ अतिबलाहि सस्ते जवा॒स्त्वर्य नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षभ्यो॑ नः॒ परि॑देहि ॥ ये द॑न्द॒शूः पार्थि॑वा॒स्तास्त्वमि॒तः प॒रो गव्यू॑ति॒ निर्वॆशय । सन्ति॒ वै न॑श्श॒फिन॒स्सन्ति॑ द॒ण्डिनस्ते वो नेद्धिनसान्येय्यमस्मान् हिनसांत ॥ समीची नामसि प्राची दिग्घेतयो नाम स्पेति द्वादश पर्यायाः ॥ अश्वेत पढ़ा जहि पूर्वेण चापरिण चः । सप्त च मानु॑षीरि॒मास्ति॒स्रश्च॑ रा॒जब॑न्ध॒वीः ॥ न वै श्वे॒तस्या॑द्ध्याचा॒रेऽहि॑ज॒घान॒ कञ्च॒न । श्वे॒ताय॑ वैद॒र्वाय॒ नमो॒ नम॑श्श्वे॒ताय॑ वैद॒र्द्वाय॑ ॥ दि॒श्या॑ रा॒जब॑न्धवर्द्वे च॑ ॥ १७ ॥ इति द्वितीयप्रश्ने सप्तदशः खण्डः ॥
८२

[

परमेष्ठ्यसि परमां मा श्रियं गमय ।। प्र॒त्यव॑रूढो नो म॒न्तः ।। प्रति॑क्ष॒त्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ । प्रति॑प्र॒जाया॒ प्रति॑तिष्ठामि॒ भव्र्व्वे ॥ इ॒ह धृतिरिह विधृतिरिह रन्तिरिह

79 ‘पौर्णमा॒स्याञ्च॑ वि॒षब॒लि ँ’ इति पाठभेदः ॥

30. नमो॑ अस्तु सर्पेभ्यो ये के च॑ पृथिवीमनुं । ये अन्तरिक्षे ये दिवि तेभ्य॑स्स॒र्पेभ्यो नमः । येऽदो रोचने दिवो ये वा सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒फ्सु॒ सद॑ः कृ॒तं तेभ्य॑स्स॒र्ये॑भ्यो॒ नम॑ः ।। या इष॑वो यातु॒धाना॑नां॒ ये वा वन॒स्पत॑ । ये वा॑व॒टेषु शेर॑ते॒ तेभ्य॑स्स॒र्पेभ्यो॒ नम॑ः ।। (तै.सं.का. ४ प्र. २ अनु. ८)
४। ‘तक्षक वैशलिय॒स्ते’ इति कैचित् ।।

82
* समीची नामांसि प्राचीदिक्तेस्या॑स्ते॒ ऽग्निरधि॑पति॑र॒सि॒तो र॑क्षर्ता यश्चाधिपतिर्यश्च गोप्तां ताभ्या॒नम॒स्तौ नों मृडयत ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वा॒ जने॑ दधामि ॥ ओजस्विनो॒ नामा॑सि दक्षिणा दिक्तस्या॑स्त॒ इन्द्रोऽधि॑पति॒ पृदा॑कू रक्षि॒ता-– दधामि ॥ प्राची॒ नामा॑सि प्र॒तीची॒ दिक्तस्या॑स्ते॒ सोमोऽधि॑पतिस्स्व॒जो र॑क्षि॒ता -– दधामि ॥ अवस्थावा॒ नामा॒स्यु॒दी॑ची॒ दिक्तस्या॑स्ते॒ वरु॒णोऽधि॑पतिस्ति॒र॒श्च॑राजी रक्षिता-– दधामि ॥ अधि॑पत्नी नामा॑स बृह॒ती दि॑िक्तस्या॑स्ते॒ बृह॒स्पति॒रधि॑पतिश्व॒त्रो र॑क्षि॒ता-— दधामि ।। व॒शिनो॒ नामा॑सी॒यं दिक्तस्या॑स्ते य॒मोऽधि॑पतिः क॒ल्माष॑ग्रीवो रक्षि॒ता -– दधामि ।। हे॒तयो॒ नाम॑ स्य॒ तेषा॑ वः पु॒रो गृ॒हा अ॒ग्निर्व॒ इष॑वस्सलि॒लो वा॑त॒ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंमे॑ दधामि ।। नि॒ल॒पा नाम॑ स्य॒ तेषां वो दक्षि॑णा गृ॒हाः पि॒तरो॑ व॒ इष॑व॒स्सग॑रो वातना॒मं-— दधामि ।। व॒ज्रिणो॒ नाम॑ स्य॒ तेष वः प॒श्चाद्गृ॒हास्स्वप्नो॑ व॒ इष॑वो॒ गह॑रो वातना॒मं -— दधामि ।। अव॒स्थावा॑नो॒ नाम॑ स्य॒ तेषां व उत्त॒राद्गृ॒हा आपो॑ व॒ इष॑वस्समु॒द्रो वा॑त॒ना॒मं -– दधामि ।। अधि॑प॒तयो॒ नाम॑ स्य॒ तेष व उ॒परि॑ गृ॒हा व॒र्‌षं व॒ इष॒वोऽव॑स्वान् वातना॒मं -– दधामि ॥ क्रव्या नाम॑ स्य॒ पार्थि॑वा॒स्तेष व इ॒ह गृ॒हा अन्नं॑ व॒ इष॑वो निमि॒षो वा॑त॒ना॒मं -- दधामि ।। (तै.सं. का. ५ प्र.५ अनु. १०)
18
८.३.
८४
द्वितीयः प्रश्नः

रम॑तिः ॥ स्यो॒ना पृ॑थि॒ति॒ ब॑रि॒त्या पर्व॑ताना॒मिति॒ द्वे ॥ आ त्वा॑ वहन्तु॒ हर॑य॒स्सचे॑तसश्श्वे॒- तैरश्वै॑स्स॒ह के॑तु॒मद्भः । “वाता॑ज॒र॒र्मम॑ ह॒व्यय॑ शर्व ॥ उप॑स्पृशतु मा॒द्वान्मा॒दु॑षे॒ स्वाहोप॑स्पृशतुं मदुषी॑ मनु॒ष्यै॒ स्वाहा॑ ॥ ज॒यन्तोप॑स्पृश जय॒न्ताय॒ स्वाहा॑ ।। भ॒वाय॑ दे॒वाय॒ स्वाहा॑ श॒र्वाय॑ दे॒वाय॒ स्वाद्देशा॑नाय दे॒वाय॒ स्वाहा॑ पशु॒पत॑ये दे॒वाय॒ स्वाहा॑ रु॒द्राय॑ दे॒वाय॒ स्वाहा॒ग्राय॑ दे॒वाय॒ स्वाहा॑ भी॒माय॑ दे॒वाय॒ स्वाहा॑ महते देवाय॒ स्वाहा॑ ॥ भवस्य॑ देवस्य पत्यै स्वाहा॑ शर्वस्य॑ देवस्य पत्यै स्वाहेशानस्य दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ पशु॒पते॑र्दे॒वस्य॒ पत्यै॒ स्वाहा॑ रु॒द्रस्य॑ दे॒वस्य॒ पत्यै॒ स्वाहा॑हो॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ भी॒मस्य॑ दे॒वस्य॒ पत्यै॒ स्वाहा॑ मह॒तो दे॒वस्य॒ पत्यै॒ स्वाहा॑ ॥ जय॒न्ताय॒ स्वाहा॑ ॥ अ॒ग्नये॑ स्विष्टा॒कृते सु॒हु॑हु॒त आहु॑तीनां॒ कामा॑ना समर्द्धयि॒त्रे स्वाहा॑ । स्व॒स्ति नः॑ पू॒र्णमुखः परि॑क्रामतु ॥ गृहपोप॑ स्पृश गृ॒ह॒पाय॒ स्वाहा॑ ॥ गृह॒प्युप॑स्पृश गृ॒हप्यै स्वाहा॑ ॥ घोषण॒ उप॑स्पृशत घोषिभ्यस्स्वाहा॑ ।। श्वा॒सिन॒ उप॑स्पृशत श्वा॒सिभ्य॒स्स्वाहा॑ ॥ वि॒िचि॒न्वन्त॒ उप॑स्पृशत विचि॒न्वद्भय॒स्स्वाहा॑ ।। प्रपु॒न्वन्त॒ उप॑स्पृशत प्रपु॒न्वद्भय॒स्स्वाहा॑ ।। स॒म॒श्नन्त॒ उप॑स्पृशत॒ सम॒श्नद्भय॒स्स्वाहा॑ ॥ “ दे॒वसेना उप॑स्पृशत देवसेनाभ्य॒स्स्वाहा॑ ।। या आख्या॑ता॒ यश्चाना॑ख्याता “ दे॑वसे॒ना॒ उप॑स्पृशत देवसेना- भ्य॒स्स्वाहा॑ ।। द्वरा॒पोप॑स्पृश द्वारा॒पाय॒ स्वाहा॑ ।। द्वराप्युप॑स्पृश द्वारा॒प्यै स्वाहा॑ । अ॒न्वासारिण उप॑स्पृशतान्वासा॒रिभ्य॒स्स्वाहा॑ । नि॒िषङ्गिन्नु॒प॑स्पृश निष॒ङ्गणे॒ स्वाहा॑ ॥ नमो॑ निष॒ङ्गिण॑ इषुध- मते॒ क्षेत्र॑स्य॒ पति॑ना व॒यमिति॒ द्वे ।। जय॒न्ताय॒ स्वाहा॑ विचि॒न्वद्भय॒स्स्वाहा॒ नव॑ च ।। १८ ।। इति द्वितीयप्रश्ने

अष्टादशः खण्डः ॥
८६

यन्मे॑ मा॒ता प्रल॑लोभ॑ च॒र॒त्यन॑नुव्रता । तन्मे॒ रेत॑ः पि॒ता
८७

वृ॑ङ्क्रामा॒भुरन्योऽव॑पद्यताम॒मुष्मै॒

स्वाहा॑ ॥ यास्तिष्ठ॑न्ति॒ या धाव॑न्ति॒ या आ॑ग्रा॒घ्नीः परि॑ त॒स्थुषः । अ॒द्भिर्विश्व॑स्य॑ भ॒त्राभि॑र॒ न्तर॒न्य॑ पि॒तुर्द॑धे॒ऽमुष्मै॒ स्वाहा॑ ।। यन्मे॑ पिताम॒ही प्रल॑लोभ च॑र॒त्यन॑नु॒व्रता । तन्मे॒ रेत॑ः पितामहो

83 इयमृक्(१६) पुटे द्रष्टव्या ।।
84 बडित्था पर्वतानां खिद्रं बिभषि पृथिवि । प्रया भूमि प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ।। (तै.सं.का.२ प्र.२ अनु.१२)

85
‘वाता॑जि॒रै॒राया॑हि॒ मम॑— इति केचित् ॥

86 ‘सम॑श्नन्त॒’ इति पाठभेदः ॥

87
‘देव॑सेना’ इति पाठभेदः ॥

88
‘देव॑सेना॒’ इति पाठभेदः ।।

89
निषेङ्गिनुप॑स्पृश’ इति पाठभेदः ||

90
क्षेत्र॑स्य॒ पति॑ना व॒य ँ हि॒तेने॑व जयामसि । गामश्वं॑ पोषयि॒त्वा स नो॑ मृडाती॒दृशैं । क्षेत्र॑स्य पते॒ मधु॑मन्तमूर्मं धे॒नुरि॑व॒
पयो॑ अ॒स्मासु॑ धु॒क्ष्व । म॒धुश्चुते॑ घृ॒तमि॑व॒ सु॒प॑त॒मृ॒तस्य॑ नः॒ पत॑यो मृडयन्तु ।। (तै.सं. का. १ प्र.१ अनु. १४)

91
‘वृङ्कां माभु’ इति केचित् ।।

92
‘प॑रत॒स्थुषः’ इति पाठभेदः ॥
19
९३.
एकाग्निकाण्डे

-
९६
वृ॑तमा॒भुरन्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा॑ ॥ अ॒न्तद॑धे॒ पर्व॑तैर॒न्तर्मह्य॑ पृथि॒व्या । आ॒भिर्दे॒ग्भिर॑न॒न्ता- भि॑र॒न्तर॒न्यं पि॑ताम॒हाद॑धेऽमुष्मै॒ स्वाहा॑ ॥ यन् प्रपितामही प्रल॑लोभ॒ चर॒त्यन॑नुव्रता । तन्मे॒ रेत॑ः प्रपिताम॒हो “वृ॑ङ्क्रामा॒भुरन्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा॑ ॥ अ॒न्तर्बंध " ऋ॒तुभि॑रहोरा॒त्रैश्च॑ स॒न्धिभि॑ः । अ॒र्द्धमा॒सैश्च॒ मायै॑श्चा॒न्तर॒न्य॑ प्र॑पिताम॒हाम॑ये॒ऽमुष्मै॒ स्वाहा॑ ।। ये चे॒ह पि॒तरो॒ येच॒ नेह॒ यश्च॑ वि॒द्म या उ॑ च॒ न प्र॑वि॒द्म । अग्ने॒ तान् वे॑त्य॒ यदि॒ ते जा॑तवेद॒स्तया॑ प्र॒त्त ं स्व॒धया॑ मदन्तु॒ स्वाहा॑ ॥ स्वाहा॑ पि॒त्रे पि॒त्रे स्वाहा॒ स्वाहा॑ पि॒त्रे पि॒त्रे स्वाहा॑ । स्व॒धा स्वाहा॒ऽग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑ ॥ ए॒ष ते॑ तत॒ मधु॑मा ँ ऊ॒र्मिस्सर॑स्वा॒न॒ यावा॑न॒ग्निश्च॑ पृथि॒वी च॒ ताव॑त्यस्य मा॒त्रा तांबे- तीन्त ए॒तां मात्रा॑ ददामि॒ यथा॒ऽग्निरक्षि॒तोऽनु॑पदस्त ए॒वं मह्यं पि॒त्रेऽक्षि॒तोऽनु॑पदस्तस्स्व॒धा भ॑व॒ तां त्व ँ स्व॒धां तैस्स॒होप॑जीव॒र्चस्ते॑ महिमैष ते॑ पितामह॒ मधु॑माँ ऊर्मस्सर॑स्वा॒न् यावा॑ वा॒यु॒श्चा॒- न्तरि॑क्षश्च॒ ताव॑त्यस्य मा॒त्रा ताव॑र्त्ती त ए॒तां मात्र ददामि॒ यथा॑ वा॒युरक्षि॒तोऽनु॑पदस्त ए॒वं मह्यं पिताम॒हायाक्षि॒तोऽनु॑पदस्तस्स्व॒धा भ॑व॒ तां त्व ँ स्व॒धां तैस्स॒होप॑जीव॒ सामा॑नि ते॑ महि॒मे॒षं ते॑ प्रप- तामह॒ मधु॑मा॑ क॒र्मस्सर॑स्वा॒न् यावा॑ना॒दि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीं त एतां मात्रा ददामि॒ यथा॑ऽऽदि॒त्योऽक्षि॒तोऽनु॑पदस्त ए॒वं मह्यं प्रपिताम॒हायाक्षि॒तोऽनु॑पदस्तस्स्व॒धा भ॑व॒ तां त्व ँ स्व॒धां तैस्स॒होप॑जीव॒ यजूंषि ते महिमा । अ॒मुष्मै॒ स्वाहा॑ स॒प्त च॑ ।। १९ ।। इति द्वितीय प्रश्ने एकोनविंशः

खण्डः ॥

९७
पृथि॒वी ते॒ पात्र॒ द्यौर॑पि॒धानं॒ ब्रह्म॑ण॒स्त्वा॒ मुखै जुहोमि ब्राह्मणानां त्वा प्राणापा॒नयो॑र्जुहो॒हो॒म्य- क्षि॑त॒मसि॒ मैष क्षेष्ठा अ॒मुत्रामुमि॑लो॒के ॥ मा॒र्जय॑न्ता॒ मम॑ पि॒तरो॑ मर्जय॑न्ता॒ मम॑ पि॒तम॒हा मा॒र्जग॑न्ता॒ मम॑ प्रपिताम॒हाः ॥ मा॒र्जय॑न्ता॒ मम॑ मा॒तरो॑ मा॒र्जय॑न्ता॒ मम॑ पिताम॒ह्य॑ मा॒र्जय॑न्ता॒ मम॑ प्रपितामह्यंः ॥ ए॒तत्ते॑ ततासौ ये च त्वामन्वेतत्ते॑ पितामहासौ ये च त्वामन्वेतत् प्रपितामहासौ ये च॒ त्वामनु॑ ॥ ए॒तत्ते॑ मातरसौ याश्च त्वामन्वेतत्ते॑ पितामह्यसौ याश्च त्वामन्वेतत् प्रपितामह्यसौ याश्च॒ त्वामनु॑ ॥ “मा॒र्जय॑न्ता॒ मम॑ पि॒तर॒ इत्येते ॥ ये च वोऽत्र ये चास्मास्वाशसन्ते॒ यश्च॒ वोऽत्र याश्चा॒स्मास्वाश सन्ते॒ ते च॑ वहन्ता॒ ताश्च॑ ब॒ह॒न्ता॒ तृप्य॑न्तु॒ भवन्त॒स्तृप्य॑न्तु भवत्य॒ - “स्तृप्य॑त॒ तृप्य॑त॒ तृ॒ष्य॑त ।। पु॒त्रान्पौत्रा॑न॒भि त॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः । स्व॒धः॑ पि॒तृभ्यो॑ अ॒मृत॑

93
‘वृङ्कां माभु’ इति केचित् ॥

94

95

96

97
‘वृङ्कां माभु’ इति केचित् ॥

‘ऋ॒तुभि॑रहोरा॒त्रैस्स॑स॒न्धिभि॑ः’ इति केचित् ।।

‘मदन्ति॒ स्वाहा॑’ इति केचित् ॥

‘मा॒र्जय॑न्ता॑ पि॒तरो॑’ इति षट्सु मन्त्रेष्वपि ‘मम’ इति पदं केषुचन कोशेषु न दृश्यते ।। .
* अत्रापि पूर्ववत् पाठभेदः ।।

66
99
‘स्तृप्य॑त तृप्यत॒ तृप्य॑त’ इति पाठभेदः ।।

20 द्वितीयः प्रश्नः

१००.

१०१.

१०३
दुहा॑ना॒ आपो॑ दे॒वीर॒भयाभि॑स्तर्पयन्तु ॥ तृ॒ष्य॑त॒ तृप्य॑त॒ तृप्य॑त । प्रा॒णे निवि॑ष्टा॒ऽमृतं॒ जुहोमि॒ि `ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ॥ याञ्जनः॑ प्रति॒नन्द॑न्ति॒ रात्रं धे॒नुमि॑वाय॒तीम् । सं॒वस॒रस्य॒ या पत्नी सा नो॑ अस्तु सुमङ्गुली स्वाहा॑ । वह॑ व॒षां जा॑तवेदः पि॒तृभ्यो॒ " " यत्रै॒नान् वे॑त्य॒ निहि॑तान्परा॒के । मेद॑स॒ः कूल्या॒ उप॒ तान्क्ष॑रन्तु १०२ स॒त्या ए॑षामा॒शिष॑स्सन्तु॒ कामै॒स्स्वाहा॑ ॥ १.” याञ्जनः प्रति- नन्दन्तीत्ये॒षा ॥ १०४ इयमेव सा या प्र॑थ॒मा व्यौच्छ॒दिति॑ ति॒स्रः ।। ए॒काष्टकां प॑श्यत॒ दोह॑माना॒मन॑ मा॒र॒सव॑द्धृतव॑थ्स्व॒धाव॑त् । तद्ब्रा॑ह्म॒णैर॑ति॒पू॒तम॑न॒न्तम॑त्र॒य्यम॒मुष्मि॑लो॒के स्फीति॑ गच्छतु मे पितृ- भ्य॒स्स्वाहा॑ ।। औलूखला ग्रावा॑णो॒ घोष॑मक्रत ह॒विः कृ॒ण्वन्त॑ः परिवथ्स॒रीण॑म् । ए॒काष्टके, सुप्रजा वी॒रव॑न्तो व॒य ँ स्या॑म॒ पत॑यो रयीणाम् ।। एकाष्टका तप॑सा॒ तप्य॑माना संबथ्स॒रस्य॒ पत्नी॑ दुदुहे प्रना । तं दोह॒मुप॑जीवाथ पि॒तर॑स्स॒हस्र॑धार॒म॒मुष्मि॑लो॒ स्वाहा॑ ॥ तृप्य॑त परिवथ्स॒रीण॒ त्रीणि॑ ॥ २० ॥ इति द्वितीयप्रश्ने विंशः खण्डः ।।
4

उ॒क्थ्य॑श्चास्यतिरा॒त्रश्च॑ साय॒स्क्रीश्छन्द॑सा स॒ह । अ॒पू॒प॒घृ॒ताहु॑ते॒ नम॑स्ते अस्तु मासपप्पले स्वाहा॑ । भूः पृ॑थि॒व्य॑ग्नन॒र्चामुं मयि॒ कामं नियु॑नज्मि॒ स्वाहा॑ ।। भुवो॑ वा॒यु॒ना॒ऽन्तरि॑क्षेण॒ साम्रऽमुं मसि॒ काम॒न्नियु॑नज्मि॒ स्वाहा॑ । स्व॑दि॑वा॑ऽऽदि॒त्येन॒ यजु॑षा॒ऽमु॑ महि॒ कामं नियु॑नज्मि॒ स्वाहा॑ ॥ ज॒नद॒द्भिरथ॑र्वाणि॒रोभि॑र॒मु॑ महि॒ काम॒न्नियु॑नज्मि॒ स्वाहा॑ ।। रोच॒नाया॑जि॒राया॒ग्नये॑ दे॒वजा॑त॒वे॒ स्वाहा॑ ।। के॒तवे॒ मन॑वे॒ ब्रह्म॑णे दे॒वजा॑तवे॒ स्वाहा॑ ॥ स्व॒धा स्वाहा॒ ऽग्नये॑ क॒व्य॒वाह॑नाय॒ स्व॒धाः स्वाहा॑ ॥ अन॑मिव ते दृशे भू॑यासं॒ वस्त्र॑मिव ते ह॒शे भ॑यासं॒ वित्त॑मिव ते ह॒शे भू॑यासमा॒शेव॑ ते ह॒शे भ॑यास ँ अ॒द्धेव॑ ते ह॒शे भ॑यासम् ॥ स ँस्र॑वन्तु॒ दिशो॑ म॒हीस्समाधा॑वन्तु॑ सू॒नृता॑ः । सर्वे कामा॑ अ॒भय॑न्तु॒ मा प्रि॒या अ॒भर॑क्षन्तु मा प्रि॒याः । यशॊऽसि॒ यश॑ऽहं त्वयि॑ भूयासमसौ ॥ ““अङ्कौ न्य॒ङ्कावभित इत्ये॒षा ।। अद्ध्व॑नामद्ध्वपते स्व॒स्ति मा॒ सं पा॑रय ॥ अ॒यं वा॑म॒श्विनो॒ रथो॒ मा दुःखे मा सु॒खे रि॑षत् । अरि॑ष्ट- स्स्व॒स्ति ग॑च्छतु विवि॒घ्नन्पृत॑नाय॒तः ॥ अश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ नरोऽस्यर्वा॑ऽसि॒ सप्ति॑र॒स वा॒ज्य॑सि॒ वृषा॑ऽसि नृ॒मणा॑ असि॒ ययुर्नामा॑स्यादि॒त्याना॑ पत्वाऽन्वि॑िहि ।। ह॒स्ति॒र्य॑श॒सम॑सि हस्तिय-

100

101
‘तृप्य॑त तृप्यत॒ तृप्य॑त’ इति पाठभेदः ।।

‘यत्रैना॒न् वेत्थ॒’ इति पाठभेदः ।।

102 ‘स॒त्या ए॒ता आ॒शिष॑स्सन्तु॒’ इति केचित् ।।
103 इ॒यमृक् अस्मिन् पुटे(३) पङ्कौ द्रष्टव्या ।।

104
१०५.

इ॒यमे॒व सा या प्र॑थ॒मा व्यच्छ॑द॒न्तर॒स्यां॑ च॑रति॒ प्रवि॑ष्टा । व॒धूर्जजान नव॒गज्जनि॑त्र॒ त्रय॑ ए॒नां महि॒मान॑स्सचन्ते ।। छन्द॑स्वती उ॒षसा॒ पेपि॑शाने समा॒न॒य्योनि॒मनु॑ स॒ञ्चर॑न्ती । सूर्य॑पत्नी॑ विच॑रतः प्र॒जान॒ती के॒तुं कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा ।। ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आग॒नयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षाऽऽनु॑ः । प्र॒जामेका॒ रक्ष॒त्यूर्ज॒मेका॑ व्र॒तमेका॑ र॒क्षति देवयूनाम् ।। (तै.सं. कां.४ प्र.३ अनु. ११)
103 अङ्कौ न्य॒ङ्काव॒भितो॒ रथं यौ ध्वा॒न्तं वा॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ दू॒रेर्हेतिरिन्द्रि॒यावा॑न् पत॒त्री तेना॒ऽग्नय॒ः पप्र॑यः पारयन्तु ।। (तै.सं. का. १ प्र. ७ अनु. ७)
21

1
एकाग्निकाण्डे

श॒सी भ॑यासं॒ वह॑ कालवह॒ श्रियं॑ मा॒ऽभिव॑ह । इन्द्र॑स्य॒ त्वा॒ वज्रेणाभिनिर्दधाम्यसौ ॥ अवजिह्वक निजह॒काव॑ त्वा ह॒विषा॑ य॒जे । तथ्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒ मद॒सौ व॑दा॒थ्स्वाहा॑ ।। आ ते॒ वाच॑मा॒स्यां॑ द॒ आम॑न॒स्या ँ हृद॑या॒दधि॑ । यत्र॑य॒त्र ते॒ वाङ्नहि॑ता॒ त त आद॑दे । तथ्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒ मत्पृ॑द्यस्वासौ ।। भूया॒स॒म॒सा॒ पञ्च॑ च ॥ २१ ॥ इति द्वितीयप्रश्ने एकविंशः खण्डः ।।

१०७

१०९
या त॑ ए॒षा र॑रा॒व्या॑ त॒नूर्मन्योर्मृद्धस्य॒ नाश॑नी । तां दे॒वा ब्र॑ह्मचा॒रिणो॒ वन॑यन्तु॒ सु॒मे॒धस॑ः ॥ यत्त॑ ए॒तन्मुखॆऽम॒तं र॒राटमुदि॑व॒ विद्धय॑ति । वि ते क्रोध॑न्न॒याम॑सि॒ गर्भ॑म॒श्वत॒र्या॑ इव ॥ अब- ज्यामिव॒ धन्व॑नो हृ॒दो म॒न्युं त॑नोमि ते । इन्द्रापा॑स्य फल॒गम॒न्येभ्यः॒ पुरु॑षेभ्यो॒ऽन्यत्र मत् । ..” यद॒हं धने॑न॒ प्रप॒णश्च॑रामि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः । तस्मि॒न्थ्सोमो॑ रुच॒माद॑धात्व॒ग्नि- रिन्द्रो॒ बृह॒स्पति॑श्च॒ स्वाहा॑ ।। परि॑ त्वा॒ गिरे॑रमि॒हं परि॒ भ्रातुः परि ष्वसुः । “परि॒ सर्वे॑भ्यो ज्ञातिभ्यः परि॑षीत॒ः वे॑ष्यसि॑ ।। शश्व॒त्परि॑कुपितेन॒ संक्रमेणावि॒च्छदा॑ । उ॒लेन॒ परि॑षीतोऽसि॒ परि॑षीतोऽस्यु- लेन॑ ।। ?? आव॑र्तन वर्तयेत्ये॒षा । आ॒व॑र्तने नि॒वर्तन आ॒वर्तन निवर्त॒नाय॒ स्वाहा॑ ॥ अनु॑पोऽहृद- नु॑ह्वयो॒ नव॑तो॑वो॒ न्यवी॑वृ॒तत् । ऐन्द्रः परि॑क्रोशोः वः परि॑क्रोशतु स॒र्वत॑ः ॥ यद॒माम॑ति॒मन्या॑द्ध्वा॒ अदे॒वा दे॒वव॑त्त॒रम् । इन्द्र॒ पार्शेन १११ सत्त्वा वो मह्य॒मिद्वश॒मान॑या॒थ्स्वाहा॑ ॥ यदि॑ वृक्षाय- द्य॒न्तरि॑क्ष॒त्फल॑म॒भ्यप॑त॒त्तदु॑ वा॒युरेव । यत्रास्पृ॑क्षत्त॒नुवं॒ यत्र॒ वास आपो॑ बाधन्तो॒ निर्ऋति॑ परा॒चैः । ये प॒क्षिण॑ प॒तय॑न्ति॒ विभ्य॑तो॒ निर्ऋतैस्स॒ह । ते मा॑ शि॒वेन॑ श॒ग्मेन॒ तेज॑सोन्दन्तु वर्चसा ॥ दि॒वो नु मा॑ बृह॒तो अ॒न्तरि॑क्षाद॒पा ँ स्तोमो॑ अ॒भ्यप॑तच्छि॑वेन॑ । सम॒हमि॑न्द्रि॒येण॒ मन॑सा॒ समानां॒ ब्रह्म॑णा संपृञ्चा॒नस्सु॒कृता॑ कृ॒तेन॑ ॥ इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने॒
१११.

-११३

११६.
११४.
+

११५.

106 ‘र॒राद॑मुदिव’ इति पाठभेदः ।।

107
‘यद॒हं धने॑न॒ प्रव॒ण” इति पाठभेदः ।।

108 ‘धने॑न दे॒वा’ इति पाठभेदः ॥

109
‘परि॒ सर्वे॑भ्यो॒ ज्ञाति॑भ्यः॒ः’ इति पाठभेदः ।।

1. आव॑र्तन वर्तय॒ निनि॑वर्तन वर्त॒येन्द्र॑ नर्दबुद । भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभि॒राव॑र्तया॒ पुन॑ः ॥ (तै.सं. का. ३. प्र. ३

अनु. १०)

‘दे॑व॒वत्त॑रम्’ इति पाठभेदः ।।
111

112
‘स॒त्त्वापो॒’ इति पाठभेदः ।।

113
‘त्फल॑म॒भ्यप॑त॒त्तदु॑ वा॒युरेव’ इति पाठभेदः ॥

114
‘अ॒भ्यप॑प्तच्छि॒वेन॑’ इति पाठभेदः ।।

115
‘मन॑सा॒ऽहमाग’ इति पाठभेदः ॥

116 ‘इमंम इत्यादयः पञ्चमन्त्राः (२) पुटे दर्शिताः ।।

22
द्वितीयः प्रश्नः

११७
११८.
त्वम॑ग्ने अ॒यासि॒ प्रजा॑पते ।। " स॒म्राज॑श्च॒ व्याह॑ती॒र्वहू॑ताः । इ॒मं जी॒वेभ्यः॑ परि॒धि॑ द॑धामि॒ मैषां नु॑ गा॒दप॑रो॒ अर्द्धमे॒तम् । श॒तं जी॑वन्तु श॒रद॑ पु॒रू॒चीस्ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥ दे॑ष्यसि॑ परा॒चैर॒ष्टौ च॑ ।। २२ ।। इति द्वितीयप्रश्ने द्वाविंशः खण्डः ।।

उ॒ष्णेन॒ पञ्च॑दशायु॒र्दा द्वाविशतिराग॒न्त्रा द्वाद॑श॒ योगॆयोगे॒ चतु॑र्दश सु॒श्रव॑स्स॒श्रव॑स॒न्नव॒ परि॒ त्वैक॑विश- तिरि॒म ँ स्तोम॑मायु॒ष्य॑मेका॒न्नविशति॒रेका॒न्नविशति॒र्म॑यि॒ षोड॑श त्र॒य्यै वि॒द्यायै॑ धा॒ता द॑दातु॒ नस्स॒प्तद॑शसप्तदश दि॒वस्परीति॑ विश॒तिर्मा ते॑ कु॒मा॒र॒न्त्रयो॑विशतिर्नक्तञ्चरिण॒ः पञ्च॑दश॒ यद्भूमेरेका॒न्नत्रि॒शत् कु॑र्कुरोऽष्टाविशति॒रिन्द्र॑ जहि॒ द्वाविशतिः परमे॒ष्ठयसि॑ पु॒र॒मामेका॒न्नत्रशद्यन्मे॑ मा॒ता स॒प्तद॑श पृथि॒वी ते॒ त्रयो॑विशतिरु॒क्थ्य॑श्च॒ पञ्च॑विश- ति॒र्या॑ त॑ ए॒षाऽष्टाविशति॒र्द्वाविशतिः ।। २२ ।। उ॒ष्णेन॑ धा॒तोक्थ्य॑श्च॒ द्वाविशतिः ।। २२ ।। उ॒ष्णेन॑ दधतां॒ पर्वतेन ॥

॥ हरिः ओ(३)म्॥

॥ एकाग्निकाण्डे द्वितीयः प्रश्नस्समाप्तः ॥

॥ एकाग्निकाण्डश्च समाप्तः ॥

117
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते॒ जुहु॒मस्तन्नो॑ अस्तु व॒य ँ स्या॑म॒ पत॑यो रयी॒णाम्। (तै.सं.का.१ प्र. ८ अनु. १४)

118 अयं मन्त्रः (१३) पुटे द्रष्टव्यः ॥
23