१ प्र॒सु॒ग्मन्ता॑ धि॒यसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भिषु॒प्रसी॑दत । अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति । अ॒नृ॒क्ष॒रा ऋ॒जव॑स्सन्तु॒ पन्था॒ येभि॒स्सखा॑यो॒ यन्ति॑ नो वरे॒यम् । सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यँ सु॒यम॑मस्तु देवाः । अभ्रा॑तृघ्नीं॒ वरु॒णाप॑तिघ्नीं बृहस्पते । इन्द्रापु॑त्रघ्नीं ल॒क्ष्म्यं॑ ताम॒स्यै स॑वितस्सुव । अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒तिभ्य॑स्सु॒मना॑स्सु॒वर्चाः॑ । जी॒व॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे । इ॒दम॒हं या त्वयि॑ पति॒घ्न्य॑ल॒क्ष्मिस्तां निर्दि॑शामि । जी॒वाँरु॑दन्ति॒ विम॑यन्ते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ । वा॒मं पि॒तृभ्यो॒ य इ॒दँ स॑मेरि॒ रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ । व्यु॑क्षत्क्रू॒रमुद॑च॒न्त्वाप॒ आऽस्यै ब्रा॑ह्म॒णास्स्नप॑नँ हरन्तु । अवी॑रघ्नी॒रुद॑च॒न्त्वापः॑ । अ॒र्य॒म्णो अ॒ग्निं परि॑ यन्तु क्षि॒प्रं प्रती॑क्षन्ताँ॒ श्वश्र्वो॑ दे॒वरा॑श्च । खेऽनसः॒ खे रथः॒ खे युग॑स्य शचीपते । अ॒पा॒लामि॑न्द्र॒ त्रिः पू॒र्त्व्य॑कर॒त्सूर्य॑वर्चसम् । शं ते॒ हिर॑ण्यँ॒शमु॑ स॒न्त्वापः॒ शं ते॑ मे॒धी भ॑वतु॒ शं यु॒गस्य॒ तृद्म॑ । शं त॒ आपः॑ श॒तप॑वित्रा भव॒न्त्वथा॒ पत्या॑ त॒न्वँ॑ सँ सृ॑जस्व ॥ ०। ०। १। १॥ दी॒धि॒यु॒र्नरो॒ऽष्टौ च॑ ॥ १॥

२ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒काः प्रच॑क्रमुर् हि॒त्वाऽव॒द्यमापः॑ । श॒तं प॒वित्रा॒ वित॑ता॒ ह्या॑सु॒ ताभि॑ष्ट्वा दे॒वः स॑वि॒ता पु॑नातु । हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्व॒ग्निः । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आपः॒ शँ स्यो॒ना भ॑वन्तु । यासाँ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आपः॒ शँ स्यो॒ना भ॑वन्तु । यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा निवि॑ष्टाः । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आपः॒ शँ स्यो॒ना भ॑वन्तु । शि॒वेन॑ त्वा॒ चक्षु॑षा पश्यन्त्वापः शि॒वया॑ त॒न्वोप॑स्पृशन्तु॒ त्वचं॑ ते । घृ॒त॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्तास्त॒ आपः॒ शँ स्यो॒ना भ॑वन्तु । परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ । वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः । आ॒शासा॒नेत्ये॒षा । पू॒षा त्वे॒तो न॑यतु॒ हस्त॒गृह्या॒श्विनौ॑ त्वा॒ प्रव॑हताँ॒ रथे॑न । गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथाऽसो॑ व॒शिनी॒ त्वं वि॒दथ॒माव॑दासि ॥ ०। ०। १। २॥ भ॒व॒न्तु॒ पञ्च॑ च ॥ २॥

३ सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः । तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः । सोमो॑ऽददद्गन्ध॒र्वाय॑ गन्ध॒र्वोऽद॑दद॒ग्नये॑ । र॒यिं च॑ पु॒त्राग्श्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् । गृ॒भ्णामि॑ ते सुप्रजा॒स्त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथाऽसः॑ । भगो॑ अर्य॒मा स॑वि॒ता पुर॑न्धि॒र्मह्यं॑ त्वाऽदु॒र्गार्ह॑पत्याय दे॒वाः । ते ह॒ पूर्वे॒ जना॑सो॒ यत्र॑ पूर्व॒वहो॑ हि॒ताः । मू॒र्ध॒न्वान्, यत्र॑ सौभ्र॒वः पूर्वो॑ दे॒वेभ्य॒ आत॑पत् । सर॑स्वति॒ प्रेदम॑व॒ सुभ॑गे॒ वाजि॑नीवति । तां त्वा॒ विश्व॑स्य भू॒तस्य॑ प्र॒गाया॑मस्यग्र॒तः । य एति॑ प्र॒दिशः॒ सर्वा॒ दिशोऽनु॒ पव॑मानः । हिर॑ण्यहस्त ऐर॒म्मस्स त्वा॒ मन्म॑नसं कृणोतु । एक॑मि॒षे विष्णु॒स्त्वाऽन्वे॑तु॒ द्वे ऊ॒र्जे त्रीणि॑ व्र॒ताय॑ च॒त्वारि॒ मायो॑भवाय॒ पञ्च॑ प॒शुभ्य॒ष्षडृ॒तुभ्य॑स्स॒प्त स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु । सखा॑ स॒प्तप॑दा भव॒ सखा॑यौ स॒प्तप॑दा बभूव स॒ख्यं ते॑ गमेयँ स॒ख्यात्ते॒ मा यो॑षँ स॒ख्यान्मे॒ मा यो॑ष्ठाः॒ सम॑याव॒ संक॑ल्पावहै॒ संप्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ । इष॒मूर्ज॑म॒भि सं॒वसा॑नौ॒ सं नौ॒ मनाँ॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् । सा त्वम॒स्यमू॒हम॑मू॒हम॑स्मि॒ सा त्वं द्यौर॒हं पृ॑थि॒वी त्वँ रेतो॒ऽहँ रे॑तो॒भृत्त्वं मनो॒ऽहम॑स्मि॒ वाक्त्वँ सामा॒हम॒स्म्यृ॑क्त्वँ॒ सा मामनु॑व्रता भव पुँ॒से पु॒त्राय॒ वेत्त॑वै श्रि॒यै पु॒त्राय॒ वेत्त॑व॒ एहि॑ सूनृते ॥ ०। ०। १। ३॥ अ॒ग्र॒तष्षट्च॑ ॥ ३॥

४ सोमा॑य जनि॒विदे॒ स्वाहा॑ गन्ध॒र्वाय॑ जनि॒विदे॒ स्वाहा॒ऽग्नये॑ जनि॒विदे॒ स्वाहा॑ । क॒न्य॒ला पि॒तृभ्यो॑ य॒ती प॑तिलो॒कमव॑ दी॒क्षाम॑दास्थ॒ स्वाहा॑ । प्रेतो मु॒ञ्चाति॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करत् । यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगाऽस॑ति । इ॒मां त्वमि॑न्द्र मीढ्वः सपु॒त्राँ सु॒भगां॑ कृणु । दशा॑स्यां पु॒त्रानाधे॑हि॒ पति॑मेकाद॒शं कृ॑धि । अ॒ग्निरै॑तु प्रथ॒मो दे॒वता॑नाँ॒ सो॑ऽस्यै प्र॒जां मु॑ञ्चतु मृत्युपा॒शात् । तद॒यँ राजा॒ वरु॒णोऽनु॑मन्यतां॒ यथे॒यँ स्त्री पौत्र॑म॒घं न रोदा॑त् । इ॒माम॒ग्निस्त्रा॑यतां॒ गार्ह॑पत्यः प्र॒जाम॑स्यै नयतु दी॒र्घमायुः॑ । अशू॑न्योपस्था॒ जीव॑तामस्तु मा॒ता पौत्र॑मान॒न्दम॒भि प्रबु॑ध्यतामि॒यम् । मा ते॑ गृ॒हे नि॒शि घोष॒ उत्था॑द॒न्यत्र॒ त्वद्रु॑द॒त्यः॑ संवि॑शन्तु । मा त्वं वि॑के॒श्युर॒ आवधि॑ष्ठा जी॒वप॑त्नी पतिलो॒के विरा॑ज॒ पश्य॑न्ती प्र॒जाँ सु॑मन॒स्यमा॑नाम् । द्यौस्ते॑ पृ॒ष्ठँ र॑क्षतु वा॒युरू॒रू अ॒श्विनौ॑ च॒ स्तनं॒ धय॑न्तँ सवि॒ताऽभि र॑क्षतु । आवास॑सः परि॒धाना॒द्बृह॒स्पति॒र्विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु प॒श्चात् । अ॒प्र॒ज॒स्तां पौ॑त्रमृ॒त्युं पा॒प्मान॑मु॒त वा॒ऽघम् । शी॒र्ष्णः स्रज॑मिवो॒न्मुच्य॑ द्वि॒षद्भ्यः॒ प्रति॑ मुञ्चामि॒ पाश॑म् । इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽस्य॒या सन्मन॑सा हि॒तः । अ॒या सन् ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जम् ॥ ०। ०। १। ४॥

इ॒यम॒ष्टौ च॑ ॥ ४॥

५ आ ति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्वँ स्थि॒रा भ॑व । अ॒भि ति॑ष्ठ पृतन्य॒तः सह॑स्व पृतनाय॒तः । इ॒यं ना॒र्युप॑ ब्रूते॒ कुल्पा॑न्यावपन्ति॒का । दी॒र्घा॒युर॑स्तु मे॒ पति॒र्जीवा॑तु श॒रदः॑ श॒तम् । तुभ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह । पुनः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह । पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा । दी॒र्घा॒युर॑स्या॒ यः पति॒स्स ए॑तु श॒रदः॑ श॒तम् । विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव । अति॑गाहेमहि॒ द्विषः॑ । आ ति॑ष्ठे॒ममश्मा॑नम् । अ॒र्य॒मणं॒ नु दे॒वं क॒न्या॑ अ॒ग्निम॑यक्षत । स इ॒मां दे॒वो अ॑ध्व॒रः प्रेतो मु॒ञ्चाति॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करत् । तुभ्य॒मग्रे॒ पर्य॑वह॒न्पुनः॒ पत्नी॑म॒ग्निर॑दा॒द्विश्वा॑ उ॒त त्वया॑ व॒य मा ति॑ष्ठे॒ममश्मा॑नम् । त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्व॒धाव॒त्स्व॑र्यं बि॒भर्षि॑ । अ॒ञ्जन्ति॑ वृ॒क्षँ सुधि॑तं॒ न गोभि॒र्यद्दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ । तुभ्य॒मग्रे॒ पर्य॑वह॒न्पुनः॒ पत्नी॑म॒ग्निर॑दा॒द्विश्वा॑ उ॒त त्वया॑ व॒यम् । प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाऽब॑ध्नात्सवि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं ते॑ स॒ह पत्या॑ करोमि । इ॒मं विष्या॑मि॒ वरु॑णस्य॒ पाशं॒ यमब॑ध्नीत सवि॒ता सु॒शेवः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ कृणोमि । अ॒याश्चा॒ग्नेऽस्य॑नभिश॒स्तीश्च॑ स॒त्यमि॑त्त्वम॒या अ॑सि । अय॑सा॒ मन॑सा धृ॒तोऽयसा॑ ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जम् ॥ ०। ०। १। ५॥ द्विषः॑ सु॒शेव॒स्त्रीणि॑ च ॥ ५॥

६ स॒त्येनोत्त॑भिता॒ भूमि॒स्सूर्ये॒णोत्त॑भिता॒ द्यौः । ऋ॒तेना॑दि॒त्यास्तिष्ठ॑न्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः । यु॒ञ्जन्ति॑ ब्र॒ध्नं योगे॑योगे । सु॒किँ॒शु॒कँ श॑ल्म॒लिं वि॒श्वरू॑पँ॒ हिर॑ण्यवर्णँ सु॒वृतँ॑ सुच॒क्रम् । आरो॑ह वध्व॒मृत॑स्य लो॒कँ स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व । उदु॑त्त॒रमा॒रोह॑न्ती व्य॒स्यन्ती॑ पृतन्य॒तः । मू॒र्धानं॒ पत्यु॒रारो॑ह प्र॒जया॑ च वि॒राड्भ॑व । सं॒राज्ञी॒ श्वशु॑रे भव सं॒राज्ञी॑ श्वश्रु॒वां भ॑व । नना॑न्दरि सं॒राज्ञी॑ भव सं॒राज्ञी॒ अधि॑ दे॒वृषु॑ । स्नु॒षाणाँ॒ श्वशु॑राणां प्र॒जाया॑श्च॒ धन॑स्य च । पती॑नां च देवॄ॒णां च॑ सजा॒तानां॑ वि॒राड्भ॑व । नी॒ल॒लो॒हि॒ते भ॑वतः कृ॒त्या स॒क्तिर्व्य॑ज्यते । एध॑न्तेऽस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते । ये व॒ध्वश्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जनाँ॒ अनु॑ । पुन॒स्तान्, य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः । मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दम्प॑ती । सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑द्रा॒न्त्वरा॑तयः । सु॒गं पन्था॑न॒मारु॑क्ष॒मरि॑ष्टँ स्वस्ति॒वाह॑नम् । यस्मि॑न्वी॒रो न रिष्य॑त्य॒न्येषां॑ वि॒न्दते॒ वसु॑ ॥ ०। ०। १। ६॥ धन॑स्य च॒ नव॑ च ॥ ६॥

७ ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आध॒त्तँ र॒यिं द॒शवी॑रं वच॒स्यवे॑ । कृ॒तं ती॒र्थँ सु॑प्रपा॒णँ शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिँ ह॑तम् । अ॒यं नो॑ म॒ह्याः पा॒रँ स्व॒स्ति ने॑ष॒द्वन॒स्पतिः॑ । सीरा॑ नस्सु॒तरा॑ भव दीर्घायु॒त्वाय॒ वर्च॑से । अ॒स्य॒ पा॒रे नि॑रृ॒तस्य॑ जी॒वा ज्योति॑रशीमहि । म॒ह्या इ॑न्द्रस्स्व॒स्तये॑ । यदृ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒र्तृभ्य॑ आ॒तृदः॑ । सन्धा॑ता स॒न्धिं म॒घवा॑ पुरो॒वसु॒र्निष्क॑र्ता॒ विहृ॑तं॒ पुनः॑ । इडा॑मग्न इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑ । ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षु वृ॒क्षेषु॑ वानस्प॒त्येष्वास॑ते । शि॒वास्ते अ॒स्यै व॒ध्वै॑ भवन्तु॒ मा हिँ॑सिषुर्वह॒तुमू॒ह्यमा॑नाम् । या ओष॑धयो॒ या न॒द्यो॑ यानि॒ धन्वा॑नि॒ ये वना॑ । ते त्वा॑ वधु प्र॒जाव॑तीं॒ प्र त्वे मु॑ञ्च॒न्त्वँह॑सः । संका॑शयामि वह॒तुं ब्रह्म॑णा गृ॒हैरघो॑रेण॒ चक्षु॑षा॒ मैत्रे॑ण । प॒र्याण॑द्धं वि॒श्वरू॑पं॒ यद॒स्याग् स्यो॒नं पति॑भ्यस्सवि॒ता कृ॑णोतु॒ तत् । आ वा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामाँ॑ अयँसत । अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्याँ॑ अशीमहि । अ॒यं नो॑ दे॒वस्स॑वि॒ता बृह॒स्पति॑रिन्द्रा॒ग्नी मि॒त्रावरु॑णा स्व॒स्तये॑ । त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सँररा॒णः काम॒ आया॑तं॒ कामा॑य त्वा॒ विमु॑ञ्चतु ॥ ०। ०। १। ७॥ आस॑ते॒ नव॑ च ॥ ७॥

८ शर्म॒ वर्मे॒दमाह॑रा॒स्यै नार्या॑ उप॒स्तिरे॑ । सिनी॑वालि॒ प्रजा॑यतामि॒यं भग॑स्य सुम॒ता अ॑सत् । गृ॒हान्भ॒द्रान्त्सु॒मन॑सः॒ प्रप॒द्येऽवी॑रघ्नी वी॒रव॑तस्सु॒वीरा॑न् । इरां॒ वह॑तो घृ॒तमु॒क्षमा॑णा॒स्तेष्व॒हँ सु॒मना॒स्सं वि॑शामि । आग॑न्गो॒ष्ठं महि॑षी॒ गोभि॒रश्वै॒रायु॑ष्मत्पत्नी प्र॒जया॑ स्व॒र्वित् । ब॒ह्वीं प्र॒जां ज॒नय॑न्ती सुरत्ने॒मम॒ग्निँ श॒तहि॑मास्सपर्यात् । अ॒यम॒ग्निर्गृ॒हप॑तिः सुसँ॒सत्पु॑ष्टि॒वर्ध॑नः । यथा॒ भग॑स्या॒भ्यां दद॑द्र॒यिं पुष्टि॒मथो॑ प्र॒जाम् । प्र॒जाया॑ आभ्यां प्रजापत॒ इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् । यथैन॑यो॒र्न प्र॑मी॒याता॑ उ॒भयो॒र्जीव॑तोः प्र॒जाः । तेन॑ भू॒तेन॑ ह॒विषा॒ऽयमाप्या॑यतां॒ पुनः॑ । जा॒यां याम॑स्मा॒ आवा॑क्षु॒स्ताँ रसे॑ना॒भिव॑र्धताम् । अ॒भिव॑र्धतां॒ पय॑सा॒ऽभि रा॒ष्ट्रेण॑ वर्धताम् । र॒य्या स॒हस्र॑पोषसे॒मौ स्ता॒मन॑पेक्षितौ । इ॒हैव स्तं॒ मा वियो॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् । म॒ह्या इ॑न्द्रस्स्व॒स्तये॑ । ध्रु॒वैधि पो॑ष्या॒ मयि॒ मह्यं॑ त्वाऽदा॒द्बृह॒स्पतिः॑ । मया॒ पत्या॑ प्र॒जाव॑ती॒ सं जी॑व श॒रदः॑ श॒तम् । त्वष्टा॑ जा॒याम॑जनय॒त्त्वष्टा॑ऽस्यै॒ त्वां पति॑म् । त्वष्टा॑ स॒हस्र॒मायुँ॑षि दी॒र्घमायुः॑ कृणोतु वाम् । इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑ ॥ ०। ०। १। ८॥

जीव॑तोः प्र॒जा वा॒मेकं॑ च ॥ ८॥

९ इ॒ह गावः॒ प्रजा॑यध्वमि॒हाश्वा॑ इ॒ह पूरु॑षाः । इ॒हो स॒हस्र॑दक्षिणो रा॒यस्पोषो॒ निषी॑दतु । सोमे॑नादि॒त्या ब॒लिन॒स्सोमे॑न पृथि॒वी दृ॒ढा । अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आधि॑तः । प्रस्वस्स्थः॒ प्रेयं प्र॒जया॒ भुव॑ने शोचेष्ट । इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन् गृ॒हे गार्ह॑पत्याय जागृहि । ए॒ना पत्या॑ त॒न्वँ॑ सँ सृ॑ज॒स्वाथा॒ जीव्री॑ वि॒दथ॒माव॑दासि । सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒माँ स॑मेत॒ पश्य॑त । सौभा॑ग्यम॒स्यै द॒त्वायाथास्तं॒ विपरे॑तन । ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वम॑सि ध्रु॒वत॑स्स्थि॒तम् । त्वं नक्ष॑त्राणां मे॒थ्यसि॒ स मा॑ पाहि पृतन्य॒तः । स॒प्त॒ ऋ॒षयः॑ प्रथ॒मां कृत्ति॑कानामरुन्ध॒तीं यद्ध्रु॒वताँ॒ ह नि॒न्युः । षट्कृत्ति॑का मुख्ययो॒गं वह॑न्ती॒यम॒स्माक॑मेधत्वष्ट॒मी । सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । सनिं॑ मे॒धाम॑यासिषम् । उद्दी॑प्यस्व जातवेदोऽप॒घ्नन्निरृ॑तिं॒ मम॑ । प॒शूग्श्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश । मानो॑ हिँसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् । अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑ पातय ॥ ०। ०। १। ९॥ ध्रु॒वतः॑ स्थि॒तं नव॑ च ॥ ९॥

१० उ॒दी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेडामहे त्वा । अ॒न्यामि॑च्छ प्रफ॒र्व्यँ॑ सं जा॒यां पत्या॑ सृज । उ॒दी॒र्ष्वातः॒ पति॑वति॒ ह्ये॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ट्टे । अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्ताँ॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि । अग्ने॑ प्रायश्चित्ते॒ त्वं दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑मः॒ प्रप॑द्ये॒ याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒तां कृ॑णोमि॒ स्वाहा॑ । वायो॑ प्रायश्चित्त॒ आदि॑त्य प्रायश्चित्ते॒ प्रजा॑पते प्रायश्चित्ते॒ त्वं दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑मः॒ प्रप॑द्ये॒ याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒ तां कृ॑णोमि॒ स्वाहा॑ । प्र॒स॒वश्चो॑पया॒मश्च॒ काट॑श्चार्ण॒वश्च॑ धर्ण॒सिश्च॒ द्रवि॑णं च॒ भग॑श्चा॒न्तरि॑क्षं च॒ सिन्धु॑श्च समु॒द्रश्च॒ सर॑स्वाग्श्च वि॒श्वव्य॑चाश्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः॒ स्वाहा॑ । मधु॑श्च॒ माध॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒ नभ॑श्च नभ॒स्य॑श्चे॒षश्चो॒र्जश्च॒ सह॑श्च सह॒स्य॑श्च॒ तप॑श्च तप॒स्य॑श्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः॒ स्वाहा॑ । चि॒त्तं च॒ चित्ति॒श्चाकू॑तं॒ चाकू॑ति॒श्चाधी॑तं॒ चाधी॑तिश्च॒ विज्ञा॑तं च वि॒ज्ञानं॑ च॒ नाम॑ च॒ क्रतु॑श्च॒ दर्श॑श्च पू॒र्णमा॑सश्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः॒ स्वाहा॑ । भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहोग्स्वाहा॑ ॥ ०। ०। १। १०॥ उ॒दी॒र्ष्वातो॒ दश॑ ॥ १०॥

११ अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् । इ॒ह प्र॒जामि॒ह र॒यिँ ररा॑णः॒ प्रजा॑यस्व प्र॒जया॑ पुत्रकाम । अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नाँ॒ स्वायां॑ त॒नूँ ऋ॒त्विये॒ नाथ॑मानाम् । उप॒ मामु॒च्चा यु॑व॒तिर्बभू॑याः॒ प्रजा॑यस्व प्र॒जया॑ पुत्रकामे । सम॑ञ्जन्तु॒ विश्वे॑ दे॒वास्समापो॒ हृद॑यानि नौ । सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दिदेष्टु नौ । प्रजा॑पते त॒न्वं॑ मे जुषस्व॒ त्वष्ट॑र्दे॒वेभि॑स्स॒हसा॒म इ॑न्द्र । विश्वै॑र्दे॒वै रा॒तिभिः॑ सँररा॒णः पुँ॒सां ब॑हू॒नां मा॒तरः॑ स्याम । आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा । अदु॑र्मङ्गलीः पतिलो॒कमावि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे । तां पू॑षञ्-छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॑ वप॑न्ति । या न॑ ऊ॒रू उ॑श॒ती वि॒स्रया॑तै॒ यस्या॑मु॒शन्तः॑ प्र॒हरे॑म॒ शेफ॑म् ॥ ०। ०। १। ११॥ शं चतु॑ष्पदे॒ द्वे च॑ ॥ ११॥

१२ आरो॑हो॒रुमुप॑बर्हस्व बा॒हुं परि॑ष्वजस्व जा॒याँ सु॑मन॒स्यमा॑नः । तस्यां॑ पुष्यतं मिथु॒नौ सयो॑नी ब॒ह्वीं प्र॒जां ज॒नय॑न्तौ॒ सरे॑तसा । आ॒र्द्रयाऽर॑ण्या॒ यत्राम॑न्थ॒त्पुरु॑षं॒ पुरु॑षेण श॒क्रः । तदे॒तौ मि॑थु॒नौ सयो॑नी प्र॒जया॒ऽमृते॑ने॒ह ग॑च्छतम् । अ॒हं गर्भ॒मद॑धा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः । अ॒हं प्र॒जा अ॑जनयं पितृ॒णाम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् । पु॒त्रिणे॒मा कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतम् । उ॒भा हिर॑ण्यपेशसा वी॒तिहो॑त्रा कृ॒तद्व॑सू । द॒श॒स्यन्त्वा॒ऽमृता॑य॒ कँ शमूधो॑ रोम॒शँ ह॑थो दे॒वेषु॑ कृ॒णुतो॒ दुवः॑ ॥ ०। ०। १। १२॥ आरो॑ह॒ नव॑ ॥ १२॥

१३ विष्णु॒ऱ्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिँशतु । आसि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते । गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति । गर्भं॑ ते अ॒श्विनौ॑ दे॒वावाध॑त्तां॒ पुष्क॑रस्रजा । हि॒र॒ण्ययी॑ अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना॑ । तं ते॒ गर्भँ॑ हवामहे दश॒मे मा॒सि सूत॑वे । यथे॒यं पृ॑थि॒वी म॒ही तिष्ठ॑न्ती॒ गर्भ॑माद॒धे । ए॒वं त्वं गर्भ॒माध॑त्स्व दश॒मे मा॒सि सूत॑वे । यथा॑ पृथि॒व्य॑ग्निग॑र्भा॒ द्यौर्यथेन्द्रे॑ण ग॒र्भिणी॑ । वा॒युर्यथा॑ दि॒शां गर्भ॑ ए॒वं गर्भं॑ दधामि ते । विष्णो॒ श्रेष्ठे॑न रू॒पेणा॒स्यां नार्यां॑ गवी॒न्या॑म् । पुमाँ॑सं॒ गर्भ॒माधे॑हि दश॒मे मा॒सि सूत॑वे । नेज॑मेष॒ परा॑पत॒ सपु॑त्रः॒ पुन॒राप॑त । अ॒स्यै मे पु॒त्रका॑मायै॒ गर्भ॒माधे॑हि॒ यः पुमा॑न् । व्यस्य॒ योनिं॒ प्रति॒ रेतो॑ गृहाण॒ पुमा॑न्पु॒त्रो धी॑यतां॒ गर्भो॑ अ॒न्तः । तं मा॒ता द॑श॒मासो॑ बिभर्तु॒ स जा॑यतां वी॒रत॑म॒स्स्वाना॑म् । आ ते॒ गर्भो॒ योनि॑मेतु॒ पुमा॒न्बाण॑ इवेषु॒धिम् । आ वी॒रो जा॑यतां पु॒त्रस्ते॑ दश॒मास्यः॑ ॥ ०। ०। १। १३॥ गर्भं॑ दधामि ते॒ऽष्टौ च॑ ॥ १३॥

१४ क॒रोमि॑ ते प्राजाप॒त्यमा गर्भो॒ योनि॑मेतु ते । अनू॑नः पू॒र्णो जा॑यता॒मश्लो॒णोऽपि॑शाचधीतः । पुमाग्॑स्ते पु॒त्रो ना॑रि॒ तं पुमा॒ननु॑जायताम् । तानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॑नयन्तु नौ । यानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॑नय॒न्ति नः॑ । तैस्त्वं पु॒त्रान्, वि॑न्दस्व॒ सा प्र॒सूर्धे॑नु॒का भ॑व । काम॒प्रमृ॑ध्यतां॒ मह्य॒मप॑राजितमे॒व मे॑ । यं कामं॑ का॒मये॑ देव॒ तं मे॑ वायो॒ सम॑र्धय । अ॒नु॒ह॒वं प॑रिह॒वं प॑रीवा॒दं प॑रिक्ष॒पम् । दुस्स्व॑प्नं॒ दुरु॑दितं॒ तद्द्वि॒षद्भ्यो॑ दिशाम्य॒हम् । अनु॑हूतं॒ परि॑हूतँ श॒कुने॒र्यदशा॑कु॒नम् । मृ॒गस्य॑ सृ॒तम॑क्ष्णया॒ तद्द्वि॒षद्भ्यो॑ दिशाम्य॒हम् । आ॒रात्ते॑ अ॒ग्निर॑स्त्वा॒रात्प॑र॒शुर॑स्तु ते । नि॒वा॒ते त्वा॒ऽभि व॑र्षतु स्व॒स्ति ते॑ऽस्तु वनस्पते स्व॒स्ति मे॑ऽस्तु वनस्पते । नमः॑ शकृ॒त्सदे॑ रु॒द्राय॒ नमो॑ रु॒द्राय॑ शकृ॒त्सदे॑ । गो॒ष्ठम॑सि॒ नम॑स्ते अस्तु॒ मा मा॑ हिँसीः॒ सिग॑सि॒ नसि॒ वज्रो॒ नम॑स्ते अस्तु॒ मा मा॑ हिँसीः । उ॒द्गा॒तेव॑ श॒कुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शँससि । स्व॒स्ति नः॑ श॒कुने॑ अस्तु॒ प्रति॑ नस्सु॒मना॑ भव ॥ ०। ०। १। १४॥ अ॒हम॒ष्टौ च॑ ॥ १४॥

१५ प्रा॒तर॒ग्निं प्रा॒तरिन्द्रँ॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रँ हु॑वेम । प्रा॒त॒र्जितं॒ भग॑मु॒ग्रँ हु॑वेम व॒यं पु॒त्रमदि॑ते॒ऱ्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ । भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑व॒ दद॑न्नः । भग॒ प्रणो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्रनृभि॑र्नृ॒वन्तः॑ स्याम । उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना॑म् । उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानाँ॑ सुम॒तौ स्या॑म । भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तस्स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुर ए॒ता भ॑वे॒ह । सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु । अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ना यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ ०। ०। १। १५॥

भ॒वे॒ह च॒त्वारि॑ च ॥ १५॥

१६ इ॒मां खना॒म्योष॑धीं वी॒रुधं॒ बल॑वत्तमाम् । यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति॑म् । उ॒त्ता॒नप॑र्णे॒ सुभ॑गे॒ सह॑माने॒ सह॑स्वति । स॒पत्नीं॑ मे॒ परा॑धम॒ पतिं॑ मे॒ केव॑लं कृधि । उत्त॑रा॒ऽहमुत्त॑र॒ उत्त॒रेदुत्त॑राभ्यः । अथा॑ स॒पत्नी॒ या ममाध॑रा॒ साऽध॑राभ्यः । न ह्य॑स्यै॒ नाम॑ गृभ्णामि॒ नो अ॒स्मिन्र॑मते॒ जने॑ । परा॑मे॒व प॑रा॒वतँ॑ स॒पत्नीं॑ नाशयामसि । अ॒हम॑स्मि॒ सह॑मा॒नाऽथ॒ त्वम॑सि सास॒हिः । उ॒भे सह॑स्वती भू॒त्वा स॒पत्नीं॑ मे सहावहै । उप॑ तेऽधाँ॒ सह॑मानाम॒भि त्वा॑ऽधाँ॒ सही॑यसा । मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥

०। ०। १। १६॥ स॒हा॒व॒है॒ द्वे च॑ ॥ १६॥

१७ उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ । अ॒हं तद्विद्व॒ला प॑तिम॒भ्य॑साक्षि विषास॒हिः । अ॒हं के॒तुर॒हं मू॒र्धाऽहमु॒ग्रा वि॒वाच॑नी । ममे॒दनु॒ क्रतुं॒ पति॑स्सेहा॒नाया॑ उ॒वाच॑रेत् । मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट् । उ॒ताहम॑स्मि॒ संज॑या॒ पत्यु॑र्मे॒ श्लोक॑ उत्त॒मः । येनेन्द्रो॑ ह॒विषा॑ कृ॒त्य॑भवद्दि॒व्यु॑त्त॒मः । अ॒हं तद॑क्रि देवा असप॒त्ना किला॑भवम् । अ॒स॒प॒त्ना स॑पत्नि॒घ्नी जय॑न्त्यभि॒भूव॑रीः । आवि॑त्सि॒ सर्वा॑साँ॒ राधो॒ वर्चो॒ अस्थे॑यसामिव । सम॑जैषमि॒मा अ॒हँ स॒पत्नी॑रभि॒भूव॑रीः । यथा॒ऽहम॑स्य वी॒रस्य॑ वि॒राजा॑मि॒ धन॑स्य च ॥ ०। ०। १। १७॥ अस्थे॑यसामिव॒ द्वे च॑ ॥ १७॥

१८ अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ चुबु॑का॒दधि॑ । यक्ष्मँ॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ विवृ॑हामि ते । ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्योऽनू॒क्या॑त् । यक्ष्मं॑ दोष॒ण्य॑मँसा॑भ्यां बा॒हुभ्यां॒ विवृ॑हामि ते । आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर् हृद॑या॒दधि॑ । यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ विवृ॑हामि ते । ऊ॒रुभ्यां॑ तेऽष्ठी॒वद्भ्यां॒ जङ्घा॑भ्यां॒ प्रप॑दाभ्याम् । यक्ष्मँ॒ श्रोणी॑भ्यां भा॒सदा॑द्ध्वँ॒ससो॒ विवृ॑हामि ते । मेह॑नाद्वल॒ङ्कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ । यक्ष्मँ॒ सर्व॑स्मादा॒त्मन॒स्तमि॒मं विवृ॑हामि ते । अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि । यक्ष्मँ॒ सर्व॑स्मादा॒त्मन॒स्तमि॒मं विवृ॑हामि ते । परा॑देहि शाब॒ल्यं॑ ब्र॒ह्मभ्यो॒ विभ॑जा॒ वसु॑ । कृ॒त्यैषा प॒द्वती॑ भू॒त्वा जा॒याऽऽवि॑शते॒ पति॑म् । अ॒श्ली॒ला त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑ऽमु॒या । पति॒र्यद्व॒ध्वै॑ वास॑सा॒ स्वमङ्ग॑मभि॒ धित्स॑ति । क्रू॒रमे॒तत् कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैत॒दत्त॑वे । सू॒र्यां यः प्र॒त्यक्षं॑ वि॒द्यात्स ए॒तत्प्रति॑गृह्णीयात् । आ॒शस॑नं वि॒शस॑न॒मथो॑ अधि वि॒चर्त॑नम् । सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मोत शँ॑सति ॥ ०। ०। १। १८॥ इ॒मं विवृ॑हामि ते शँसति ॥ १८॥ अ॒क्षी(भ्यां॑) ग्री॒वा(भ्य॑) आ॒न्त्रे(भ्य॑) ऊ॒रु(भ्यां॒) मेह॑ना॒दङ्गा॑दङ्गा॒त्परा॑देहि स॒प्त ॥

प्र॒सु॒ग्मन्ता॒ऽष्टाद॑श॒ हिर॑ण्यवर्णाः॒ पञ्च॑दश॒ सोमः॑ प्रथ॒मः षोड॑श॒ सोमा॑य जनि॒विदे॒ऽष्टाद॒शाति॑ष्ठे॒मं त्रयो॑विँशतिः स॒त्येन॒ ता म॑न्दसा॒नैका॒न्न विँ॑शति॒रेका॒न्न विँ॑शतिः॒ शर्म॒ वर्मैक॑विँशतिरि॒ह गाव॒ एका॒न्न विँ॑शतिरुदी॒र्ष्वातो॒ दशाप॑श्यं त्वा॒ द्वाद॒शारो॑हो॒रुं नव॒ विष्णु॒ऱ्योनिं॑ क॒रोमि॑ ते॒ऽष्टाद॑शाष्टादश प्रा॒तर॒ग्निं चतु॑र्दशे॒मां खना॒म्युद॒सौ सूर्यो॒ द्वाद॑श द्वादशा॒क्षीभ्यां॑ ते विँश॒तिर॒ष्टाद॑श ॥ १८॥ प्र॒सु॒ग्मन्ताऽप॑श्यं त्वा॒ऽष्टाद॑श ॥ १८॥

प्र॒सु॒ग्मन्ता॒ तानि॑ ब्र॒ह्मोत शँ॑सति ॥