1/04/13/06 …{Loading}…
ॐकारः स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येत ६
1/04/13/07 …{Loading}…
विकथां चान्यां कृत्वैवं लौकिक्या वाचा व्यावर्तते ब्रह्म ७
1/04/13/08 …{Loading}…
यज्ञेषु चैतदादयः प्रसवाः ८
1/04/13/09 …{Loading}…
लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुण्याहं स्वस्त्यृद्धिमिति ९