आचार्यः

1/01/01/11 …{Loading}…

तमसो वा एष +++(आगत्य)+++ तमः प्रविशति - यम् अविद्वान् उपनयते, यश् चाविद्वान् - इति हि ब्राह्मणम् ११

1/01/01/12 …{Loading}…

तस्मिन्न् अभिजन-विद्यासमुदेतं समाहितं संस्कर्तारम् ईप्सेत् १२

1/01/01/13 …{Loading}…

तस्मिंश् चैव विद्या-कर्म +आन्तम् अविप्रतिपन्ने धर्मेभ्यः १३

1/01/01/14 …{Loading}…

यस्माद् धर्मान् आचिनोति स आचार्यः १४+++(5)+++

1/01/01/15 …{Loading}…

तस्मै न द्रुह्येत् कदाचन १५

1/01/01/16 …{Loading}…

स हि विद्यातस् तं जनयति १६

1/01/01/17 …{Loading}…

तच् +छ्रेष्ठं जन्म १७

1/01/01/18 …{Loading}…

शरीरम् एव माता-पितरौ जनयतः १८

वर्णः

2/02/04/24 …{Loading}…

ब्राह्मण आचार्यः स्मर्यते तु २४

2/02/04/25 …{Loading}…

आपदि ब्राह्मणेन राजन्ये वैश्ये वाध्ययनम् २५

2/02/04/26 …{Loading}…

अनुगमनं च पश्चात् २६

2/02/04/27 …{Loading}…

तत ऊर्ध्वं ब्राह्मण एवाग्रे गतौ स्यात् २७

परीक्षा

2/03/06/01 …{Loading}…

जात्याचारसंशये धर्मार्थमागतमग्निमुपसमाधाय जातिमाचारं च पृच्छेत् १

2/03/06/02 …{Loading}…

साधुतां चेत्प्रतिजानीतेऽग्निरुपद्र ष्टा वायुरुपश्रोतादित्योऽनुख्याता साधुतां प्रतिजानीते साध्वस्मा अस्तु वितथ एष एनस इत्युक्त्वा शास्तुं प्रतिपद्येत २

1/02/08/24 …{Loading}…

तस्मिन्गुरोर्वृत्तिः २३

1/02/08/25 …{Loading}…

पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् २४

1/02/08/27 …{Loading}…

अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरावनैपुणमापद्यमानः २६

1/02/08/28 …{Loading}…

आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः २७

1/02/08/29 …{Loading}…

अपराधेषु चैनं सततमुपालभेत २८

1/02/08/30 …{Loading}…

अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति दण्डा यथामात्रमा निवृत्तेः २९

1/04/14/03 …{Loading}…

अध्ययनार्थेन यं चोदयेन्न चैनं प्रत्याचक्षीत ३

1/04/14/04 …{Loading}…

न चास्मिन्दोषं पश्येत् ४

1/04/14/05 …{Loading}…

यदृच्छायामसंवृत्तौ गतिरेव तस्मिन् ५

2/02/05/16 …{Loading}…

उपाकरणादोत्सर्जनादध्यापयितुर्नियमः। लोमसंहरणं मांसं श्राद्धं मैथुनमिति च वर्जयेत् १६

2/02/05/17 …{Loading}…

ऋत्वे वा जायाम् १७

2/02/05/18 …{Loading}…

यथागमं शिष्येभ्यो विद्यासंप्रदाने नियमेषु च युक्तः स्यात् । एवं वर्तमानः पूर्वापरान्संबन्धानात्मानं च क्षेमे युनक्ति १८

समावर्तने

1/02/08/31 …{Loading}…

निवृत्तं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो भवेत्यतिसृजेत् ३०

1/04/13/05 …{Loading}…

न समावृत्ते समादेशो विद्यते ५

1/02/07/26 …{Loading}…

शास्तुश्चानागमाद्वृत्तिरन्यत्र २६

… “गुरौ गौरव-दर्शनम्” इत्यत्र शिष्टम्

व्रतविशेषः

1/11/32/01 …{Loading}…

प्रवचन-युक्तो वर्षा-शरदं मैथुनं वर्जयेत् १

1/11/32/03 …{Loading}…

शयानश् चाध्यापनं वर्जयेत् ३

1/11/32/04 …{Loading}…

न च तस्यां शय्यायाम् अध्यापयेद् यस्यां शयीत ४

1/11/32/05 …{Loading}…

अन्-आविः+++(भूत)+++-स्रग्-अनुलेपणः स्यात् ५