इन्द्रिय-नियमनम्

1/11/31/18 …{Loading}…

उद्यन्तम् अस्तं यन्तं चादित्यं दर्शने वर्जयेत् १८

स्पर्शे

1/11/31/06 …{Loading}…

ब्राह्मणस्य गोर् इति पदोपस्पर्शनं वर्जयेत् ६

1/11/31/07 …{Loading}…

हस्तेन चाकारणात् ७

गमने

1/11/31/13 …{Loading}…

वत्स-तन्तीं च नोपरि गच्छेत् १३

1/11/31/14 …{Loading}…

प्रेङ्खाव्+++(=डोलास्तम्भौ)+++ अन्तरेण च नातीयात् १४

(… पथि + अवकाशदानादिकम् “गौरवदर्शन”-पङ्क्ताव् उक्तम्।)

पादस्थितौ

1/11/30/22 …{Loading}…

अग्निम्, अपो, ब्राह्मणं, गा, देवता, द्वारं, प्रतीवातं च
शक्ति-विषये नाभिप्रसारयीत +++(पादौ)+++२२

2/08/20/11 …{Loading}…

भस्म-तुषाधिष्ठानम् ११

2/08/20/12 …{Loading}…

पदा पादस्य प्रक्षालनम् अधिष्ठानं च वर्जयेत् १२

2/08/20/13 …{Loading}…

प्रेङ्खोलनं च पादयोः १३

2/08/20/14 …{Loading}…

जानुनि चात्याधानं जङ्घायाः १४

क्रियान्तराणि

1/11/32/28 …{Loading}…

तृण-च्छेदन-लोष्ट-विमर्दनाष्ठेवनानि चाकारणात् २८

1/11/32/29 …{Loading}…

यच् चान्यत् परिचक्षते, यच् चान्यत् परिचक्षते २९

2/05/12/12 …{Loading}…

पृष्ठतश्चात्मनः पाणी न संश्लेषयेत् १२

2/08/20/15 …{Loading}…

नखैश् च नखवादनम् १५

2/08/20/16 …{Loading}…

स्फोटनानि चाकारणात् १६

2/08/20/17 …{Loading}…

यच् चान्यत् परिचक्षते १७