चोदनम्, फलम्
1/04/12/13 …{Loading}…
अथ ब्राह्मणोक्ता विधयः १३
1/04/12/14 …{Loading}…
तेषां महायज्ञा महासत्त्राणीति संस्तुतिः १४
1/04/12/15 …{Loading}…
अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् १५
1/04/13/01 …{Loading}…
देवेभ्यः स्वाहाकार आ काष्ठात्, पितृभ्यः स्वधाकार ओदपात्रात्, स्वाध्याय इति १
2/02/03/01 …{Loading}…
आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः १
2/02/03/12 …{Loading}…
गृहमेधिनोर्यदशनीयस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः १२
2/02/04/09 …{Loading}…
य एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ९
2/06/15/13 …{Loading}…
यस्याग्नौ न क्रियते यस्य चाग्रं न दीयते न तद्भोक्तव्यम् १३
व्रतग्रहणम्
2/02/03/13 …{Loading}…
तेषां मन्त्राणामुपयोगे द्वादशाहमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जनं च १३
2/02/03/14 …{Loading}…
उत्तमस्यैकरात्रमुपवासः १४
विधिः
+++(साधारणो ऽन्नसंस्कारविचारोऽन्यत्रोक्तः।)+++
2/02/03/09 …{Loading}…
परोक्षमन्नं संस्कृतमग्नावधिश्रित्याद्भिः प्रोक्षेत् । तद्देवपवित्रमित्याचक्षते ९
2/02/03/10 …{Loading}…
सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने प्रब्रूयात् १०
2/02/03/11 …{Loading}…
तत्सुभूतं विराड् अन्नं तन्मा क्षायीति प्रतिवचनः ११
2/02/03/15 …{Loading}…
बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्यावोक्ष्य न्युप्य पश्चात्परिषेचनम् १५
2/02/03/16 …{Loading}…
औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् १६
ओ᳓म्+++(इत्यनुज्ञाक्षरं)+++ अग्न᳓ये स्वा᳓हा+++(हविःप्रदानार्थः)+++।
सो᳓माय स्वा᳓हा।+++(कैश्चिन्नोच्यते मन्त्रः।)+++
वि᳓श्वेभ्यो देवे᳓भ्यस् स्वा᳓हा।
+++(खे)+++ ध्रुवा᳓य भूमा᳓य+++(=भूम्ने)+++ स्वा᳓हा।
ध्रुव-क्षि᳓तये+++(←स्वरः??)+++ +++(खे)+++ स्वा᳓हा।
+++(विवाहे ध्रुव-दर्शन-मन्त्रेऽप्य् अयम् प्रयोगः)+++
अच्युत-क्षि᳓तये+++(←स्वरः??)+++ स्वा᳓हा।
अग्न᳓ये स्विष्टकृ᳓ते स्वा᳓हा।+++(=रुद्रोऽग्निस्स्विष्टकृत्)+++
2/02/03/17 …{Loading}…
उभयतः परिषेचनं यथा पुरस्तात् १७
अ᳓दिते᳓ऽन्वमँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++
अ᳓नुमते᳓ऽन्वमँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++
स᳓रस्वते᳓ ऽन्वमँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++
दे᳓व सवितः प्रा᳓सावीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++
2/02/03/18 …{Loading}…
एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषेचनम् १८
2/02/03/19 …{Loading}…
सति सूपसंसृष्टेन कार्याः १९
2/02/03/20 …{Loading}…
अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०
2/02/03/21 …{Loading}…
उदधानसंनिधौ नवमेन २१
ध᳓र्माय᳓ स्वा᳓हा । अ᳓धर्मा᳓य᳓ स्वा᳓हा। +++(अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०)+++
अद्भ्य᳓स् स्वा᳓हा । +++(उदधानसंनिधौ नवमेन २१)+++
2/02/03/22 …{Loading}…
मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२
ओषधिवनस्पति᳓भ्यस् स्वा᳓हा। रक्षोदेवजने᳓भ्यस् स्वा᳓हा । +++(मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२)+++
2/02/03/23 …{Loading}…
उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३
+++(वास्तुविद्याप्रसिद्धेभ्यः)+++ गृ᳓ह्याभ्यस् स्वा᳓हा। अवसा᳓नेभ्य᳓स्+++(=सीमाभ्यः)+++ स्वा᳓हा । अवसा᳓नपतिभ्यस् स्वा᳓हा । सर्वभूते᳓भ्यस् स्वा᳓हा । +++(उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३)+++
2/02/04/01 …{Loading}…
शय्यादेशे कामलिङ्गेन १
2/02/04/02 …{Loading}…
देहल्यामन्तरिक्षलिङ्गेन २
का᳓मय स्वा᳓हा । +++(शय्यादेशे कामलिङ्गेन)+++
अन्त᳓रिक्षाय स्वा᳓हा । +++(देहल्यामन्तरिक्षलिङ्गेन २)+++
2/02/04/03 …{Loading}…
उत्तरेणापिधान्याम् ३
य᳓द् ए᳓जति᳓+++(=कम्पते)+++ ज᳓गति यच् च चे᳓ष्टति᳓, ना᳓म्नो भागो᳓ ऽयं᳓, ना᳓म्ने स्वा᳓हा। +++(उत्तरेणापिधान्याम् (अर्गले)३)+++
2/02/04/04 …{Loading}…
उत्तरैर्ब्रह्मसदने ४
+++(उत्तरैर्ब्रह्मसदने)+++
पृथिव्यै᳓ स्वा᳓हा। अन्त᳓रिक्षाय स्वा᳓हा। दिवे᳓ स्वा᳓हा ।
सू᳓र्याय स्वा᳓हा । चन्द्र᳓मसे स्वा᳓हा । न᳓क्षत्रेभ्यस् स्वा᳓हा ।
इ᳓न्द्राय स्वा᳓हा । बृ᳓हस्प᳓तये स्वा᳓हा । प्रजा᳓पतये स्वा᳓हा । ब्र᳓ह्मणे स्वा᳓हा।
2/02/04/05 …{Loading}…
दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः कुर्यात् ५
स्वधा᳓ पितृ᳓भ्यस् स्वा᳓हा। +++( दक्षिणतः पितृलिङ्गेन प्राचीनावीत्य् अवाचीन-पाणिः कुर्यात् ५)+++
2/02/04/06 …{Loading}…
रौद्र उत्तरो यथा देवताभ्यः ६
न᳓मो रुद्रा᳓य पशुप᳓तये स्वा᳓हा। +++(रौद्र उत्तरो यथा देवताभ्यः ६ तयोर् नाना परिषेचनं धर्म-भेदात् ७)+++
2/02/04/07 …{Loading}…
तयोर्नाना परिषेचनं धर्मभेदात् ७
2/02/04/08 …{Loading}…
नक्तमेवोत्तमेन वैहायसम् ८
ये᳓ भूताः᳓ प्रच᳓रन्ति दिवा /न᳓क्तं
ब᳓लिम् इच्छ᳓न्तो वितु᳓दस्य प्रे᳓ष्याः ।
ते᳓भ्यो बलिं᳓ पुष्टिका᳓मो हरामि
म᳓यि पु᳓ष्टिं पु᳓ष्टिपतिर् दधातु स्वा᳓हा॥ +++(नक्तमेवोत्तमेन वैहायसम् ८)+++
2/02/04/10 …{Loading}…
अग्रं च देयम् १०
आतिथ्यम्
2/02/04/11 …{Loading}…
अतिथीनेवाग्रे भोजयेत् ११
2/02/04/12 …{Loading}…
बालान् वृद्धान् रोग-संबन्धान् स्त्रीश् चान्तर्वत्नीः १२
2/04/09/05 …{Loading}…
सर्वान्वैश्वदेवे भागिनः कुर्वीता श्व-चाण्डालेभ्यः ५
2/04/09/06 …{Loading}…
नानर्हद्भ्यो दद्याद् इत्य् एके ६
+++(अतिथिभोजनम् अन्यत्रोक्तम्)+++