चोदनम्, फलम्
1/04/12/13 …{Loading}…
अथ ब्राह्मणोक्ता विधयः १३
1/04/12/14 …{Loading}…
तेषां महायज्ञा महासत्त्राणीति संस्तुतिः १४
1/04/12/15 …{Loading}…
अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् १५
1/04/13/01 …{Loading}…
देवेभ्यः स्वाहाकार आ काष्ठात्, पितृभ्यः स्वधाकार ओदपात्रात्, स्वाध्याय इति १
2/02/03/01 …{Loading}…
आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः १
2/02/03/12 …{Loading}…
गृहमेधिनोर्यदशनीयस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः १२
2/02/04/09 …{Loading}…
य एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ९
2/06/15/13 …{Loading}…
यस्याग्नौ न क्रियते यस्य चाग्रं न दीयते न तद्भोक्तव्यम् १३
व्रतग्रहणम्
2/02/03/13 …{Loading}…
तेषां मन्त्राणामुपयोगे द्वादशाहमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जनं च १३
2/02/03/14 …{Loading}…
उत्तमस्यैकरात्रमुपवासः १४
विधिः
+++(साधारणो ऽन्नसंस्कारविचारोऽन्यत्रोक्तः।)+++
2/02/03/09 …{Loading}…
परोक्षमन्नं संस्कृतमग्नावधिश्रित्याद्भिः प्रोक्षेत् । तद्देवपवित्रमित्याचक्षते ९
2/02/03/10 …{Loading}…
सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने प्रब्रूयात् १०
2/02/03/11 …{Loading}…
तत्सुभूतं विराड् अन्नं तन्मा क्षायीति प्रतिवचनः ११
2/02/03/15 …{Loading}…
बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्यावोक्ष्य न्युप्य पश्चात्परिषेचनम् १५
2/02/03/16 …{Loading}…
औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् १६
- ओम्+++(इत्यनुज्ञाक्षरं)+++ अ॒ग्नये॒ स्वाहा॑+++(हविःप्रदानार्थः)+++।
- सोमा॑य॒ स्वाहा॑।+++(कैश्चिन्नोच्यते मन्त्रः।)+++
- विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑।
- +++(खे)+++ ध्रु॒वाय॑ भू॒माय॑+++(=भूम्ने)+++ स्वाहा॑।
ध्रु॒व॒-क्षित॑ये॒+++(←स्वरः??)+++ +++(खे)+++ स्वाहा॑।
+++(विवाहे ध्रुव-दर्शन-मन्त्रेऽप्य् अयम् प्रयोगः)+++
अ॒च्यु॒त॒-क्षित॑ये॒+++(←स्वरः??)+++ स्वाहा॑।
- अ॒ग्नये॑ स्विष्ट॒कृते॑ स्वाहा॑।+++(=रुद्रोऽग्निस्स्विष्टकृत्)+++
2/02/03/17 …{Loading}…
उभयतः परिषेचनं यथा पुरस्तात् १७
अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++
अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++
सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++
देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++
2/02/03/18 …{Loading}…
एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषेचनम् १८
2/02/03/19 …{Loading}…
सति सूपसंसृष्टेन कार्याः १९
2/02/03/20 …{Loading}…
अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०
2/02/03/21 …{Loading}…
उदधानसंनिधौ नवमेन २१
- धर्मा॑य स्वाहा॑ । अध॑र्माय स्वाहा॑। +++(अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०)+++
- अ॒द्भ्यस् स्वाहा॑ । +++(उदधानसंनिधौ नवमेन २१)+++
2/02/03/22 …{Loading}…
मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२
- ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स् स्वाहा॑। र॒क्षो॒दे॒व॒ज॒नेभ्य॒स् स्वाहा॑ । +++(मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२)+++
2/02/03/23 …{Loading}…
उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३
- +++(वास्तुविद्याप्रसिद्धेभ्यः)+++ गृह्या॑भ्य॒स् स्वाहा॑। अ॒व॒साने॑भ्यस्+++(=सीमाभ्यः)+++ स्वाहा॑ । अ॒व॒सान॑पतिभ्य॒स् स्वाहा॑ । स॒र्व॒भू॒तेभ्य॒स् स्वाहा॑ । +++(उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३)+++
2/02/04/01 …{Loading}…
शय्यादेशे कामलिङ्गेन १
2/02/04/02 …{Loading}…
देहल्यामन्तरिक्षलिङ्गेन २
- काम॑य॒ स्वाहा॑ । +++(शय्यादेशे कामलिङ्गेन)+++
- अ॒न्तरि॑क्षाय॒ स्वाहा॑ । +++(देहल्यामन्तरिक्षलिङ्गेन २)+++
2/02/04/03 …{Loading}…
उत्तरेणापिधान्याम् ३
- यद् एज॑ति+++(=कम्पते)+++ जग॑ति यच् च॒ चेष्ट॑ति, नाम्नो॑ भा॒गो ऽयं, नाम्ने॒ स्वाहा॑। +++(उत्तरेणापिधान्याम् (अर्गले)३)+++
2/02/04/04 …{Loading}…
उत्तरैर्ब्रह्मसदने ४
+++(उत्तरैर्ब्रह्मसदने)+++
- पृ॒थि॒व्यै स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। दि॒वे स्वाहा॑ ।
- सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स् स्वाहा॑ ।
- इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑।
2/02/04/05 …{Loading}…
दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः कुर्यात् ५
- स्व॒धा पि॒तृभ्य॒स् स्वाहा॑। +++( दक्षिणतः पितृलिङ्गेन प्राचीनावीत्य् अवाचीन-पाणिः कुर्यात् ५)+++
2/02/04/06 …{Loading}…
रौद्र उत्तरो यथा देवताभ्यः ६
- नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑। +++(रौद्र उत्तरो यथा देवताभ्यः ६ तयोर् नाना परिषेचनं धर्म-भेदात् ७)+++
2/02/04/07 …{Loading}…
तयोर्नाना परिषेचनं धर्मभेदात् ७
2/02/04/08 …{Loading}…
नक्तमेवोत्तमेन वैहायसम् ८
- ये भू॒ताः प्र॒चर॑न्ति दिवा॒ /नक्तं॒
बलि॑म् इ॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑ ।
तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒
मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा॑॥ +++(नक्तमेवोत्तमेन वैहायसम् ८)+++
2/02/04/10 …{Loading}…
अग्रं च देयम् १०
आतिथ्यम्
2/02/04/11 …{Loading}…
अतिथीनेवाग्रे भोजयेत् ११
2/02/04/12 …{Loading}…
बालान् वृद्धान् रोग-संबन्धान् स्त्रीश् चान्तर्वत्नीः १२
2/04/09/05 …{Loading}…
सर्वान्वैश्वदेवे भागिनः कुर्वीता श्व-चाण्डालेभ्यः ५
2/04/09/06 …{Loading}…
नानर्हद्भ्यो दद्याद् इत्य् एके ६
+++(अतिथिभोजनम् अन्यत्रोक्तम्)+++