वैश्वदेवम्

चोदनम्, फलम्

1/04/12/13 …{Loading}…

अथ ब्राह्मणोक्ता विधयः १३

1/04/12/14 …{Loading}…

तेषां महायज्ञा महासत्त्राणीति संस्तुतिः १४

1/04/12/15 …{Loading}…

अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् १५

1/04/13/01 …{Loading}…

देवेभ्यः स्वाहाकार आ काष्ठात्, पितृभ्यः स्वधाकार ओदपात्रात्, स्वाध्याय इति १

2/02/03/01 …{Loading}…

आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः १

2/02/03/12 …{Loading}…

गृहमेधिनोर्यदशनीयस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः १२

2/02/04/09 …{Loading}…

य एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ९

2/06/15/13 …{Loading}…

यस्याग्नौ न क्रियते यस्य चाग्रं न दीयते न तद्भोक्तव्यम् १३

व्रतग्रहणम्

2/02/03/13 …{Loading}…

तेषां मन्त्राणामुपयोगे द्वादशाहमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जनं च १३

2/02/03/14 …{Loading}…

उत्तमस्यैकरात्रमुपवासः १४

विधिः

+++(साधारणो ऽन्नसंस्कारविचारोऽन्यत्रोक्तः।)+++

2/02/03/09 …{Loading}…

परोक्षमन्नं संस्कृतमग्नावधिश्रित्याद्भिः प्रोक्षेत् । तद्देवपवित्रमित्याचक्षते ९

2/02/03/10 …{Loading}…

सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने प्रब्रूयात् १०

2/02/03/11 …{Loading}…

तत्सुभूतं विराड् अन्नं तन्मा क्षायीति प्रतिवचनः ११

2/02/03/15 …{Loading}…

बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्यावोक्ष्य न्युप्य पश्चात्परिषेचनम् १५

2/02/03/16 …{Loading}…

औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् १६

  • ओम्+++(इत्यनुज्ञाक्षरं)+++ अ॒ग्नये॒ स्वाहा॑+++(हविःप्रदानार्थः)+++।
  • सोमा॑य॒ स्वाहा॑।+++(कैश्चिन्नोच्यते मन्त्रः।)+++
  • विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑।
  • +++(खे)+++ ध्रु॒वाय॑ भू॒माय॑+++(=भूम्ने)+++ स्वाहा॑।

ध्रु॒व॒-क्षित॑ये॒+++(←स्वरः??)+++ +++(खे)+++ स्वाहा॑।
+++(विवाहे ध्रुव-दर्शन-मन्त्रेऽप्य् अयम् प्रयोगः)+++

अ॒च्यु॒त॒-क्षित॑ये॒+++(←स्वरः??)+++ स्वाहा॑।

  • अ॒ग्नये॑ स्विष्ट॒कृते॑ स्वाहा॑।+++(=रुद्रोऽग्निस्स्विष्टकृत्)+++
2/02/03/17 …{Loading}…

उभयतः परिषेचनं यथा पुरस्तात् १७

अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++

अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++

सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++

देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++

2/02/03/18 …{Loading}…

एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषेचनम् १८

2/02/03/19 …{Loading}…

सति सूपसंसृष्टेन कार्याः १९

2/02/03/20 …{Loading}…

अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०

2/02/03/21 …{Loading}…

उदधानसंनिधौ नवमेन २१

  • धर्मा॑य स्वाहा॑ । अध॑र्माय स्वाहा॑। +++(अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०)+++
  • अ॒द्भ्यस् स्वाहा॑ । +++(उदधानसंनिधौ नवमेन २१)+++
2/02/03/22 …{Loading}…

मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२

  • ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स् स्वाहा॑। र॒क्षो॒दे॒व॒ज॒नेभ्य॒स् स्वाहा॑ । +++(मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२)+++
2/02/03/23 …{Loading}…

उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३

  • +++(वास्तुविद्याप्रसिद्धेभ्यः)+++ गृह्या॑भ्य॒स् स्वाहा॑। अ॒व॒साने॑भ्यस्+++(=सीमाभ्यः)+++ स्वाहा॑ । अ॒व॒सान॑पतिभ्य॒स् स्वाहा॑ । स॒र्व॒भू॒तेभ्य॒स् स्वाहा॑ । +++(उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३)+++
2/02/04/01 …{Loading}…

शय्यादेशे कामलिङ्गेन १

2/02/04/02 …{Loading}…

देहल्यामन्तरिक्षलिङ्गेन २

  • काम॑य॒ स्वाहा॑ । +++(शय्यादेशे कामलिङ्गेन)+++
  • अ॒न्तरि॑क्षाय॒ स्वाहा॑ । +++(देहल्यामन्तरिक्षलिङ्गेन २)+++
2/02/04/03 …{Loading}…

उत्तरेणापिधान्याम् ३

  • यद् एज॑ति+++(=कम्पते)+++ जग॑ति यच् च॒ चेष्ट॑ति, नाम्नो॑ भा॒गो ऽयं, नाम्ने॒ स्वाहा॑। +++(उत्तरेणापिधान्याम् (अर्गले)३)+++
2/02/04/04 …{Loading}…

उत्तरैर्ब्रह्मसदने ४

+++(उत्तरैर्ब्रह्मसदने)+++

  • पृ॒थि॒व्यै स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। दि॒वे स्वाहा॑ ।
  • सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स् स्वाहा॑ ।
  • इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑।
2/02/04/05 …{Loading}…

दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः कुर्यात् ५

  • स्व॒धा पि॒तृभ्य॒स् स्वाहा॑। +++( दक्षिणतः पितृलिङ्गेन प्राचीनावीत्य् अवाचीन-पाणिः कुर्यात् ५)+++
2/02/04/06 …{Loading}…

रौद्र उत्तरो यथा देवताभ्यः ६

  • नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑। +++(रौद्र उत्तरो यथा देवताभ्यः ६ तयोर् नाना परिषेचनं धर्म-भेदात् ७)+++
2/02/04/07 …{Loading}…

तयोर्नाना परिषेचनं धर्मभेदात् ७

2/02/04/08 …{Loading}…

नक्तमेवोत्तमेन वैहायसम् ८

  • ये भू॒ताः प्र॒चर॑न्ति दिवा॒ /नक्तं॒
    बलि॑म् इ॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑ ।
    तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒
    मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा॑॥ +++(नक्तमेवोत्तमेन वैहायसम् ८)+++
2/02/04/10 …{Loading}…

अग्रं च देयम् १०

आतिथ्यम्

2/02/04/11 …{Loading}…

अतिथीनेवाग्रे भोजयेत् ११

2/02/04/12 …{Loading}…

बालान् वृद्धान् रोग-संबन्धान् स्त्रीश् चान्तर्वत्नीः १२

2/04/09/05 …{Loading}…

सर्वान्वैश्वदेवे भागिनः कुर्वीता श्व-चाण्डालेभ्यः ५

2/04/09/06 …{Loading}…

नानर्हद्भ्यो दद्याद् इत्य् एके ६

+++(अतिथिभोजनम् अन्यत्रोक्तम्)+++