आपस्तम्बधर्मसूत्रम् अध्यात्मपटलभाष्यम्

[[आपस्तम्बधर्मसूत्रम् अध्यात्मपटलभाष्यम् Source: EB]]

TODO: परिष्कार्यम्

(Shankaracharya’s Commentary on Adhyatma Patala

occurring in the Apastamba Dharmasutra of Taittiriya Yajurveda)

अध्यात्मिकान् योगाननुतिष्ठेत् न्यायसंहिताननैश्चारिकान्॥

ओं अथ ‘अध्यात्मिकान् योगान्…’ इत्य्-आद्य्-अध्यात्म-पटलस्य संक्षेपतो विवरणं प्रस्तूयते— किम् इह प्रायश्चित्त-प्रकरणे समाम्नानस्य प्रयोजनम् इति?

उच्यते— कर्म-क्षय-हेतुत्व-सामान्यात्। अनिष्ट-कर्म-क्षय-हेतूनि हि प्रायश्चित्तानि भवन्ति। सर्वं च कर्म वर्णाश्रम-विहितम् अनिष्टम् एव [[विविकेनः|विवेकिनः]], देह-ग्रहण-हेतुत्वात्। तत्-क्षय-कारणं च आत्म-ज्ञानं, प्रवृत्ति-हेतु-दोष-निवर्तकत्वात्। दोषाणां च निर्घाते आत्म-ज्ञानवतः पण्डितस्य धर्माधर्म-क्षये क्षेम-प्राप्तिर् इह विवक्षिता इति आत्म-ज्ञानार्थम् अध्यात्म-पटलम् आरभ्यते—

कर्म-क्षय-हेतुत्व-सामान्यात्॥ १॥

ननु वर्णाश्रम-विहितानां कर्मणाम् अफल-हेतुत्वात् तत्-क्षयो नेष्ट इति, न,

सर्व-वर्णानां स्व-धर्मानुष्ठाने परमपरिमितं सुखम्।

इत्यादि-श्रवणात्। अपरिमित-वचनात् क्षेम-प्राप्तिर् एव इति चेत्— न,

तत्-परिवृत्तौ कर्म-फल-शेषेण जातिं रूपं…

इत्यादि-श्रवणात्। गौतमे च—

वर्णा आश्रमाश् च स्व-कर्म-निष्ठाः प्रेत्य कर्म-फलम् [[अनुभय|अनुभूय]]…

इत्यादिना संसार-गमनम् एव दर्शयति कर्मणां फलम्। सर्वाश्रमाणां हि दोष-निर्घात-लक्षणानि समय-पदानि विधिनाऽनुतिष्ठन् सार्व-गामी भवति, न तु स्व-धर्मानुष्ठानात्। वक्ष्यति च—

विधूय कविः… (सू. ५), सत्यानृते सुख-दुःखे वेदान् इमं लोकम् अमुं च परित्यज्य आत्मानम् अन्विच्छेत् (२.२१.१३)

इत्यादि।

तेषु सर्वेषु यथोपदेशम् अव्यग्रो वर्तमानः क्षेमं गच्छति।

इति वचनात् क्षेम-शब्दस्य च अपवर्गार्थत्वात् सर्वाश्रम-कर्मणां ज्ञान-रहितानाम् एव फलार्थत्वम्। ज्ञान-संयुक्तानि तु क्षेम-प्रापकाणि; यथा विष-दध्यादीनि मन्त्र-शर्करादि-संयुक्तानि कार्यान्तरारम्भकाणि; तद्वद् इति चेत्— न, अनारभ्यत्वात् क्षेम-प्राप्तेः। यदि हि क्षेम-प्राप्तिः कार्या स्यात्, तद् इदं चिन्त्यम्— किं केवलैः कर्मभिर् आरभ्या, ज्ञान-सहितैर् वा, ज्ञान-कर्मभ्यां वा, केवलेन ज्ञानेन कर्मासंयुक्तेन वा इति। न तु आरभ्या केनचिद् अपि क्षेम-प्राप्तिः नित्यत्वात्। अतोऽसद् इदं ज्ञान-संयुक्तानि कर्माणि क्षेम-प्राप्तिम् आरभन्त इति॥

ज्ञान-संयुक्तानां ज्ञानवद् एव क्षेम-प्राप्ति-प्रतिबन्धापनय-कर्तृत्वम् इति चेत्— न, सकार्य-कारणानाम् एव कर्मणां क्षेम-प्रतिबन्धकत्वात्। अविद्या-दोष-हेतूनि हि सर्व-कर्माणि सह फलैः कार्य-भूतैः क्षेम-प्राप्ति-प्रतिबन्धकानि। तद्-अभाव-मात्रम् एव हि क्षेम-प्राप्तिः। न च तद्-अभाव आत्म-ज्ञानाद् अन्यतः कुतश्चिद् उपलभ्यते। तथा [[ह्रुक्तम्|ह्युक्तम्]]—

[[निह्र्मत्य|निर्हृत्य]] भूत-दाहान् क्षेमं गच्छति पण्डितः (सू. ११)

इति। पाण्डित्यं च इह आत्म-ज्ञानम्, प्रकृतत्वात्। श्रुतेश् च—

आनन्दं [[ब्राहृणो|ब्रह्मणो]] विद्वान्। न बिभेति कुतश्चन।

इति। अभयं हि क्षेम-प्राप्तिः,

अभयं वै जनक प्राप्तोऽसि।

इति श्रुत्यन्तरात्।

तेषु सर्वेषु यथोपदेशम् अव्यग्रो वर्तमानः क्षेमं गच्छति।

इति आचार्य-वचनम् अन्यार्थम्। कथम्? यथोपदिष्टेषु आश्रम-धर्मेषु अव्यग्रो निष्कामः सन् प्रवर्तमानो ज्ञानेऽधिकृतो भवति; न यथेष्टं चेष्टन् काम-कामी जाया-पुत्र-वित्तादि-कामापह्मत-व्यग्र-चेताः। ज्ञानी च सन् सर्व-संन्यास-क्रमेण क्षेमं गच्छति इत्य् एषोऽर्थः। न हि दोष-निर्घातः कदाचिद् अपि कर्मभ्य उपपद्यते। स-मिथ्या-ज्ञानानां हि दोषाणां प्रवृत्तौ सत्यां प्राबल्यम् अहो उपलभ्यते।

संकल्प-मूलः कामः

इति च स्मृतेः। प्रवृत्ति-मान्द्ये च दोष-तनुत्व-दर्शनात्। न च [[अनिह्र्मत्य|अनिर्हृत्य]] स-मिथ्या-ज्ञानान् दोषान् क्षेमं प्राप्नोति कश्चित्। न च जन्मान्तर-संचितानां शुभ-कर्मणां विहित-कर्मभ्यो निवृत्तिर् उपपद्यते, शुद्धि-सामान्ये विरोधाभावात्। सत्सु च तेषु तत्-फलोपभोगाय शरीर-ग्रहणम्, ततो धर्माधर्म-प्रवृत्त-राग-द्वेषौ, पुनः शरीर-ग्रहणं च इति संसारः केन वार्यते? तस्मान् न कर्मभ्यः क्षेम-प्राप्तिः, तत्-प्रतिबन्ध-निवृत्तिर् वा॥

कर्म-सहितात् ज्ञानाद् अविद्या-निवृत्तिर् इति चेत्; यद्य् अपि ज्ञान-कर्मणोर् भिन्न-कार्यत्वात् विरोधः, तथापि तैल-वत्र्य्-अग्नीनाम् इव संहत्य कर्मणा ज्ञानम् अविद्यादि-संसार-कारणं निवर्तयति इति चेत्— न, क्रिया-कारक-फलानुपमर्देन आत्म-लाभाभावात् ज्ञानस्य कर्मभिः संहतत्वानुपपत्तेः। तैल-वत्र्य्-अग्नीनां तु सह-भावित्वोपपत्तेः इतरेतरोपकार्योपकारकत्वोपपत्तेश् च संहतत्वं स्यात्। न तु ज्ञान-कर्मणोस् तद्-उभयानुपपत्तेः संहतत्वं कदाचिद् अपि संभवति। केवल-ज्ञान-पक्षे शास्त्र-प्रतिषेध-वचनाद् अयुक्तम् इति चेत्— न, ज्ञान-कार्यानिवर्तकत्वात् शास्त्र-प्रतिषेध-वचनस्य। योऽयं कर्म-विधि-परैः केवल-ज्ञान-पक्षस्य सर्व-संन्यासस्य विप्रतिषेधो विरोधः, स नैव ज्ञान-कार्यम् अविद्या-दोष-क्षयं वारयति—

भिद्यते [[ह्मदय|हृदय]]-ग्रन्थिः… तस्य तावद् एव चिरम्… मृत्यु-मुखात् प्रमुच्यते…

इत्य् एवमादि-श्रुति-स्मृति-शत-सिद्धम्, कर्म-विधि-परत्वात् प्रवृत्ति-शास्त्रस्य। न च तत् ज्ञान-स्वरूपं ब्रह्मात्मैकत्व-विषयं वारयति। सर्वोपनिषदाम् अप्रामाण्यानर्थक्य-प्रसङ्गात्,

पूः प्राणिनः (सू. ४) आत्मा वै देवता

इत्यादि-स्मृतीनां च। तस्माद् यद्य् अपि बहुभिः प्रवृत्ति-शास्त्रैर् विप्रतिषिद्धं केवल-ज्ञान-शास्त्रम् आत्मैकत्व-विषयम् अल्पम्, तथाऽपि सकार्यस्य ज्ञानस्य बलवत्तरत्वात् न केनचिद् वारयितुं शक्यम्॥

जीवतो दुःखानिवर्तकत्वात् ज्ञानस्य अनैकान्तिकं क्षेम-प्रापकत्वम् इति चेत्— न,

भिद्यते [[ह्मदय|हृदय]]-ग्रन्थिः… [[ब्राहृ|ब्रह्म]]-विद् आप्नोति परम्… निचाय्यं तं मृत्यु-मुखात् प्रमुच्यते… [[ब्राहृ|ब्रह्म]] वेद [[ब्राहृैव|ब्रह्मैव]] भवति…

इत्यादि-श्रुति-स्मृति-न्यायेभ्यः। बहुभिर् विप्रतिषिद्धत्वात् सर्व-त्याग-शास्त्रस्य लोकवत् त्याज्यत्वम् इति चेत्— न, तुल्य-प्रमाणत्वात्। मानसान्तानि सर्वाणि कर्माण्य् उक्त्वा—

तानि वा एतान्य् अवराणि तपांसि न्यास एव अत्यरेचयत्

इति तपः-शब्द-वाच्यानां कर्मणाम् अवरत्वेन संसार-विषयत्वम् उक्त्वा न्यास-शब्द-वाच्यस्य ज्ञानस्य केवलस्य ‘न्यास एव अत्यरेचयत्’,

त्यागेन एके अमृतत्वम् आनशुः

इति अमृतत्वं फलं दर्शयति शास्त्रम्।

तस्य एवं विदुषो यज्ञस्य आत्मा यजमानः…

इत्यादिना च विदुषः सर्व-कर्माभावं दर्शयति।

द्वौ पन्थानौ अनुनिष्क्रान्ततरौ कर्म-पथश् च एवं पुरस्तात् संन्यासश् च तयोः संन्यास एव अतिरेचयति।

इति च। विप्रतिषेध-वचनस्य निन्दा-परत्वाद् अयुक्तम् इति चेत्— न, अविद्वद्-विषयस्य कर्मणः स्तुत्यर्थत्वोपपत्तेः। मन्द-बुद्धयो हि लोके दृष्ट-प्रयोजनाः प्ररोचनेन प्रवर्तयितव्याः। कर्मसु न दृष्ट-प्रयोजना विद्वांसः। पर-निन्दा हि पर-स्तुतिर् इति केवल-ज्ञान-निन्दया कर्म-स्तुति-परम् आचार्य-वचनम्॥

यत् तु—

बुद्धे चेत् क्षेम-प्रापणम् इह एव न दुःखम् उपलभेत (२.२१.१६)

इति ज्ञानस्य साधनत्वानैकान्तिक-वचनम्, तत्—

[[ब्राहृ|ब्रह्म]]-विद् आप्नोति परम्

इत्यादि-वाक्येभ्यः प्रत्युक्तम्। आचार्यान्तर-वचनाच् च—

त्यज धर्मम् अधर्मं च… न तत्र क्रमते बुद्धिः… नैष्कर्म्यम् आचरेत्… तस्मात् कर्म न कुर्वन्ति…

इत्यादेः। तस्मात् केवलाद् एव ज्ञानात् क्षेम-प्राप्तिः।

अथ आध्यात्मिकान् योगान् इति। अध्यात्मं भवन्ति इति आध्यात्मिकाः। छान्दसं ह्रस्वत्वम्। के ते आध्यात्मिका योगाः? वक्ष्यमाणा अक्रोधादयः। ते हि चित्त-समाधान-हेतुत्वात् योगाः। बाह्य-निमित्त-निरपेक्षत्वाच् च आध्यात्मिकाः। तान् आध्यात्मिकान् योगान् न्याय-संहितान् उपपत्ति-समन्वितान्। ते हि क्रोधादिषु दोष-निर्घातं प्रति समर्था उपपद्यन्ते न्यायतः। अनैश्चारिकान्— निश्चारयन्ति मनोऽन्तस्थं बहिर्-विषयेभ्य इति नैश्चारिकाः क्रोधादयो दोषाः, तत्-प्रतिपक्ष-भूता [[ह्रेते|ह्येते]], ते अनैश्चारिकाः। अक्रोधादिषु हि सत्सु चित्तम् अनिश्चरण-स्वरूपं प्रसन्नम् आत्मावलम्बनं तिष्ठति। अतस् तान् अनुतिष्ठेत् सेवेत। अक्रोधादि-लक्षणं चित्त-समाधानं कुर्याद् इति अर्थः। तथा हि परः स्व आत्मा लभ्यते। क्रोधादि-दोषापह्मत-चेतस्तया हि स्वोऽपि पर आत्मा अविज्ञातोऽलब्ध इव सर्वस्य यतः, अतस् तद्-लाभाय योगानुष्ठानं कुर्यात्॥ १॥

पुत्र-वित्तादि-लाभो हि परो दृष्टो लोके। किम् आत्म-लाभेन इति अत आह—

आत्म-लाभात् न परं विद्यते॥ २॥

आत्म-लाभात् आत्मनः परस्य स्वरूप-प्रतिपत्तेः न परं लाभान्तरं विद्यते। तथा विचारितं बृहदारण्यके— ‘तद् एतत् प्रेयः पुत्रात्’ इत्यादिना॥ २॥

तत्र आत्म-लाभीयान् श्लोकान् उदाहरिष्यामः॥ ३॥

सत्यं क्रोधादयो दोषा आत्म-लाभ-प्रतिबन्ध-भूता अक्रोधादिभिर् निहन्यन्ते, तथाऽपि न मूलोद्वर्तनेन निवृत्तिः क्रोधादीनाम्, सर्व-दोष-बीज-भूतम् अज्ञानं न निवृत्तम् इति। तस्य च अनिवृत्तौ बीजस्य अनिवर्तितत्वात् सकृन् निवृत्ता अपि क्रोधादयो दोषाः पुनर् उद्भविष्यन्ति इति संसारस्य आत्यन्तिकोच्छेदो न स्यात्। तद्-दोष-बीज-भूतस्य अज्ञानस्य ज्ञानाद् अन्यतो न निवृत्तिर् इति आत्म-स्वरूप-प्रकाशनाय आत्म-ज्ञानाय मतान्, शाखान्तरोपनिषद्भ्यः, तत्र तस्मिन् आत्म-लाभ-प्रयोजने निमित्ते, आत्मानं करतल-न्यस्तम् इव लम्भयितुं समर्थान् आत्म-लाभीयान् श्लोकान् उदाहरिष्यामः उद्धृत्य आहरिष्यामः ग्रन्थी-कृत्य दर्शयिष्याम इति अर्थः॥ ३॥

पूः प्राणिनः सर्व एव गुहा-शयस्य अहन्यमानस्य विकल्मषस्य। अचलं चल-निकेतं येऽनुतिष्ठन्ति तेऽमृताः॥ ४॥

पूः पुरं शरीरं। प्राणिनः प्राणवन्तः। सर्व एव ब्रह्मादीनि स्तम्ब-पर्यन्तानि। प्राणिनः पुरं पुरम् इव राज्ञः उपलब्ध्यधिष्ठानम्। कस्य पुरम्? गुहा-शयस्य आत्मनः। यथा स्वकीये पुरे राजा सचिवादि-परिवृत उपलभ्यते, एवं देहेषु आत्मा बुद्ध्यादि-करण-संयुक्त उपलभ्यते। उपलभते च बुद्ध्यादि-करणोपसंहृतान् भोगान्। अतः अविद्यावरणात्म-भूतायां बुद्धि-गुहायां शेते इति गुहा-शयः। तस्य पुरम्। तस्यां बुद्धौ अविद्यादि-दोष-मलापनये विद्विद्भिस् त्यक्तैषणैर् उपलभ्यते। इदम् अपरं विशेषणं गुहा-शयस्य— अहन्यमानस्य— छेदन-भेदन-जरा-रोगादिभिर् हन्यमाने देहे न हन्यते। ‘न वधेन अस्य हन्यते’ इति छान्दोग्ये। तस्य विकल्मषस्य, कल्मषं पापं तस्य नास्ति इति विकल्मषः। सर्वं [[ह्रविद्या|ह्यविद्या]]-दोष-सहितं धर्माधर्माख्यं कर्म कल्मषं भवति, विकल्मषस्य इति विशेषणेन प्रतिषिध्यते; तत्-कार्यं जरा-रोगादि-दुःख-रूपम् अहन्यमानस्य इति। एवं हेतु-फल-सम्बन्ध-रहितस्य असंसारिण उपलब्ध्यधिष्ठानं पूः सर्वे प्राणिनः। अतो न संसार्य् अन्योऽस्ति।

एको देवः सर्व-भूतेषु गूढः (श्वे. ६.११)

इति श्वेताश्वतरे।

एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते (का. १.३.१२)

इति च काठके। ‘नान्यद् अतोऽस्ति द्रष्टृ’ इत्यादि वाजसनेयके। ‘स आत्मा तत् त्वम् असि’ इति च छान्दोग्ये॥

पूर्वार्धेन [[ब्राहृणो|ब्रह्मणो]] याथात्म्यम् उक्त्वा उत्तरार्धेन तद्-विज्ञानवतस् तद्-विज्ञान-फलम् आह— यस्य सर्वे प्राणिनः पुरं अहन्यमानस्य विकल्मषस्य तस्य सर्व-प्राणि-सम्बन्धाद् अर्थ-सिद्धम् आकाशवत् सर्व-गतत्वम्, ‘आकाशवत् सर्व-गतश् च नित्यः’ इति च श्रुतेः। सर्व-गतस्य च अचलत्वम् अर्थ-सिद्धम् एव। तम् अचलं चल-निकेतं— चलायां हि प्राणि-गुहायां स्वयं शेते तम् अचलं चल-निकेतम्। येऽनुतिष्ठन्ति ममात्मा इति साक्षात् प्रतिपद्यन्ते, तेऽमृताः अमरण-धर्माणो भवन्ति॥ ४॥

कथं तद्-अनुष्ठानम् इति? उच्यते—

यद् इदम् इद् इह इद् इह लोके विषयम् उच्यते। विधूय कविर् एतद् अनुतिष्ठेत् गुहा-शयम्॥ ५॥

यद् इदं प्रत्यक्षतोऽवगम्यमानं स्त्र्यन्न-पानादि-संभोग-लक्षणम्। इद् इति किञ्चिद्-अर्थे यत् किञ्चिद् इदं प्रत्यक्षम्। इह अस्मिन् लोके। विषयम्। इदं-शब्द-सामानाधिकरण्यात् नपुंसक-लिङ्ग-प्रयोगो विषयम् इति। लिङ्ग-व्यत्ययो वा द्रष्टव्यः। छान्दसो वा प्रयोगो विषयम् इति। उभय-लिङ्गो वा विषय-शब्दः। द्वितीय इच्छब्द इह-शब्दश् च। तयोः क्वचिन् नियोगः। इच्छब्दश् च अर्थे। इह-शब्दोऽमुष्मिन् अर्थे। लोक-शब्दः काकाक्षिवद् उभयत्र सम्बध्यते— इह लोके इह च लोके अमुष्मिंश् च यद् इदं विषयम् उच्यते। स्वर्गादि-लोके पार्श्व-स्थ-मध्य-स्थो व्यपदिशति इह लोक इह च लोक इति। तत् सर्वं विधूय परित्यज्य। कविः क्रान्त-दर्शी मेधावी इति अर्थः। फलं साधनं च तद् विधूय एषणा-त्रयात् व्युत्थाय इति अर्थः। अनुतिष्ठेत् गुहा-शयं यथोक्त-लक्षणम् आत्म-तत्त्वम्॥ ५॥

तत् क्व अनुष्ठातव्यम् इति, उच्यते—

आत्मन्न् एव अहम् अलब्ध्वैतद् धितं सेवस्व नाहितम्। अथ अन्येषु प्रतीच्छामि साधुष्ठानम् अनपेक्षया। महान्तं तेजस्-कायं सर्वत्र निहितं प्रभुम्॥ ६॥

आत्मन्न् एव आत्मनि एव। प्रत्यगात्मा हि परमात्मा। सर्वं [[ह्रत्रानुष्ठेयम्|ह्यत्रानुष्ठेयम्]]। यदि देहाद् अन्यत्र अनुष्ठीयेत सोऽनात्मा कल्पितः स्यात्। तस्मात् देहादि-संघाते आत्मनि एव विधूय बाह्यासङ्गं गुहा-शयम् आत्म-तत्त्वम् अनुष्ठेयम्। किम् अन्येषु अननुष्ठेयम् इति भगवतो मतम्? बाढम्; प्रथमम् एव न अन्येषु अनुष्ठेयम् आत्म-तत्त्वम्। कथं तर्हि? सर्व-प्रयत्नेन अपि स्व-देहादि-संघाते यथोक्तम् आत्म-तत्त्वं न लभेत, अथ अहम् अन्येषु आदित्यादिषु प्रतीच्छामि अभिवाञ्छामि। साधुष्ठानं साधोः परमात्मनः उपलब्धि-स्थानं, यत्र गुहा-शयं [[ब्राहृतत्वम्|ब्रह्मतत्त्वम्]] अनुष्ठेयम्। अनपेक्षतया अन्यत् पुत्र-वित्त-लोकादि-सुखं छित्त्वा निःस्पृहतया। न [[ह्रात्मानुष्ठानं|ह्यात्मानुष्ठानं]] बाह्यार्थ-काङ्क्षा च सह संभवतः। कस्मात् पुनर् अनेकानि अन्यानि हित-प्रकाराणि अनपेक्ष्य आत्मानुष्ठानम् एव यत्नत आस्थीयत इति अत आह आचार्यः— यथा अन्यानि हितानि हित-बुद्ध्या परिगृहीतानि न तथा एवम् आत्म-सेवनम्। किं तर्हि? तत् हितम् एव। तस्मात् सेवस्व इति॥

किं-विशिष्टश् च आत्मा सेवितव्य इति आह— महान्तं अमितान्तं अनन्तरत्वाद् अबाह्यत्वाच् च महानात्मा तं महान्तम्। गुणैर् वा उपाधि-सहचारिभिर् महान्तम्, बृंहणम् इति यद्वत्। तेजस्-कायं तेजः-शरीरम् इति अर्थः। चैतन्यात्म-ज्योतिः-स्वरूपम्। तद् हि तेजसां तेजः।

येन सूर्यस् तपति तेजसेद्धः तस्य भासा सर्वम् इदं विभाति

इति श्रुतेः। सर्वत्र सर्व-देहेषु ब्रह्मादि-स्तम्ब-पर्यन्तेषु, निहितं स्थितम्, उपलब्धि-स्वरूपेण अभिव्यक्तम् इति अर्थः। न हि [[ब्राहृणो|ब्रह्मणो]]ऽभिव्यक्ति-निमित्तत्व-व्यतिरेकेण कस्यचिद् आधारत्व-संभवः। निराधारं हि [[ब्राहृ|ब्रह्म]], सर्व-गतत्वोपपत्तेः। प्रभुं प्रभवति सर्वान् ईश्वरान् प्रति, अचिन्त्य-शक्तित्वात्। एवमाद्य्-अनन्त-गुण-विशिष्टम् आत्मानं सेवस्व इति॥ ६॥

सर्व-भूतेषु यो नित्यो विपश्चिद् अमृतो ध्रुवः। अनङ्गोऽशब्दोऽशरीरोऽस्पर्शश् च महाञ् शुचिः। स सर्वं परमा काष्ठा स वैषुवतं स वैभाजनं पुरम्॥ ७॥

विशिष्टम् आत्मानं सेवस्व इति क्रिया-पदम् अनुवर्तते। किं च, सर्व-भूतेषु ब्रह्मादिषु अनित्येषु यो नित्योऽविनाशी। विपश्चिन् मेधावी, सर्वज्ञ इति अर्थः। अमृतोऽत एव, यो [[ह्रनित्यो|ह्यनित्यो]]ऽसर्वज्ञः स मर्त्यो दृष्टः; अयं तु तद्-विपरीतत्वाद् अमृतः। ध्रुवः अविचलः; निष्कम्प-स्वभाव इति अर्थः। अनङ्गः स्थूल-शरीर-रहित इति अर्थः। स्थूले हि शरीरे शिरआद्य्-अङ्गानि सम्भवन्ति। अशरीर इति लिङ्ग-शरीर-वर्जित इति एतत्। अशब्दः न अस्य शब्द-गुणः संभवति। शब्द-विद् हि सन्, अन्यथा शब्दात्मकः शब्दात्मकम् एव विजानीयात्। न च एतद् अस्ति, अतोऽशब्दः। तथा अस्पर्शः। आकाश-वायु-भूत-द्वय-गुण-प्रतिषेधेन शब्दादयो गन्धावसानाः सर्व-भूत-गुणाः प्रतिषिद्धा वेदितव्याः। तत इदं सिद्धम् आकाशाद् अपि सूक्ष्मत्वम्। शब्दादि-गुण-बाहुल्याद् वाय्वादिषु स्थौल्य-तारतम्यम् उपलभ्यते। शब्दादि-गुणाभावात् निरतिशय-सूक्ष्मत्वं सर्व-गतत्वादि च अप्रतिबन्धेन धर्म-जातं तर्केण अपि शक्यं स्थापयितुम्। महान्, अत एव शुचिर् निरञ्जनः। अथवा शुचिः पावन इति अर्थः। शुचि हि वस्तु पावनं दृष्टम्। यथा लोके वाय्व्-अग्न्यादि॥

किं च य आत्मा प्रकृतः स सर्वम्। ‘इदं सर्वं यद् अयम् आत्मा’ इति हि वाजसनेयके। न [[ह्रात्म|ह्यात्म]]-व्यतिरेकेण किञ्चिन् निरूप्यमाणम् उपपद्यते। अत एव परमा प्रकृष्टा काष्ठा अवसानम्। ‘सा काष्ठा सा परा गतिः’ इति काठके। संसार-गतीनां अवसानं निष्ठा समाप्तिर् इति अर्थः। स वैषुवतं मध्यं सर्वस्य, सर्वान्तर-श्रुतेः। विषुवत्सु वा दिवा-कीर्त्येषु मन्त्रेषु नित्यं प्रकाश्यं भवति इति वैषुवतः स परमात्मा। ननु ‘स सर्वं परमा काष्ठा स वैषुवतम्’ इत्य् उक्तम्। कस्मात् पुनस् तद्-आत्म-तत्त्वं विभक्तम् उपलभ्यते इति? उच्यते। स परमात्मा वैभाजनम्; विभक्तिर् विभजनं विवेकः आत्मनो यस्मिन् देहे क्रियते तत्। विभाजनम् एव वैभाजनम्। आत्मनो विवेकोपलब्ध्यधिष्ठानं हि शरीरम्। तच् च अनेकधा विभक्तम्। तद्-उपाध्यनुवर्तित्वात् वैभाजनम्। सर्वथा शुद्धम् एव सर्वैर् नोपलभ्यते; किं तर्हि? विभक्तो विपरीतश् च उपलभ्यते॥ ७॥

तं योऽनुतिष्ठेत् सर्वत्र प्राध्वं च अस्य सदाचरेत्। दुर्दर्शं निपुणं युक्तो यः पश्येत् स मोदेत विष्टपे॥ ८॥

अतस् तद्-उपाध्यनुवर्ति-स्वभाव-दर्शनम् अविद्याख्यं हित्वा विद्यया शास्त्र-जनित-दर्शनेन तं यथोक्त-लक्षणम् आत्मानम् अनुतिष्ठेत् सर्वत्र सर्वस्मिन् काले। किं च न केवलम् अनुष्ठान-मात्रम् अस्य; प्राध्वं बन्धनं आत्मैकत्व-रस-प्रज्ञतां स्थिरां बाह्यैषणा-व्यावृत्त-रूपां सर्व-संन्यास-लक्षणाम्। तद् हि बन्धनं विदुषो [[ब्राहृणि|ब्रह्मणि]]। एवं हि बद्धो [[ब्राहृणि|ब्रह्मणि]] संसाराभिमुखो न आवर्तते। तस्माद् बन्धनं च अस्य सदाचरेत्। तद्-अनुष्ठान-बन्धने सदाचरतः किं स्याद् इति उच्यते— दुर्दर्शं दुःखेन [[ह्रेषणा|ह्येषणा]]-त्यागादिना स दृश्यते इति दुर्दर्शम्। निपुणं, यस्माद् हि दुर्दर्शं तस्मान् निपुणम्। अत्यन्त-कौशलेन समाहित-चेतसा युक्तो यः पश्येत् साक्षात् उपलभेत अहम् आत्मा इति, स मोदेत, एवं दृष्ट्वा हर्षम् आनन्द-लक्षणं प्राप्नुयात्। विष्टपे विगत-सन्ताप-लक्षणेऽस्मिन् [[ब्राहृणीत्यर्थः|ब्रह्मणीत्यर्थः]]॥ ८॥

आत्मन् पश्यन् सर्व-भूतानि न मुह्येच् चिन्तयन् कविः। आत्मानं च एव सर्वत्र यः पश्येत् स वै [[ब्राहृा|ब्रह्मा]] नाक-पृष्ठे विराजति॥ ९॥

किं च आत्मन् पश्यन् आत्मनि पश्यन् उपलभमानः। सर्व-भूतानि सर्वाणि भूतानि। सर्वेषां भूतानाम् आत्म-स्वरूपताम् एव पश्यन्न् इति अर्थः। सर्वत्र आत्मानं च परम्। न मुह्येत् मोहं न गच्छेत्। न [[ह्रात्मैकत्व|ह्यात्मैकत्व]]-दर्शिनो मोहावतारः। ‘तत्र को मोहः’ इति च मन्त्र-लिङ्गात्। कीदृग् विशिष्टम् आत्म-दर्शनं मोह-निबर्हणम् इति आह— चिन्तयन् उपसंहृत-करणः कविः मेधावी सन् ध्यायमानः। न शब्द-जनित-दर्शन-मात्रेण मोहापगमः। सर्व-भूतेषु अनुप्रविष्टम् एकं संव्यवहार-काले यो हि युक्तः पश्येत् स वै [[ब्राहृा|ब्रह्मा]] ब्राह्मणः नाक-पृष्ठे सुख-राशौ [[ब्राहृणि|ब्रह्मणि]] विराजति विविधं दीप्यते॥ ९॥

निपुणोऽणीयान् बिसोर्णाया यः सर्वम् आवृत्त्य तिष्ठति। वर्षीयांश् च पृथिव्या ध्रुवः सर्वम् आरभ्य तिष्ठति। स इन्द्रियैर् जगतोऽस्य ज्ञानाद् अन्योऽनन्यस्य ज्ञेयात् परमे-ष्ठी विभाजः। तस्मात् कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः॥ १०॥

किं च निपुणः सर्व-वित् अणीयान् अणु-तरो बिसोर्णाया बिस-तन्तोर् अपि। कोऽसौ? यः प्रकृत आत्मा सर्वं समस्तं जगदावृत्य संव्याप्य तिष्ठति। किं च वर्षीयान् वृद्ध-तरः स्थूल-तरश् च पृथिव्याः। सर्वात्मको हि सः। ध्रुवः नित्यः सर्वं कृत्स्नम् आरभ्य संस्तम्भनं कृत्वा तिष्ठति वर्तते। ‘येन द्यौर् उग्रा पृथिवी च दृढा’ इति मन्त्र-लिङ्गात्। स सर्वेश्वरः सर्वज्ञः एको विज्ञेय इति अर्थः। स परमात्मा, इन्द्रियैर् जन्यते यज् ज्ञानं जगतोऽस्य, तस्माज् ज्ञानाद् अन्यो विलक्षणः, लौकिक-ज्ञानाद् अन्य इति विशेष-माज्-ज्ञानात्मक इति एतत् सिद्धम्। ‘सत्यं ज्ञानम् अनन्तम्’ इति च श्रुतेः। अस्य जगत इन्द्रिय-जन्य-ज्ञानाद् अन्य इति उक्तम्। अतश् च तद्-व्यतिरिक्तं जगद् इति प्राप्तम्; अतस् तन् मा भूद् इति आह— अनन्यस्य अपृथग्-भूतस्य जगतः, ज्ञेयात् ज्ञातव्यात् परमार्थ-स्वरूपाद् व्यात परमेश्वरात् घटादेर् इव मृदः। स च परमे-ष्ठी परमे प्रकृष्टे स्वे महिम्नि हृदयाकाशे अवस्थातुं शीलम् अस्य इति परमे-ष्ठी। स्वयम् एव विभाजः विभक्तो देव-पितृ-मनुष्यादिना ज्ञातृ-ज्ञेय-ज्ञान-भेदेन च, यस्मात् स एव ज्ञेय आत्मा स्वतो विभजति जगद् अनेकधा। तस्माद् एव आत्मनः कायाः शरीराणि आकाशादि-क्रमेण प्रभवन्ति सर्वे ब्रह्मादि-लक्षणः। अतो मूलं स जगतः, ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुतेः। अत एव स शाश्वतिकः। यो हि पृथिव्यादि-विकारः सोऽबादि-क्रमेण विनश्येत्, परं मूल-कारणम् आपद्यते, सोऽशाश्वतिकोऽनित्यः। अयं च आत्मा परं मूलम्। न तस्यापि अन्यन्मूलमस्ति, यतो जातो विनश्येत्, मूलम् आपद्येत, ततस् तद्-विलक्षणत्वात् शाश्वतिकः शश्वदेकरूपः। अतो नित्यः एकत्व-महत्त्व-मूलत्वेभ्यश् च॥ १०॥

एवं यथोक्तम् आत्मानं विदितवत आध्यात्मिका योगा न्याय-सहिता अप्रतिबन्धेन भविष्यन्ति। मिथ्या-प्रत्यय-पूर्वका हि दोषाः। दोष-निमित्तश् च धर्माधर्म-जनितः संसारः दोष-निवृत्तौ अत्यन्तं विनिवर्तते इति एतम् अर्थं दर्शयिष्यन् आह—

दोषाणां तु निर्घातो योग-मूल इह जीविते। [[निह्र्मत्य|निर्हृत्य]] भूत-दाहान् क्षेमं गच्छति पण्डितः॥ ११॥

दोषाणां तु क्रोधादीनां निर्घातः विनाशः। योगा अक्रोधादयः, तन्-मूलः तन्-निमित्त इति एतत्। अक्रोधादिषु सत्सु प्रतिद्वन्द्विनो दोषा दुर्बलत्वान् निर्हन्यन्ते। इह जीविते इति दोष-प्रभव-कर्म-निमित्तत्वाज् जीवितस्य देह-धारणावसानो दोष-व्यापार इति एतद् दर्शयति। तत्-प्रतिपक्षेषु अक्रोधादिषु कथं नु नाम मुमुक्षवः प्रयत्नातिशयं कुर्युर् इति। योग-दोषयोर् इतरेतर-विरोधित्वे सति स्थिति-गति-वत् योगेभ्यो दोषाणाम् एव निर्घातः, न पुनर् विपर्यय इति एतत् कथम् इति चेत्— उच्यते। सम्यग्-दर्शन-सचिवत्वात् बलवन्तो योगाः। मिथ्या-प्रत्यय-सचिवत्वात् दुर्बलत्वात् निर्हन्यन्ते निहन्ति इति एतद् अपि उक्तम्। बुद्धि-बलवद्भ्यस् तद्धीनानां लोके निर्घातो दृष्टः। ‘अक्रोधनः’ (१.१.२३) ‘क्रोधादींश् च’ (१.११.२५) इति लिङ्गात्। [[निह्र्मत्य|निर्हृत्य]] अपहृत्य। भूत-दाहान् दोषेषु [[ह्रुद्भूतेषु|ह्युद्भूतेषु]] भूतानि दह्यन्त इव अग्निना परितप्यन्ते। अतो भूत-दाहा दोषा उच्यन्ते, तान् [[निह्र्मत्य|निर्हृत्य]]। क्षेमं निर्भयं मोक्षं गच्छति ‘आनन्दं [[ब्राहृणो|ब्रह्मणो]] विद्वान् न बिभेति कुतश्चन’, ‘अभयं वै जनक प्राप्तोऽसि’, ‘न भवति विदुषां ततो भयम्’ इत्यादि-श्रुति-स्मृतिभ्यः। न दोष-प्रशम-मात्रेण अब्रह्मविदः क्षेम-प्राप्तिर् इति आह— पण्डित इति। ब्रह्म-विदि [[ह्रत्र|ह्यत्र]] पण्डित-शब्दः प्रयुक्तः, न शास्त्र-विदि ‘तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य’ इति श्रुतेः, इह आत्म-विद्याधिकारात्॥

यदि तर्हि दोष-निर्हरणं पण्डितोऽपि अपेक्षेत, तं प्रति न हि ब्रह्म-विद्या क्षेम-प्राप्ति-निमित्तम्। यदि ब्रह्म-विद्यैव क्षेम-प्राप्ति-निमित्तम्, ब्रह्म-विद्यानन्तरम् एव न दुःखम् उपलभेत। न एष दोषः। उक्तो [[ह्रत्र|ह्यत्र]] परिहारः— सम्यग्-ज्ञान-बलावष्टम्भात् बलिनो योगा दुर्बलान् दोषान् मिथ्या-प्रत्यय-भवान् निहन्तुम् अलम् इति। तस्मात् ब्रह्म-विद्यया एव क्षेम-प्राप्तिः। अन्यथा दोष-निर्हरण-कर्म-क्षययोर् असंभावात्॥

विद्यया चेत् दोष-निर्हरण-कर्म-क्षयौ अवश्यं भवतः, तत इदम् अयत्न-कार्यत्वात् दोष-निर्हरणस्य नित्यानुवाद-रूपम् अनर्थकं [[निह्र्मत्येति|निर्हृत्येति]]— न, प्रवृत्त-कर्माक्षिप्तत्वात् दोषाणाम्। द्वि-विधानि [[ह्रनेक|ह्यनेक]]-जन्मान्तर-कृतानि कर्माणि, फल-दानाय प्रवृत्तौ अन्य् अप्रवृत्तानि च। यत् तु प्रवृत्तं कर्म तेन आक्षिप्ता दोषाः कर्तुः सुख-दुःखादि-फल-दानाय, दोषाभावे फलारम्भकत्वानुपपत्तेः। न हि राग-द्वेषादि-शून्ये सुख-दुःखे प्रवृत्ति-लब्धिः कदाचित् कस्यचिद् इह दृश्यते। तस्मात् फल-दानाय प्रवृत्तेन कर्मणा आक्षिप्ता दोषाः प्रसङ्गेन प्राप्त-बला यत्नतो निर्हर्तव्याः, प्रवृत्त्याधिक्य-हेतुत्व-प्रसङ्गात्। अत एव इदम् उक्तम्— ‘दोषाणां तु निर्घातो योग-मूल इह जीविते’ इति॥

मन्द-मध्यमोत्तम-विद्यापेक्षत्वाच् च। ब्रह्म-विदाम् अपि न सर्वेषां समा ब्रह्म-प्रतिपत्तिः, विवेकातिशय-दर्शनात् कस्यचित्, ‘एष ब्रह्म-विदां वरिष्ठः’ इति श्रुतेः। ‘सम्यग्-दर्शन-संपन्नः’ इति च स्मृतेः। मन्द-मध्यम-ब्रह्म-विद्-अपेक्षया त्याग-वैराग्येन्द्रिय-जय-विधेर् अर्थवत्त्वम्। उत्तम-ब्रह्म-विदां तु अर्थ-प्राप्तम् एतत् सर्वम् इति अनुवाद-मात्रम्। ‘रसोऽपि अस्य परं दृष्ट्वा निवर्तते’ इति वचनात्, गुणातीत-लक्षण-वचनेभ्यश् च। प्रवृत्त-कर्माक्षिप्त-दोषात् तज्-जनित-चेष्टाभ्यश् च भवति विदुषोऽपि देहान्तरोत्पत्तिर् इति चेत्— मुक्त-इषु-वत् प्रवृत्त-कर्माक्षिप्तत्वात् विद्वद्-दोष-चेष्टानां प्रवृत्त-कर्मोपभोगेन एव उपक्षीण-शक्तित्वात् प्रयोजनान्तराभावाच् च न जन्मान्तरारम्भकत्वम् उपपद्यते। यद्य् अप्रवृत्तं कर्म, ततः स्वावस्थम् एव ब्रह्म-विद्याहुताशन-दग्ध-बीज-शक्तित्वात् न अलं जन्मान्तरारम्भाय, ‘क्षीयन्ते च अस्य कर्माणि’, ‘ज्ञानाग्निः सर्व-कर्माणि’ इत्यादि-श्रुति-स्मृतिभ्यः। अतः सिद्धा पण्डितस्य दोष-निर्हरणात् क्षेम-प्राप्तिः॥ ११॥

अथ भूत-दाहीयान् दोषान् उदाहरिष्यामः॥ १२॥

क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्रोहो मृषोद्यम् अत्याश-परीवादौ असूया काम-मन्यू अनात्म्यम् अयोगस् तेषां योग-मूलो निर्घातः॥ १३॥

तत्र क्रोधः ताडनाक्रोशनादि-हेतुः अन्तःकरण-विक्षोभो गात्र-स्वेद-कम्पनादि-लिङ्गः। हर्षः तद्-विपरीतितः अभीष्ट-लाभ-जनितः बाष्प-रोमाञ्चनादि-लिङ्गः। रोषः अनिष्ट-विषयो मानसो विक्रिया-विशेषः। लोभः पर-द्रव्येप्सा स्व-द्रव्याविनियोगस् तीर्थे। मोहः कार्याकार्याविवेकिता। दम्भ आत्मनो धार्मिकत्व-प्रकाशनम्। द्रोहः परानिष्ट-चिकीर्षा। मृषोद्यम् अनृत-वचनम्। अत्याश-परीवादौ— अत्याशोऽतिमात्रम् अशनम्। परीवादोऽसमक्षं पर-दोषाभिधानम्। असूया पर-गुणेषु अक्षमा। काम-मन्यू— कामः स्त्री-व्यतिकराभिलाषः। मन्युः तद्-विघात-कृत्सु द्वेषः। अनात्म्यम् अनात्मवत्ता। एष क्रोधादिर् अयोगः, असमाधान-लक्षणो [[ह्रेष|ह्येष]] चेतसो विक्षेप-प्रकारः। तेषां योग-मूलो निर्घातः॥

के पुनर् ते योगा इति? उच्यते—

अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्य-वचनम् अनत्याशोऽपैशुनम् अनसूया संविभागस् त्यागः आर्जवं मार्दवं शमो दमः सर्व-भूतैर् अविरोधो योग आर्यम् आनृशंसं तुष्टिर् इति सर्वाश्रमाणां समय-पदानि। तानि अनुतिष्ठन् विधिना सार्व-गामी भवति॥ १४॥

अक्रोधः अहर्षः इति एवम् आद्या अयोग-विपरीताः। अतस् ते समाधि-लक्षणत्वात् योगाः। संविभागः आत्मनो यात्रा-साधनस्य अर्थिभ्यः संविभजनम्। त्यागः दृष्टादृष्टेष्ट-भोगानां शक्तितः परित्यजनं, तत्-साधनानां च। आर्जवम् ऋजुता, अदुष्टाकलन-पूर्विका वाङ्-मनः-कायानां प्रवृत्तिः। मार्दवं मृदुत्वम्। शमोऽन्तःकरणोपशमः। दमो बाह्य-करणोपशमः। इदम् अन्यत योग-लक्षणं संक्षेपत उच्यते— सर्व-भूतैर् अविरोधो योगः। विरोधो हि भूतानां पीडा, तद्-अभावोऽपीडा। स एव सर्व-भूतापीडा-लक्षणो योगः। आर्यम् आर्याणां भावः अक्षुद्रता। आनृशंसम् आनृशंस्यम् अक्रौर्यम्। तुष्टिः लब्धव्यस्य अलाभेऽपि चेतसः प्रसन्नतयाऽवस्थानं लाभ इव। सर्व-भूताविरोध-लक्षणाहिंसा परिव्राजकस्यैव संभवति इत्य् आर्यादीनां त्रयाणाम् अन्येषां च अविरुद्धानां सर्वाश्रमान् प्रति प्राप्तिर् इति इति-शब्द-सामर्थ्यात्। इति-शब्दस्य च प्रकार-वचनत्वात् आर्यादीनि इत्थम्-प्रकाराणि सर्वाश्रमान् प्रति गमयति सर्वाश्रमाणां समय-पदानीति। समय-स्थानानीत्य् एतत्। अवश्यानुष्ठेयानीत्य् अर्थः। तान्य् एतानि यथोक्तान्य् अनुतिष्ठन् विधिना सर्व-गामी सर्व-गमन-शीलः, ज्ञानाभिव्यक्ति-क्रमेण भवति मुच्यत इत्य् अर्थः॥