२९ साक्ष्यम्, धर्मः

विश्वास-प्रस्तुतिः …{Loading}…

प्रयोजयिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः १

विश्वास-प्रस्तुतिः …{Loading}…

यो भूय आरभते तस्मिन्फलविशेषः २

विश्वास-प्रस्तुतिः …{Loading}…

कुटुम्बिनौ धनस्येशते ३

विश्वास-प्रस्तुतिः …{Loading}…

तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ४

विश्वास-प्रस्तुतिः …{Loading}…

विवादे विद्याभिजनसंपन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः ५

विश्वास-प्रस्तुतिः …{Loading}…

संदेहे लिङ्गतो +++(=अनुमानेन)+++ दैवेनेति विचित्य ६

विश्वास-प्रस्तुतिः …{Loading}…

पुण्याहे प्रातरग्नाविद्धे ऽपामन्ते राजवत्य् उभयतः +++(उभयपक्षाभ्याम्)+++ समाख्याप्य सर्वानुमते मुख्यः सत्यं प्रश्नं ब्रूयात् ७

विश्वास-प्रस्तुतिः …{Loading}…

अनृते राजा दण्डं प्रणयेत् ८

विश्वास-प्रस्तुतिः …{Loading}…

नरकश्चात्राधिकः सांपराये ९

विश्वास-प्रस्तुतिः …{Loading}…

सत्ये स्वर्गः सर्वभूतप्रशंसा च १०

विश्वास-प्रस्तुतिः …{Loading}…

सा निष्ठा या विद्या स्त्रीषु शूद्रेषु च ११

विश्वास-प्रस्तुतिः …{Loading}…

आथर्वणस्य वेदस्य शेष इत्युपदिशन्ति १२

विश्वास-प्रस्तुतिः …{Loading}…

कृच्छ्रा धर्मसमाप्तिः समाम्नातेन । लक्षणकर्मणात्तु समाप्यते १३

विश्वास-प्रस्तुतिः …{Loading}…

तत्र लक्षणम् । सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्यग्विनीतानां वृद्धानामात्मवतामलोलुपानामदाम्भिकानां वृत्तसादृश्यं भजेत । एवमुभौ लोकावभिजयति १४

विश्वास-प्रस्तुतिः …{Loading}…

स्त्रीभ्यः सर्ववर्णेभ्यश्च धर्मशेषान्प्रतीयादित्येक इत्येके १५

इत्येकादशः पटलः

इति द्वितीयोऽध्यायः

समाप्तं चेदमापस्तम्बीयधर्मसूत्रम्


  1. पूर्वमीमांसासूत्रस्या (जै० सू० ३. ७.१८.)नुवादोऽयम् । ↩︎ ↩︎ ↩︎

    1. ‘Though this is so, still the wife cannot spend (money) without the permission of her husband, but the husband can do (so without the consent of his wife). That may be known by Sūtra II, 6, 14, 11, “They do not declare it to be a theft if the wife spends money for a good reason during the absence of her husband.”’–Haradatta.
     ↩︎
  2. ‘Others, i.e. the sons and the rest.’–Haradatta. ↩︎

  3. Yājñ. II, 2. ↩︎

  4. ‘And the like, i.e. by cross-examination, &c.’–Haradatta. ↩︎

  5. Manu VIII, 87 seq.; Yājñ. II, 68-75. ↩︎

  6. Manu VIII, 119 seq. ↩︎

  7. म०स्मृ० ८. १०८, ↩︎

  8. उक्तवाक्यस्य इति च पु. ↩︎

  9. ऋणं दाप्यो दम च सः इति च.पु. मुद्रितपुस्तकेषु च। ↩︎

  10. Manu VIII, 89 seq. ↩︎

  11. म० स्मृ० ८. ३१८, ↩︎

  12. Manu VIII, 81 seq. ↩︎

  13. Manu II, 223. The meaning of the Sūtra is, that men ought not to study solely or at first such Śāstras as women or Śūdras also learn, but that at first they must study the Veda. See Manu II, 168. The knowledge which women and Śūdras possess is dancing, music, and other branches of the Arthaśāstra. ↩︎

  14. See above, I, 7, 20, 8 and 9. ↩︎