01 प्रयोजयिता मन्ता कर्तेति ...{Loading}...
प्रयोजयिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः १
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who instigates to, he who assists in, and he who commits (an act, these three) share its rewards in heaven and its punishments in hell.
हरदत्त-टीका
सूत्रम्
प्रयोजयिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः ॥१॥
प्रस्तावः
ननु1 शास्त्रफलं प्रयोक्तरि, तत्कथमन्यकृतमेनोऽन्यं स्पृशतीति, बहुविधत्वात् कर्तृभेदस्येत्याह—
टिप्पनी
धर्ममधर्मं वा प्रकुर्वाणं यः प्रयुंक्ते-इदमित्थं कुर्विति, स प्रयोजयिता । स चाऽनेकप्रकारः-आज्ञापकोऽभ्यर्थयिता अनुग्राहक इति । भृत्यादेर्निकृष्टस्य प्रवर्तना आज्ञा । गुर्वादेराराध्यस्य प्रवर्तनाऽभ्यर्थना । अनुग्रहो द्विविधा-उपदेशस्तत्सधर्माचरणं चेति । तत्र य इत्थमर्थमुपदिशति त्वं शत्रुमित्थं व्यापादय, धर्मार्जनेऽयं तेऽभ्युपाय इति स उपदेष्टा । यः पुनः केनचिज्जिघांसितं पलायमानं वा निरुणद्धि निरुद्धश्च हन्यते स निरोद्धाऽनुग्राहकः । मन्ता अनुमन्ता यस्याऽनुमतिमन्तरेणार्थो न निवर्तते स राजादिको धर्माधर्मयोरनुमन्ता । कर्ता साक्षाक्रियाया निर्वर्तकः । एते त्रयोऽपि स्वर्गफलेषु नरकफलेषु च कर्मसु धर्मेष्वधर्मेषु च भागिनः फलस्यांशभागिनः अंशभाजः । सर्वेषां च यथाकथंचित् कर्तृत्वम् ॥ १॥
02 यो भूय आरभते ...{Loading}...
यो भूय आरभते तस्मिन्फलविशेषः २
सर्वाष् टीकाः ...{Loading}...
Bühler
- He amongst these who contributes most to the accomplishment (of the act obtains) a greater share of the result.
हरदत्त-टीका
सूत्रम्
यो भूय आरभते तस्मिन् फलविशेषः ॥२॥
टिप्पनी
तेषु प्रयोजकादिषु यो भूय आरभते यस्य व्यापारोऽर्थनिवृत्तावधिकमुपयुज्यते तस्मिन् फलविशेषो भवति ॥ २॥
03 कुटुम्बिनौ धनस्येशते ...{Loading}...
कुटुम्बिनौ धनस्येशते ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Both the wife and the husband have power over (their) common property. 2
हरदत्त-टीका
सूत्रम्
कुटुम्बिनौ धनस्येशाते ॥३॥
प्रस्तावः
यद्यप्येवम्—
टिप्पनी
कुटुम्बिनौ दम्पती। तौ धनस्य परिग्रहे विनियोगे च ईणाते । यद्यप्येवं, तथापि भर्तुरनुशया विना स्त्री न विनियोक्तुं प्रभवति । भर्ता तु प्रभवति । तदेतेन वेदितव्यं ‘न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ती’ति (२.१४. २०) ॥ ३॥
04 तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ...{Loading}...
तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- By their permission, others also may act for their good (in this and the next world, even by spending money). 3
हरदत्त-टीका
सूत्रम्
तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ॥ ४ ॥
टिप्पनी
तयोर्दम्पत्योरनुमतेऽनुमतौ सत्यामन्येऽपि पुत्रादयः तयोरैहिकेष्वामुष्मिकेषु च हितेषु वर्तेरन् द्रव्यविनियोगेनाऽपि ॥४॥
05 विवादे विद्याभिजनसम्पन्ना वृद्धा ...{Loading}...
विवादे विद्याभिजनसंपन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Men of learning and pure descent, who are aged, clever in reasoning, and careful in fulfilling the duties (of their caste and order, shall be the judges) in lawsuits. 4
हरदत्त-टीका
सूत्रम्
विवादे विद्याभिजनसम्पन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः ॥ ५ ॥
टिप्पनी
अर्थिप्रत्यर्थिनोर्विप्रतिषिद्धो वादो विवादः । तत्र विद्यादिगुणसंयुक्ता निर्णेतारस्स्युरिति वाक्यशेषः । विद्या अध्ययनसम्पत्, अध्ययनसहितं शास्त्रज्ञानं वा । अभिजनः कुलशुद्धिः । वृद्धाः परिणतवयसः । मेधाविनः ऊहापोहकुशलाः । धर्मेषु वर्णाश्रमप्रयुक्तेषु अविनिपातिनः, विनिपातः प्रमादः तद्रहिताः ॥५॥
06 सन्देहे लिङ्गतो दैवेनेति ...{Loading}...
संदेहे लिङ्गतो +++(=अनुमानेन)+++ दैवेनेति विचित्य ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- In doubtful cases (they shall give their decision) after having ascertained (the truth) by inference, ordeals, and the like (means). 5
हरदत्त-टीका
सूत्रम्
सन्देहे लिङ्गतो देवेनेति विचित्य ॥ ६ ॥
टिप्पनी
ते च निर्णयन्तस्सन्देहस्थलेषु लिङ्गतोऽतुमानेन दैवेन तप्तमाषादिना इतिशब्दः प्रकारे । यच्चान्यदेवंयुक्तं वचनव्याघातादि तेन च विचित्यार्थस्थितिमन्विष्य निर्णेतारस्स्युरित्यध्याहृतेन वाक्यपरिसमाप्तिः ॥६॥
07 पुण्याहे प्रातरग्नाविद्धे ऽपामन्ते ...{Loading}...
पुण्याहे प्रातरग्नाविद्धे ऽपामन्ते राजवत्य् उभयतः +++(उभयपक्षाभ्याम्)+++ समाख्याप्य सर्वानुमते मुख्यः सत्यं प्रश्नं ब्रूयात् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- A person who is possessed of good qualities (may be called as a witness, and) shall answer the questions put to him according to the truth on an auspicious day, in the morning, before a kindled fire, standing near (a jar full of) water, in the presence of the king, and with the consent of all (of both parties and of the assessors), after having been exhorted (by the judge) to be fair to both sides. 6
हरदत्त-टीका
सूत्रम्
पुण्याहे प्रातरग्नाविद्धेऽपामन्ते राजवत्युभयतस्समाख्याप्य सर्वानुमते मुख्यस्सत्यं प्रश्नं ब्रूयात् ॥७॥
प्रस्तावः
अथ साक्ष्यविधिः—
टिप्पनी
पुण्याहो देवनक्षत्रम् , प्रातर्मध्याह्नादिषु अग्नाविद्धे अग्निमिध्वा तत्समीपे अपामन्ते उदकमुपनिधाय तत्समीपे राजवति राजाधिष्ठिते सदसि । राजग्रहणं प्राड्विवाकादेरुपलक्षणम् । उभयत उभयोरर्थिप्रत्यर्थिनोस्समाख्याप्य किमहं युवयोः प्रमाणभूतः साक्षीत्यात्मानं ख्यापयित्वा । यदि वा उभयतः उभयोरपि पक्षयोस्सत्यवचने च असत्यवचने च साक्षिणो यद्भावि फलं तत्—
सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन स्वर्गमेष्यसि ।
1अनृतेन महाघोरं नरकं प्रतिपस्यसे ॥
इत्यादिना प्रकारेण समाख्याप्य प्राड्विवाकादिभिः पृष्ट इति शेषः । सर्वानुमते अर्थिप्रत्यर्थिनोस्सभ्यानां चाऽनुमतौ सत्यां सभ्यो मुख्यः साक्षिगुणैरुपेतो दोषैश्च वर्जितस्साक्षी प्रश्नं पृष्टमर्थ सत्यं यथाऽऽत्मना ज्ञातं तथा ब्रूयात् ॥ ७ ॥
08 अनृते राजा दण्डम् ...{Loading}...
अनृते राजा दण्डं प्रणयेत् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- If (he is found out speaking) an untruth, the king shall punish him. 7
09 नरकश्चात्राधिकः साम्पराये ...{Loading}...
नरकश्चात्राधिकः सांपराये ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Besides, in that case, after death, hell (will be his punishment). 11
हरदत्त-टीका
सूत्रम्
नरकश्चाऽत्राधिकः साम्पराये ॥ ९॥
प्रस्तावः
न केवलमसत्यवचने राजदण्डः, किं तर्हि ?
टिप्पनी
साम्परायः परलोकः, तत्र नरकश्च भवति, न तु,
12 राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलास्स्वर्गमायान्ति सन्तस्सुकृतिनो यथा ॥
इत्यस्यायं विषय इति ॥९॥
10 सत्ये स्वर्गः सर्वभूतप्रशंसा ...{Loading}...
सत्ये स्वर्गः सर्वभूतप्रशंसा च १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he speaks the truth, (his reward will be) heaven and the approbation of all created beings. 13
हरदत्त-टीका
सूत्रम्
सत्ये स्वर्गस्सर्वभूतप्रशंसा च ॥ १० ॥
टिप्पनी
सत्य उक्ते स्वर्गो भवति । सर्वाणि च भूतान्येनं प्रशसन्ति अपि देवाः ॥१०॥
11 सा निष्ठा या ...{Loading}...
सा निष्ठा या विद्या स्त्रीषु शूद्रेषु च ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- The knowledge which Śūdras and women possess is the completion (of all study). 14
हरदत्त-टीका
सूत्रम्
सा निष्ठा या विद्या स्त्रीषु शुद्रेषु च ॥११॥
टिप्पनी
स्त्रीषु शूद्रेषु च या विद्या सा निष्ठा समाप्तिस्तस्यामप्यधिगतायां विद्याकर्म परितिष्ठतीति ॥ ११ ॥
12 आथर्वणस्य वेदस्य शेष ...{Loading}...
आथर्वणस्य वेदस्य शेष इत्युपदिशन्ति १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- They declare, that (this knowledge) is a supplement of the Atharva-Veda.
हरदत्त-टीका
सूत्रम्
आथर्वणस्य वेदस्य शेष इत्युपदिशन्ति ॥ १२ ॥
टिप्पनी
अथर्वणा प्रोक्तमधीयते ये ते आथर्वणिकाः । वसन्तादिभ्यष्ठक् । तेषां समाम्नायः । “आथर्वणिकस्येकलोपश्च” आथर्वणः । तस्य वेदस्य शेष इत्युपदिशन्ति धर्मज्ञाः-या विद्या स्त्रीषु शूद्रेषु चेति ॥ १२॥
13 कृच्छ्रा धर्मसमाप्तिः समाम्नातेन ...{Loading}...
कृच्छ्रा धर्मसमाप्तिः समाम्नातेन । लक्षणकर्मणात्तु समाप्यते १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- It is difficult to learn the sacred law from (the letter of) the Vedas (only); but by following the indications it is easily accomplished.
हरदत्त-टीका
सूत्रम्
कृच्छ्रा धर्मसमाप्तिस्समाम्नानेन लक्षणकर्मणा तु समाप्यते ॥ १३ ॥
टिप्पनी
समाम्नानं प्रतिपदपाठः । तेन धर्मसमाप्तिः कृच्छ्रा न शक्या कर्तुम् । किं तु लक्षणकर्मणा समाप्यते येन सामान्येन भिन्नानामध्यधिगमो भवति तल्लक्षणं, तस्य कर्मणा करणेन समाप्यते । कर्मणात्त्विति द्वितकारपाठोऽयमार्षः । आदिति वा निपातस्य प्रश्लेषः । स च सद्य इत्यस्यार्थे द्रष्टव्यः ॥ १३ ॥
14 तत्र लक्षणम् सर्वजनपदेष्वेकान्तसमाहितमार्याणां ...{Loading}...
तत्र लक्षणम् । सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्यग्विनीतानां वृद्धानामात्मवतामलोलुपानामदाम्भिकानां वृत्तसादृश्यं भजेत । एवमुभौ लोकावभिजयति १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- The indications for these (doubtful cases are), ‘He shall regulate his course of action according to the conduct which is unanimously recognised in all countries by men of the three twice-born castes, who have been properly obedient (to their teachers), who are aged, of subdued senses, neither given to avarice, nor hypocrites. Acting thus he will gain both worlds.’ 15
हरदत्त-टीका
सूत्रम्
तत्र लक्षणम् ॥ १४॥
सूत्रम्
सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्यग्विनीतानां वृद्धानामात्मवतामलोलुपानामदाम्भिकानां वृत्तसादृश्यं भजेत एवमुभौ लोकावमिजयति ॥ १५॥
टिप्पनी
पूर्वेण गतम् ॥ १५ ॥
15 स्त्रीभ्यः सर्ववर्णेभ्यश्च धर्मशेषान्प्रतीयादित्येक ...{Loading}...
स्त्रीभ्यः सर्ववर्णेभ्यश्च धर्मशेषान्प्रतीयादित्येक इत्येके १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare, that the remaining duties (which have not been taught here) must be learnt from women and men of all castes.
हरदत्त-टीका
सूत्रम्
स्त्रीभ्यस्सर्ववर्णेभ्यश्च धर्म शेषान्प्रतीयादित्येक इत्येके ॥ १६ ॥
टिप्पनी
उक्तव्यतिरिक्ता ये धर्मास्ते धर्मशेषास्तान् स्त्र्यादीनामपि सकाशात् प्रतायादित्येके मन्यन्ते । ते च प्रतिजनपदं प्रतिकुलं च भिन्नास्तथैव प्रतिपत्तव्याः । तत्र द्राविडाः कन्यामेषस्थे सवितर्यादित्यपूजामाचरन्ति भूमौ मण्डलमालिख्य, इत्यादीन्युदाहरणानि । द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥ १६ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकोनविंशी कण्डिका ॥ २९॥
इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ श्रीहरदत्तमिश्रविरचितायामुज्ज्वलायां द्वितीयप्रश्ने एकादशः पटलः ॥ ११ ॥
समाप्तो द्वितीयः प्रश्नः ॥
समाप्तमिदमुज्वलोज्वलितमापस्तम्बधर्मसूत्रम् ॥
इत्येकादशः पटलः
इति द्वितीयोऽध्यायः
समाप्तं चेदमापस्तम्बीयधर्मसूत्रम्
-
पूर्वमीमांसासूत्रस्या (जै० सू० ३. ७.१८.)नुवादोऽयम् । ↩︎ ↩︎ ↩︎
-
- ‘Though this is so, still the wife cannot spend (money) without the permission of her husband, but the husband can do (so without the consent of his wife). That may be known by Sūtra II, 6, 14, 11, “They do not declare it to be a theft if the wife spends money for a good reason during the absence of her husband.”’–Haradatta.
-
‘Others, i.e. the sons and the rest.’–Haradatta. ↩︎
-
Yājñ. II, 2. ↩︎
-
‘And the like, i.e. by cross-examination, &c.’–Haradatta. ↩︎
-
Manu VIII, 87 seq.; Yājñ. II, 68-75. ↩︎
-
Manu VIII, 119 seq. ↩︎
-
म०स्मृ० ८. १०८, ↩︎
-
उक्तवाक्यस्य इति च पु. ↩︎
-
ऋणं दाप्यो दम च सः इति च.पु. मुद्रितपुस्तकेषु च। ↩︎
-
Manu VIII, 89 seq. ↩︎
-
म० स्मृ० ८. ३१८, ↩︎
-
Manu VIII, 81 seq. ↩︎
-
Manu II, 223. The meaning of the Sūtra is, that men ought not to study solely or at first such Śāstras as women or Śūdras also learn, but that at first they must study the Veda. See Manu II, 168. The knowledge which women and Śūdras possess is dancing, music, and other branches of the Arthaśāstra. ↩︎
-
See above, I, 7, 20, 8 and 9. ↩︎