01 क्षेत्रम् परिगृह्योत्थानाभावात्फलाभावे यः ...{Loading}...
क्षेत्रं परिगृह्योत्थानाभावात्फलाभावे यः समृद्धः स भावि तदपहार्यः १
सर्वाष् टीकाः ...{Loading}...
Bühler
- If a person who has taken (a lease of) land (for cultivation) does not exert himself, and hence (the land) bears no crop, he shall, if he is rich, be made to pay (to the owner of the land the value of the crop) that ought to have grown. 1
हरदत्त-टीका
सूत्रम्
क्षेत्रं परिगृह्योत्थानाभावात्फलाभावे यस्समृद्धस्स भावि तदपहार्यः ॥ १॥
टिप्पनी
वैश्यो वैश्यवृत्तिर्वा परस्य क्षेत्रं कृष्यर्थं परिगृह्य यदि उत्थानं कृषिविषयं यत्नं न कुर्यात्, तदभावाच्च फलं न स्यात् , तत एतस्मिन्निमित्ते स कर्षकस्समृद्धश्चेत्तस्मिन् भोगे यद्भावि फलं तदपहार्यः अपहारयितव्यः । राज्ञा क्षेत्रस्वामिने दाप्यः ॥१॥
02 अवशिनः कीनाशस्य कर्मन्यासे ...{Loading}...
अवशिनः कीनाशस्य कर्मन्यासे दण्डताडनम् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- A servant in tillage who abandons his work shall be flogged. 2
हरदत्त-टीका
सूत्रम्
अवशिनः कीनाशस्य कर्मन्यासे दण्डताडनम् ॥२॥
टिप्पनी
कीनाशः कर्षकः। तस्याऽवशिनः अस्वतन्त्रस्य निर्धनस्थ कर्मन्यासे स चेत् कृषिकर्म न्यसेत् विच्छिन्द्यात् तस्य दण्डेन ताडनं कर्तव्यं स दण्डेन ताडयितव्यः । अर्थाभावान्नाऽर्थदण्डः ॥
अपर आह- अवशी अवश्यः अविधेयः यः क्षेत्रं परिगृह्याऽवशिनः कीनाशस्य कृषिकर्म न्यसेत् न स्वयं कुर्यात् , तदा स परिग्राहको दण्डेन ताडयितव्य इति। यदि वा अवशिन इति बहुव्रीहिः । यस्य कीनाशस्य वशी स्वतन्त्रः क्षेत्रवान्नास्ति, स यदि पूर्वकृष्टस्य क्षेत्रस्य कृषिकर्म न्यसेत् न कुर्यात्, तस्य दण्डताडनं दण्ड इति राजपुरुषस्योपदेशः ॥२॥
03 तथा पशुपस्य ...{Loading}...
तथा पशुपस्य ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- The same (punishment shall be awarded) to a herdsman (who leaves his work);
हरदत्त-टीका
सूत्रम्
तथा पशुपस्य ॥३॥
टिप्पनी
पशुपो गोपालः तस्याऽपि कर्मन्यासे पालनस्याऽकरणे दण्डेन ताडनं दण्डः ॥३॥
04 अवरोधनञ् चास्य पशूनाम् ...{Loading}...
अवरोधनं चास्य पशूनाम् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- And the flock (entrusted) to him shall be taken away (and be given to some other herdsman).
हरदत्त-टीका
सूत्रम्
अवरोधनं चाऽस्य पशूनाम् ॥ ४॥
टिप्पनी
ये चास्य पशवो रक्षणाय समर्पितास्तेषां चाऽवेराधनमपहरणं कर्तव्यमन्यस्य गोपस्य समर्पणीया इति ॥४॥
05 हित्वा व्रजमादिनः कर्शयेत्पशून् ...{Loading}...
हित्वा व्रजमादिनः कर्शयेत्पशून्। नातिपातयेत्। ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- If cattle, leaving their stable, eat (the crops of other persons, then the owner of the crops, or the king’s servants), may make them lean (by impounding them); (but) he shall not exceed (in such punishment). 3
हरदत्त-टीका
सूत्रम्
हित्वा व्रजमादिनः कर्शयेत्पशून् ॥ ५ ॥
टिप्पनी
ये पशवो व्रजे गोष्ठे निरुद्धास्तं व्रजं हित्वा आदिनस्सस्यादेर्भक्षयितारो भवन्ति; तान् कर्शयेत् बन्धनादिना कृशान् कुर्यात् । कः? यत् भक्षितं तद्वान्, राजपुरुषो वा ॥५॥
सूत्रम्
नाऽतिपातयेत् ॥ ६ ॥
टिप्पनी
नाऽतिनिरोधं कुर्यात् न ताडयेद्वेति ॥ ६ ॥
06 अवरुध्य पशून्मारणे नाशने ...{Loading}...
अवरुध्य पशून्मारणे नाशने वा स्वामिभ्योऽवसृजेत् ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- If (a herdsman) who has taken cattle under his care, allows them to peṛṣ, or loses (them by theft, through his negligence), he shall replace them (or pay their value) to the owners. 4
हरदत्त-टीका
सूत्रम्
अवरुध्य5 पशुन्मारणे नाशने वा स्वामिभ्योऽवसृजेत् ॥७॥
टिप्पनी
यदि पशुपः पशूनवरुध्य पालयितुं गृहीत्वा सभयस्थाने विसृज्योपेक्षया मारयेत् नाशयेद्वा । नाशनं चारादिभिरपहरणम् । स स्वामिभ्यः पशूनवसृजेत् प्रत्यर्पयेत् पश्वभावे मूल्यम् ॥ ७ ॥
07 प्रमादादरण्ये पशूनुत्सृष्तान्दृष्ट्वा ग्राममानीय ...{Loading}...
प्रमादादरण्ये पशूनुत्सृष्तान्दृष्ट्वा ग्राममानीय स्वामिभ्योऽवसृजेत् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- If (the king’s forester) sees cattle that have been sent into the forest through negligence (without a herdsman), he shall lead them back to the village and make them over to the owners.
हरदत्त-टीका
सूत्रम्
प्रमादादरण्ये पशूनुत्सृष्टान् दृष्ट्वा ग्राममानीय स्वामिभ्योऽवसृजेत् ॥ ८॥
टिप्पनी
यदि स्वामिनः प्रमादादरण्ये पशूनुत्सृजेयुः विना पालकेन ततस्तान् दृष्ट्वा ग्राममानीय स्वामिभ्यः अर्पयेत् । कः ? यस्तत्र रक्षकत्वेन राज्ञा नियुक्तः ॥८॥
08 पुनः प्रमादे सकृदवरुध्य ...{Loading}...
पुनः प्रमादे सकृदवरुध्य ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- If the same negligence (occur) again, he shall once impound them (and afterwards give them back).
हरदत्त-टीका
सूत्रम्
पुनः प्रमादे सकृदवरुध्य ॥ ९ ॥
टिप्पनी
पुनः प्रमादादुत्सृष्टेषु सकृदवरुध्य स्वामिभ्योऽवसृजेत् ॥९॥
09 तत ऊर्ध्वन् न ...{Loading}...
तत ऊर्ध्वं न सूर्क्षेत् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If the same fault be committed again) after that (second time), he shall not take care (of them).
हरदत्त-टीका
सूत्रम्
तत ऊर्ध्वं न सूर्क्षेत् ॥१०॥
टिप्पनी
ततो द्वितीयात् प्रयोगादूर्ध्वं ‘ग्राममानीये’त्यादि यदुक्तं तन्न सूर्क्षेत् नाद्रियेत तस्मिन् विषये उपेक्षेत ॥१०॥
10 परपरिग्रहमविद्वानाददान एधोदके मूले ...{Loading}...
परपरिग्रहमविद्वानाददान एधोदके मूले पुष्पे फले गन्धे ग्रासे शाक इति वाचा बाध्यः १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who has taken unintentionally the property of another shall be reprimanded, in case (the property be) fuel, water, roots, flowers, fruits, perfumes, fodder, or vegetables.
हरदत्त-टीका
सूत्रम्
परपरिग्रहमविद्वानाददान एधोदके मूले पुष्पे फले गन्धे ग्रासे शाक इति वाचा बाध्यः ॥ ११ ॥
टिप्पनी
एधाश्चोदकं च एधोदकम् । ग्रासो गवाद्यर्थो यवसादिः । सर्वत्र विषयसप्तमी । यः परपरिग्रहोऽयमित्यविद्वानजानन् एधादिकमादत्ते गृह्णाति, स तस्मिन्विषये तत्र नियुक्तेन राजपुरुषेण निष्ठुरया वाचा बाध्यः निवार्यः ॥ ११ ॥
11 विदुषो वाससः परिमोषणम् ...{Loading}...
विदुषो वाससः परिमोषणम् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he takes the above-mentioned kinds of property) intentionally, his garment shall be taken away.
हरदत्त-टीका
सूत्रम्
विदुषो वाससः6 परिमोषणम् ॥ १२॥
टिप्पनी
यस्तु विद्वानेवाऽऽदत्ते तस्य वाससोऽपहारः कर्तव्यः ॥ १२ ॥
12 अदण्ड्यः कामकृते तथा ...{Loading}...
अदण्ड्यः कामकृते तथा प्राणसंशये भोजनमाददानः १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who takes intentionally food when he is in danger of his life shall not be punished.
हरदत्त-टीका
सूत्रम्
अदण्ड्यः कामकृते तथा प्राणसंशये भोजनमाददानः ॥१३॥
टिप्पनी
तथाशब्दस्य भोजनमित्यनेन सम्बन्धः । प्राणसंशयदशायामेधोदकादेरादाने कामकृतेऽप्यदण्ड्यः । तथा भोजनमप्याददानः प्राणसंशये न दण्ड्य इति ॥ १३ ॥
13 प्राप्तनिमित्ते दण्डाकर्मणि राजानमेनः ...{Loading}...
प्राप्तनिमित्ते दण्डाकर्मणि राजानमेनः स्पृशति १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- If the king does not punish a punishable offence, the guilt falls upon him. 7
हरदत्त-टीका
सूत्रम्
प्राप्तनिमित्ते दण्डाकर्मणि राजानमेनस्स्पृशति ॥ १४ ॥
टिप्पनी
प्राप्त दण्डनिमित्तं यस्य तस्मिन् पुरुषे दण्डाकर्मणि दण्डस्याऽक्रियायां यदि दययाऽर्थलोभेन वा प्राप्तदण्डं न कुर्यात् तदा तदेनो राजान मेव स्पृशति ॥ १४ ॥
इत्यापस्तम्बधर्मसुत्रवृत्तौ द्वितीयप्रश्ने ऽष्टाविंशी कण्डिका ॥२८॥
-
- This Sūtra shows that the system of leasing land against a certain share of the crops, which now prevails generally in Native States, and is not uncommon in private contracts on British territory, was in force in Āpastamba’s times.
-
See Colebrooke, Digest, Book III, Text lxviii, for this Sūtra and the following two. Another commentator, quoted by Haradatta, connects this Sūtra with the preceding, and refers it to a poor lessee of land, who cannot pay the value of the crop which was lost through his negligence. A third explanation refers the Sūtra to a cultivator who neglects to till his land. Jagannātha’s authorities, the Cintāmaṇi and Ratnākara, agree with Haradatta’s first explanation. ↩︎
-
Manu VIII, 240; Yājñ. II, 159-161. ↩︎
-
Manu VIII, 232; Yājñ. II, 164. ↩︎
-
‘पशून्मारयेन्नाशयेद्वा’ इति छ, पु. ↩︎
-
परिमोक्षणम् , इति, क, पु. ↩︎
-
Manu VIII, 18, 308; Yājñ. I, 336. ↩︎