२३

01 भूयांसं वा नियममिच्छन्न् ...{Loading}...

भूयांसं वा नियमम् इच्छन्न्
अन्वहम् एव पात्रेण सायं प्रातर् अर्थम् आहरेत् १

02 ततो मूलैः फलैः ...{Loading}...

ततो मूलैः फलैः पर्णैस् तृणैर् इति वर्तयंश् चरेद्
अन्ततः प्रवृत्तानि +++(=स्वयम्पतितानि)+++,
ततोऽपो वायुम् आकाशम्
इत्य् अभिनिश्रयेत्।
तेषामुत्तर उत्तरः संयोगः फलतो विशिष्टः २

03 अथ पुराणे श्लोकावुदाहरन्ति ...{Loading}...

अथ पुराणे श्लोकाव् उदाहरन्ति ३

04 अष्टाशीतिसहस्राणि ये प्रजामीशिर ...{Loading}...

अष्टाशीति-सहस्राणि ये
प्रजाम् ईशिर +++(=अभ्यनन्दन्)+++ ऋर्षयः ।
दक्षिणेनार्यम्णः पन्थानं
ते श्मशानानि भेजिरे ४

05 अष्टाशीतिसहस्राणि ये प्रजान् ...{Loading}...

अष्टाशीतिसहस्राणि ये प्रजां नेषिरर्षयः ।
उत्तरेणार्यम्णः पन्थानं तेऽमृतत्वं हि कल्पते ५

06 इत्यूर्ध्वरेतसाम् प्रशंसा ...{Loading}...

इत्यूर्ध्वरेतसां +++(=गृहस्थेतरेषाम्)+++ प्रशंसा ६

07 अथापि सङ्कल्पसिद्धयो भवन्ति ...{Loading}...

अथापि संकल्प-सिद्धयो +++(=सङ्कल्पत एव सिद्धिः)+++ भवन्ति ७

08 यथा वर्षम् प्रजादानन् ...{Loading}...

यथा वर्षं, प्रजा-दानं,
दूरे दर्शनं, मनो-जवता,
यच्चान्यद् एवं युक्तम् ८

09 तस्माच्छ्रुतितः प्रत्यक्षफलत्वाच्च विशिष्टानाश्रमानेतानेके ...{Loading}...

तस्माच् छ्रुतितः, प्रत्यक्ष-फलत्वाच् च
विशिष्टान् आश्रमान् एतान् एके ब्रुवते ९

10 त्रैविद्यवृद्धानान् तु वेदाः ...{Loading}...

त्रैविद्य-वृद्धानां तु
वेदाः प्रमाणम्
इति निष्ठा।
तत्र यानि श्रूयन्ते
व्रीहि-यव-पश्व्-आज्य-पयः-कपाल-पत्नी-संबन्धान्य्
उच्चैर् नीचैः कार्यम् इति
तैर् विरुद्ध आचारो ऽप्रमाणम् इति मन्यन्ते १०

11 यत्तु श्मशानमुच्यते नानाकर्मणामेषोऽन्ते ...{Loading}...

यत् तु श्मशानम् उच्यते
+++(“दक्षिणेनार्यम्णः पन्थानं ते श्मशानानि भेजिरे” इत्यस्मिन्)+++
नाना-कर्मणाम् एषोऽन्ते पुरुष-संस्कारो विधीयते ११

12 ततः परमनन्त्यम् फलं ...{Loading}...

ततः परम् अनन्त्यं फलं स्वर्ग्य-शब्दं श्रूयते १२


    1. The following rules apply to a solitary hermit.
     ↩︎
  1. These Sūtras are repeated in order to show that, according to, the opinion of those who allow hermits to live with their families, the end should be the same. ↩︎

  2. ‘The “orders” have been described. Now, giving conflicting opinions, he discusses which of them is the most important.’–Haradatta. ↩︎

  3. छा० उ० ५. १०. ३-६ ↩︎ ↩︎ ↩︎

  4. This verse and the next are intended to disparage the order of householders. Haradatta explains ‘burial-grounds’ by ’new births which lead to new deaths;’ but see below, Sūtra 10. See also Yājñ. III, 186-187. ↩︎

  5. प्रजा. इति च.पु. ↩︎ ↩︎ ↩︎

  6. छा० उ० ५.१०.१,२ ↩︎ ↩︎

  7. सहस्रवत्सरसाध्यं सत्रं विश्वसृजामयनम् । अत्र संवत्सरशब्दो दिनपर इति मीमांसकाः । पू.मी. ६. ७.१३ ↩︎

  8. The Sūtra is intended to remove the blame thrown on the order of householders by the verse quoted. Haradatta seems to have forgotten his former explanation of Śmaśānāni. ↩︎

  9. यकारोपजनच्छान्दसः इति भवितुं युक्तम् । ↩︎