२२

01 तस्यारण्यमाच्छादनं विहितम् …{Loading}…

तस्यारण्यम् आच्छादनं विहितम् १

02 ततो मूलैः फलैः …{Loading}…

ततो मूलैः फलैः पर्णैस् तृणैर् इति वर्तयंश् चरेत् २

03 अन्ततः प्रवृत्तानि …{Loading}…

अन्ततः प्रवृत्तानि +++(= स्वयम् पतितानि)+++ ३

04 ततोऽपो वायुमाकाशमित्यभिनिश्रयेत् …{Loading}…

ततोऽपो वायुम् आकाशम् इत्य् अभिनिश्रयेत् ४

05 तेषामुत्तर उत्तरः संयोगः …{Loading}…

तेषाम् उत्तर उत्तरः संयोगः फलतो विशिष्टः ५

06 अथ वानप्रस्थस्यैवानुपूर्व्यमेक उपदिशन्ति …{Loading}…

अथ वानप्रस्थस्यैवानुपूर्व्यम् एक उपदिशन्ति ६

07 विद्यां समाप्य दारङ् …{Loading}…

विद्यां समाप्य
दारं कृत्वाग्नीन् आधाय
कर्माण्य् आरभते, सोमावरार्ध्यानि यानि श्रूयन्ते ७

08 गृहान्कृत्वा सदारः सप्रजः …{Loading}…

गृहान् कृत्वा सदारः सप्रजः सहाग्निभिर् बहिर्ग्रामाद् वसेत् ८

09 एको वा …{Loading}…

एको वा ९

10 शिलोञ्छेन वर्तयेत् …{Loading}…

शिलोञ्छेन+++(=उपात्तशस्यात् क्षेत्रात् शेषावचयनेन)+++ वर्तयेत् १०

11 न चात ऊर्ध्वम् …{Loading}…

न चात ऊर्ध्वं प्रतिगृह्णीयात् ११

12 अभिषिक्तश्च जुहुयात् …{Loading}…

अभिषिक्तश् च जुहुयात् १२

13 शनैरपोऽभ्यवेयादभिघ्नन्न् अभिमुखमादित्यमुदकमुपस्पृशेत् …{Loading}…

शनैर् अपोऽभ्यवेयाद्
अभिघ्नन्न्
अभिमुखम् आदित्यम्
उदकम् उपस्पृशेत् +++(=स्नायात्)+++ १३

14 इति सर्वत्रोदकोपस्पर्शनविधिः …{Loading}…

इति सर्वत्रोदकोपस्पर्शन-विधिः १४

15 तस्य द्वन्द्वन् द्र …{Loading}…

तस्य द्वन्द्वं द्रव्याणाम् एक उपदिशन्ति -
पाकार्थ-भोजनार्थ-
वासि+++(=chisel)+++-परशु-दात्र+++(=असिद)+++-काजानाम्+++(=mallet)+++ १५

16 द्वन्द्वानामेकैकमादायेतराणि दत्वारण्यमवतिष्ठेत …{Loading}…

द्वंद्वानाम् एकैकम् आदायेतराणि +++(भार्यायै)+++ दत्वा ऽरण्यम् अवतिष्ठेत १६

17 तस्यारण्येनैवात ऊर्ध्वं होमो …{Loading}…

तस्यारण्येनैवात ऊर्ध्वं होमो, वृत्तिः, +++(अतिथि-)+++प्रतीक्षा, ऽऽच्छादनं च १७

18 येषु कर्मसु पुरोडाशाश्चरवस्तेषु …{Loading}…

येषु कर्मसु पुरोडाशाश् चरवस्
तेषु कार्याः १८

19 सर्वञ् चोपांशु सह …{Loading}…

सर्वं चोपांशु - सह स्वाध्यायेन १९

20 नारण्यमभ्याश्रावयेत् …{Loading}…

नारण्यम् अभ्याश्रावयेत् २०

21 अग्न्यर्थं शरणम् …{Loading}…

अग्न्य्-अर्थं शरणम् +++(=गृहम्)+++ २१

22 आकाशे स्वयम् …{Loading}…

आकाशे स्वयम् +++(न गृहे)+++ २२

23 अनुपस्तीर्णे शय्यासने …{Loading}…

अनुपस्तीर्णे शय्य्-आसने

24 नवे सस्ये प्राप्ते …{Loading}…

नवे सस्ये प्राप्ते पुराणम् अनुजानीयात् +++(विसर्जनाय)+++ २४


    1. Manu VI, 6.
     ↩︎
  1. Manu VI, 5, 21; Yājñ. III, 46. ↩︎

  2. ‘Then he shall live on ether, i.e. eat nothing at all.’–Haradatta. Manu VI, 31; Yājñ. III, 55. ↩︎

  3. ‘The word atha, “now,” introduces a different opinion. Above, it has been declared that the life in the woods (may be begun) after the studentship only. But some teachers enjoin just for that hermit a successive performance of the acts. ↩︎

  4. Manu VI, 3 seq.; Yājñ. III, 45. ↩︎

  5. Haradatta thinks that this rule refers both to the hermit who lives with his family and to him who lives alone. Others refer it to the latter only. ↩︎

  6. ‘इति विधिः’ इत्येव सूत्रम् च्छ. पु. ↩︎ ↩︎

  7. According to Haradatta, the word kāja appears to designate a ‘mallet;’ in the passage from the Rāmāyaṇa quoted in the Petersburg Dict. the commentator explains it by peṭaka, ‘basket.’ ↩︎

  8. एकैकस्यां विधायां इति च पु. ↩︎ ↩︎

  9. Yājñ. III, 46. ↩︎

  10. This Sūtra explains the word upāṃśu, ‘inaudibly.’ ↩︎

  11. Manu VI, 15; Yājñ. III, 47. ↩︎