01 तस्यारण्यमाच्छादनं विहितम् ...{Loading}...
तस्यारण्यम् आच्छादनं विहितम् १
सर्वाष् टीकाः ...{Loading}...
Bühler
- A dress of materials procured in the woods (skins or bark) is ordained for him. 1
हरदत्त-टीका
सूत्रम्
तस्याऽऽरण्यमाच्छादनं विहितम् ॥ १ ॥
टिप्पनी
अरण्ये भवमारण्यमजिनवल्कलादि ॥१॥
02 ततो मूलैः फलैः ...{Loading}...
ततो मूलैः फलैः पर्णैस् तृणैर् इति वर्तयंश् चरेत् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- Then he shall wander about, sustaining his life by roots, fruits, leaves, and grass. 2
हरदत्त-टीका
सूत्रम्
ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेत् ॥ २ ॥
टिप्पनी
ततो मूलादिभिर्वर्तयन् वृत्तिः प्राणयात्रा तां कुर्वंश्चरेच्चरणशीलः स्यात् ॥ २॥
03 अन्ततः प्रवृत्तानि ...{Loading}...
अन्ततः प्रवृत्तानि +++(= स्वयम् पतितानि)+++ ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- In the end (he shall live on) what has become detached spontaneously.
हरदत्त-टीका
सूत्रम्
अन्ततः प्रवृत्तानि ॥३॥
टिप्पनी
मूलादिभिः स्वयंगृहीतैः कञ्चित्कालं वर्तयित्वा अन्ततः अन्ते प्रवृत्तानि स्वयमेव पतितानि अभिनिश्रयेदिति वक्ष्यमाणेन सम्बन्धः । तान्यभिनिश्रित्य तैर्वतयेदिति ॥ ३॥
04 ततोऽपो वायुमाकाशमित्यभिनिश्रयेत् ...{Loading}...
ततोऽपो वायुम् आकाशम् इत्य् अभिनिश्रयेत् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Next he shall live on water, (then) on air, then on ether. 3
हरदत्त-टीका
सूत्रम्
ततोऽपो वायुमाकाशमित्यभिनिश्रयेत् ॥ ४ ॥
टिप्पनी
ततः कियन्तञ्चित्कालमब्भक्षः ततो वायुभक्षः तत आकाशमभिनिश्रयेत् न किञ्चित् भक्षयेदिति । अभिनिश्रयणं सेवनम् ॥४॥
05 तेषामुत्तर उत्तरः संयोगः ...{Loading}...
तेषाम् उत्तर उत्तरः संयोगः फलतो विशिष्टः ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Each following one of these modes of subsistence is distinguished by a (greater) reward.
हरदत्त-टीका
सूत्रम्
तेषामुत्तर उत्तरस्संयोगः फलतो विशिष्टः ॥५॥
टिप्पनी
संयुज्यते संश्रयत इति संयोगः । तेषां मूलादीनां मध्ये उत्तरमुत्तरं समाश्रयणं फलतो विशिष्टमिति द्रष्टव्यम् ॥ ५॥
06 अथ वानप्रस्थस्यैवानुपूर्व्यमेक उपदिशन्ति ...{Loading}...
अथ वानप्रस्थस्यैवानुपूर्व्यम् एक उपदिशन्ति ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now some (teachers) enjoin for the hermit the successive performance (of the acts prescribed for the several orders). 4
हरदत्त-टीका
सूत्रम्
अथ वानप्रस्थस्यैवाऽऽनुपूर्व्यमेक उपदिशन्ति ॥६॥
टिप्पनी
अथेति पक्षान्तरोपन्यासे । पूर्वं ब्रह्मचर्यादेव वनप्रवेश उक्तः । एके वाचार्यास्तस्यैव वानप्रस्थस्याऽऽनुपूर्व्य कर्मोपदिशन्ति ॥६॥
07 विद्यां समाप्य दारङ् ...{Loading}...
विद्यां समाप्य
दारं कृत्वाग्नीन् आधाय
कर्माण्य् आरभते, सोमावरार्ध्यानि यानि श्रूयन्ते ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- After having finished the. study of the Veda, having taken a wife and kindled the sacred fires, he shall begin the rites, which end with the Soma-sacrifices, (performing) as many as are prescribed in the revealed texts.
हरदत्त-टीका
सूत्रम्
विद्यां समाप्य दारं कृत्वाऽग्नीनाधाय कर्माण्यरभते सोमावरार्ध्यानि यानि श्रूयन्ते ॥ ७ ॥
प्रस्तावः
कथम्? —
टिप्पनी
ब्रह्मचर्ये स्थितो विद्यां समाप्य गृहस्थश्च भूत्वाऽग्नीनाधाय कर्माणि कुर्यात् । कानि ? सोमावरार्ध्यानि अवरार्धं पश्चार्धं तत्र भवोऽवरार्ध्यः सोमः अवरार्ध्यो येषां तानि सोमावरार्ध्यानि सोमान्तानि हविर्यज्ञाख्यानि चातुर्मास्यादीन् हविर्यज्ञान् सोमं चेत्यर्थः । यानि श्रूयन्ते श्रुतौ विहितानि ॥७॥
08 गृहान्कृत्वा सदारः सप्रजः ...{Loading}...
गृहान् कृत्वा सदारः सप्रजः सहाग्निभिर् बहिर्ग्रामाद् वसेत् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Afterwards) he shall build a dwelling, and dwell outside the village with his wife, his children, and his fires, 5
हरदत्त-टीका
सूत्रम्
गृहान् कृत्वा सदारस्सप्रजस्सहाग्निभिर्बहिर्ग्रामाद्वसेत् ॥ ८ ॥
टिप्पनी
अथ ग्रामाद्बहिररण्ये गृहान् कृत्वा सकुटुम्बस्सहैव चाग्निभिर्ग्रामाद्बहिर्वसेत् । अस्मिन्पक्षे प्रागुक्तमेकाग्निरित्येतन्नाऽस्ति ॥ ८ ॥
09 एको वा ...{Loading}...
एको वा ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or (he may live) alone.
हरदत्त-टीका
सूत्रम्
एको वा ॥ ९ ॥
टिप्पनी
अथवा पुत्रेषु भार्यां निक्षिप्य स्वयमेक एव वसेत्। अस्मिन् पक्षे ‘प्राजापत्यां निरुप्येष्ट’मिति परिव्राज उक्तेन न्यायेन श्रौतानग्नीनात्मनि समारोप्य श्रामणकेनाऽग्निमाधाय एकाग्निर्भवेत् ॥९॥
10 शिलोञ्छेन वर्तयेत् ...{Loading}...
शिलोञ्छेन+++(=उपात्तशस्यात् क्षेत्रात् शेषावचयनेन)+++ वर्तयेत् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall support himself by gleaning corn. 6
हरदत्त-टीका
सूत्रम्
सिलोञ्छेन वर्तयेत् ॥ १० ॥
टिप्पनी
व्याख्यातः शिलोञ्छः+++(=उपात्तशस्यात् क्षेत्रात् शेषावचयनम्)+++ । तेन वर्तयेत् प्राणयात्रां कुर्यात् । इदं सकुटुम्बस्य एकाकिनश्च साधारणम् । एकाकिन एवेत्यन्ये ॥ १० ॥
11 न चात ऊर्ध्वम् ...{Loading}...
न चात ऊर्ध्वं प्रतिगृह्णीयात् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- And after that he shall not any longer take presents.
हरदत्त-टीका
सूत्रम्
न चाऽत ऊर्ध्वं प्रतिगृह्णीयात् ॥ ११ ॥
टिप्पनी
यदा सिलोञ्छेन वृत्तिर्जाता अत ऊर्ध्वं न कुतश्चिदपि प्रतिगृह्णीयात् ॥११॥
12 अभिषिक्तश्च जुहुयात् ...{Loading}...
अभिषिक्तश् च जुहुयात् १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- And he shall sacrifice (only) after having bathed (in the following manner):
हरदत्त-टीका
सूत्रम्
अभिषिक्तश्च जुहुयात् ॥ १२ ॥
टिप्पनी
यदा जुहुयात्तदा अभिषिक्तः स्नातः। अनुवादोऽयं स्नाने विशेषं विधातुम् ॥ १२ ॥
13 शनैरपोऽभ्यवेयादभिघ्नन्न् अभिमुखमादित्यमुदकमुपस्पृशेत् ...{Loading}...
शनैर् अपोऽभ्यवेयाद्
अभिघ्नन्न्
अभिमुखम् आदित्यम्
उदकम् उपस्पृशेत् +++(=स्नायात्)+++ १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall enter the water slowly, and bathe without+++(??)+++ beating it (with his hand), his face turned towards the sun.
हरदत्त-टीका
सूत्रम्
शनैरपोऽभ्युपेयादभिघ्नन्नभिमुख आदित्यमुदकमुपस्पृशेत् ॥ १३ ॥
टिप्पनी
शनैरवेगेन जलाशयं प्रविशेत् । प्रविश्य चाऽभिघ्नन् हस्तेनोदकं ताडयन् उदकमुपस्पृशेत् स्नायात् आदित्याभिमुखः ॥ १३ ॥
14 इति सर्वत्रोदकोपस्पर्शनविधिः ...{Loading}...
इति सर्वत्रोदकोपस्पर्शन-विधिः १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- This rule of bathing is valid for all (castes and orders).
हरदत्त-टीका
सूत्रम्
7इति सर्वत्रोदकोपस्पर्शनविधिः ॥ १४ ॥
टिप्पनी
सर्ववर्णाश्रमसाधारणमेतत् । तथाचोत्तरत्र तस्य ग्रहणम् ॥ १४ ॥
15 तस्य द्वन्द्वन् द्र ...{Loading}...
तस्य द्वन्द्वं द्रव्याणाम् एक उपदिशन्ति -
पाकार्थ-भोजनार्थ-
वासि+++(=chisel)+++-परशु-दात्र+++(=असिद)+++-काजानाम्+++(=mallet)+++ १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some enjoin (that he shall prepare) two sets of utensils for cooking and eating, (and) of choppers, hatchets, sickles, and mallets. 8
हरदत्त-टीका
सूत्रम्
तस्य द्वन्द्वद्रव्याणामेक उपदिशन्ति पाकार्थं भोजनार्थ वासिपरशुदात्रकाजानाम् ॥ १५ ॥
टिप्पनी
यानि पाकार्थानि ताम्रभाण्डादीनि । यानि च भोजनार्थानि कांस्यादीनि । वासिर्दर्व्यादि । तेषां सर्वेषां वास्यादीनां चतुर्णा9मेकैकस्य द्वे द्वे द्रव्ये उत्पाद्ये इत्येक उपदिशन्ति । काजमपि वास्यादिवदुपकरणविशेषो दारुमयः ॥ १५॥
16 द्वन्द्वानामेकैकमादायेतराणि दत्वारण्यमवतिष्ठेत ...{Loading}...
द्वंद्वानाम् एकैकम् आदायेतराणि +++(भार्यायै)+++ दत्वा ऽरण्यम् अवतिष्ठेत १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall take one of each pair (of instruments), give the others (to his wife), and (then) go into the forest.
हरदत्त-टीका
सूत्रम्
द्वन्दानामेकैकमादायेतराणि दत्वाऽरण्यमवतिष्ठेत ॥१६॥
टिप्पनी
तेषां पाकादिसाधनानां द्रव्याणामेकैकं द्रव्यं स्वयमादायेतराणि भार्यायै दत्वा अरण्यमवतिष्ठेत उपतिष्ठेत् आश्रयेदिति ॥ १६ ॥
17 तस्यारण्येनैवात ऊर्ध्वं होमो ...{Loading}...
तस्यारण्येनैवात ऊर्ध्वं होमो, वृत्तिः, +++(अतिथि-)+++प्रतीक्षा, ऽऽच्छादनं च १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- After that time (he shall perform) the burnt-oblations, (sustain) his life, (feed) his guests, and (prepare) his clothes with materials produced in the forest. 10
हरदत्त-टीका
सूत्रम्
तस्याऽऽरण्येनैवाऽत ऊर्ध्वं होमो वृत्तिः प्रतीक्षाच्छादनं च ॥१७॥
टिप्पनी
तस्य वानप्रस्थस्याऽतोऽरण्यप्रवेशादूर्ध्वं आरण्येनैव नीवारादिना होमः वृत्तिः प्राणयात्रा प्रतीक्षा अतिथिपूजा च आच्छादनं वल्कलादिना ॥ १७ ॥
18 येषु कर्मसु पुरोडाशाश्चरवस्तेषु ...{Loading}...
येषु कर्मसु पुरोडाशाश् चरवस्
तेषु कार्याः १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Rice must be used for those sacrifices for which cakes mixed with meat (are employed by the householder).
हरदत्त-टीका
सूत्रम्
येषु कर्मसु पुरोडाशाश्चरवस्तेषु कार्याः ॥१८॥
टिप्पनी
येषु दर्शपूर्णमासादिषु पुरोडाशा विहिताः गृहस्थस्य, तेष्वस्य तत्स्थाने 7चरवः कार्याः ॥ १८ ॥
19 सर्वञ् चोपांशु सह ...{Loading}...
सर्वं चोपांशु - सह स्वाध्यायेन १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- And all (the Mantras), as well as the daily portion of the Veda, (must be recited) inaudibly.
हरदत्त-टीका
सूत्रम्
सर्वं चोपांशु सह स्वाध्यायेन ॥ १९ ॥
टिप्पनी
सर्वं च कर्मकाण्डं साङ्गं प्रधानमुपांशु भवति पारायणब्रह्मयज्ञाध्ययनेन सह । तदप्युपांशु कर्तव्यमिति ॥ १९ ॥
20 नारण्यमभ्याश्रावयेत् ...{Loading}...
नारण्यम् अभ्याश्रावयेत् २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not make the inhabitants of the forest hear (his recitation). 11
हरदत्त-टीका
सूत्रम्
नाऽऽरण्यमभ्याश्रावयेत् ॥ २०॥
टिप्पनी
उपांशुवचनादेव सिद्धे वचनमाभिमुख्यप्रतिषेधार्थम् । तेनाऽरण्यस्था यथा नाऽऽभिमुख्येन शृणुयुः तावदुपांश्विति ॥ २० ॥
21 अग्न्यर्थं शरणम् ...{Loading}...
अग्न्य्-अर्थं शरणम् +++(=गृहम्)+++ २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- (He shall have) a house for his fire (only).
हरदत्त-टीका
सूत्रम्
अग्न्यर्थं शरणम् ॥ २१ ॥
टिप्पनी
शरणं गृहं तदग्न्यर्थमेव ॥ २१ ॥
22 आकाशे स्वयम् ...{Loading}...
आकाशे स्वयम् +++(न गृहे)+++ २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- He himself (shall live) in the open air.
हरदत्त-टीका
सूत्रम्
आकाशे स्वयम् ॥ २२ ॥
टिप्पनी
स्वयं चाऽऽकाश एव वसेत् ॥ २२ ॥
23 अनुपस्तीर्णे शय्यासने ...{Loading}...
अनुपस्तीर्णे शय्य्-आसने
सर्वाष् टीकाः ...{Loading}...
Bühler
- His couch and seat, must not be covered (with mats).
हरदत्त-टीका
सूत्रम्
अनुपस्तीर्णे शय्यासने ॥ २३ ॥
टिप्पनी
शयनं चाऽऽसनं चाऽनुपस्तीर्णे देशे कुर्यात् न तु किञ्चिदुपस्तीर्य ॥२३॥
24 नवे सस्ये प्राप्ते ...{Loading}...
नवे सस्ये प्राप्ते पुराणम् अनुजानीयात् +++(विसर्जनाय)+++ २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he obtains fresh grain, he shall throw away the old (store). 12
हरदत्त-टीका
सूत्रम्
नवे सस्ये प्राप्ते पुराणमनुजानीयात् ॥ २४ ॥
टिप्पनी
नवे धान्ये श्यामाकनीवारादौ प्राप्ते जाते पुराणं पूर्वसञ्चितं सस्यमनुजानीयात् परित्यजेत् । तत्र मनुः —
9 ‘त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् ।
जीर्णानि चैव वासांसि पुष्पमूलफलानि च ॥’ इति ॥ २४ ॥
-
- Manu VI, 6.
-
Manu VI, 5, 21; Yājñ. III, 46. ↩︎
-
‘Then he shall live on ether, i.e. eat nothing at all.’–Haradatta. Manu VI, 31; Yājñ. III, 55. ↩︎
-
‘The word atha, “now,” introduces a different opinion. Above, it has been declared that the life in the woods (may be begun) after the studentship only. But some teachers enjoin just for that hermit a successive performance of the acts. ↩︎
-
Manu VI, 3 seq.; Yājñ. III, 45. ↩︎
-
Haradatta thinks that this rule refers both to the hermit who lives with his family and to him who lives alone. Others refer it to the latter only. ↩︎
-
According to Haradatta, the word kāja appears to designate a ‘mallet;’ in the passage from the Rāmāyaṇa quoted in the Petersburg Dict. the commentator explains it by peṭaka, ‘basket.’ ↩︎
-
Yājñ. III, 46. ↩︎
-
This Sūtra explains the word upāṃśu, ‘inaudibly.’ ↩︎
-
Manu VI, 15; Yājñ. III, 47. ↩︎