01 चत्वार आश्रमा गार्हस्थ्यमाचार्यकुलम् ...{Loading}...
चत्वार आश्रमा गार्हस्थ्यम् आचार्यकुलं मौनं +++(=मुनिता/ सन्यासः)+++ वानप्रस्थ्यम् इति १
सर्वाष् टीकाः ...{Loading}...
Bühler
- There are four orders, viz. the order of householders, the order of students, the order of ascetics, and the order of hermits in the woods. 1
हरदत्त-टीका
सूत्रम्
चत्वार आश्रमा गार्हस्थ्य, माचार्यकुलं, मौनं, वानप्रस्थ्यमिति ॥१॥
प्रस्तावः
‘सर्वाश्रमाणां समयपदानी’त्युक्तं पुरस्तात् । के पुनस्ते आश्रमाः? इत्यत आह—
टिप्पनी
आश्राम्यन्त्येषु श्रेयोऽर्थिनः पुरुषा इत्याश्रमाः । एषा सामान्यसंज्ञा । गृहे तिष्ठति कुटुम्बरक्षणपर इति गृहस्थः । तस्य भावो गार्हस्थ्यम् । स एक आश्रमः । आचार्यकुलं तत्र वासो लक्षणया सोऽप्येकः। ‘मनु अवबोधन’ मनुत इति मुनिर्ज्ञानपरः । तस्य भावो मौनम् । सोऽपरः। वनं प्रतिष्ठत इति वनप्रस्थः। स एव वानप्रस्थः। प्रज्ञादित्वादण् । तस्य भावो वानप्रस्थ्यम् । इतिशब्दः परिसमाप्त्यर्थः । एतावन्त एवाऽऽश्रमा इति । चतुर्णामेवोपदेशेऽपि चत्वार इति वचनं “2ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानात् गार्हस्थ्यस्ये"ति स्मृत्यन्तरोक्तं मा ग्राहीदिति ॥ १॥
02 तेषु सर्वेषु यथोपदेशमव्यग्रो ...{Loading}...
तेषु सर्वेषु यथोपदेशम् अव्यग्रो वर्तमानः क्षेमं गच्छति २
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he lives in all these four according to the rules (of the law), without allowing himself to be disturbed (by anything), he will obtain salvation. 3
हरदत्त-टीका
सूत्रम्
तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति ॥
टिप्पनी
तेष्वाश्रमेषु चतुर्ष्वपि यथाशास्त्रमव्यग्रस्समाहितमना भूत्वा यो वर्तते, स क्षेममभयं पदं गच्छति । अनेनाऽऽश्रमविकल्प उक्तो वेदितव्यः निःश्रेयसार्थिनाऽन्यतमस्मिन्नाश्रमे यथाशास्त्रमवहितेन वर्तितव्यमिति । तथा च गौतमः-4 ‘तस्याऽश्रमविकल्पमेके ब्रुवत’ इति ॥ २ ॥
03 सर्वेषामुपनयनप्रभृति समान आचार्यकुले ...{Loading}...
सर्वेषाम् उपनयन-प्रभृति समान आचार्य-कुले वासः ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- The duty to live in the teacher’s house after the initiation is common to all of them. 5
हरदत्त-टीका
सूत्रम्
सर्वेषामुपनयनप्रभृति समान आचार्यकुले वासः ॥ ३ ॥
टिप्पनी
उपनयनप्रभृति य आचार्यकुले वासोऽष्टाचत्वारिंशद्वर्षादीनामन्यतमस्स सर्वेषामाश्रमाणां समानः ॥३॥
04 सर्वेषामनूत्सर्गो विद्यायाः ...{Loading}...
सर्वेषाम् अनूत्सर्गो विद्यायाः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Not to abandon sacred learning (is a duty common) to all.
हरदत्त-टीका
सूत्रम्
सर्वेषामनूत्सर्गो विद्यायाः ॥ ४ ॥
टिप्पनी
अनूत्सर्गः छान्दसो दीर्घः । विद्याया अनूत्सर्गोऽपि सर्वेषामाश्रमाणां समानः । तस्मादाचार्यकुले वासस्समान इति ॥ ४॥
05 बुद्ध्वा कर्माणि यत्कामयेत ...{Loading}...
बुद्ध्वा कर्माणि यत् कामयेत तद् आरभेत ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Having learnt the rites (that are to be performed in each order), he may perform what he wishes.
हरदत्त-टीका
सूत्रम्
बुध्वा कर्माणि यत्कामयते तदारभेत ॥ ५ ॥
टिप्पनी
प्रत्याश्रमं यानि कर्माणि विहितानि, तानि बुध्वा गृहस्थस्यैतानि कर्तव्यानि । एषामननुष्ठाने प्रत्यवायः । फलं चेदमेषाम्, एतानि शक्यान्यनुष्ठातुं, नैतानीत्याचार्यादुपश्रुत्य यत्कर्म फलं वा कामयेत तदारभेत तमाश्रमं प्रतिपद्यतेति ॥५॥
06 यथा विद्यार्थस्य नियम ...{Loading}...
यथा विद्यार्थस्य नियम,
एतेनैवान्तम् अनूपसीदत+++(ः= उपसदनतः)+++
आचार्य-कुले शरीर-न्यासो ब्रह्मचारिणः +++(नैष्ठिकस्य)+++६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Worshipping until death (and living) according to the rule of a (temporary) student, a (professed) student may leave his body in the house of his teacher.
हरदत्त-टीका
सूत्रम्
यथा विद्यार्थस्य नियम एतेनैवान्तमनूपसीदत आचार्यकुले शरीरन्यासो ब्रह्मचारिणः ॥६॥
प्रस्तावः
तत्र गार्हस्थ्यस्य पूर्वमेव प्रपञ्चितत्वाद्
अध्ययनानन्तरं प्रतिपित्सितस्याऽऽचार्यकुलस्य स्वरूपम् आह—
टिप्पनी
यथा विद्यार्थस्य उपकुर्वाणस्य ब्रह्मचारिणः
‘अथ ब्रह्मचर्यविधि’र् इत्य् आरभ्याऽग्नीन्धनादिनियम उक्तः,
अतस्तेनैव नियमेनाऽऽन्तम् आशरीरपाताद्
अनूपसीदतः उपसदनम् एवानूपसीदनं तत्कुर्वतः
आचार्य-कुले शरीर-न्यासः परित्यागो भवति ब्रह्मचारिणो नैष्ठिकस्य । तत्रैवाऽऽमरणात्तिष्ठेत्, नाऽऽश्रमान्तरं गच्छेत् । यदि तमेवाश्रममात्मनः क्षेमं मन्येतेति मनुः—
2 आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।
गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् ॥
एषु त्वविद्यमानेषु स्थानासनविहारवान् ।
प्रयुञ्जानोऽग्निशुश्रषां साधयेद्देहमात्मनः ॥
एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः।
स गच्छत्युत्तमं स्थानं न चेहाऽऽजायते पुनः ॥’ इति ॥६॥
07 अथ परिव्राजः ...{Loading}...
अथ परिव्राजः ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now (follow the rules) regarding the ascetic (Saṃnyāsin).
हरदत्त-टीका
सूत्रम्
अथ परिव्राजः ॥ ७ ॥
टिप्पनी
अथाऽनन्तरं परिव्राजो धर्म उच्यते । दृष्टादृष्टार्थान् सर्वानेवाऽऽरम्भान् परित्यज्याऽऽत्मलाभाय सन्यासाश्रमं परिव्रजतीति परिव्राट् सन्यासी ॥७॥
08 अत एव ब्रह्मचर्यवान्प्रव्रजति ...{Loading}...
अत एव ब्रह्मचर्यवान्प्रव्रजति ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Only after (having fulfilled) the duties of that (order of students) he shall go forth (as an ascetic), remaining chaste. 6
हरदत्त-टीका
सूत्रम्
अत एव ब्रह्मचर्यवान् प्रव्रजति ॥ ८॥
टिप्पनी
अत एव ब्रह्मचर्याश्रमादेव ब्रह्मचर्यवानविप्लुतब्रह्मचर्यः प्रव्रजति परिव्रज्यां कुर्याद्यदि तथैव पक्वकषायो भवति । श्रूयते च4 ‘ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वेति, ‘यदहरेव विरजेत्तदहरेव प्रव्रजेदि’ति च । अत्र केचिदाहुः-‘अत एवे’ति वचनात् गृहाश्रमं प्रविष्टस्य तत्परित्यागेनाश्रमान्तरप्राप्तिराचार्यस्याऽनभिमतैवेति लक्ष्यते । तत्रायमभिप्रायः– दारपरिग्रहे सति ‘यावज्जीवमग्निहोत्रं जुहुयादि’ति श्रुत्या विरुध्यते।
स कथं प्रव्रजेदिति । तस्मात्सत्यपि वैराग्ये काम्यस्य कर्मणः परित्यागेन नित्यानि नैमित्तिकानि च कर्माणि कुर्वन् प्रतिषिद्धानि वर्जयन् गृहस्थ एव मुच्यत इति । तथाऽऽह याज्ञवल्क्यः—
7 ‘न्यायार्जितधनस्तत्वज्ञाननिष्ठोऽतिथिप्रियः ।
श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ॥’ इति ।
अथ योऽनाहिताग्निस्तेस्य विरक्तस्य मुन्याश्रमप्रवेशे को विरोधः? ऋणश्रुतिविरोधः—’8जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य’ इति । मनुरपि—
9 ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः॥ इति ।
मोक्षो मोक्षाश्रमः। नन्वेवं ब्रह्मचर्यादपि प्रव्रज्या नोपपद्यते । अथ तत्र10 ‘यदहरेव विरजेदि’ति श्रुत्या युक्तं प्रव्रजितुं तदा विरक्तस्य, 11गार्हस्थ्यादपि भविष्यति । स्मर्यते च—
12 प्राजापत्यां निरूपयेष्टिं सर्ववेदसदक्षिणाम् ।
आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेत् गृहादिति ॥
तथा यो गृहस्थो वृद्धो मृतभार्यः पुनर्दारक्रियायामसमर्थः, तस्यापि युज्यते प्रव्रज्या। तस्मा’द्यदहरेव विरजे’दि13त्येषएव कालः प्रव्रज्यायाः, सर्वमन्यदविरक्तस्येति युक्तम् । एवकारस्तु सूत्रे श्रुत्यनुसारेण प्रयुक्तः । यथा ‘गृहाद्वा वनाद्वे’ति ब्रुवाणैव श्रुतिब्रह्मचर्यादेव प्रव्रजेदित्याह, तथेति ॥८॥
09 तस्योपदिशन्ति ...{Loading}...
तस्योपदिशन्ति ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- For him (the Saṃnyāsin) they prescribe the following rules).
हरदत्त-टीका
सूत्रम्
तस्योपदिशन्ति ॥ ९॥
टिप्पनी
तस्य परिव्राजः कर्तव्यमुपदिशन्ति धर्मज्ञाः ॥९॥
10 अनग्निरनिकेतः स्यादशर्माशरणो मुनिः ...{Loading}...
अनग्निर् अनिकेतः स्याद्
अशर्माशरणो मुनिः
स्वाध्यायैवोत्सृजमानो वाचं
ग्रामे प्राण-वृत्तिं प्रतिलभ्य
+अनिहो ऽनमुत्रश् चरेत् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall live without a fire, without a house, Without pleasures, without protection. Remaining silent and uttering speech only on the occasion of the daily recitation of the Veda, begging so much food only in the village as will sustain his life, he shall wander about neither caring for this world nor for heaven. 14
हरदत्त-टीका
सूत्रम्
अनग्निरनिकेतस्स्यादशर्माऽशरणो मुनिःस्वाध्याय एवोत्सृजमानो वाचं ग्रामे प्राणवृत्तिं प्रतिलभ्याऽनिहोऽनमुत्रश्चरेत् ॥ १० ॥
टिप्पनी
ब्रह्मचारिणस्समिदाधानाद्यग्निकार्यं गृहस्थस्यौपासनाद्यग्निहोत्रादि वानप्रस्थस्य15 ‘श्रामणकेनाग्निमाधाये’ति विहितेऽग्नौ होमादि । तस्य तु नैवंविधं किञ्चिदग्निकार्यमस्तीत्यनग्निः । निकेतो निवासस्थानं स्वभूतं तदभावादनिकेतः । शर्म सुखं वैषयिकं तदस्य नास्तीत्यशर्मा । किञ्चिदपि शरणं न प्रतिपन्नः नवा कस्यचिच्छरणभूत इत्यशरण । स्वाध्यायः प्रणवादिपवित्राणां जपः ।
अत्र बौधायनः —
‘वृक्षमूलिको वेद सन्न्यासी वेदो वृक्षस्तस्य मूलं प्रणवः प्रणवात्मको वेदः प्रणवो ब्रह्मभूयाय कल्पत इति होवाच प्रजापति’रिति । तत्रैव वाचं विसृजेत् । अन्यत्र मौनव्रतः स्यात् । यावता प्राणा ध्रियन्ते सा प्राणवृत्तिः । तावतीं भिक्षां ग्रामे प्रतिलभ्य । एतावानस्य ग्रामे प्रवेशः। अन्यदा बहिर्वासः । इहार्थाः कृष्यादयः परलोकार्थाश्च जपहोमादयो यस्य न सन्ति सोऽनिहोऽनमुत्र इत्युक्तः। एवंभूतश्चरेत् । नैकस्मिन् ग्रामे द्व्यहमपि वसेत् । अत्र गौतमः— 2‘न द्वितीयामपर्तु रात्रिं ग्रामे वसेदि’ति 4वर्षासु ध्रुवशील’इति च ॥ १०॥
11 तस्य मुक्तम् आच्छादनं ...{Loading}...
तस्य मुक्तम् +++(=त्यक्तम्)+++ आच्छादनं विहितम् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- It is ordained that he shall wear clothes thrown away (by others as useless).
हरदत्त-टीका
सूत्रम्
तस्य मुक्तमाच्छादनं विहितम् ॥ ११ ॥
टिप्पनी
यत् परैर्मुक्तं परित्यक्तमयोग्यतया, तत् तस्य विहितमाच्छादनं, तद्वास आच्छादयेत् । निर्णिज्येति गौतमः ॥ ११ ॥
12 सर्वतः परिमोक्षमेके ...{Loading}...
सर्वतः +++(विधितो निषेधतश्च)+++ परिमोक्षम् एके १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare that he shall go naked. 16
हरदत्त-टीका
सूत्रम्
सर्वतः परिमोक्षमेके ॥ १२ ॥
टिप्पनी
सवैरेव वासोभिः परिमोक्षमेक उपादिशन्ति । न किञ्चिदपि वासो बिभृयात् । नग्न एव चरेदिति । अपर आह—
सर्वतो विधितो निषेधतश्चाऽस्य परिमोक्षमेके ब्रुवते ।
न किञ्चिदस्य कृत्यं न किञ्चिदस्य वर्ज्यमिति ॥ १२ ॥
13 सत्यानृते सुखदुःखे वेदानिमं ...{Loading}...
सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्यात्मानम् अन्विच्छेत् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Abandoning truth and falsehood, pleasure and pain, the Vedas, this world and the next, he shall seek the Ātman. 17
हरदत्त-टीका
सूत्रम्
सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्याऽऽत्मानमन्विच्छेत् ॥ १३ ॥
प्रस्तावः
एतदेवोदाहरणैः प्रपञ्चयति—
टिप्पनी
सत्यं वक्तव्यमिति योऽयं नियमस्तं परित्यज्य तथा तत्र वक्तव्यमनृतं 18“तद्धि सत्याद्विशिष्यत” इत्यादिके विषये अनृतं वक्तव्यमिति योऽयं नियमस्तं च परित्यज्य । सुखं मृष्टभोजनादिजन्यम् । दुःखं शीतवातादिजन्यम् । वेदान् स्वाध्यायाध्ययनम् । इमं लोकं ऐहलौकिकं काम्यं कर्म । अमुं च लोकं पारलौकिकं काम्यं कर्म । सर्वमेतत् परित्यज्य आत्मानमध्यात्मपटलो(१-२२.२३)क्तमन्विच्छेत् उपासीतेति। तदेवं ज्ञानबलावलम्बनेन हतविधिनिषेधा ये स्वैरं प्रवर्तन्ते सिद्धाः तेषां मतमुपन्यस्तम् ॥ १३॥
14 बुद्धे क्षेमप्रापणम् ...{Loading}...
बुद्धे क्षेम-प्रापणम् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Some say that) he obtains salvation if he knows (the Ātman).
हरदत्त-टीका
सूत्रम्
बुद्धे क्षेमप्रापणम् ॥ १४ ॥
प्रस्तावः
अथैतेषामेव स्वैरचारिणां2 किं तत्र प्रमाणम् ? तत्राह—
टिप्पनी
आत्मनि बुद्धेऽवगते सति तदेव ज्ञानं सर्वमशुभं प्रक्षाल्य क्षेमं प्रापयति । श्रयते हि—
4 न कर्मणा वर्धते नो कनीयान् । तस्यैवात्मा पदवित्तं विदित्वा । न कर्मणा लिप्यते पापकेने’ति18 ‘तद्यथेषीकातृलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मान प्रदूयन्ते’ इति च ॥ स्मर्यते च—
19यथैधांसि समिद्धोऽग्निभस्मसात्कुरुतेऽर्जुन ॥
ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥ इति ॥ १४ ॥
15 तच्छास्त्रैर्विप्रतिषिद्धम् ...{Loading}...
तच् छास्त्रैर् विप्रतिषिद्धम् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- (But) that (opinion) is opposed to the Śāstras. 20
हरदत्त-टीका
सूत्रम्
तच्छास्त्रैर्विप्रतिषिद्धम् ॥१५॥
प्रस्तावः
तदिदं निराकरोति—
टिप्पनी
यानि यतेर् एव कर्तव्यप्रतिपादनपराणि शास्त्राणि,
तैर् एव तद्विप्रतिषिद्धम् । तत्र मनुः—
21क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ इति
अतो यतिमेव प्रकृत्य यानि विहितानि कर्माणि तानि कर्तव्यानि । यानि च निषिद्धानि तानि च वर्जनीयानि ॥ १५ ॥
16 बुद्धे चेत्क्षेमप्रापणमिहैव न ...{Loading}...
बुद्धे चेत्क्षेमप्रापणम्
इहैव न दुःखम् उपलभेत १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- (For) if salvation were obtained by the knowledge of the Ātman alone, then he ought not to feel any pain even in this (world).
हरदत्त-टीका
सूत्रम्
बुद्धे चेत्क्षेमप्रापणमिहैव न दुःखमुपलभेत ॥ १६ ॥
प्रस्तावः
‘बुद्धे क्षेमप्रापण’मित्येतत् प्रत्यक्षविरुद्धमित्याह—
टिप्पनी
आत्मबोधमात्रेण चेत् क्षेमं प्राप्यते, तदा इहैव शरीरे दुःखं नोपलभेत ज्ञानी । न चैतदस्ति । न हि ज्ञानिनां मूर्धाभिषिक्तंमन्योऽपि क्षुधादुःखमेव तावत् क्षणमात्रमपि सोढुं प्रभवति ॥ १६ ॥
17 एतेन परं व्याख्यातम् ...{Loading}...
एतेन परं +++(=पारलौकिकं [दुःखं])+++ व्याख्यातम् +++(न स्वैरचारिणां निवर्तत इति)+++१७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Thereby that which follows has been declared. 22
हरदत्त-टीका
सूत्रम्
एतेन परं व्याख्यातम् ॥ १७ ॥
टिप्पनी
परलोके भवमपि दुःखमेतेन व्याख्यातं-न स्वैरचारिणां निवर्तत इति । तस्मात् कर्मभिः परिपक्वकषाय एव श्रवणमनननिदिध्यासनैः साक्षात्कृतात्मस्वरूपः प्रतिषिद्धेषु कटाक्षमप्यनिक्षिपन्नष्टाङ्गयोगनिरतो मुच्यत इति* । अत्र बोधायनः2—‘एकदण्डी त्रिदण्डी वेति । गौतम 4-‘मुण्डशिखी वे’ति ॥ १७ ॥
- *.एतच्चिह्नानन्तरं अत्र यदुदाहृतं ‘ज्ञानेन सर्व दह्यत’ इति तत्र ज्ञानदशायाः प्रागर्जितानि कर्माणि प्रायश्चित्तेन ज्ञानेन वा दह्यन्त इत्युच्यते, न पुनर्ज्ञानदशायां स्वैरचारोऽनुज्ञायते। यस्य हि स्वशरीरेऽपि वीभत्सा स कथं पश्वादिभिरविशेषस्त्रीसङ्गमादौ प्रवर्तत” इति भागः क. पुस्तक एवास्ति अधिकपाठतया परिगणितः च. पुस्तके टिप्पण्याम्
18 अथ वानप्रस्थः ...{Loading}...
अथ वानप्रस्थः १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now (follow the rules regarding) the hermit living in the woods.
हरदत्त-टीका
सूत्रम्
अथ वानप्रस्थः ॥ १८॥
टिप्पनी
अनन्तरं वानप्रस्थाश्रम उच्यते ॥ १८॥
19 अत एव ब्रह्मचर्यवान्प्रव्रजति ...{Loading}...
अत एव ब्रह्मचर्यवान्प्रव्रजति १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Only after (completing) that (studentship) he shall go forth, remaining chaste.
हरदत्त-टीका
सूत्रम्
अत एव ब्रह्मचर्यवान् प्रव्रजति ॥ १९ ॥
टिप्पनी
प्रव्रजति प्रकर्षण व्रजति अपुनःप्रवेशाय वनं प्रतिष्ठित इति । तथा च गौतमः18— ‘ग्रामं च न प्रविशेदि’ति । गतमन्यत् , उत्तरं च ॥१९॥
20 तस्योपदिशन्ति ...{Loading}...
तस्योपदिशन्ति २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- For him they give (the following rules):
हरदत्त-टीका
सूत्रम्
तस्योपदिशन्त्येकाग्निरनिकेतस्स्यादशर्माऽशरणो मुनिःस्वाध्याय एवोत्सृजमानो वाचम् ॥ २० ॥
टिप्पनी
कः पुनरेकोऽग्निः ? न तावदौपासनः, ब्रह्मचारित्वात् । तस्माल्लौकिकेऽग्नौ यथापूर्वं सायंप्रातस्समिध आदध्यादित्यर्थो विवक्षितः।
अपरं आह-’ श्रामणकेनाग्निमाधाये’ति गौतमः । अस्यार्थः-श्रामणकं नाम वैखानससूत्रम् । तदुक्तेन प्रकारेण एकोऽग्निराधेयः । तस्मिन् सांयप्रातरग्निकार्यमिति । 19तथा च बौधायनः —‘वानप्रस्थो वैखानसशास्त्रसमुदाचारो, वैखानसो वने मूलफलाशी तपस्शीलस्सवनेषूदकमुपस्पृशन् श्रामणकेनाऽग्निमुपसमाधाये’त्यादि । अन्यद्गतम् ॥२०॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकविंशी कण्डिका ॥ २१ ॥
21 एकाग्निरनिकेतः स्यादशर्माशरणो मुनिः ...{Loading}...
एकाग्निर् अनिकेतः स्याद्
अशर्माशरणो मुनिः २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- he shall keep one fire only, have no house, enjoy no pleasures, have no protector, observe silence,
हरदत्त-टीका
सूत्रम्
एकाग्निरनिकेतः स्यादशर्माशरणो मुनिः २१
टिप्पनी
+++(पूर्वसूत्रे द्रष्टव्यम्।)+++
22 स्वाध्याय एवोत्सृजमानो वाचम् ...{Loading}...
स्वाध्याय एवोत्सृजमानो वाचम् २१
सर्वाष् टीकाः ...{Loading}...
Bühler
uttering speech on the occasion of the daily recitation of the Veda only. 23
हरदत्त-टीका
सूत्रम्
स्वाध्याय एवोत्सृजमानो वाचम् २१
टिप्पनी
+++(पूर्वसूत्रे द्रष्टव्यम्।)+++
-
- ‘Though four (orders) are enumerated, he uses the word “four,” lest, in the absence of a distinct rule of the venerable teacher, one order only, that of the householder, should be allowed, as has been taught in other Smṛtis.’–Haradatta. Manu VI, 87.
-
Manu VI, 88. ↩︎
-
Manu II, 247-249, and above. ↩︎
-
The meaning of the Sūtra is, that the studentship is a necessary preliminary for the Saṃnyāsin. If a man considers sufficiently purified by his life in that order, he may become a Saṃnyāsin immediately after its completion. Otherwise he may first become a householder, or a hermit, and enter the last p. 154 order, when his passions are entirely extinct. See also Manu VI, 36; Yājñ. III, 56-57. ↩︎
-
या०स्मृ० ३. २०२. ↩︎
-
तै० सं० ६. ३. १०. ↩︎
-
म० स्मृ० ६. ३५. ↩︎
-
जाबालो० ४. ↩︎
-
गृहस्थस्यापि इति च. पु. ↩︎
-
म० स्मृ० ६. ३८. ↩︎
-
“एक एवांश’ इति ड. पु. ↩︎
-
Manu VI, 33, 42-45; Yājñ. III, 58 seq. ↩︎
-
गौ० ध० ३. १७. ↩︎
-
‘Another (commentator) says, “Some declare that he is free from all injunctions and prohibitions, i.e. he need neither perform nor avoid any (particular actions),”’–Haradatta. ↩︎
-
‘He shall seek, i.e. worship, the Ātman or Self, which has been described in the section on transcendental knowledge (I, 8).’–Haradatta. ↩︎
-
Haradatta apparently takes the word Śāstras to mean ‘Dharmaśāstras.’ ↩︎
-
म० स्मृ०. ६.४८, ५० ↩︎
-
‘That which follows’ are the Yogas, which must be employed in order to cause the annihilation of pain, after the knowledge of the Ātman or Self has been obtained. ↩︎
-
‘But which is that one fire? Certainly not the Gṛhya-fire, because he must remain chaste. Therefore the meaning intended is, “He shall offer a Samidh morn and evening in the common fire, just as formerly, (during his studentship).” Another commentator says, “Gautama declares that he shall kindle a fire according to the rule of the Śrāmanaka Sūtra. The Śrāmanaka Sūtra is the Vaikhānasa Sūtra. Having kindled a fire in the manner prescribed there, he shall sacrifice in it every morning and every evening.”’–Haradatta. See also Manu VI, 4; Yājñ. III, 45. ↩︎