२०

01 मासिश्राद्धे तिलानान् द्रोणन् ...{Loading}...

मासिश्राद्धे तिलानां द्रोणं द्रोणं येनोपायेन +++(= अभ्यङ्गपाकादौ)+++ शक्नुयात्तेनोपयोजयेत् १

02 समुदेतांश्च भोजयेन्न चातद्गुणायोच्छिष्टन् ...{Loading}...

समुदेतांश्च भोजयेन्न चातद्गुणायोच्छिष्टं दद्युः २

03 उदगयन आपूर्यमाणपक्षस्यैकरात्रमवरार्ध्यमुपोष्य तिष्येण ...{Loading}...

उदगयन आपूर्यमाणपक्षस्यैकरात्रमवरार्ध्यमुपोष्य तिष्येण पुष्टिकामः स्थालीपाकं श्रपयित्वा महाराजमिष्ट्वा तेन सर्पिष्मता ब्राह्मणं भोजयित्वा पुष्ट्यर्थेन सिद्धिं वाचयीत ३

04 एवमहरहरा परस्मात्तिष्यात् ...{Loading}...

एवमहरहरा परस्मात्तिष्यात् ४

05 द्वौ द्वितीये ...{Loading}...

द्वौ द्वितीये ५

06 त्रींस्तृतीये ...{Loading}...

त्रींस्तृतीये ६

07 एवं संवत्सरमभ्युच्चयेन ...{Loading}...

एवं संवत्सरमभ्युच्चयेन ७

08 महान्तम् पोषम् पुष्यति ...{Loading}...

महान्तं पोषं पुष्यति ८

09 आदित एवोपवासः ...{Loading}...

आदित एवोपवासः ९

10 आत्ततेजसाम् भोजनं वर्जयेत् ...{Loading}...

आत्ततेजसां भोजनं वर्जयेत् १०

11 भस्मतुषाधिष्ठानम् ...{Loading}...

भस्मतुषाधिष्ठानम् ११

12 पदा पादस्य प्रक्षालनमधिष्ठानञ् ...{Loading}...

पदा पादस्य प्रक्षालनमधिष्ठानं च वर्जयेत् १२

13 प्रेङ्खोलनञ् च पादयोः ...{Loading}...

प्रेङ्खोलनं च पादयोः १३

14 जानुनि चात्याधानञ् जङ्घायाः ...{Loading}...

जानुनि चात्याधानं जङ्घायाः १४

15 नखैश्च नखवादनम् ...{Loading}...

नखैश्च नखवादनम् १५

16 स्फोटनानि चाकारणात् ...{Loading}...

स्फोटनानि चाकारणात् १६

17 यच्चान्यत्परिचक्षते ...{Loading}...

यच्चान्यत्परिचक्षते १७

18 योक्ता च धर्मयुक्तेषु ...{Loading}...

योक्ता च धर्मयुक्तेषु द्रव्यपरिग्रहेषु च १८

19 प्रतिपादयिता च तीर्थे ...{Loading}...

प्रतिपादयिता च तीर्थे १९

20 यन्ता चातीर्थे यतो ...{Loading}...

+++(दानस्य नि)+++यन्ता चातीर्थे यतो न भयं स्यात् २०

21 सङ्ग्रहीता च मनुष्यान् ...{Loading}...

संग्रहीता च मनुष्यान् २१

22 भोक्ता च धर्माविप्रतिषिद्धान्भोगान् ...{Loading}...

भोक्ता च धर्माविप्रतिषिद्धान्भोगान् २२

23 एवमुभौ लोका वभिजयति ...{Loading}...

एवमुभौ लोका वभिजयति २३

इत्यष्टमः पटलः


    1. A droṇa equals 128 seers or śeras. The latter is variously reckoned at 1-3 lbs.
     ↩︎
  1. The reason why the constellation Tiṣya has been chosen for this rite seems to be that Tiṣya has another name, Puṣya, i.e. ‘prosperous’. This sacrifice is to begin on the Tiṣya-day of the month called Taiṣa or Pauṣa (December-January), and to continue for one year. ↩︎

  2. कुबेराय वैश्रवणाय । महाराजाय नमः । (तै० आर० १. ३१. ) इति मन्त्रे वैश्रवणस्य महाराजपदेन सामानाधिकरण्यात् ॥ ↩︎

  3. Manu IV, 7 8. ↩︎

  4. ‘Good reasons for cracking the joints are fatigue or rheumatism.’–Haradatta. ↩︎

  5. Manu XI, 6, and passim. ↩︎