१९

01 गौरसर्षपाणाञ् चूर्णानि कारयित्वा ...{Loading}...

गौर-सर्षपाणां चूर्णानि कारयित्वा
तैः पाणि-पादं प्रक्षाल्य
मुखं कर्णौ प्राश्य च
यद्-वातो नातिवाति तद्-आसनो
ऽजिनं बस्तस्य +++(=अजस्य)+++ प्रथमः कल्पो
वाग्यतो दक्षिणा-मुखो भुञ्जीत १

02 अनायुष्यन् त्वेवम्मुखस्य भोजनम् ...{Loading}...

अनायुष्यं त्व् एवं-मुखस्य भोजनं मातुर्

इत्य् उपदिशन्ति +++(येन जीवन्-मातृको नैतत् कुर्यात्)+++ २

03 औदुम्बरश्चमसः सुवर्णनाभः प्रशास्तः ...{Loading}...

औदुम्बरश् चमसः सुवर्ण-नाभः प्रशास्तः ३

04 न चान्येनापि भोक्तव्यः ...{Loading}...

न चान्येनापि भोक्तव्यः ४

05 यावद्ग्रासं सन्नयन् ...{Loading}...

यावद्-ग्रासं संनयन् ५

06 अस्कन्दयन् ...{Loading}...

अस्कन्दयन् ६

07 नापजहीत ...{Loading}...

नापजहीत +++(=सव्य-पाणिना न विमुञ्चेत्)+++ ७

08 अपजहीत वा ...{Loading}...

अपजहीत वा ८

09 कृत्स्नङ् ग्रासङ् ग्रसीत ...{Loading}...

कृत्स्नं ग्रासं ग्रसीत सहाङ्गुष्ठम् ९

10 न च मुखशब्दङ् ...{Loading}...

न च मुख-शब्दं कुर्यात् १०

11 पाणिञ् च नावधूनुयात् ...{Loading}...

पाणिं च नावधूनुयात् ११

12 आचम्य चोर्ध्वौ पाणी ...{Loading}...

आचम्य चोर्ध्वौ पाणी धारयेद् आ प्रोदकी-भावात् +++(=शुष्कभावात्)+++ १२

13 ततो ऽग्निमुपस्पृशेत् ...{Loading}...

ततो ऽग्निम् उपस्पृशेत् १३

14 दिवा च न ...{Loading}...

दिवा च न भुञ्जीतान्यन् मूलफलेभ्यः १४

15 स्थालीपाकानुदेश्यानि च वर्जयेत् ...{Loading}...

स्थालीपाक+++(दान-)++++अनुदेश्यानि +++(=देवपितृभ्यः सङ्कल्पितानि)+++ च वर्जयेत् १५

16 सोत्तराच्छादनश्चैव यज्ञोपवीती भुञ्जीत ...{Loading}...

सोत्तराच्छादनश् चैव यज्ञोपवीती +++(=उत्तरीयं यज्ञोपवीतवत् कृत्वा)+++ भुञ्जीत १६

17 नैय्यमिकन् तु श्राद्धं ...{Loading}...

नैय्यमिकं +++(→मासि मासि क्रियमाणं)+++ तु श्राद्धं स्नेहवद्
एव दद्यात् १७

18 सर्पिर्मांसमिति प्रथमः कल्पः ...{Loading}...

सर्पिर् मांसम् इति प्रथमः कल्पः १८

19 अभावे तैलं शाकमिति ...{Loading}...

अभावे तैलं शाकम् इति १९

20 मघासु चाधिकं श्राद्धकल्पेन ...{Loading}...

मघासु चाधिकं श्राद्ध-कल्पेन
सर्पिर् ब्राह्मणान् भोजयेत् २०


    1. The ceremony which is here described, may also be performed daily. If the reading prāsya is adopted, the translation must run thus: ‘and he shall scatter (the remainder of the powder). If the wind,’ &c.
     ↩︎
  1. पा०सू० २. ३.४५, ↩︎ ↩︎

  2. ‘Therefore those whose mothers are alive should not perform this ceremony.’–Haradatta. ↩︎

  3. If the masculine bhoktavyaḥ is used instead of bhoktavyam, the participle must be construed with camasaḥ. ↩︎

  4. The verbum finitum, which according to the Sanskrit text ought to be taken with the participle saṃnayan, is grasīta, Sūtra 9. ↩︎

  5. ‘Why is this second alternative mentioned, as (the first Sūtra) suffices? True. But according to the maxim that “restrictions are made on account of the continuance of an action once begun,” the meaning of this second Sūtra is that he shall p. 150 continue to the end to handle the vessel (in that manner in which) he has handled it when eating for the first time.’–Haradatta. ↩︎

  6. Haradatta remarks that some allow, according to II, 2, 4, 22, the sacred thread to be substituted, and others think that both the thread and the garment should be worn over the left shoulder and under the right arm. ↩︎