01 सह देवमनुष्या अस्मिंल् ...{Loading}...
सह देवमनुष्या अस्मिंल् लोके पुरा बभूवुः ।
अथ देवाः कर्मभिर् दिवं जग्मुर्,
अहीयन्त मनुष्याः ।
तेषां ये तथा कर्माण्य् आरभन्ते
सह देवैर् ब्रह्मणा चामुष्मिंल् लोके भवन्ति ।
अथैतन् मनुः श्राद्ध-शब्दं कर्म प्रोवाच १
सर्वाष् टीकाः ...{Loading}...
Bühler
- Formerly men and gods lived together in this world. Then the gods in reward of their sacrifices went to heaven, but men were left behind. Those men who perform sacrifices in the same manner as the gods did, dwell (after death) with the gods and Brahman in heaven. Now (seeing men left behind), Manu revealed this ceremony, which is designated by the word Śrāddha (a funeral-oblation). 1
हरदत्त-टीका
सूत्रम्
सह देवमनुष्या अस्मिंल्लोके पुरा बभूवुः । अथ देवाः कर्मभिर्दिवं जग्मुरहीयन्त मनुष्याः । तेषां ये तथा कर्माण्यारभन्ते सह देवैर्ब्रह्मणा चाऽमुष्मिन् लोके भवन्ति । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच । 2प्रजानिश्श्रेयसाय च ॥ १ ॥
टिप्पनी
3श्राद्धविधित्सया तस्य प्ररोचनार्थोऽयमर्थवादः ।
पुरा किल देवाश्च मनुष्याश्चाऽस्मिन्नेव लोके सहैव बभूवुः ।
अथ तं सहभावम् असहमाना देवाः
कर्मभिः श्रौतैस् स्मार्तैर् गार्ह्यैश् च
यथावद् अनुष्ठितैर् दिवं जग्मुः
मनुष्यास् तु
तथा कर्तुम् असमर्था अहीयन्त,
हीना अभवन् इहैव लोके स्थिताः ।
यत एवं कर्मणां सामर्थ्यम्
अत इदानीम् अपि
तेषां मनुष्याणां मध्ये ये तथा कर्माण्य् आरभन्ते कुर्वन्ति
यथारभन्त देवाः,
ते देवैः ब्रह्मणा च सहामुष्मिन् लोके भवन्ति त्रिविष्टपे मोदन्ते4 ।
अथैवं हीनान् मनुष्यान् दृष्ट्वा
मनुर् वैवस्वतः श्राद्ध-शब्दं श्राद्धम् इति शब्द्यमानम् एतत् कर्म प्रोवाच ।
किमर्थम् ?
प्रजानिःश्रेयसाय, तादर्थ्ये चतुर्थी ।
प्रजानां निःश्रेयसार्थम् ।
निश्श्रेयसा चेति पाठे
छान्दसो यकारस्य चकारः।
अपर आह- छान्दसो लिङ्गव्यत्ययः ।
प्रजा-निश्श्रेयसं चाऽस्य कर्मणः फलम् इति ॥१॥
02 प्रजानिःश्रेयसा च ...{Loading}...
प्रजानिःश्रेयसाय+++(च)+++ २
03 तत्र पितरो देवता ...{Loading}...
तत्र पितरो देवता
ब्राह्मणास् त्वाहवनीयार्थे ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- At that (rite) the Manes (of one’s father, grandfather, and great-grand father) are the deities (to whom the sacrifice is offered). But the Brāhmaṇas, (who are fed,) represent the Āhavanīya-fire. 6
हरदत्त-टीका
सूत्रम्
तत्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे ॥२॥
टिप्पनी
तत्र श्राद्धकर्मणि
पितरः पितृपितामहप्रपितामहाः देवताः ।
ब्राह्मणास् तु भुञ्जाना आहवनीयार्थे आहवनीयकृत्ये वेदितव्याः।
त्रीणि श्राद्ध-करणानि- होमो, ब्राह्मण-भोजनं, पिण्ड-दानं चेति ।
अत्र भोजनस्य7 प्रधानत्व-ख्यापनार्थो ऽयम् अर्थवादः ॥ २ ॥
04 मासि मासि कार्यम् ...{Loading}...
मासि मासि कार्यम् +++(यावज्जीवम्)+++ ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- That rite must be performed in each month. 8
हरदत्त-टीका
सूत्रम्
मासि मासि कार्यम् ॥ ३ ॥
टिप्पनी
तद् इदं कर्म
मासे मासे कर्त्तव्यम् ।
वीप्सा-वचनाद् यावज्-जीविको ऽभ्यासः।
05 अपरपक्षस्यापराह्नः श्रेयान् ...{Loading}...
अपर-पक्षस्यापराह्नः श्रेयान् ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- The afternoon of (a day of) the latter half is preferable (for it). 9
हरदत्त-टीका
सूत्रम्
अपरपक्षस्याऽपराह्णः श्रेयान् ॥ ४॥
टिप्पनी
अपरपक्षस्य यान्य् अहानि
तेष्व् अपराह्णः प्रशस्ततरः ॥४॥
06 तथापरपक्षस्य जघन्यान्यहानि ...{Loading}...
तथा ऽपरपक्षस्य जघन्यान्य् अहानि ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- The last days of the latter half (of the month) likewise are (preferable to the first days).
हरदत्त-टीका
सूत्रम्
तथाऽपरपक्षस्य जघन्यान्यहानि ॥ ५ ॥
टिप्पनी
यस्यैव पक्षस्य यान्य् अहानि पञ्चदश2
तेषाम् उत्तरम् उत्तरं प्रशस्ततरम् ॥ ५॥
07 सर्वेष्वेवापरपक्षस्याहस्सु क्रियमाणे पितॄन्प्रीणाति ...{Loading}...
सर्वेष्व् एवापर-पक्षस्याहस्सु क्रियमाणे
पितॄन् प्रीणाति ।
कर्तुस्तु +++(प्रतिपद्येव द्वितीयायाम् एवेत्यादि)+++ कालाभिनियमात् फल-विशेषः ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- (A funeral-oblation) offered on any day of the latter half of the month gladdens the Manes. But it procures different rewards for the sacrificer according to the time observed. 10
हरदत्त-टीका
सूत्रम्
सर्वेष्वेवाऽपरपक्षस्याऽहस्सु क्रियमाणे पितॄन् प्रीणाति । कर्तुस्तु कालाभिनियमात्फलविशेषः ॥ ६ ॥
टिप्पनी
सर्वेष्व् एवाहस्सु पितॄणां तृप्तिर् अविशिष्टा ।
यस्तु कर्ता प्रतिपदादिके काले नियमेन श्राद्धं करोति सर्वेषु मासेषु
प्रतिपद्येव द्वितीयायाम् एवेत्यादि
तस्य कर्तुस् तस्मात् कालाभिनियमात् फल-विशेषो भवति ॥६॥
08 प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये ...{Loading}...
प्रथमेऽहनि क्रियमाणे स्त्री-प्रायम् अपत्ये जायते ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- If it be performed on the first day of the half-month, the issue (of the sacrificer) will chiefly consist of females.
हरदत्त-टीका
सूत्रम्
प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये जायते ॥७॥
प्रस्तावः
कोऽसावित्याह—
टिप्पनी
यः प्रतिपदि नियमेन श्राद्धं करोति,
तस्यापत्ये प्रजासन्ताने स्त्रीप्रायं जायते ।
प्रायेण स्त्रियो जायन्ते ॥ ७ ॥
09 द्वितीये ऽस्तेनाः ...{Loading}...
द्वितीये ऽस्तेनाः ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Performed on the second day it procures) children who are free from thievish propensities.
हरदत्त-टीका
सूत्रम्
द्वितीये स्तेनाः ॥ ८ ॥
टिप्पनी
जायन्ते +++(ऽ)+++चोराः पुत्राः ॥ ८॥
10 तृतीये ब्रह्मवर्चसिनः ...{Loading}...
तृतीये ब्रह्मवर्चसिनः १०
11 चतुर्थे क्षुद्र पशुमान् ...{Loading}...
चतुर्थे क्षुद्र-पशुमान् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The sacrificer who performs it) on the fourth day becomes rich in small domestic animals.
हरदत्त-टीका
सूत्रम्
चतुर्थे क्षुद्रपशुमान् ॥१०॥
टिप्पनी
क्षुद्राः पशवोऽजाव्यादयः तद्वान् कर्ता भवति । उत्तरत्राप्येकवचने7 कर्तुर्वादो द्रष्टव्यः ॥ १०॥
12 पञ्चमे पुमांसः बह्वपत्यो ...{Loading}...
पञ्चमे पुमांसः ।
बह्व्-अपत्यो,
न चानपत्यः प्रमीयते १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he performs it) on the fifth day, sons (will be born to him). He will have numerous and distinguished offspring, and he will not die childless. 11
हरदत्त-टीका
सूत्रम्
पञ्चमे पुमांसो बह्वपत्यो न चाऽनपत्यः प्रमीयते ॥११॥
टिप्पनी
पुमास एव भवन्ति, 2 बहवश्च भवन्ति, न चाऽनपत्यः प्रमीयते जीवत्स्वेव पुत्रेषु सन्निहितेषु च स्वयं म्रियते । न तेषु मृतेषु, न देशान्तरं गतेषु, नाऽपि स्वयं देशान्तरं गत इति ॥ ११ ॥
13 षष्ठेऽध्वशीलोऽक्षशीलश्च ...{Loading}...
षष्ठे ऽध्व-शीलो ऽक्ष-शीलश् च १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he performs it) on the sixth day, he will become a great traveller and gambler.
हरदत्त-टीका
सूत्रम्
षष्ठेऽध्वशीलोऽक्षशीलश्च ॥ १२ ॥
टिप्पनी
अध्वशीलः पान्थः । अक्षशीलः कितवः ॥ १२ ॥
14 सप्तमे कर्षे राद्धिः ...{Loading}...
सप्तमे +++(भू-)+++कर्षे राद्धिः+++(=सिद्धिः)+++ १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The reward of a funeral-oblation performed) on the seventh day is success in agriculture.
हरदत्त-टीका
सूत्रम्
सप्तमे कर्षे राद्धिः ॥ १३ ॥
टिप्पनी
कर्षः कृषिः । राद्धिः, सिद्धिः ॥ १३ ॥
15 अष्टमे पुष्टिः ...{Loading}...
अष्टमे पुष्टिः १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he performs it) on the eighth day (its reward is) prosperity
हरदत्त-टीका
सूत्रम्
अष्टमे पुष्टिः ॥ १४ ॥
टिप्पनी
स्पष्टम् ॥ १४॥
16 नवम एकखुराः ...{Loading}...
नवम एक-खुराः +++(अश्वादयः)+++ १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he performs it) on the ninth day (its reward consists in) one-hoofed animals.
हरदत्त-टीका
सूत्रम्
नवम एकखुराः ॥ १६ ॥
टिप्पनी
अश्वादयः ॥ १५ ॥
17 दशमे व्यवहारे राद्धिः ...{Loading}...
दशमे व्यवहारे राद्धिः+++(=सिद्धिः)+++ १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he performs it) on the tenth day (its reward is) success in trade.
हरदत्त-टीका
सूत्रम्
दशमे व्यवहारे राद्धिः ॥ १६ ॥
टिप्पनी
व्यवहारो वाणिज्यम्, शास्त्रपरिज्ञानं वा ॥ १६ ॥
18 एकादशे कृष्णायसन् त्रपुसीसम् ...{Loading}...
एकादशे कृष्णायसं त्रपु-सीसम् १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he performs it) on the eleventh day (its reward is) black iron, tin, and lead.
हरदत्त-टीका
सूत्रम्
एकादशे कृष्णायसं त्रपुसीसम् ॥ १७ ॥
टिप्पनी
कृष्णमयः कृष्णायसम् । त्रपुसीसे लोहविशेषौ ॥ १७ ॥
19 द्वादशे पशुमान् ...{Loading}...
द्वादशे पशु-मान् १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he performs a funeral-oblation) on the twelfth day, he will become rich in cattle.
हरदत्त-टीका
सूत्रम्
द्वादशे पशुमान् ॥ १८ ॥
टिप्पनी
द्वादश्यां बहवः पशवो भवन्ति ॥ १८ ॥
20 त्रयोदशे बहुपुत्रो बहुमित्रो ...{Loading}...
त्रयोदशे बहु-पुत्रो बहु-मित्रो दर्शनीयापत्यः । युव-मारिणस् तु भवन्ति २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he performs it) on the thirteenth day, he will have many sons (and) many friends, (and) his offspring will be beautiful. But his (sons) will die young. 12
हरदत्त-टीका
सूत्रम्
त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापत्यो युवमारिणस्तु भवन्ति ॥ १९ ॥
टिप्पनी
त्रयोदश्यां बहवः पुत्रा मित्राणि च भवन्ति । अपत्यानि च दर्शनीयानि भवन्ति । किं तु ते पुत्रा युवमारिणः युवान एव म्रियन्ते3 ॥ १९ ॥
21 चतुर्दश आयुधे राद्धिः ...{Loading}...
चतुर्दश आयुधे राद्धिः+++(=सिद्धिः)+++ २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he performs it) on the fourteenth day (its reward is) success in battle. 13
हरदत्त-टीका
सूत्रम्
चतुर्दश आयुधे राद्धिः ॥२०॥
टिप्पनी
संग्रामे जयः ॥२०॥
22 पञ्चदशे पुष्टिः ...{Loading}...
पञ्चदशे पुष्टिः २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he performs it) on the fifteenth day (its reward is) prosperity.
हरदत्त-टीका
सूत्रम्
पञ्चदशे पुष्टिः ॥ २१ ॥
टिप्पनी
स्पष्टम् ॥ २१ ॥
23 तत्र द्रव्याणि तिलमाषा ...{Loading}...
तत्र द्रव्याणि तिल-माषा व्रीहि-यवा आपो मूल-फलानि २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- The substances (to be offered) at these (sacrifices) are sesamum, māṣa, rice, yava, water, roots, and fruits. 14
हरदत्त-टीका
सूत्रम्
तत्र द्रव्याणि तिलमाषा व्रीहियवा आपो मूलफलानि च ॥ २२ ॥
टिप्पनी
तत्र श्राद्धे तिलादीनि द्रव्याणि यथायथमवश्यमुपयोज्यानि ॥ २२ ॥
24 स्नेहवति त्वेवान्ने तीव्रतरा ...{Loading}...
स्नेहवति त्व् एवान्ने तीव्रतरा पितॄणां प्रीतिर्द्राघीयांसं च कालम् २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- But, if food mixed with fat (is offered), the satisfaction of the Manes is greater, and (lasts) a longer time,
हरदत्त-टीका
सूत्रम्
स्नेहवति त्वेवाऽन्ने तीव्रतरा पितॄणां प्रीतिर्द्राघीयांसं च कालम् ॥ २३ ॥
टिप्पनी
यद्वा तद्वा अन्नं भवतु स्नेहवति तु तस्मिन्नाज्यादिभिरुपसिक्ते पितॄणां तीव्रतरा प्रकृष्टतरा प्रीतिर्भवति । सा च द्राघीयांसं च कालमनुवर्तते ॥२३॥
25 तथा धर्माहृतेन द्रव्येण ...{Loading}...
तथा धर्माहृतेन द्रव्येण तीर्थे +++(=सत्पात्रे)+++ प्रतिपन्नेन २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Likewise, if money, lawfully acquired, is given to worthy (persons).
हरदत्त-टीका
सूत्रम्
तथा धर्माहृतेन द्रव्येण तीर्थे प्रतिपन्नेन ॥ २४ ॥
टिप्पनी
धर्मार्जितं यद्द्रव्यं पात्रे च प्रतिपादितं तेनाऽपि तथा तीव्रतरा पितॄणां प्रीतिर्द्राघीयांसं च कालमिति ॥ २४ ॥
26 संवत्सरङ् गव्येन प्रीतिः ...{Loading}...
संवत्सरं गव्येन +++(मांसेन)+++ प्रीतिः २६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Beef satisfies (the Manes) for a year, 15
हरदत्त-टीका
सूत्रम्
संवत्सरं गव्येन प्रीतिः ॥ २५ ॥
टिप्पनी
उत्तरत्र मांसग्रहणाद् इहापि मांसस्य ग्रहणम् ।
गव्येन मांसेन संवत्सरं पितॄणां प्रीतिर्भवति ॥ २५ ॥
27 भूयांसमतो माहिषेण ...{Loading}...
भूयांसम् अतो माहिषेण २७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Buffalo’s (meat) for a longer (time) than that.
हरदत्त-टीका
सूत्रम्
भूयांसमतो माहिषेण ॥ २६ ॥
टिप्पनी
माहिषेण मांसेन, अतः सम्वत्सरात् भूयांसं बहुतरं कालं पितॄणां प्रीतिर्भवति ॥ २६ ॥
28 एतेन ग्राम्यारण्यानाम् पशूनाम् ...{Loading}...
एतेन +++(माहिष-शब्देन)+++ ग्राम्यारण्यानां पशूनां मांसं +++(श्राद्धे)+++ मेध्यं व्याख्यातम् २८
सर्वाष् टीकाः ...{Loading}...
Bühler
- By this (permission of the use of buffalo’s meat) it has been declared that the meat of (other) tame and wild animals is fit to be offered.
हरदत्त-टीका
सूत्रम्
एतेन ग्राम्यारण्यानां पशूनां मांसं मेध्यं व्याख्यातम् ॥२७॥
टिप्पनी
एतेन माहिषेण मांसेनाऽन्येषामपि ग्राम्याणाम् अजादीनामारण्यानां च
शशादीनां मांसं मेध्यं व्याख्यातम्-
पितॄणां प्रीतिकरमिति । मेध्य-ग्रहणं प्रतिषिद्धानां मा भूदिति ॥ २७ ॥
इत्यापस्तम्बधर्मसुत्रवृत्तौ द्वितीयप्रश्ने षोडशी कण्डिका ॥ १६ ॥
-
- ‘Intending to give the rules regarding the monthly Śrāddha, he premises this explanatory statement in order to praise that sacrifice.’–Haradatta.
-
एवंविधान् इति ख. पुस्तके टिप्पणीपाठः। एवं हीयमानान् इति च. पु. ↩︎ ↩︎
-
The reading ’niḥśreyasā ka’ apparently has given great trouble to the commentators. Their explanations are, however, grammatically impossible. The right one is to take ’niḥśreyasā as a Vedic instrumental, for niḥśreyasena, which may designate the ‘reason’. If the dative is read, the sense remains the same. ↩︎
-
‘The comparison of the Brāhmaṇas with the Āhavanīya indicates that to feed Brāhmaṇas is the chief act at a Śrāddha.’–Haradatta. ↩︎
-
Manu III, 122, 123; Yājñ. I, 217. ↩︎
-
Manu III, 255, 278. ↩︎
-
Manu III, 277; Yājñ. I, 264, 265. ↩︎
-
The translation follows the corrected reading given in the Addenda to the Critical Notes. ↩︎
-
Others read the last part of the Sūtra, ayuvamārmas-tu bhavanti, ’they will not die young’–Haradatta. If the two halves of the Sūtra are joined and Darśanīyāpatyoyuvamāriṇaḥ is read, the Sandhi may be dissolved in either manner. ↩︎
-
Manu III, 276, and Yājñ. I, 263, declare the fourteenth day to be unfit for a Śrāddha, and the latter adds that Śrāddhas for men killed in battle may be offered on that day. This latter statement explains why Āpastamba declares its reward to be ‘success in battle.’ The nature of the reward shows that on that day Kṣatriyas, not Brāhmaṇas, should offer their Śrāddhas. ↩︎
-
Manu III, 267; Yājñ. I, 257. ↩︎
-
Manu III, 271. ↩︎