१६

01 सह देवमनुष्या अस्मिंल् ...{Loading}...

सह देवमनुष्या अस्मिंल् लोके पुरा बभूवुः । अथ देवाः कर्मभिर्दिवं जग्मुरहीयन्त मनुष्याः । तेषां ये तथा कर्माण्यारभन्ते सह देवैर्ब्रह्मणा चामुष्मिंल् लोके भवन्ति । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच १

02 प्रजानिःश्रेयसा च ...{Loading}...

प्रजानिःश्रेयसा च २

03 तत्र पितरो देवता ...{Loading}...

तत्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे ३

04 मासि मासि कार्यम् ...{Loading}...

मासि मासि कार्यम् ४

05 अपरपक्षस्यापराह्नः श्रेयान् ...{Loading}...

अपरपक्षस्यापराह्नः श्रेयान् ५

06 तथापरपक्षस्य जघन्यान्यहानि ...{Loading}...

तथापरपक्षस्य जघन्यान्यहानि ६

07 सर्वेष्वेवापरपक्षस्याहस्सु क्रियमाणे पितॄन्प्रीणाति ...{Loading}...

सर्वेष्वेवापरपक्षस्याहस्सु क्रियमाणे पितॄन्प्रीणाति । कर्तुस्तु कालाभिनियमात्फलविशेषः ७

08 प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये ...{Loading}...

प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये जायते ८

09 द्वितीये ऽस्तेनाः ...{Loading}...

द्वितीये ऽस्तेनाः ९

10 तृतीये ब्रह्मवर्चसिनः ...{Loading}...

तृतीये ब्रह्मवर्चसिनः १०

11 चतुर्थे क्षुद्र पशुमान् ...{Loading}...

चतुर्थे क्षुद्र पशुमान् ११

12 पञ्चमे पुमांसः बह्वपत्यो ...{Loading}...

पञ्चमे पुमांसः । बह्वपत्यो न चानपत्यः प्रमीयते १२

13 षष्ठेऽध्वशीलोऽक्षशीलश्च ...{Loading}...

षष्ठेऽध्वशीलोऽक्षशीलश्च १३

14 सप्तमे कर्षे राद्धिः ...{Loading}...

सप्तमे कर्षे राद्धिः १४

15 अष्टमे पुष्टिः ...{Loading}...

अष्टमे पुष्टिः १५

16 नवम एकखुराः ...{Loading}...

नवम एकखुराः १६

17 दशमे व्यवहारे राद्धिः ...{Loading}...

दशमे व्यवहारे राद्धिः १७

18 एकादशे कृष्णायसन् त्रपुसीसम् ...{Loading}...

एकादशे कृष्णायसं त्रपुसीसम् १८

19 द्वादशे पशुमान् ...{Loading}...

द्वादशे पशुमान् १९

20 त्रयोदशे बहुपुत्रो बहुमित्रो ...{Loading}...

त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापत्यः । युवमारिणस्तु भवन्ति २०

21 चतुर्दश आयुधे राद्धिः ...{Loading}...

चतुर्दश आयुधे राद्धिः २१

22 पञ्चदशे पुष्टिः ...{Loading}...

पञ्चदशे पुष्टिः २२

23 तत्र द्रव्याणि तिलमाषा ...{Loading}...

तत्र द्रव्याणि तिलमाषा व्रीहियवा आपो मूलफलानि २३

24 स्नेहवति त्वेवान्ने तीव्रतरा ...{Loading}...

स्नेहवति त्वेवान्ने तीव्रतरा पितॄणां प्रीतिर्द्राघीयांसं च कालम् २४

25 तथा धर्माहृतेन द्रव्येण ...{Loading}...

तथा धर्माहृतेन द्रव्येण तीर्थे +++(=सत्पा)+++ प्रतिपन्नेन २५

26 संवत्सरङ् गव्येन प्रीतिः ...{Loading}...

संवत्सरं गव्येन प्रीतिः २६

27 भूयांसमतो माहिषेण ...{Loading}...

भूयांसमतो माहिषेण २७

28 एतेन ग्राम्यारण्यानाम् पशूनाम् ...{Loading}...

एतेन ग्राम्यारण्यानां पशूनां मांसं मेध्यं व्याख्यातम् २८


    1. ‘Intending to give the rules regarding the monthly Śrāddha, he premises this explanatory statement in order to praise that sacrifice.’–Haradatta.
     ↩︎
  1. प्रजानिःश्रेयसाय च इति पृथकसूत्रं च. पु. ↩︎ ↩︎ ↩︎ ↩︎

  2. मासि श्राद्धविधित्सया इति ड. पु. ↩︎ ↩︎ ↩︎

  3. एवंविधान् इति ख. पुस्तके टिप्पणीपाठः। एवं हीयमानान् इति च. पु. ↩︎ ↩︎

  4. The reading ’niḥśreyasā ka’ apparently has given great trouble to the commentators. Their explanations are, however, grammatically impossible. The right one is to take ’niḥśreyasā as a Vedic instrumental, for niḥśreyasena, which may designate the ‘reason’. If the dative is read, the sense remains the same. ↩︎

  5. ‘The comparison of the Brāhmaṇas with the Āhavanīya indicates that to feed Brāhmaṇas is the chief act at a Śrāddha.’–Haradatta. ↩︎

  6. ‘प्रधानतमत्व’ इति च पु. ↩︎ ↩︎

  7. Manu III, 122, 123; Yājñ. I, 217. ↩︎

  8. Manu III, 255, 278. ↩︎

  9. Manu III, 277; Yājñ. I, 264, 265. ↩︎

  10. The translation follows the corrected reading given in the Addenda to the Critical Notes. ↩︎

  11. Others read the last part of the Sūtra, ayuvamārmas-tu bhavanti, ’they will not die young’–Haradatta. If the two halves of the Sūtra are joined and Darśanīyāpatyoyuvamāriṇaḥ is read, the Sandhi may be dissolved in either manner. ↩︎

  12. Manu III, 276, and Yājñ. I, 263, declare the fourteenth day to be unfit for a Śrāddha, and the latter adds that Śrāddhas for men killed in battle may be offered on that day. This latter statement explains why Āpastamba declares its reward to be ‘success in battle.’ The nature of the reward shows that on that day Kṣatriyas, not Brāhmaṇas, should offer their Śrāddhas. ↩︎

  13. Manu III, 267; Yājñ. I, 257. ↩︎

  14. Manu III, 271. ↩︎