१५

01 एतेन देशकुलधर्मा व्याख्याताः ...{Loading}...

एतेन देशकुलधर्मा +++(=शास्त्राऽविरुद्धा एव)+++ व्याख्याताः १

02 मातुश् च योनिसम्बन्धेभ्यः ...{Loading}...

मातुश् च योनि-संबन्धेभ्यः पितुश् +++(स्वेन साकं)+++ चासप्तमात् पुरुषाद्
यावता वा संबन्धो ज्ञायते
तेषां प्रेतेषूदकोपस्पर्शनं
+++(मृतान्)+++ गर्भान्+++(=बालान्)+++ परिहाप्यापरिसंवत्सरान् २

03 मातापितराव् एव तेषु ...{Loading}...

माता-पितराव् एव तेषु +++(मृतापरिसंवत्सरेषु गर्भेषु)+++ ३

04 हर्तारश् च ...{Loading}...

हर्तारश् च ४

05 भार्यायाम् परमगुरुसंस्थायाञ् चाकालम् ...{Loading}...

भार्यायां परम-गुरु+++(=आचार्य-मातृ-पितृ)+++-संस्थायां +++(=मरणे)+++ च +++(परेद्युर्)+++ +आकालम् +++(२४ होराणाम्)+++ अभोजनम् ५

06 आतुरव्यञ्जनानि कुर्वीरन् ...{Loading}...

आतुर+++(=शोक)+++व्यञ्जनानि कुर्वीरन् ६

07 केशान् प्रकीर्य पांसूना, ...{Loading}...

केशान् प्रकीर्य पांसूना, +++(केशान्)+++ उप्य, एक-वाससो दक्षिणा-मुखाः सकृद्-उपमज्ज्योत्तीर्योपविशन्ति ७

08 एवन् त्रिः ...{Loading}...

एवं त्रिः ८

09 तत्प्रत्ययम् उदकमुत्सिच्याप्रतीक्षा ग्रामम् ...{Loading}...

+++(“मह्यम् उदकं दत्तम्” इति)+++ तत्+++(→प्रेत)+++-प्रत्ययम् उदकम् उत्सिच्य
+अ-प्रतीक्षा ग्रामम् एत्य
यत् स्त्रिय आहुस् तत् कुर्वन्ति ९

10 इतरेषु चैतदेवैक उपदिशन्ति ...{Loading}...

इतरेषु चैतद् एवैक उपदिशन्ति १०

11 शुचीन् मन्त्रवतः सर्वकृत्येषु ...{Loading}...

शुचीन् मन्त्रवतः सर्व-कृत्येषु भोजयेत् ११

12 देशतः कालतः शौचतः ...{Loading}...

देशतः +++(→तीर्थस्थानेषु)+++ कालतः +++(→ग्रहणादौ)+++ शौचतः +++(→कृच्छ्रादेर् अन्ते)+++ सम्यक् प्रतिग्रहीतृत इति दानानि प्रतिपादयति १२

13 यस्याग्नौ न क्रियते ...{Loading}...

यस्याग्नौ न क्रियते यस्य चाग्रं न दीयते न तद्भोक्तव्यम् १३

14 न क्षारलवणहोमो विद्यते ...{Loading}...

न क्षारलवणहोमो विद्यते १४

15 तथावरान्न संसृष्टस्य च ...{Loading}...

तथावरान्न संसृष्टस्य च १५

16 अहविष्यस्य होम उदीचीनमुष्णम् ...{Loading}...

अहविष्यस्य होम उदीचीनमुष्णं भस्मापोह्य तस्मिञ्जुह्यात्तद्धुतमहुतं चाग्नौ भवति १६

17 न स्त्री जुहुयात् ...{Loading}...

न स्त्री जुहुयात् १७

18 नानुपेतः ...{Loading}...

नानुपेतः १८

19 आन्नप्राशनाद्गर्भा नाप्रयता भवन्ति ...{Loading}...

आऽन्न-प्राशनाद् गर्भा नाप्रयता भवन्ति १९

20 आ परिसंवत्सराद् इत्येके ...{Loading}...

आ परिसंवत्सराद् इत्येके २०

21 यावता या दिशो ...{Loading}...

यावता या दिशो न प्रजानीयुः २१

22 ओपनयनाद् इत्य् अपरम् ...{Loading}...

ओपनयनाद् इत्य् अपरम् २२

23 अत्र ह्यधिकारः शास्त्रैर् ...{Loading}...

अत्र ह्य् अधिकारः +++(कर्मसु)+++ शास्त्रैर् +++(दत्ता)+++ भवति २३

24 सा निष्ठा ...{Loading}...

सा +++(=उपनयनम्)+++ निष्ठा +++(=कर्माधिकार-प्रारम्भः)+++२४

25 स्मृतिश्च ...{Loading}...

स्मृतिश्च +++(एवं विद्यते)+++ २५

इति षष्ठः पटलः


    1. Customs are to be followed only if they are not opposed to the teaching of the Vedas and Smṛtis.
     ↩︎
  1. गौ०ध० ११. ३०. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Manu. V, 60; Yājñ. I, 53; Manu V, 60; Manu V, 58; Yājñ. III, 3. ↩︎

  3. Manu V, 69 and 70. ↩︎

  4. Manu V, 80. ↩︎

  5. -9. Yājñ. III, 5, 7 seq. The Mantra to be spoken in throwing the water is, ‘I give this water to you N. N. of the family of N. N.’ The water ought to be mixed with sesamum. According to Haradatta those who know the correct interpretation, declare that the word’ women’ denotes in this Sūtra ’the Smṛtis.’ But I fear these learned interpreters will find few adherents among those who pay attention to the last Sūtra of this work. ↩︎

  6. Manu III, 128. ↩︎

  7. ‘अधीताविस्मृतवेदान् ’ इति ङ. पु. ↩︎ ↩︎ ↩︎

  8. ‘अन्ततः’ इति. च. पु. ↩︎ ↩︎ ↩︎

  9. Manu III, 98. ↩︎

  10. ‘That (substance) is called kṣāra, “of pungent or alkaline taste,” the eating of which makes the saliva flow.’–Haradatta. ↩︎

  11. क्षारलवणं, कृत्रिमलवणमिति कुल्लूकः । तिलमुद्गादृते शैब्यं सस्ये गोधुमकोद्रवौ ।
    धान्यक देवधान्यं च शमीधान्यं तथैक्षवम् ।
    स्विन्नधान्यं तथा पण्यमूलं क्षारगणस्मृतः ॥ इति निर्णयसिन्धौ। ↩︎ ↩︎

  12. Avarānna, ‘bad food,’ is explained by ‘kulittha and the like.’ Kulittha, a kind of vetch, is considered low food, and eaten by the lower castes only. The meaning of the Sūtra, therefore, is, ‘If anybody has been forced by poverty to mix his rice or Ḍāl with kulittha or similar bad food, he cannot offer a burnt-oblation at the Vaiśvadeva ceremony with that. He must observe the rule, given in the following Sūtra. ↩︎

  13. तस्य कथं भोजनम् ? इति घ.पु. ↩︎ ↩︎

  14. बौधा० गृ० ↩︎

  15. अपरे मन्यन्ते ‘इति. घ. पु. ↩︎

  16. Manu V, 155; XI, 36. ↩︎

  17. Manu II, 171. ↩︎

  18. Haradatta quotes Gautama II, 1-3, on this point, and is apparently of opinion that Āpastamba alludes to the same passage. But he is probably wrong, as all Smṛtis are agreed on the point mentioned by Āpastamba. ↩︎