01 जीवन्पुत्रेभ्यो दायं विभजेत्समङ् ...{Loading}...
जीवन्पुत्रेभ्यो दायं विभजेत्समं क्लीबमुन्मत्तं पतितं च परिहाप्य १
सर्वाष् टीकाः ...{Loading}...
Bühler
- He should, during his lifetime, divide his wealth equally amongst his sons, excepting the eunuch, the mad man, and the outcast. 1
हरदत्त-टीका
सूत्रम्
जीवन् पुत्रेभ्यो दायं विभजेेत् समं क्लीबमुन्मत्तं पतितं च परिहाय ॥१॥
प्रस्तावः
अथ दायविभागः —
टिप्पनी
एकेन प्रधानेन केनचिद्धनेन गवादिना ज्येष्ठं पुत्रं तोषयित्वा तृप्तं कृत्वा जीवन्नेव पुत्रेभ्यो दायं विभजेत् । सममात्मना परस्परं च तेषाम् । सामान्याभिधानात् क्रमागतं स्वयमार्जिनं च क्लीबादीन् वर्जयित्वा । क्लीबादिग्रहणं जात्यन्धादीनामप्युपलक्षणम् । यथाह मनुः —
2 ‘अनंशी क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश्च ये च केचिनिरिन्द्रियाः ॥ इति ।
अन्धादीनां पुत्रसद्भावे तेऽप्यंशहराः। एवमुन्मत्तपतितौ3 निवृत्ते निमित्ते क्लीबादयस्तु न भर्तव्याः । अत्र विभागकालः स्मृत्यन्तरवशाद्ग्राह्यः । तत्र नारदः —
4 मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निवृत्ते चापि मरणात्पितर्युपरतस्पृहे ॥’ इति ।
यदा पुत्राणां पृथक्पृथक् धर्मानुष्ठाने शक्तिश्रद्धे भवतः सोऽपि कालः । ‘तस्माद्धर्म्या पृथविक्रये’ति5 दर्शनादिति । ‘जीवन्नितिवचनं जीवन्नेवाऽवश्यं पुत्रान् विभजेत् एष धर्म इति प्रतिपादनाय । अन्यथा तदनर्थकम् । अजीवतोऽप्रसङ्गात् । स्मृत्यन्तरेषु स्वयमार्जित पितुरिच्छया विषमविभागो दर्शितः । न स धर्म्य इत्याचार्यस्य पक्षः । भार्याया अप्यंशो न दर्शितः । आत्मनः एवांशस्तस्या अपीति मन्यते । वक्ष्यति च ‘जायापत्योर्न विभागो विद्यते’ (२. १४.१६ ) इति ।
कोचित्तु पितुर्द्वावंशावित्याहुः । ‘द्वावंशौ प्रतिपद्येत विभजनात्मनः पिते’ति दर्शनात् । अयमप्याचार्यस्य पक्षो न भवति । यथा पुत्राणामेकैक एवांशस्सभार्याणां तथा पितुरपीति । यद्वा पुत्राणामेवांशसाम्यं आत्मनस्त्वाधिक्येऽपि न दोषः।
तत्र हारीतः —
‘पिता ह्याग्रयणः पुत्रा इतरे ग्रहाः यद्याग्रयणः स्कन्देदुपदस्येद्वा इतरेभ्यो गृह्णीयादिति विभागादूर्ध्वं पित्रोर्जीवनाभावे पुत्रभागेभ्यो ग्राह्यमित्युक्तं भवति । इति जीवद्विभागः ॥१॥
02 पुत्राभावे यः प्रत्यासन्नः ...{Loading}...
पुत्राभावे यः प्रत्यासन्नः सपिण्डः २
सर्वाष् टीकाः ...{Loading}...
Bühler
- On failure of sons the nearest Sapiṇḍa (takes the inheritance). 6
हरदत्त-टीका
सूत्रम्
पुत्राभावे यः प्रत्यासन्नः सपिण्डः ॥२॥
प्रस्तावः
अथ मृते कुटुम्बिनि तद्धनस्य गतिमाह—
टिप्पनी
‘पुत्राभावे’ इति वचनात् सत्सु पुत्रेषु त एव गृह्णीयुरविशेषात्समम् । तत्र नारदीये विशेषः —
2 यच्छिष्टं प्रीतिदायेभ्यो दत्वार्णं पैतृकं च यत् ।
भ्रातृभिस्तद्विभक्तव्यमृणी स्यादन्यथा पिता ॥ इति ॥
कात्यायनस्तु—
3भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थमृणं कृतम् ।
विभागकाले देयं तद्रिक्थिभिस्सर्वमेव तु ॥ इति ।
अत्र याज्ञवल्क्यः —
4 ‘पितुरुर्ध्वं विभजतां माताऽप्यंशं समं हरे’दिति ।
तदत्र नोक्तं पुत्रैरेव सह वृत्तिरस्या इति ।
तथा च मनुः —
5 पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥ इति ।
एवं मातुरप्यभावे तद्धनं भर्तृकुललब्धं स्वयमार्जितं च तत्पुत्रा अप्रत्ताश्च दुहितरस्समं गृह्णीयुः ।
7स्त्रीधनं तदपत्यानां दुहिता च तदंशिनी ।
अप्रत्ता चेत्समूढा तु लभते 8मानमात्रकम् ॥ इति बृहस्पतिः । पितृकुललब्धं चाऽप्रत्ता एव दुहितरः ।
9“मातुस्तु यौतकं यत्स्यात् कुमारीभाग एव सः ।” इति मनुः।
अथाऽप्रत्ता दुहितरः पुत्राश्च जननी तदा ।
10जनन्या संस्थितायां तु समं सर्वे सहोदराः ॥
भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः । इति मानवमेव ।
अत्र व्यासः —
11 असंस्कृतास्तु ये तत्र पैतृकादेव ते धनात् ।
संस्कार्या भ्रातृभिर्ज्येष्ठैः कन्यकाश्च यथाविधि ॥’ इति ।
अत्र क्रमविवाहे बृहस्पतिः —
[^२२] ब्रह्मक्षत्रियविट्छूद्रा विप्रोत्पन्नास्त्वनुक्रमात् ।
चतुस्त्रिद्व्येकभागेन भजेयुस्ते यथाक्रमम् ॥
क्षत्रजास्त्रिद्व्येकभागा विड्जौ तु द्व्येकभागिनौ ।’ इति ।
मानवे च स्पष्टमुक्तम् —
12 सर्वं वा रिक्थजातं तद्दशधा प्रविभज्य तु ।
धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित ॥
चतुरोऽशान् हरेद्विप्रः त्रीनंशान् क्षत्रियासुतः ।
वैश्यापुत्रो हरेद्द्व्यंशमशं शूद्रासुतो हरेत् ॥ इति ।
यस्य तु ब्राह्मणी वन्ध्या मृता वा तत्र क्षत्रियादिसुतास्त्रिद्व्येकभागाः । यस्य त्वेकस्यामेव पुत्रस्सा सर्वं हरेत् शूद्रापुत्रवर्जम् ।
यथाह देवलः —
[^२४]आनुलोम्येकपुत्रस्तु पितुस्सर्वस्वभाग्भवेत् ।
निषाद एकपुत्रस्तु विप्रत्वस्य तृतीयभाक् ॥
द्वौ सपिण्डस्सकुल्यो वा स्वधादाता तु तं हरेत्’ इति ।
निषादः पारशवः । क्षेत्रविषये बृहस्पतिः —
[^२५]न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै ।
यद्यप्यस्य पिता दद्यान्मृते विप्रासुतो हरेत् ॥
शुद्र्यां द्विजातिभिर्जातो न भूमेर्भागमर्हति ।
सजातावाप्नुयात्सर्वमिति धर्मो व्यवस्थितः ॥ इति ॥
याज्ञवल्क्य —
13जातो हि दास्यां शूद्रेण कामतोऽशहरो भवेत् ।
मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिनम् ॥’ इति ।
भार्याविषये विष्णुः —
[^२७]मातरः पुत्रभागानुसारतो भागहारिण्य’ इति । अत्र,
औरसः पुत्रिकाबीजक्षेत्रजौ पुत्रिकासुतः ।
पुनर्भवश्च कानीनस्सहोढो गूढसम्भवः ।
दत्तः क्रीतस्स्वयंदत्तः कृत्रिमश्चाऽपविद्धकः ।
यत्र क्वचोत्पादितश्च पुत्राख्या दश पञ्च च ।
अनेनैव क्रमेणैषां पूर्वाभावे परः परः ।
पिण्डदोंऽशहरश्चेति प्रायेण स्मृतिषु स्थिताः ।
औरसो धर्मपत्नीजः । ‘सवर्णापूर्वशास्त्रविहिताया’मिति पूर्वमुक्तः । गौतमः14-“पितोत्सृजेत्पुत्रिकामनपत्योऽग्नि प्रजापतिं चेष्ट्वास्मदर्थमपत्यमति संवाद्ये’ति ।
बृहस्पतिः—
‘एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः ।
तत्तुल्या पुत्रिका प्रोक्ता भर्तव्यास्त्वपरे स्मृताः॥’ इति ।
मनुः —
15पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते ।
समस्तत्र विभागः स्यात् ज्येष्ठाता नास्ति हि स्त्रियाः ॥ इति ।
याज्ञवल्क्यः —
16अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ इति ।
अयमेक एवोत्पादयितुर्बीजजः, क्षेत्रजस्तु क्षेत्रिणः ।
बृहस्पतिः —
‘पुत्रोऽथ पुत्रिकापुत्रस्स्वर्गप्राप्तिकरावुभौ ।
रिक्थे पिण्डाम्बुदाने च समौ सम्परिकीर्तितौ ॥ इति ।
काश्यपः —
‘सप्त पौनर्भवाः कन्याः वर्जनीयाः कुलाधमाः ।
वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥
उदकं स्पर्शिता या च या च पाणिगृहीतिका ।
अग्निं परिगता या च पुनर्भूप्रसवा च या’॥
कात्यायनः—
क्लीबं विहाय पतितं या पुनर्लभते पतिम् ।
तस्यां पौनर्भवो जातः व्यक्तमुत्पादकस्य सः ॥ इति ।
मनुः —
17पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः ।
तं कानीनं वदेनाम्ना वोढुः कन्यासमुद्भवः ॥ इति ।
नारदः —
18कानीनश्च सहोढश्च गूढायां यश्च जायते ।
तेषां वोढा पिता ज्ञेयस्ते च भागहराः पितुः।’ इति ॥
वसिष्ठः—
19‘अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः ।
पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥’ इति ।
अनूढायामेव मृतायां मातरि मातामहस्य पुत्रः । अन्यथा वोढुः ।
मनुः —
20 ‘या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती ।
वोढुस्स गर्भो भवति सहोढ इति चोच्यते ।
21उत्पद्यते गृहे यस्य न च ज्ञायेत कस्यचित् ।
स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥
दत्तः पूर्वमेवोक्तः । पैठीनसिः—‘अथ दत्तक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहेण द्व्यार्ष्येण जाताः ते असंगतकुलीनाद्व्यामुष्यायणा भवन्तीति ।
मनुः —
22भ्रातृणामेकजातानामेकश्चेत्पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुरवीत् ॥
23क्रीणीयाद्यस्त्वपत्यार्थे मातापित्रोर्यमन्तिकात् ।
स क्रीतकस्सुतस्तस्य सदृशोऽसदृशोऽपि वा ।
24मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् ।
आत्मानं स्पर्शयेद्यस्य स्वयं दत्तस्तु स स्मृतः ॥ इति ।
25सदृशं तु प्रकुर्यातां गुणदोषविवर्जितम् ।
पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयस्तु कृत्रिमः ॥
26मातापितृभ्यामुत्सृष्ट तयोरन्यतरेण वा ।
यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते ॥ इति ।
सर्व एते समानजातीयाः,
27सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ॥ इति याज्ञवल्क्यवचनात् ।
विष्णुः—
‘यत्र क्वचनोत्पादितस्तु द्वादशः, इति ।
याज्ञवल्क्यः —
28 ‘पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः ।’ इति 29
मनुः—
श्रेयसः श्रेयसोऽभावे पापीयान् रिक्थमर्हति ।’ इति ।
‘क्रमादेते प्रवर्तन्ते मृते पितरि तद्धने ।
नारदः—
30‘ज्यायसो ज्यायसोऽभावे जघन्यस्तदवाप्नुयात् ॥’ इति ।
देवलः —
‘सर्वे ह्यनौरसस्यैते पुत्रा दायहराः स्मृताः ।
औरसे पुनरुत्पन्ने तेषु ज्येष्ठ्यं न तिष्ठति ॥
तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः ।
शेषास्तमुपजीवेयुर्ग्रासाच्छादनसम्भृताः ॥’ इति ।
मनुः —
31 षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चममेव वा ॥ इति ।
बृहस्पतिः —
“क्षेत्रजाद्यास्सुतास्त्वन्ये पञ्चषट्सप्तभागिन;’ इति ।
हारीतः—
‘विभाजिष्यमाण एकविंशं कानीनाय दद्याद्विंशं पौनर्भवायैकोनविंशं द्व्यामुष्यायणायाऽष्टादशं क्षेत्रजाय सप्तदशं पुत्रिकापुत्रायेतरानौरसाये’ति ।
वसिष्ठः—
32 ‘पुत्रं प्रतिग्रहीष्य’न्निति प्रक्रम्य ‘तस्मिश्चेत्प्रतिगृहीते औरस उत्पद्यते चतुर्थभागभागि’ति ॥
एवमेतेषु शास्त्रेषु विद्यमानेषु यदाचार्येण पूर्वमुक्तं ‘तेषां कर्मभिस्सम्बन्धो दायेनाऽव्यतिक्रमश्चोभयो’रिति तद्धर्मपत्नीजे पुत्रे सति क्षेत्रप्रजादीनां समांशहरत्वप्रतिषेधपरं वेदितव्यम् ।
अथाविभाज्यम् ।
अत्र मनुः —
33 अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जयेत् ।
स्वयमर्हति लब्धं तन्नाऽकामो दातुमर्हतीति ।
कात्यायनः —
‘नाऽविद्यानां तु वैद्येन देय विद्याधनात् क्वचित् ।
समं विद्याधनानां तु देयं वैद्येन तद्धनम् ॥
परभक्तप्रदानेन प्राप्तविद्यो यदाऽन्यतः।
तया प्राप्ते तु विधिना विद्याप्राप्तं तदुच्यते ॥ इति ।
व्यासः —
पितामहपितृभ्यां च दत्तं मात्रा च यद्भवेत् ।
तस्य तन्नाऽपहर्तव्यं34 शौर्यहार्यं तथैव च ॥ इति ।
याज्ञवल्क्यः —
35“क्रमादभ्यागतं द्रव्यं हृतमप्युद्धरेत् यः ।
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥
पत्यौ जीवति यस्त्रीभिरलङ्कारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥’
व्यासः —
‘साधारणं समाश्रित्य यत्किश्चिद्वाहनायुधम् ।
शौर्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ॥
तस्य भागद्वयं देयं शेषास्तु समभागिनः ॥”
इति पुत्रदायविभागः । तदभावे तु मृतस्य यः प्रत्यासन्नः सपिण्डः, स किम्? ‘दायं हरेते’ति ( १४. ५.) वक्ष्यमाणेन सम्बन्धः ।
36 लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
सप्तमः पिण्डदातैषा सापिण्ड्यं साप्तपूरुषम् ॥
इति सपिण्डलक्षणम् । तेषु यो यः प्रत्यासन्नस्स स गृह्णीयादिति । भार्यां तु रिक्थग्राहिणस्सपिण्डाद्या रक्षेयुः, न तु दायग्रहणमित्याचार्यस्य पक्षः । श्रूयते हि-37‘तस्मात् स्त्रियो निरिन्द्रिया अदायादीः’ इति । मनुरपि —
38‘अनिन्द्रिया अदायादाः स्त्रियो नित्यमिति श्रुति’रिति ।
अत्र सपिण्डाद्यभावे बृहस्पतिः—
‘अन्यत्र ब्राह्मणात्किं तु राजा धर्मपरायणः ।
तत्स्त्रीणां जीवनं दद्यादेष दायविधिस्स्मृतः ॥
अन्नार्थं तण्डुलप्रस्थमपराह्णे तु सेन्धनम् ।
वसनं त्रिपणक्रीतं देवमेकं त्रिमासतः ॥
एतावदेव साध्वीनां चोदितं विधवाधनम् ।
वसनस्याऽशनस्यैव तथैव रजकस्य च ॥
धनं व्यपोह्य तच्छिष्टं दायादानां प्रकल्पयेत् ।
39धूमावसानिकं ग्राह्यं समायां स्नानतः पुरा ।
वसनाशनवासांसि विगणय्य धवे मृते ॥ इति ।
व्यासः—
‘द्विषाहस्रः परो दायः स्त्रियै देयो धनस्य तु ।
यच्च भर्त्रा धनं दत्तं सा यथाकाममाप्नुयात् ॥’ इति ।
पणानां द्वे सहस्रे परिमाणमस्य द्विषाहस्रः । एष परो दायः स्त्रिया नाधिक इति । एतत् प्रभूते धने, ज्ञातयश्च न रक्षेयुरिति शङ्कायाम् । एवं 40 ‘पत्नी दुहितरश्चे’त्यादीनि यानि पत्न्या दायप्राप्तिपराणि तान्येवमेव द्रष्टव्यानि । गौतमस्तु पुत्राभावे पत्न्यास्सपिण्डादिभिस्समांशमाह—41 ‘पिण्डगोत्रर्षिसम्बन्धा रिक्थं भजेरन् । स्त्री चाऽनपत्यस्ये’ति। अस्यार्थः-अनपत्यस्य रिक्थं पिण्डसम्बन्धात्सपिण्डाः प्रत्यासतिक्रमेण भजेरन् । तदभावे गोत्रसम्बन्धास्सगोत्राः । तदभावे ऋषिसम्बन्धास्समानप्रवराः स्त्री च पत्नी च । ( अत्र स्त्रियाः पृथङ्निर्देशात् च शब्दाच्च यदा सपिण्डा भजेरन् तदा स्त्री सह तैरेकमंशं गृह्णीयात् । ततश्च ‘पितुरूर्ध्वं विभजतां माताप्यंशं समं हरे"दिति सपिण्डादिभिस्सहग्रहणमुक्तमिति । वयमप्येतमेव पक्षं रोचयामहे )। अत्र पितरि
भ्रातरि सोदर्ये च जीवति सोदर्यो भ्राता गृह्णीयादित्येके मन्यन्ते ।
तथा च शङ्ख—
‘अपुत्रस्य स्वर्यातस्य द्रव्यं भ्रातृगामि, तदभावे मातापितरौ लभेयातां, पत्नी वा ज्येष्ठे’ति ।
देवलः—
‘ततो दायमपुत्रस्य विभजरेन् सहोदराः।
कुल्या दुहितरो वापि ध्रियमाणः पिताऽपि च ॥
सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ॥ इति ।
- ( ) कुण्डलान्तर्गतो भागः च पुस्तकेऽधिकपाठतया परिगणितः ।
याज्ञवल्क्यः —
42संसृष्टिनस्तु ससृष्टी सोदर्यस्य तु सोदरः।
दद्याच्चाऽपहरेच्चांश जातस्य च मृतस्य च ॥
अन्योदर्यस्तु संसृष्टी नाऽन्योदर्यधनं हरेत् ।
असंसृष्ट्यापि चाऽऽदद्यात्सोदर्यो नान्यमातृजः ॥ इति ।
अत्र सोदर्य इति विशेषवचनात् ‘पत्नी दुहितरश्चे’त्यत्र भ्रातृग्रहणं भिन्नोदरविषयमिति । प्रत्यासत्त्यतिशयात43 पितैवेत्याचार्यस्य पक्षः। तदभावे सोदर्यः, तदभावे तत्पुत्रः, तदभावे भिन्नोदराः, तदभावे पितृव्य इत्यादि द्रष्टव्यम् । मात्रादयोऽपि स्त्रियो जीवनमात्रं लभेरन्निति ॥२॥
03 तदभाव आचार्य आचार्याभावेऽन्तेवासी ...{Loading}...
तदभाव आचार्य आचार्याभावेऽन्तेवासी हृत्वा तदर्थेषु धर्मकृत्येषु वोपयोजयेत् ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- On failure of them the spiritual teacher (inherits); on failure of the spiritual teacher a pupil shall take (the deceased’s wealth), and use it for religious works for the (deceased’s) benefit, or (he himself may enjoy it);
हरदत्त-टीका
सूत्रम्
तदभाव आचार्य आचार्याभावेऽन्तेवासी हृत्वा तदर्थेषु धर्मकृत्येषु वोपयोजयेत् ॥ ३ ॥
टिप्पनी
सपिण्डाभावे आचार्यो दायं हरेत् । तस्याऽप्यभावे अन्तेवासी हरेत् । हृत्वा तदर्थेषु धर्मकृत्येषु तडागखननादिषूपयोजयेत् । वाशब्दात् स्वयं वा उपयुञ्जीत ॥३॥
04 दुहिता वा ...{Loading}...
दुहिता वा ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or the daughter (may take the inheritance). 44
हरदत्त-टीका
सूत्रम्
दुहिता वा ॥ ४ ॥
टिप्पनी
दुहिता वा दायं हरेत् । पुत्राभाव इत्येके । अनन्तरोक्ते विषय इत्यन्ये ॥४॥
05 सर्वाभावे राजा दायं ...{Loading}...
सर्वाभावे राजा दायं हरेत ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- On failure of all (relations) let the king take the inheritance. 45
हरदत्त-टीका
सूत्रम्
सर्वाभावे राजा दायं हरेत् ॥ ५ ॥
टिप्पनी
सर्वग्रहणात् बन्धूनां सगोत्राणां चाऽप्यभावे ॥५॥
06 ज्येष्ठो दायाद इत्येके ...{Loading}...
ज्येष्ठो दायाद इत्येके ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare, that the eldest son alone inherits. 46
हरदत्त-टीका
सूत्रम्
ज्येष्ठो दायाद इत्येके ॥ ६ ॥
टिप्पनी
एके मन्यन्ते ज्येष्ठ एव पुत्रो दायहरः । इतरे तु तमुपजीवेयुः । सोऽपि तान् पितेव परिपालयेदिति । तथा च गौतमः 4 ‘सर्वं वा पूर्वजस्येतरान् बिभृयात्पितृवदिति ॥ ६ ॥
07 देशविशेषे सुवर्णम्कृष्णा गावः ...{Loading}...
देशविशेषे सुवर्णङ्कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- In some countries gold, (or) black cattle, (or) black produce of the earth is the share of the eldest. 47
हरदत्त-टीका
सूत्रम्
देशविशेषे सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य ॥७॥
टिप्पनी
क्वचिद्देशे सुवर्णादि ज्येष्ठस्य भाग इत्याहुः । भूमौ जातं भौमं धान्यं कृष्णं माषादि कृष्णायसमित्यन्ये ॥ ७॥
08 रथः पितुः परीभाण्डञ् ...{Loading}...
रथः पितुः परीभाण्डं च गृहे ८
09 अलङ्कारो भार्याया ज्ञातिधनञ् ...{Loading}...
अलंकारो भार्याया ज्ञातिधनं चेत्येके ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- According to some, the share of the wife consists of her ornaments, and the wealth (which she may have received) from her relations. 49
हरदत्त-टीका
सूत्रम्
अलङ्कारो भार्यायाः ज्ञातिधनं चेत्येके ॥ ९ ॥
टिप्पनी
भार्यायास्तु धृतोऽलङ्कारोऽशः, ज्ञातिभ्यः पित्रादिभ्यश्च यल्लब्धं धनं तच्चेत्येवमेके मन्यते ॥९॥*
-
- एतचिह्नानन्तरं यतोऽपि नानुवादः। ॥ ११॥ स्पष्टम् ॥ इत्यधिकपाठो दृश्यते छ. पुस्तके।
10 तच्छास्त्रैर्विप्रतिषिद्धम् ...{Loading}...
तच्छास्त्रैर्विप्रतिषिद्धम् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- That (preference of the eldest son) is forbidden by the Śāstras. 50
हरदत्त-टीका
सूत्रम्
तच्छास्त्रैविप्रतिषिद्धम् ॥ १० ॥
टिप्पनी
ज्येष्ठो दायद इति यदुक्तं तच्छास्त्रैर्विरुद्धम् ॥ १० ॥
11 मनुः पुत्रेभ्यो दायं ...{Loading}...
मनुः पुत्रेभ्यो दायं व्यभजदित्यविशेषेण श्रूयते ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- For it is declared in the Veda, without (marking) a difference (in the treatment of the sons): Manu divided his wealth amongst his sons. 51
हरदत्त-टीका
सूत्रम्
3“मनुः पुत्रेभ्यो दायं व्यभज"दित्यविशेषेण श्रूयते ॥११॥
प्रस्तावः
येन विरुद्धं तदर्शयति—
टिप्पनी
पुत्रेभ्य इति बहुवचननिर्देशादविशेषेण श्रवणम् ॥११॥
12 अथापि तस्माद्ज्येष्ठम् पुत्रन् ...{Loading}...
अथापि तस्माद्ज्येष्ठं पुत्रं धनेन निरवसाययन्तीत्येकवच्छ्रुयते १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now the Veda declares also in conformity with (the rule in favour of the eldest son) alone: They distinguish the eldest by (a larger share of) the heritage. 52
हरदत्त-टीका
सूत्रम्
अथापि4 “तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्ती” त्येकवच्छ्रूयते ॥ १२ ॥
प्रस्तावः
अत्र चोद्यम्—
टिप्पनी
अथापि ननु चेत्यर्थः । ज्येष्ठं पुत्रं धनेन निरवसाययन्ति पृथक्कुर्वन्तीत्येकवदपि श्रूयते । यथा एक एव ज्येष्ठो दायादः तदनुरूपमपि श्रूयते इति ॥१२॥
13 अथापि नित्यानुवादमविधिमाहुर्न्यायविदो, यथा ...{Loading}...
+++(समाधानम् -)+++ अथापि नित्यानुवादमविधिमाहुर्न्यायविदो, यथा - “तस्मादजावयः पशूनां सह चरन्तीति” “तस्मात्स्नातकस्य मुखं रेभायतीव” “तस्माद्बस्तश्च श्रोत्रियश्चस्त्रीकामतमाविति” १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (But to this plea in favour of the eldest I answer): Now those who are acquainted with the interpretation of the law declare a statement of facts not to be a rule, as for instance (the following): ‘Therefore amongst cattle, goats and sheep walk together;’ (or the following), ‘Therefore the face of a learned Brāhmaṇa (a Snātaka) is, as it were, resplendent;’ (or), ‘A Brāhmaṇa who has studied the Vedas (a Śrotriya) and a he-goat evince the strongest sexual desires.’ 53
हरदत्त-टीका
सूत्रम्
अथापि नित्यानुवादमविधिमाहुर्न्यायविदो यथा तस्मादजावयः पशूनां सहचरन्तीति । तस्मात् स्नातकस्य मुखं रेफायतीव । तस्मात् वस्तश्च श्रोत्रियश्च स्त्रीकामतमाविति ॥ १३ ॥
प्रस्तावः
परिहरति —
टिप्पनी
अथापीति परिहारोपक्रमे । पशूनां मध्ये अजाश्चाऽवयवश्च जातिभेदेऽपि सह चरन्ति । रेफा शोभा । इह तु तद्वत्यभेदोपचारः। ततः क्यप् । स्नातकस्य मुखं कुण्डलादिना शोभते । इवशब्दो वाक्यालङ्कारे । श्रोत्रियस्य स्त्रीकामतमत्वमाचार्यकुले चिरकालं ब्रह्मचारिवासात्। यथैतानि वाक्यानि दृष्टान्तमात्रमनुवदन्ति न किञ्चिाद्विदधति तस्मात् ‘ज्येष्ठं पुत्र’मित्यादिकमप्यविधिरिति न्यायविद आहुः । न केवलमयमेवानुवादः, किं तर्हि ‘मनुः पुत्रेभ्य’ इत्ययमप्यनुवाद एव ॥ १३ ॥
14 सर्वे हि धर्मयुक्ता ...{Loading}...
सर्वे हि धर्मयुक्ता भागिनः १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Therefore all (sons) who are virtuous inherit.
हरदत्त-टीका
सूत्रम्
सर्वे हि धर्मयुक्ता भागिनः ॥ १४ ॥
टिप्पनी
हिशब्दो हेतौ। यस्मादेवाऽनुवादौ न कस्यचिद्विधायकौ तस्माद्ये धर्मयुक्ताः पुत्रास्सर्व एते भागिनः ॥ १४ ॥
15 यस्त्वधर्मेण द्रव्याणि प्रतिपादयति ...{Loading}...
यस्त्वधर्मेण द्रव्याणि प्रतिपादयति +++(=व्ययीकरोति)+++ ज्येष्ठोऽपि तमभागं कुर्वीत १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- But him who expends money unrighteously, he shall disinherit, though he be the eldest son. 54
हरदत्त-टीका
सूत्रम्
यस्त्वधर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठोऽपि तमभागं कुर्वीत ॥ १५ ॥
टिप्पनी
यस्तु ज्येष्ठोऽप्यधर्मेण द्रव्याणि प्रतिपादयति विनियुङ्क्ते तमभागं कुर्वीत जीवद्विभागे पिता भागं न दद्यात् । ऊर्ध्वं विभागे2 पितुर्भ्रातरः । अपिशब्दात् किमुतान्यमिति ज्येष्ठस्य प्राधान्यं ख्याप्यते ॥ १५ ॥
16 जायापत्योर् न विभागो ...{Loading}...
जाया-पत्योर् न विभागो विद्यते १६
17 पाणिग्रहणाद्धि सहत्वङ् कर्मसु ...{Loading}...
पाणिग्रहणाद्धि सहत्वं कर्मसु १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- For, from the time of marriage, they are united in religious ceremonies,
हरदत्त-टीका
सूत्रम्
पाणिग्रहणाद्धि सहत्वं कर्मसु ॥ १७॥
प्रस्तावः
कस्मात् ?
टिप्पनी
कर्मार्थं द्रव्यम् । जायायाश्च न पृथक्कर्मस्वधिकारः । किं तर्हि ? सहभावेन-‘यस्त्वया धर्मश्च कर्तव्यस्सोऽनया सहति वचनात् । तत्र किं पृथक् द्रव्येणेति ॥ १७ ॥
18 तथा पुण्यफलेषु ...{Loading}...
तथा पुण्यफलेषु १८
19 द्रव्यपरिग्रहेषु च ...{Loading}...
द्रव्यपरिग्रहेषु च १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- And with respect to the acquisition of property.
हरदत्त-टीका
सूत्रम्
द्रव्यपरिग्रहेषु च ॥ १९ ॥
टिप्पनी
द्रव्यपरिग्रहेषु च द्रव्यार्जनेष्वपि तथा सहत्वमेव । तत्र पतिरार्जयति, जाया गृहे निर्वहतीति योगक्षेमावुभयायत्ताविति द्रव्यपरिग्रहेऽपि सहत्वम् ॥ १९ ॥
20 न हि भर्तुर्विप्रवासे ...{Loading}...
न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- For they declare that it is not a theft if a wife spends money on occasions (of necessity) during her husband’s absence. 56
हरदत्त-टीका
सूत्रम्
न हि भर्तुर्विप्रवासे नैमित्तिके दान स्तेयमुपदिशन्ति ॥२०॥
प्रस्तावः
एतदेवोपपादयति—
टिप्पनी
हि यस्मात् भर्तुर्विप्रवासे सति नैमित्तिके ‘छिन्दत्पाणि दद्यादि’त्यादिके दाने कृते भार्याया न स्तेयमुपदिशन्ति धर्मज्ञाः । यदि भर्तुरेव द्रव्यं स्यात् स्यादेव स्तेयम् । नैमित्तिके दानं इति वचनात् व्ययान्तरे स्तेयं भवत्येव । एतदेव द्रव्यसाधारण्येऽपि दम्पत्योर्वैषम्यं— यत् पतिर्यथेष्टं विनियुङ्क्ते जाया त्वेतावदेवेति । न च पत्युस्स्वयमार्जितस्य विनियोगे जायाया अनुमत्यपेक्षा, स्वतन्त्रत्वात् । स्वतन्त्रो ह्यसौ गृहे, यथा राजा राष्ट्रे । अत एव भार्यायास्स्तेयशङ्का, न भर्तुः ॥ २० ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने चतुर्दशी कण्डिका ॥ १४ ॥
-
- The last Sūtra of Khaṇḍa 13 and the first of Khaṇḍa 14 are quoted by Colebrooke, Digest, Book V, Text xlii, and Mitākṣarā, Chap. I, Sect. iii, Par. 6. Colebrooke translates jīvan, ‘during his lifetime,’ by ‘who makes a partition during his lifetime.’ I think that this is not quite correct, and that Āpastamba intends to exhort householders to make a division during their lifetime, as later they ought to become ascetics or hermits. Haradatta introduces into his commentary on this Sūtra the whole chapter on the division of a father’s estate amongst his sons, supplementing Āpastamba’s short rule by the texts of other lawyers. No doubt, Āpastamba means to lay down, in these and the following Sūtras, only the leading principles of the law of inheritance, and he intends that the remaining particulars should be supplied from the law of custom or other Smṛtis.
-
वृत्त्यनिमित्ते क्लीबादयस्तु न भर्तव्याः, इति ड. पु. उन्मत्तपतित्तौ निवृत्तनिमित्तौ इति च. पु. ↩︎ ↩︎ ↩︎ ↩︎
-
Haradatta gives in his commentary a full summary of the rules on the succession of remoter relations. One point only deserves special mention. He declares that it is the opinion of Āpastamba, that widows cannot inherit. In this he is probably right, as Āpastamba does not mention them, and the use of the p. 134 masculine singular ‘sapiṇḍaḥ’ in the text precludes the possibility of including them under that collective term. It seems to me certain, that Āpastamba, like Baudhāyana, considered women, especially widows, unfit to inherit. ↩︎
-
मुद्रितबृहस्पतिस्मृतौ नेदं वचनमुपलभ्यते । परन्तु ‘जनन्यां संस्थितायां’ (९.१९२.) इतिश्लोकव्याख्यानावसरे कुल्लकभट्टेनेदं वचनं बृहस्पतिवचनत्वेनैवोदाहृतम् । ↩︎
-
सा न मातृकम् , इति ड.पु ↩︎
-
म० स्मृ० ९, १३१ ↩︎
-
म० स्मृ० ९. १९२. ↩︎
-
२. ४. ५. ७. इमानि वचनानि मुद्रित तत्तग्रन्थेषु नोपलभ्यन्ते । ↩︎
-
म० स्मृ० ७. १५३. १५३. ↩︎
-
या० स्मृ० २. १३३, ↩︎
-
गौ०ध० २८. १८ ↩︎
-
म०स्मृ० ९. १३४. ↩︎
-
या०स्मृ० २. १२७. ↩︎
-
म०स्मृ० १. १७२. ↩︎
-
ना० स्मृ० १३. ४. ↩︎
-
व० स्मृ० १७. २५ ↩︎
-
म० स्मृ० ९. १७३. ↩︎
-
म० स्मृ० ९. १७०. ↩︎
-
म० स्मृ० ९ १८२. ↩︎
-
म० स्मृ० ९. १७४. ↩︎
-
म० स्मृ० ९. १७७. ↩︎
-
म० स्मृ० ९. १६९. ↩︎
-
म० स्मृ० १. १७१. ↩︎
-
, या० स्मृ० २. १३३. ↩︎
-
या० स्मृ० २. १३२. ↩︎
-
म० स्मृ० १. १८४. ↩︎
-
ना० स्मृ० १३. ४९. ↩︎
-
म० स्मृ० ९. १३४. ↩︎
-
व० ध० १५. ६. ९. ↩︎
-
म० स्मृ० ९. २०८. ↩︎
-
शौर्य विद्याधनं तथा इति. घ. पु. शौर्यं भार्याधनं तथा इति. ड. पु. ↩︎
-
या० स्मृ० २. १९९. ↩︎
-
मत्स्यपु० अ० १८ श्लो० २९. ↩︎
-
तै०सं० ६, ५.८. ↩︎
-
म० स्मृ० ९. १८. निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः, इति मुद्रितपुस्तकपाठः । बोधायनसूत्रे तु प्रायस्संवदति ( ३. २. ४७.) पाठः । ↩︎
-
धूमावसानिकं श्रान्यं सन्ध्यायां स्नानतत्परा । इति ड. भूमावसनिकं इति. घ. पु. ↩︎
-
या०स्मृ० २. १३८. ↩︎
-
गो०ध० २८, २१, २२. ↩︎
-
या० स्मृ० २. १३८, १३९, ↩︎
-
पितैवेति वयम् इति च. पु. ↩︎
-
‘Some say “on failure of sons,” others that the rule refers to the preceding Sūtra (i.e. that the daughter inherits on failure of pupils only).’–Haradatta. The latter seems to be the correct interpretation. ↩︎
-
‘Because the word “all” is used, (the king shall take the estate) only on failure of Bandhus and Sagotras, i.e. gentiles within twelve degrees.’–Haradatta. ↩︎
-
‘The other sons shall live under his protection.’–Haradatta. Colebrooke, Mitākṣarā, Chap. I, Sect. iii, Par. 6. ↩︎
-
‘“Black produce of the earth,” i.e. black grain, or according to others black iron.’–Haradatta. Compare for this and the following Sūtras Colebrooke, Mitākṣarā, Chap. I, Sect. iii, Par. 6, and Digest, Book V, Text xlviii. ↩︎
-
The translation given above agrees with what I now recognise to be Haradatta’s explanation, and with Colebrooke, Mitākṣarā, Chap. I, Sect. iii, Par. 6. Both the P. U. and Mr. U. MSS. of the Ujjvalā read rathaḥ pituraṃśo gṛhe yatparibhāṇḍam upakaraṇam pīṭhādi tadapi, ’the chariot (is) the father’s share; the furniture which (is) in the house, that also.’ To this reading Mahādeva’s Ujjvalā on the Hiraṇyakeśi Sūtra points likewise, which gives pītur antaḥ. The N. U. MS. of the Ujjvalā, according to which p. 135 I made the translation given in the Appendix to West and Bühler’s Digest (1st edition), leaves out the word aṃśaḥ, and therefore makes it necessary to combine this Sūtra, with the preceding one, and to translate, ‘The father’s chariot and the furniture in the house (are) also (the share of the eldest).’ This latter translation agrees nearly with that given by Colebrooke, Digest, Book V, Text xlviii, where this and the preceding Sūtra have been joined; but the chariot is not mentioned. A further variation in the interpretation of this Sūtra occurs in Colebrooke’s Digest, Book V, Text lxxxix, and Mitākṣarā, loc. cit., where the words ’the furniture in the house’ are joined with Sūtra 9, and the furniture is declared to be the wife’s share. Considering that Sūtra 9 is again quoted in Colebrooke’s Digest, Book V, Text cccclxxii, and is not joined with the latter part of Sūtra 8, it is not too much to say that Jagannātha has not shown any greater accuracy than his brethren usually do. ↩︎
-
The Mitākṣarā, loc. cit., apparently takes the words ‘according to some’ as referring only, to property received from relations. I follow Haradatta. The former interpretation is, however, admissible, if the Sūtra is split into two. ↩︎
-
The Śāstras are, according to Haradatta, the Vedas. ↩︎
-
Taittirīyā Saṃhitā III, 1, 9, 4. ↩︎
-
‘Athāpi (now also) means “and certainly.” They distinguish, they set apart the eldest son by wealth: this has been declared in the Veda in conformity with (the rule regarding) one (heir, Sūtra 6). He denies (Sūtra 13) that a passage also, which p. 136 agrees with the statement that the eldest son alone inherits, is found in the Veda.’–Haradatta. See Taittirīyā Saṃhitā II, 5, 2, 7. ↩︎
-
Those who are acquainted with the interpretation of the law are the Mimāṃsakas. The translation of the second Vedic passage is by no means certain, as the root ribh, translated by ’to be resplendent,’ usually means ’to give a sound.’ Haradatta thinks that Āpastamba means to show that the passage ‘Manu divided his wealth among his sons’ is likewise merely a statement of facts, and cannot be considered a rule. This is probably erroneous, as Sūtras 10 and 11 distinctly state, that the practice to allow the eldest alone to inherit, is forbidden by the abovementioned passage of the Veda. ↩︎
-
Compare for this Sūtra and the following one Colebrooke’s Digest, Book V, Text cccxv. The translation of pratipādayati, ’expends,’ by ‘gains,’ which is also proposed by Jagannātha, is against Āpastamba’s usage, see II, 5, 11, 17, and below, II, 8, 20, 19. ↩︎
-
According to Haradatta, this Sūtra gives the reason why, in Sūtra 1, no share has been set apart for the wife. Compare Colebrooke’s Digest, Book V, Text lxxxix, for this Sūtra and the following two. ↩︎
-
See below, II, 11, 29, 3. ↩︎