१० वर्ण-वृत्तिः, दण्डः

विश्वास-प्रस्तुतिः …{Loading}…

भिक्षणे निमित्तमाचार्यो विवाहो यज्ञो मातापित्रोर्बुभूर्षार्हतश्च नियमविलोपः १

विश्वास-प्रस्तुतिः …{Loading}…

तत्र गुणान्समीक्ष्य यथाशक्ति देयम् २

विश्वास-प्रस्तुतिः …{Loading}…

इन्द्रियप्रीत्यर्थस्य तु भिक्षणमनिमित्तम् । न तदाद्रियेत ३

विश्वास-प्रस्तुतिः …{Loading}…

न तदाद्रियेत

विश्वास-प्रस्तुतिः …{Loading}…

स्वकर्म ब्राह्मणस्याध्ययनमध्यापनम्यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं शिलोञ्छः ४

विश्वास-प्रस्तुतिः …{Loading}…

अन्यच्चापरिगृहीतम् +++(यथा मूलफलादिः)+++५

विश्वास-प्रस्तुतिः …{Loading}…

एतान्येव क्षत्रियस्याध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धाधिकानि ६

विश्वास-प्रस्तुतिः …{Loading}…

क्षत्रियवद्वैश्यस्य दण्डयुद्धवर्जं कृषिगोरक्ष्यवाणिज्याधिकम् ७

विश्वास-प्रस्तुतिः …{Loading}…

नाननूचानमृत्विजं वृणीते न पणमानम् ८

विश्वास-प्रस्तुतिः …{Loading}…

अयाज्योऽनधीयानः ९

विश्वास-प्रस्तुतिः …{Loading}…

युद्धे तद्योगा यथोपायमुपदिशन्ति तथा प्रतिपत्तव्यम् १०

विश्वास-प्रस्तुतिः …{Loading}…

न्यस्तायुधप्रकीर्णकेशप्राञ्जलिपराङावृत्तानामार्या वधं परिचक्षते ११

विश्वास-प्रस्तुतिः …{Loading}…

शास्त्रैरधिगतानामिन्द्रि यदौर्बल्याद्विप्रतिपन्नानां शास्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् १२

विश्वास-प्रस्तुतिः …{Loading}…

तस्य चेच्छास्त्रमतिप्रवर्तेरन्रजानं गमयेत् १३

विश्वास-प्रस्तुतिः …{Loading}…

राजा पुरोहितं धर्मार्थकुशलम् १४

विश्वास-प्रस्तुतिः …{Loading}…

स ब्राह्मणान्नियुञ्ज्यात् १५

विश्वास-प्रस्तुतिः …{Loading}…

बलविशेषेण वधदास्यवर्जं नियमैरुपशोषयेत् १६


    1. Manu IV, 251; XI, 1 seq.; Yājñ. I, 2 16. By the term arhat, I a worthy person,’ a Brāhmaṇa is here designated who has studied the Veda and performs an Agnihotra.
     ↩︎
  1. प्रत्यवायात् इति. क. घ. पु ↩︎ ↩︎ ↩︎

  2. गौ० ५. २१, २२ ↩︎ ↩︎ ↩︎

  3. विश्वजिताऽतिरात्रेण सर्वपृष्ठेन सर्वस्वदक्षिणेन यजेत’ इत्यनेन विहितेन यागेनेष्ट्वा तत्र दत्तसर्वस्वदक्षिण इत्यर्थः ॥ ↩︎

  4. इदमुत्तरं च सूत्रमेकीकृतं च. पु. । इन्द्रियमनिमित्तम् ॥ ४ ॥ तस्नान तदाद्रियते ॥५॥ इति तच्छन्दघटितं भिन्नसूत्रतया च पठितं क. पुस्तके । ↩︎

  5. Manu I, 88; X, 15; Yājñ. I, 118. ↩︎

  6. I.e. wild roots and fruits. ↩︎

  7. Manu I, 89; X, 77, 79; Yājñ. I, 118, 119. ↩︎

  8. Manu I, 90; X, 78, 79; Yājñ. loc. cit. ↩︎

  9. Manu VII, 91 seq.; Yājñ. 1, 325. ↩︎

  10. Haradatta explains the words Śāstrair adhigatānām, ‘who whilst participating, according to the sacred law, (in the rights of their caste,)’ by ‘who have been sanctified according to the law by the sacraments, such as the Garbhādhāna, and are entitled (to the rights and occupations of their caste).’ ↩︎

  11. Probably this Sūtra is meant to give a general rule, and to exempt Brāhmaṇas in every case from corporal punishment and servitude. Manu VIII, 379-380. ↩︎